राम रामेति रामेति रमे रामे मनोरमे । इत्युमायै शंकरोक्तं मूलरामं सदा भजे

श्रीदिग्विजयरामो विजयते

श्री मत्सत्यप्रमोदतीर्थ विरचितं न्यायसुधामण्डनम्

('अद्वैततत्त्वसुधा' खण्डनात्मकम् )

मङ्गलम्

राम रामेति रामेति रमे रामे मनोरमे ।

इत्युमायै शंकरोक्तं मूलरामं सदा भजे ॥ १ ॥

परविद्याभाष्य-टीका-टिप्पण्यादिकृतो गुरून् ।

व्यास-मध्व-जय-व्यास-रघूत्तममुखान् भजे ॥ २ ॥

परभाष्यस्थदोषान् ये व्याहत्यादीनदर्शयन् ।

परविद्याप्रवक्तंस्तान् सत्यध्यानगुरून् भजे ॥ ३ ॥

सत्यप्रज्ञकराब्जोत्थान् सुधापाठनतत्परान् ।

श्रीसत्याभिज्ञतीर्थार्यान् गुरून् वन्दे निरन्तरम् ॥ ४ ॥

सुधाशयानभिज्ञानाद्दोषा ये परदर्शिताः ।

प्रसाध्याभासतां तेषां सुधामण्डनमारभे ॥ ५ ॥