स्वप्नस्य भगवत्सृष्टत्वं सत्यत्वं तदधीनतिरोधानकत्वम्

स्वप्नस्य भगवत्सृष्टत्वं सत्यत्वं तदधीनतिरोधानकत्वम् ।

अद्वैततत्त्वसुधानुवादः । अद्वैततत्त्वसुधाखण्डनम्  ' स्वप्नमायासरूपेति' ' अविद्यमानोऽप्यवभाति' इति श्रुतिस्मृत्योः तात्पर्यवर्णनम् । स्वाप्नानां वासनामयत्वसमर्थनम् । तत्त्वप्रकाशिका गुर्वर्थदीपिकानुवादः ।

भावबोधमतानुसारेण सूत्रक्रमसार्थक्योक्तिः । अभिनवचन्द्रिकानुसारेणसन्ध्याधिकरणार्थसंग्रहः ।

प्रागभावस्यातिरिक्तत्वसमर्थनम् । तत्तत्पुरुषमात्रानुभाव्यानामपि स्वाप्नानामीश्वरसृष्टत्वाक्षेपः आक्षेपखण्डनम् ।

षट्प्रश्नोपनिषत्प्रमाणोपन्यासः । तत्रत्यशाङक भाष्यानुवादः । तस्य आनुकूल्यप्रदर्शनम्

…………………………………………………………………………………………………………………………………………………………...

मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः ।

प्रदर्शयति जीवाय स स्वप्न इति गीयते

स्वप्नो भगवदधीनः इति द्वैतिनां सिद्धान्तः । तन्नाभ्युपगच्छन्ति अद्वैतिनः यथोक्तमनन्त कृष्णशास्त्रिणाऽद्वैततत्त्वसुधायां सन्ध्याधिकरणे ।स्वप्ने न पारमार्थिकी सृष्टिः किन्तु शुक्त्यादिवन्मायामात्रम् । इयान् विशेष:- शुक्तिरूप्यादौ तत्तत्पूर्वदृष्टानुभवजनितसंस्कार सहकृता, तत्सदृशपुरोवर्त्यवच्छिन्नचैतन्याभिन्नप्रमातृचैतन्याश्रिता तूलाविद्या तत्तद्विषयाकारेण तत्तदाकारवृत्त्याकारेण च परिणमते साक्षिभास्यानां वृत्तिनिरपेक्षतामते तत्र विषयमात्राकारेण परिणमते स्वप्ने तु सदृशपूर्वदृष्टानुभवजनितसंस्कारसहकृता प्रमातृचैतन्यमात्राश्रिता तूलाविद्या तत्तदात्मना जागर इव परिणमते । तत्र सूत्रे मायामात्रमित्यत्र मायापद तूलाविद्यापरम् । मात्रपदसमभिव्याहारात् । तेन च जागरोपादानमायातो व्यावृत्तिर्लभ्यते । सा हि रथादीनां न साक्षादेवोपादानम्, किन्तु तत्तदवान्तरोपादानदारुमृत्तन्तुभावमनापन्ना स्वयमेव । अत एव जागरे शुक्तिरजतादीनामपि मायामात्रत्वम् । अयमेव न्यायः स्वाप्नेऽपि इति तदसारम्-तन्मते सृष्टित्वावच्छिन्नस्य अपारमार्मिकत्वात् स्वप्ने न पारमार्थिकी सृष्टिः इति कथनमनुचितम् स्वाप्नसृष्टेः मायाकार्यत्वात् मायामात्रत्वप्रतिपादनं न साधु । शुक्तिरूप्यस्यापि मायाकार्यत्वात् मायामात्रत्वं नास्ति । ब्रह्मातिरिक्तस्य.. सर्वस्यापि प्रपञ्चस्य मायाकार्यत्वरूपमायामात्रत्वस्य सत्त्वात् केवलं स्वाप्नपदार्थानां शुक्तिरूप्यादेश्च तत्कथनं न युक्तम् । ननु जाग्रत्पदार्थानां मायामात्रत्वं नास्ति तेषां मायामात्रोपादानकत्वाभावात् इति न वाच्यम् उपादानत्वं परिणामित्वान्नान्यत् । मायैव तत्तव्प्रापञ्चिकपदार्थाकारेण परिणमते इति हि तन्मतम् । अतः प्रपञ्चस्य प्रापञ्चिकपदार्थानाञ्चमायोपादानकत्वमेवेति मायामात्रत्वमव्याहतम् । ननु व्यावहारिकेषु पदार्थेषु ब्रह्मणोऽपि उपादानत्वं अस्माभिरङ्गीक्रियते इति चेत् तावता किम्, भवदङ्गीकृतत्वमात्रेण निर्विकारस्य ब्राह्मणः उपादानत्वं न संभवति । उपादानत्वे तस्य परिणामित्वापातात् । ननु माया परिणाम्युपादानकरणं ब्रह्मे विवर्तोपादानकारणमिति ब्रह्ममायो भयोपादानकत्वाज्जगतः मायामात्रोपादानकत्वमिति चेत् न " मायामात्रमिदं द्वैतमद्वैतं परमार्थत " इति द्वैतत्वावच्छिन्नस्य मायामात्रत्वप्रतिपादनेन उपदर्शितवैम्यायोगात् । स्वाप्नरथादीनां माया साक्षादुपादानं न तु तत्तदवान्तरोपादानदारुमृत्तन्तुभावमापन्ना इति मायामात्रोपादानकत्वं संगच्छते इति चेन्न जगतः मायामात्रत्वस्य प्रमाणेनोक्तत्वात् तस्मिन्नपि तत्तदवान्तरोपादानदारुमृत्तन्तुभावानामपन्नमायामात्रोपादानकत्वस्य अवश्यमङ्गीकार्यत्वात् । प्रत्यक्षविरोधःस्यादिति चेन्न श्रुतिप्रतिपादिते विषये प्रत्यक्षविरोधस्याकिञ्चित्करत्वात् । अन्यथा तत्त्वमस्यादि महावाक्यप्रतिपादिते जीवब्रह्माभेदरूपविषये प्रत्यक्षविरोधः वज्रायितः स्यात् । ननु तत्त्वमस्यादिमहावाक्यानि श्रुतिशिरोभागगतानि वाक्यानि तैः सह प्रत्यक्षविरोधे प्रत्यक्षं परित्यज्यते मायामात्रमिति वाक्यं तु न श्रुतिः अपि तु गौडपादकारिका, तया विरोधे प्रत्यक्षं न परित्यक्तुं शक्यतें इति चेत् न माण्डूक्योपनिषद्व्याख्याभूतानां गौडपादकारिकाणां व्याख्येयोपनिषत्समानार्थकत्वे व्याख्येयोपनिषद्विरोधावश्यंभावः प्रत्यक्षस्य । व्याख्येयोपनिषदसमानार्थकत्वे कारिकाणां तासां श्रुत्यव्याख्यानत्वेन अनुपादेयत्वप्रसङ्गात् । विष्णुसहस्रनामभाष्ये शंकराचार्यैः " ओमित्येदक्षरमिदं सर्वं इत्युपक्रम्य ॐकारो विदितो येन स मुनिर्नेतरो जनः इत्यनन्तरंमाण्डोक्योपनिषत् " इत्युक्तत्वेन मायामात्रमित्यादीनां न गौडपादकारिकात्वं किंतु उपनिषत्त्वमेवेति वस्तुस्थितिः । तुष्यतु दुर्जनः इति न्यायेन अस्य वाक्यस्य गौडपादाचार्यकृतत्वाङ्गीकारेऽपि स्वदर्शनाचार्योक्तसिद्धान्तपरित्यागात् अपसिद्धान्तो दुष्परिहरः । ' इयान् विशेषः ' इत्युपक्रम्योक्ता बालमनोहरा प्रक्रिया न श्रुतिसम्मता नापि स्मृतिषु प्रतिपादिता अत एव केवलं स्वमनीषोत्प्रेक्षितत्वात् अप्रामाणिकी ।

ननु स्वाप्नपदार्थानां मायामात्रत्वाभावे सत्यत्वं वक्तव्यम् । सत्यत्वे च ते नित्याः अनित्याः वा । उभयथापि पूर्वोत्तरकालं दर्शनप्रसङ्गः । न च तदा ते दृश्यन्ते । अतः प्रातीतिकत्वमवश्यमभ्युपयम् शुक्तिरजतादिवत् । प्रतीतिकाले एव सृष्टिः तदवसानसमये एव तेषां निरोधः अतो न दोष इति चेन्न ।

प्रमाणाभावात्, उपादानानिमित्तानामभावाच्च । किञ्च स्वाप्नपदार्थं शरीरे स्थित्वैव पश्यति निर्गत्य वा । नाद्यः मेरुमन्दरादिदर्शनायोगात् । न द्वितीयः । कुरुषु सुप्तस्य पाञ्चालान् पश्यतस्तत्रैव प्रबोधे शरीरप्रवेशोऽस्य पश्चादेवेति प्राप्तेः । किञ्च हेमन्ते सुप्तस्य वसन्तप्रतीतिस्तावदस्ति । न च वसन्तसत्ता तदास्ति प्रतीतिकारणमपि नास्ति । इन्द्रियवृत्तीनामुपरतत्वान्मनसो बाह्यार्थेष्वस्वातन्त्र्यात् । यदि चैते विषया द्रष्टुर्भिन्नास्तदा समीपस्थैर्दृश्येरेन् । बाह्यार्थत्वात् अथ न ततोऽतिरिक्तास्तद्यगतं कल्पितत्वमेव । परमार्थतः करितुरगादिभावाभावात् । तत्काल एव सृष्टिनिरोधपक्षे च प्रागुत्तरकालं मृत्पिण्डकपालादीनि दृश्येरन् । न च दृश्यन्ते । अतः प्रातीतिकत्वात् मरुमरीचिकाजलादिवन्न स्वप्नविषयस्येश्वराधीनत्वामिति न तस्य महामहिमत्वमनेन सिध्यति इति तन्न । यदुक्तं स्वाप्नस्य प्राक्पश्चाददृष्टेरसत्त्वाद्भगवदधीनत्वायोग इति, तदनुपपन्नम् । प्रागसतामर्थानामेव सृष्टिः स्वप्ने भवति । अनन्तरमेव निरोधश्चाङ्गीक्रियते । न च तत्र प्रमाणं नेतिवाच्यम् । ' न तत्र रथा न रथयोगा न पन्थानो भवन्ति । अथ रथान् रथयोगान् पथः सृजते । स एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः' इति प्रमाणस्य जागरुकत्वात् । न हि कर्तुरभावान्न सृष्टिरुपपन्ना इति वाच्यम् । ईश्वरस्यैव स्वाप्नसृष्टिकर्तृत्वेन श्रुतीतावगतेः ' सृजते ' इति पदप्रयोगेण स्वाप्नपदार्थानां सत्यत्वं ज्ञाप्यते । अन्यथा अथ ' रथान् रथयोगान् पथः सृजते ' इत्यस्य स्थळे 'अथ रथान् रथयोगान् पथः पश्यति इति वाक्येनैवालम् । स्वाप्नसृष्टिकर्तृत्वं भगवतः किमर्थं वक्तव्यमिति चेन्न । सर्वस्वातंत्र्यलक्षणो भगवतोऽतिवेलो महिमा, सर्वस्य तदधीनत्वे स्पष्टतया पृथक् पृथक् निश्चिते सति बुद्धौ प्रकटतामाटीकते इति सर्वं भगवद- धीनमिति अवश्यं वक्तव्यम् । ननु कर्तृसत्त्वेऽपि उपादानकारणाभावान्न सृष्टिः पारमार्थिक इति चेन्न । अनाद्यनुभवप्रवाहोत्पन्ना मायाशब्दवाच्या वासनापरपर्यायाः संस्कारा एव उपादानतामश्नुवते । न च संस्काराणां गुणत्वेन उपादानत्वानुपपत्तिः । तेषां मनोवृत्तित्वात् द्रव्यत्वाच्च । संस्काराणां चातीन्द्रियत्वेन त्र्यणुकजन्मविनाशयोरिव प्रागूर्ध्वं चानुपलम्भो न दोषाय । तदैव सृष्टिसंहार करणसम्भावितमिति चेन्न परिच्छिन्नशक्तिमतो जीवस्य न किमपि असंभावितत्वेऽपि अपरिच्छिन्नशक्तिमतो भगवतो विष्णोः असंभावितम् । अथवा यथा जीवः मनोरथे संस्कारयोनीन् अर्थान् मनसा अनुभवति, एवं स्वप्नेऽपीति किमनुपपन्नम् । इयांस्तु विशेषः मनोरथादौ प्रयत्नपूर्विका पदार्थसृष्टिः । स्वप्ने पुनरीश्वरेच्छाधीनैवेति ।

"स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता'अविद्यमानोप्यवभाति हि द्वयोर्ध्यातुर्धिया स्वप्नमनोरथो यथे' ति । श्रुतिस्मृतिषु स्वप्नप्रतीतेर्भ्रान्तित्वं कथमुच्यते इति चेत् तत्र सर्वत्र जागरानुंभूतपदार्थैरेकत्वज्ञानस्य भ्रान्तित्वमुच्यते । स्वप्ने हि तात्कालिकतयाऽदृष्टचरानेव तनयादीन् दृष्टचरतयाऽनुसन्धत्ते । स्वप्नदृष्टानां गगनादीनां नित्यत्वादिकं घटादीनां मृदाद्युपादानकत्वं बाह्यर्थक्रियाक्षमत्वं च भ्रान्तिविषय इति श्रुतिस्मृतीनामाशयः इत्यवगन्तव्यम् । ननु जाग्रत्वस्यापि संस्कारोऽस्त्येवेति सोपादानत्वसंभवात् कथं तत्प्रतीतिर्भ्रान्तिरित्युच्यते । अन्यथा अर्थप्रतीतिरपि भ्रान्तिः स्यात् अविशेषादिति मैवम् । न हि वयं कारणसामग्रीसंपादन संभवमात्रेणार्थानां सत्यतामातिष्टामहे । किंतु बाधाभावेनेति वक्ष्यामः । सामग्र्याभावेनासत्यत्वं ब्रुवाणं प्रति तु तदसिद्धिरावेदिता । अस्ति च जाग्रत्त्वप्रतीतेर्बाधः । स्वाप्न एवायं न जागरानुभूत इति बाधोदयात् । ननु जाग्रत्त्वमात्रस्य असत्त्वात् तत्प्रतीतिरेव भ्रान्तिरिति न युक्तम् | अर्थानामपि केषांचिदसत्त्वेन तव्प्रतीतेरपि भ्रान्तित्वमास्थेयमेव तथा हि स्वप्ने स्वशिरच्छेदादिप्रतीतिरपि वर्तते न च तदुत्पत्तौ संस्काररूपोपादानकारणमस्ति । तेषामननुभूतत्वेन कथं तद्विषयकाः संस्काराः स्युः । अननुभूतविषयेऽपि यदि संस्कारा अङ्गीक्रियन्ते तर्हि कदाचित् स्मृतिरपि अननुभूतार्थविषयिणी स्यात् । यद्यपि स्वशिरच्छेदादेर्बाधो नास्ति तथापि कारणाभावादसत्त्वमङ्गीकार्यमेवेति चेत् न, संसारस्यानादित्वात् क्वचित्-जन्मान्तरे तस्यानुभवसंभवेन तत्संस्कार उपपद्यते । अत एव 'अदृष्टे चाश्रुते' इत्यादि श्रुतिस्मृतिविरोधोऽपि न । अनुभव विना संस्कारसत्त्वाभ्युपगमे एव स स्यात् । किंच अत्रापि जन्मनि श्रवणजनितसंस्कारः संभवितुमर्हति । ननु शशविषाणादिप्रतीतौ कथम् ' न हि जन्मान्तरे 'क्वचिदपि तदनुभवः संभवति ' ' धाता यथापूवर्मकल्पय ' दिति सर्वकल्पानामेकविधत्वमाम्नायते मैवम् । शशविषाणादिप्रमाऽसंभवेऽपि शब्दादिना तज्ज्ञानसंभवेन संस्कारोपपत्तेः । ननु शब्दादिना शशविषाणादिभ्रमोऽपि यस्य नोत्पन्नः तस्य कथम् । न हि सर्वस्यापि भ्रान्तिरस्तीति नियमः नापि स्वप्ने-तद्दर्शनं वारयितुं शक्यते इति चेदुच्यते । शशादीनां विषाणादीनां चोपादानासंभवेन असत्त्वं वक्तुं न शक्यते सर्वेषां तेषामनुभूतत्त्वसंभवेन तद्विषयकसंस्कारोपपत्तेः । शशत्वविषाणित्वादिसामानाधिकरण्यं न दृष्टमिति चेत् माभूत् यद्यपि शशत्वविषाणित्वादीनां सामानाधिकरण्यं शशविषाणादिसंबन्धविशेषो जागरे नानुभूतस्तथापि विविक्ततया शशत्वादिकमनुभूयत एवेति तत्संस्कारसंभवेन न शशादीनामसत्त्वं वक्तव्यम् ।

ननु भवेदेषा कल्पनाप्रामाणिकी यदि स्वाप्नार्थानां वासनोपादानकत्वे प्रमाणं स्यात् इति चेत् उच्यते । वासनामात्रोपादानकत्वादेव हि बाह्यार्थक्रियासामर्थ्यलक्षणा स्पष्टता या जागरोपलब्धेषु पदार्थेषु अनुभूयते सा स्वाप्नार्थेषु नानुभूयते । अयमर्थः । स्वाप्ना: पदार्था नासत्याः बाधाभावात् । नाप्यनादिनित्याः । पूर्वोत्तरमुपलम्भापातात् । न च उत्पत्तिर्वर्तते सा च निरुपादाना इति मनोरमम् । ततश्च उपादानेन केनचिद्भवितव्यम् । न च ते बाह्यमृदाद्युपादानकाः बाह्यार्थक्रियासामर्थ्यविधुरत्वात् विमतो घटो न बाह्यमृदाद्युपादानको बाह्यमृदाद्युपादानकार्यक्रियाकारित्वात् पटवदिति प्रयोगसंभवात् । न चोपादानान्तरमस्ति । ततः परिशेषाद्वासनोपादनका एवेति वक्तव्यम् । एवमेव परिशेषात् भगवत्कर्तृकत्वं तात्कालिकोत्पत्तिविनाशशालित्वं स्वाप्नपदार्थानां साधयितुं शक्यते एव । अत्र भाष्योक्त आगमोऽपि प्रमाणम्-तथाहि

मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः ।

प्रदर्शयति जीवाय स स्वप्न इति गीयते ॥

यदन्यथात्वं जाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता ।

अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत् ॥

ननु स्वाप्नानां पदार्थानां बाह्योपादानाजन्यत्वान्न सत्त्वं संभवति इति वाच्यम् । आन्तरमनउपादानकज्ञानादीनां बाह्योपादानाजन्यत्वेऽपि सत्त्वदर्शनाद्वयभिचारः । अतिसूक्ष्मतरविलक्षणस्वाप्नतुरगादीनामपि स्वोचितातिसूक्ष्मतत्तत्संस्कारोपादानजन्यत्वमात्रेणापि सत्त्वसंभवान्न काचिदनुपपत्तिः ।

अत्राहुः वादिराजश्रीमच्चरणाः तत्त्वप्रकाशिकागुर्वर्थदीपिकायाम्- " अत्राहुर्मायावादिनः मायामात्रपदेन स्वानपदार्थानां मिथ्यात्वमेव सूत्रकृता प्रतिज्ञातमिति । तदतीव हास्यम् । ' कात्स्न्येनानभिव्यक्तस्वरूपत्वा ' दिति हेतौ सस्वरूपत्वमनुपलम्भबाधपरिहाराय कात्स्र्त्स्न्येनानभिव्यक्तत्वापरपर्यायमतिसूक्ष्मत्वं च वदन् सूत्रकारस्तद्विरुद्धं निस्स्वरूपत्वरूपं मिथ्यात्वं कथं प्राक् प्रतिजानीयात् । ' सन्ध्येसृष्टि ' रिति प्राक् सृष्टिकथनात् उपरि सूचकश्चेति सत्त्वे युक्तिकथनाच्च न मध्ये मिथ्यात्वं सिषाधयिषितम् । नं हि कश्चित् शुक्तौ रजत पश्यतीतिवद्रजतं सृजतीति ब्रूते । यदि चाद्यसूत्रस्यैव विश्वतोमुखत्वादिपूर्वपक्षसूत्रता तर्हि सूत्रलक्षणाभावेन सूत्रत्वमेव न स्यात् । श्रुत्युपबृंहितसूत्रस्य पूर्वपक्षतायां श्रुत्युपोद्बलितं भवदैक्यं च न सिद्धान्तः स्यात् अपि चोक्त विघया मायामात्रमितिसूत्रे हेतुविरोधेन मिथ्यात्वे तात्पर्याभावे किंबलेन अस्य पूर्वपक्षता कल्प्यते । किं च परानुकूलसूत्रस्य त्वया पूर्वपक्षत्वकल्पने सोऽपि त्वदनुकूलसूत्रस्य पूर्वपक्षतां कुतो न कल्पयेत् । अतो ब्राह्मणे वध्यावथ्य विभागवत्सूत्रेषु नायं विभागः प्रेक्षावतां कर्तुमुचितः । कस्तर्हि सूत्रार्थ इति चेद् ब्रूमस्तावत्तवानर्थभूतमर्थम् | त्वं च समाहितः शृणु । ' सन्ध्ये सृष्टि ' रिति प्राथमिके सूत्रे 'न तत्रे' ति रथादीनां कारणीभूतं प्रागभावं प्रागुक्त्वा ' अथ रथादीन् सृजते ' इति सयुक्तिकं सृष्टिकथकश्रुत्युपस्कारेण असिध्यादिदोषरहित सृष्टत्वाख्य हेतुना सन्ध्यस्य सत्त्वं स्वसिद्धान्ततया प्राक् प्रसाध्य सन्ध्यं न मिथ्या मिथ्यात्वोपयुक्तमायाशून्यत्वात् सस्वरूपत्वाच्चब्रह्मवदिति परपक्षप्रतिक्षेप च हृदि निधाय सस्वरूपत्वेनैव हेतुना पूर्वोक्तब्रह्म निदर्शनेनैव सन्ध्ये पुनराद्यहेतोरसिद्धिं परिजिहीर्षुः मायाया अमात्रं मात्रयापि शून्यमिति साध्यनिरूपणं कृतवानिति पदसंपदैव लभ्यस्य पूर्वोत्तरसूत्राणामत्रैवोक्तहेतोश्चानुकूलस्य सकलजनमनोरञ्जनस्याप्यर्थस्य संभवात् । अयमर्थः । मिथ्यात्ववादिन एवानर्थो न तु सत्यत्ववादिनामस्माकम् अत एवैकयोक्त्याब्दव्ह्मर्थलाभाय मायामात्रमित्युक्तम् अन्यथा वासनानिर्मितमित्यवक्ष्यत् । अपि चानन्तानन्तजीवेषु प्रतिशरीरं प्रतिदिनमतिसूक्ष्मतरकरितुरग देहगेहयोषिदन्नपरमान्नादिविचित्रस्वोपभोग्यपदार्थसर्जनेन सुखहेतो महामहिम्नि स्वोपकारके परमात्मनि स्यादेव विवेकिनां भक्त्युद्रेकः । मिथ्यासृष्टित्वे तु कुहकतया विप्रलम्भकेमायाविनीव विवेकिनामनादर एव स्यात् । न भक्तिः । एवं च भक्तिपादानुगुण्यं चास्मदुक्तार्थे एवार्थे न परोत्प्रेक्षितकुत्सितार्थे । सुप्तावप्युपादानाविद्यायाः सत्त्वेन च ब्रह्मचैतन्यस्यं च सत्त्वेन केवलं मायामयीयं भ्रान्तिस्तदापि कुतो नाऽभूत् । ' मनोगतांस्तु संस्कारान्' इति परमाप्ततमेनैव सूत्रकृता अन्यत्रोक्तमनोगतसंस्कारोपादानकत्वस्यैव मायामात्रशब्दार्थत्वे तु मनस उपरतत्वान्न सुप्तौ तत्प्रसङ्गः । चक्षुरादीनां प्रतिबुद्धत्वेन तत्तदर्थप्रतीतिप्रतिरुद्धत्वान्न जाग्रतीति सर्वसामञ्जस्यसंभवाच्च । अतो यत्किञ्चिदेतत् भावबोधकारास्तु सूत्रक्रमसार्थक्यमेवमाहुः-

सूत्रक्रमस्तु प्रथमसूत्रे स्वाप्नपदार्थानां सत्त्वसिद्ध्यर्थं सृष्टिनिरोधोक्तिः । सृष्टिनिरोधयोः कर्तृसापेक्षत्वात् द्वितीये तदुक्तिः तृतीये सृष्टिहेतुभूतोपादानाद्युक्तिः । तृतीयसूत्रेण ' अनभिव्यक्तस्वरूपत्वात्' इति बाह्योपादानकत्वाभावोक्तावेव प्रतिपक्षानुमानोत्थानात् । चतुर्थे-तस्य बाधाप्रयोजकत्वोक्तिरिति सत्यनाथश्रीमच्चरणैरधिकरणार्थसंग्रहः सुविशदं कृतः अभिनवचन्द्रिकायाम् । ईश्वराधीन एव स्वप्नविषयः सत्यत्वात् । न च प्रागुत्तरकालमुपलम्भप्रसङ्गः । तत्काल एव सृष्टिनिरोधाङ्गीकारात् । न च तत्र प्रमाणाभाव :-अथ रथान् रथयोगान् पथ: सृजते ' इति श्रुतेः । न च कर्तुरभावात् सृष्टययोगः । ' य-एषु सुप्तेषु जागर्ति' ' एतस्माद्यत्र पुत्रो जायते ' इति श्रुतिभ्यामीश्वरस्यैव कर्तृत्वाङ्गीकारात् । न चोपादाननिमित्ताभाव: ' मनोगतांश्च संस्कारा' निति श्रुतिबलेन वासनाया उपादानत्वेन ईश्वरेच्छायाश्च निमित्तत्वेन अङ्गीकारात् । एतेन उत्कण्ठकोलाहलाः प्रत्युक्ताः । वासनामयानां मेर्वादीनां मनसै दर्शनसंभवात् । बाह्यकारणाभावात्, प्राक्मृत्पिण्डादीनाम्, ऊर्ध्वं कपालादीनां च प्रतितेरप्रसङ्गात् । ननु यदि न स्वप्नविषया बाह्यार्थजन्याः तर्हि सत्वं न प्राप्नोति शुक्तिरजतादिवत् इति चेत्, न शुभाशुभकारणत्वेन सत्त्वस्यैव निश्चितत्त्वात् । ' यदा कर्मसु काम्येषु' इति, ' पुरुषं कृष्णं कृष्णदन्तं पश्यति' इति श्रुतिभ्याम् अन्वयव्यतिरेकसघ्रीचीनप्रत्यक्षेण च, कारणत्वस्य सिद्धेः" इति ।

यदुक्तमद्वैततत्त्वसुधायां ' तत्र च जागरभ्रम इव विनैव ईश्वरसृष्टत्वं पारमार्थिकत्वं च विना निर्वाहात् किमितीश्वरसृष्टत्वं स्वाप्नानां स्वीकर्तव्यमिति तदविचारप्रलपितम् । द्वैतिभिर्जागरभ्रमस्यापि ईश्वरसृष्टत्वं पारमार्थिकत्वमवश्यमङ्गीक्रियते " देहयोगाद्वासोऽपि " इति सूत्रे देहयोगेन वासो जाग्रदपि तत एव इति भाष्यात् ईश्वरसृष्टत्वादेव पारमार्थिकत्वमपि । यदप्युक्तं ' यदि श्रुति-प्रामाण्यात्, तर्हि जागरवदेव ईश्वरसृष्टानामेव स्मरणमात्रं स्वप्न इत्येतावन्मात्रमङ्गीक्रियताम् किमिति वासनापरिणामत्वमपि स्वाप्नानाम्' इत्यपि अतीव हास्यम् । न हि द्वैतिभिरद्वैतिभिर्वा जागरस्य स्मरणमात्रत्वमङ्गीक्रियते । यदि च  जागरपदार्थानां स्मरणमात्रत्वमङ्गीक्रियते कथं तेषां व्यावहारिकी सत्ता कथंतरामर्थक्रियाकारित्वम् ।

यच्चाप्युक्तं " न हि द्वैते अद्वैते वा कारणात्मातिरिक्तः प्रागभावो नाम कश्चिदस्तीति तदप्यचारु अद्वैते यथाकथमप्यास्ताम् । द्वैते प्रागभावस्य अतिरिक्तत्त्वस्वीकारात् ।

प्राक् प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते ।

इति अल्पिष्ठ सरलतम तत्त्वसंख्यानं ग्रन्थमप्यजानतो सुधाखण्डनप्रवृत्तिर्दुः- साहसमेव । कार्त्स्न्येन अनभिव्यक्तस्वरूपत्वमीश्वरसृष्टत्वं च व्याहतमित्यपि निन्द्यम् । ईश्वरसृष्टानां सत्यभूतानां परस्सहस्रपदार्थानां कार्त्स्न्येनानभिव्यक्तस्वरूपत्वस्य द्वैतिभिरद्वैतिभिश्च स्वीकारात् । ब्रह्मणोऽपि कात्स्न्यैनानभिव्यक्तस्वरूपत्वान्मायामात्रत्वं स्यात् ।

स्वाप्नानां वासनापरिणामत्वे तस्या मृदो घटादाविव अनुवेधापत्तिः इत्यापादनमसत्। स्वाप्नानामविद्यापरिणामित्वे अविद्यानुविद्धतया भानप्रसङ्गात् जागरे प्रतीयमानानां घटादीनां शुक्तिरजतादीनामपि अविद्यानुविद्धतया प्रतीतिप्रसङ्गात् च ' सर्वथा तत्तत्पुरुषमात्रानुभाव्यानां स्वाप्तानामीश्वरसृष्टत्वं न क्षोदक्षमम्' इत्यप्यसारम् । बुद्धि ज्ञानमसंमोह इत्यादिना " भवन्तिभावा-भूतानां मत्त एव पृथग्विधाः" तत्तत्पुरुषानुभाव्यानां ज्ञानसुखदुःखादीनां इति ईश्वरनिमित्तकत्वोक्तेः । सात्विकानामीश्वरसृज्यत्वमुपपद्यते न राजसतामसानामित्यपि न-

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।

अर्थक्रियाकारित्व-मत्त एवेति तान् विद्धि नत्वहं तेषु ते यि

इति राजसतामसानामपि ईश्वरसृज्यत्वोक्तेः । अर्थक्रियाकारित्वमसतोप्यविशिष्टम् ; स्वाप्नानां चरमधातुविसर्गादीनां प्रसिद्धत्वात्' इत्यपि न साधु । अर्थक्रियारित्वं च अर्थक्रियाजनकत्वं जनकत्वं च कारणत्वरूपम्-कार्याव्यवहितपूर्वक्षणवृत्तित्वं च कारणत्वम्-तच्च असतो न संभवति ।

' कुतो वा ईश्वरसृष्टत्वाविशेषे जागरात् स्वाप्नानां वैधर्म्यम् । इति न साधु कुतो वा अविद्यासृष्टत्वाविशेषे जागरस्थेभ्यः स्वाप्नानां वैधर्म्यमित्यपि वक्तुं शक्यत्वात् ।

' तत्त्वे चेश्वरसृष्टेषु केषांचन तत्तज्जीवमात्रानुभाव्यत्वमिति वैषम्यं निर्निमित्तं स्यात् ' इत्यप्यसत् ईश्वरसृष्टत्वेन उभाभ्यामङ्गीकृतानां सुखादि-पदार्थानां तत्तज्जीवमात्रानुभाव्यत्वस्य दर्शनात् ।

" वासना हि मनोविकारो धर्मः इति मनस एव स्वाप्नाश्रयत्वं स्यात् । जाग्रदाद्यवस्था तु जीवस्य, इति जीवस्य कथमवस्थात्रयभाक्त्वम्' इत्यसत् कूटस्थत्वेन निर्विकारत्वेन असंङ्गत्वेन च प्रसिद्धचैतन्यस्वरूपस्य जीवस्य त्वन्मतेऽपि कथमवस्थात्रयभाक्त्वम्-देहेन्द्रियादिगतावस्थात्रयस्वामित्वाभिमानेन तथा इति चेत् तदेवोत्तरमत्रापि प्रतिसन्धीयताम् । यदप्युक्तम् तत्रैव " इदमेवात्र पृच्छ्यतेकिंवा अत्र ईश्वरस्य कृत्यम् ? वासना परिणाममात्रेण तूलाविद्यापरिणामतामात्रेण निर्वाहात् " इति तत् प्रलापमात्रम् जागरेऽपि ईश्वरस्य किं कृत्यमित्यपि सुवचत्वात् इष्टापत्तौ नास्तिकमतप्रवेशापत्तेः ।

मायापदेन वासनालक्षणासंभवः" इत्युपक्रम्य यद् बहु असंबद्धतयोक्तं तन्न संस्काराणां त्वद्रीत्या साक्षात् वा परंपरया वा मायाकार्यत्वात् कारणवाचकमायापदस्य वासनापरपर्यायसंस्कारलक्षकत्वसंभवात् ।-' गोभिः श्रीणीत मत्सरम् इत्यत्र च गोपदस्य गव्यपयोलक्षकत्वाङ्गीकारात् । मायापदस्य प्रज्ञा-इच्छावाचकत्वे प्रमाणं प्रदर्शितमेवाकरे-मात्रशब्दस्य व्युत्पत्तेः प्रमाणे नैवोक्तत्वात् का तत्र कथंता ।

" अन्यथा परम्परया कुलालादिसृष्टानामपीश्वरसृष्टत्वाविशेषात् जीव-सृष्टिकथैव लुप्यते " इति यदुक्तं तदपि न भवन्ति भावाभूतानां मत्त एव पृथग्विधाः" "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथाइत्यादि उक्तवन्तं गीताचार्थं गीताव्याख्यातारं भवदाचार्यं च पृच्छ ।

स्वप्नानामविद्योपादानकत्वाङ्गीकारेऽपि तत्तत्पुरुषानुभाव्यस्वाप्नानामुपपत्यर्थं विविधाः संस्कारा अवश्यमास्थेया एवेति स्वाप्नानां वासनामयत्वे उक्ते को दोषः ।

यदुक्तं सत्त्वस्य कारणतावच्छेदकत्वमस्माभिरपि नाङ्गीक्रियते इति तन्न सत एव वह्नेर्धूमकारणत्वमित्युक्ते वह्नित्वस्यैव कारणतावच्छेदकत्वमुक्तं भवति न सत्त्वस्य । सत्त्वस्य तु कारणताव्यापकत्वमेव व्यापकाभावे च व्याप्याभावः सिद्ध एवेति नासतः कारणत्वम् ।

सूचकश्चेति सूत्रस्य द्वैतमते एव स्वारस्यमित्युपपादितमस्माभिरधस्तात् ।

' तर्हि ज्ञाननाशेऽपि स्वाप्नगजादीनां जागरेप्यनुवृत्तिरिति वर्णनं सुधाया व्याहतमितिकथनं साहसमात्रम् । स्वाप्नगजादीनामनुवृत्तिः कुत्रापि नाङ्गीकृता सुधायाम् । अनुभवानुसारेण कचिद् स्पष्टत्वं बाह्यार्थक्रियाकारित्वमाङ्गीकृतम्: उत्सर्गतस्तु बाह्यार्थक्रियाजनकत्वाभावः इत्येतत्सूचयितुं कात्स्न्येन 'इति पदं सूत्रे प्रयुक्तमित्यपि केचित् ।

यच्चाप्युक्तं " स्वाप्नोऽपीश्वरसृष्टत्वेन यद्यर्थक्रियाकारीईश्वरेच्छया, तर्हि कथं कात्स्न्येनाभिव्यक्तस्वरूपत्वं तस्य मनोविकारतोपपादनम् " इति न सम्यक्-मनोविकाराणामपि ईश्वरसृष्टत्वे विरोधाभावात् प्रमाणस्य उपन्यस्तत्वाच्च । का तत्र कथन्ता ।

" पराभिध्यानात्तु तिरोहितं ततोद्यस्य बन्धविपर्ययौ " " देहयोगाद्वासोऽपि ' इत्यनयोः सूत्रयोः सामञ्जस्येन योजनं द्वैतमतें एव नाद्वैतमते ।

ननु स्वप्नतिरोधानं न ईश्वराधीनम् तस्य बाह्याज्ञानजन्यत्वेन अज्ञाननाशे सन्तत्यनुत्पादसंभवात् तथा च ज्ञानेन अज्ञाननाशद्वारा स्वप्रतिरोधानसंभवात् न तस्य ईश्वराधीनत्वमिति पूर्वपक्षे प्राप्ते ज्ञानाज्ञानयोरचेतनत्वेन स्वातन्त्र्याभावात् तदधीनयोः अपि बन्धमोक्षयोर्भगवदधीनत्वावगमात् बाह्य-ज्ञानाधीनस्य स्पप्ननिरोधस्य भगवदधनित्वप्रतिपादनं श्रुतिपन्नत्वादुपपद्यते ।

एवमेव न जागरणं भगवदधीनम् तस्यकालाधीनत्वात् । न चाचेतनत्वात्तदधीनत्वानुपपत्तिः । कालाधीनत्वस्य अनुभवसिद्धत्वेन अचेतनत्वानुमानस्य बाधितविषयत्वात् । न चानुभवो भ्रमः बाधकाभावात् । अतो जाग्रदवस्थाया भगवदधीनत्वाभाव इति पूर्वपक्षे प्राप्ते जाग्रदवस्थाऽपि भगवदधीनैव । स एव जागरिते स्थापयति स स्वप्ने स प्रभुस्तुराषाट इति श्रुतेः । अत एवाचेनत्वानुमानमपि कालाधीनत्वानिवर्तकम्, श्रुतिविरोधेन प्रत्यक्षस्य अप्रामाण्यात् । कालस्य निर्मित्ततामात्रविषयकं प्रत्यक्षं बाधाभवात् प्रमाणमेव । अतो हरे: जाग्रत्प्रवर्तकत्वेन महामहिमत्वं प्रतिपादनं युक्तम् ।

यद्वा भवत्ववस्थान्तराणां भगवदधीनत्वं न जाग्रदवस्थायाः, किंतु जीवाधीनैव सा । तत्र जीवस्य देहादिकं प्रति स्वातन्त्र्यप्रतीतिदर्शनात् नचेयं भ्रान्तिः । जीवस्य चेतनत्वेन पूर्वोक्तन्यायस्य अबाधकत्वात् बाधकान्तराभावाच्चेति पूर्वपक्षोत्थान्नैतदारम्भवैय्यर्थ्यम् । अत एवसूत्रे " जाग्रत् " इत्यवे वक्तव्ये देहयोगाद्वास इत्युक्तम् । व्याख्यातं च भाष्ये देहयोगेनेति । विवृतं  टीकायां देहाभिमानिनेति । एतदेवाभिप्रेत्योक्तं न्यायविवरणे 'चेतनान्तरस्य अस्वातन्त्र्या' दिति । अतएव स्वातन्त्र्याभिमानस्य भ्रमत्वोपपादनाय जीवस्यापि भगवदधनित्वप्रतिपादकस्य स एव जागरिते स्थापयति इति विशेषप्रमाणस्योक्तिरिति । अत्र षट्प्रश्नोपनिषद् विशषतोऽवधेया भवति तथाहि-"अत्रैष देवः स्वप्ने महिमानमनुभवति । यत् दृष्टं दृष्टमनुपश्यति श्रुतं श्रुत-'मेवार्थमनुशृणोति । देशादिगन्तरेभ्यश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं च अनुभूतं चानुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति। इति प्र. उ. ४-५ तथैव अत्रत्यशांकरभाष्यमपि विशेषतो मननीयम् ।

" कथं महिमानमनुभवतीत्युच्यते । यन्मित्रं पुत्रादि वा पूर्वं दृष्टं तद्वासनावासितः पुत्रमित्रादिवासनासमुद्भूतं पुत्रं मित्रमिव वा अविद्यया पश्यतीत्येवंमन्यते । तथा श्रुतमर्थं तद्वासनया अनुशृणोतीव ।...तथा दृष्टं च अस्मिन् जन्मनि अदृष्टं च जन्मान्तरदृष्टामित्यर्थः अत्यन्तादृष्टे वासनानुपत्तेः । सच्च परमार्थोदकादि । असच्च मरीच्युदकादि " । .....इति ।

इति स्वप्नस्य भगवत्सृष्टत्वं सत्यत्वं तदधीनतिरोधानकत्वम्