अद्वैतमते अज्ञानस्य भावरूपत्वसमर्थनं व्याहतम्

अद्वैतमते अज्ञानस्य भावरूपत्वासंभव समर्थनम्

अद्वैतमते अज्ञानस्य भावरूपत्वसमर्थनं व्याहतम्

द्वैतमते यद्यपि ज्ञानविरोधित्वेन अज्ञानपदबोध्यं भावरूपमज्ञानमेकं भावविलक्षणं ज्ञानाभावरूपं चापरमिति द्विविधमज्ञानमङ्गीकृतम् । अद्वैतिभिस्तु भावविलक्षणत्वं भावत्वं चैकस्याज्ञानस्याङ्गीक्रियते तथा प्रत्यक्षादिप्रमाणानामपि भावविलक्षणस्याज्ञानस्य भावत्वसाधकतासमर्थनेन प्रमाणाभासत्वं सम्पाद्यते । नहि मातृभिन्नायाः वन्ध्यायाः मातृत्वसाधकं न भवति प्रमाणाभासरूपम् । भावत्वकथनस्य अभावविलक्षणत्वकथन एवतात्पर्यं न भावत्वविधाने अतो न व्याघात इति तु न युक्तम् । भावविलक्षणत्वकथनेन अभावत्वस्यैव प्राप्त्या पुनरभावाविलक्षणत्वकथने व्याघातस्य वज्रलेपायितत्त्वात् । वस्तुतस्तु अद्वैतमते अज्ञानस्य भावत्वं अभाव- विलक्षणत्वमेव नातिरिक्तम् । एवं अभावत्वमपि भावविलक्षणत्वमेव नातिरिक्तम् । सति चैवं किन्निमित्तोऽयं अज्ञानस्याभावत्वनिरासे भावत्वसाधने चाभिनिवेशः भावत्वाभावत्वयोरुभयोरप्यज्ञानेऽभावात् अभावत्ववद् भावत्वं निराक्रियताम् भावत्ववदभावत्वं वा प्रसाध्यताम् व्याहतभाषणमेव भूषणमिति मन्यमानानां व्याधातस्त्वकिञ्चित्कर एवेति सूचयितुमेव न्यायसुधायाम् अद्वैतमतानुसारेण अज्ञानस्य भावरूपत्वनिरासः कृत इति तत्त्वम् ।

॥ इत्यद्वैतमते भावरूपाज्ञाननिरासः ॥