न्यायसुधामण्डनस्य तृतीयो भागः समाप्तः
आनन्दतीर्थवाराशि-पारगैः पूर्वदेशिकैः ।
विक्षिप्योक्तं तत्र तत्र संक्षिप्यात्रोदितं मया ॥ १॥
शान्तिक्षान्तिसरस्वन्तं ज्ञानभास्वन्तमादरात् ।
श्रीसत्यज्ञानतीर्थाख्यं वन्दे वैराग्यवारिधिम् ॥२॥
अद्वैतभ्रान्तराद्धान्तध्वान्तध्वंसपटीयसे ।
नमः सुज्ञानमहसे सत्यध्यानाख्यभानवे ||३||
सत्यप्रमोदकर्मन्दी सत्याभिज्ञमुनीन्द्रभूः ।
व्यतनोच्छ्री न्यायसुधा-मण्डनं मायिखण्डनम् ॥ ४ ॥
क्व टीकाकारसद्वाणी वाणीवाणीशतोषिणी ।
कृतिर्मे वाग्दरिद्रस्य प्राणेशप्रेरणादभूत् ॥५॥
यत्कृपादृष्टिलेशेन मन्दोऽकार्षमिमां कृतिम् ।
सुपुञ्जीभूय तत्पुण्यं मद्गुरूनुपतिष्ठतु ||६||
अस्मद्गुरुहृदन्तत्स्थ – मूलरामपदाम्बुजे ।
समर्प्यहं न्यायसुधा-मण्डनं धन्यतामगाम् ॥७॥
यदत्र सौष्ठवं किञ्चिद् तद् गृरोरेव मे न हि ।
यदत्रासौष्ठवं किञ्चित्तन्ममैव गुरोर्नहि ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यत्वाद्यनेकगुणगणालङ्कृत-श्रीमदुत्तरादिमठाधीश-श्रीमत्सत्याभिज्ञदिव्यकरकमलसञ्जात-श्रीमत्सत्यप्रमोदतीर्थ-विरचितस्य न्यायसुधामण्डनस्य तृतीयो भागः समाप्तः ।