सत्यं ज्ञानं - तत्त्वमसि
महावाक्यानामखण्डार्थपरत्व भङ्गः ।
पूर्वपक्षानुवादः । तत्पराकरणम् ।
……………………………………………………………………………………………………………………………………………………….
सत्यं ज्ञानं- तत्त्वमसि
अद्वैतिनस्त्वाहुः अखण्डार्थे ब्रह्मणि वेदवेदान्तानां समन्वयः । तथा हि द्विविधं शास्त्रवाक्यम् । एकं पदार्थनिष्ठमपरं वाक्यार्थनिष्ठम् । तत्र 'सत्यं ज्ञानं ' मित्यादि पदार्थनिष्ठम् ' तत्त्वमसी' त्यादि वाक्यार्थनिष्ठम् । एवमादिवाक्यं वैदिकम् । 'प्रकृष्टप्रकाशश्चन्द्र' इति पदार्थनिष्ठम् । ' सोऽयं देवदत्त ’ इत्यादि वाक्यार्थनिष्ठम् । एवमादिवाक्यं लौकिकम् । इदमखण्डार्थकत्वं च चित्सुखाचार्योक्तदिशा संसर्गानवगाहियथार्थज्ञानजनकत्वं वा एक प्रातिपदिकार्थमात्रपर्यवसायित्वं वा । तथा चोक्तम् । 'संसर्गासंगि सम्यग्धी हेतुता या गिरामियम् । उक्ताSखण्डार्थता यद्वा तव्प्रातिपदिकार्थता' इति । महावाक्यानामखण्डार्थकत्वं च उपक्रमादिलिंगैर्निश्चीयते । तथा च छान्दोग्ये ' सदेव सोम्येदमग्र आसीत् ' इत्युपक्रमगतवाक्यं सजातीय-विजातीय स्वगतभेदशून्यविषयकम् । “ऐतदात्म्यदिदं सर्वं मित्युपसंहारोऽपि तत्पर एव । इदमुपक्रमोपसंहारैकरूप्यं तात्पर्यनिर्णये लिङ्गम् । तथा ' तत्त्वमसी' ति नवकृत्वोऽभ्यास: । निःशेषविशेषशून्यस्य ब्रह्मणो मानान्तराविषयत्वात् अपूर्वता " तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये " इति फलम् । " अनेन जीवेन आत्मना अनुप्रविश्य नामरूपे व्याकरवाणि " इति अद्वितीयब्रह्मज्ञानार्थः अर्थवादः । मृदादिदृष्टान्तैः स्वोपादानातिरिक्तं कार्यं नास्तीति उपपत्तिः । एवमुपक्रमादिलिङ्गषट्केन लक्षणया महावाक्यानामखण्डार्थ तात्पर्यमवगम्यते । न च सर्वपदलक्षणा कुत्राप्यदृष्टचरेति वाच्यम् । अर्थवादघटकानां सर्वेषां पदानां लक्षणया स्तुतिमात्रपरत्वस्य अवश्यमङ्गीकर्तव्यत्वात् । तथा प्रकृतेप्यदोषात् ।
संसर्गानवगाहियथार्थज्ञानजनकत्वं च संसर्गाविषयकशाब्दप्रमाजनकत्वम् । तच्च अतिव्याप्त्या दिलक्षणदोषदुष्टत्वादयुक्तम् । तथा हि आद्ये लक्षणे विषं भुंक्ष्वेति वाक्ये अतिव्याप्ति । तस्य द्विषदन्नं न भोक्तव्यमित्येतदर्थविषयकत्वात् । न च तत्रापि अनिष्टसाधनत्वसंसर्गः पदवृत्या स्मारितो बोध्यते इति वाच्यम् । अनिष्टत्वस्य भोजने अनुमानादिना गम्यत्वे तत्संसर्गस्य तत्र शाब्दत्वाभावात् । न च प्रतिपिपादयिषित पदार्थसंसर्गाप्रमापकत्वं विवक्षितमितिवाच्यम् । चन्द्रब्रह्मादिशब्दार्थानां स्वरूपतो ज्ञातत्वेन अप्रतिपिपादयिषितत्वात् संसर्गप्रतियोगित्वेनैव प्रतिपिपादयिषितत्वात् तत्रासंभवात् । द्वितीये लक्षणेऽपि शीतोष्णस्पर्शवन्तौ पयःपावकौ' इत्याद्यनेकप्रातिपदिकार्थमात्रपरे अतिव्याप्तिः । न हि धर्मधर्मिभावासहमखण्डात्वं धर्मिभेदसहम् । न च शीतस्पर्शवत्यः आपः, उष्णस्पर्शवान् पावक इति प्रत्येकंवाक्यद्वयद्वारा अखण्डविषयबोधद्वयमात्रे तात्पर्यान्न दोष इति वाच्यम् । ' चन्द्रे कलङ्कः सुजने दरिद्रता विकासलक्ष्मीः कुमुदेषु चंचला । मुखाप्रसादः सधनेषु नित्यशो यशो विधातुः कथयन्ति खण्डित मित्येक स्मृत्युपारूढानां चन्द्रकलङ्कादीनां बहुत्वान्वयवदिहाप्यन्वयोपपत्तेः । तत्रेव अत्र एकवाक्यतायां बाधकाभावात् । सेनावनादिप्रश्नोत्तरे अतिव्याप्तेर्वज्रलेपायितत्वाच्च । किंच प्रवृत्तिनिमित्ताना भानपक्षे अखण्डार्थत्वं दत्ततिलाञ्जलिकं स्यात् । अभानपक्षे च पर्यायत्वापत्तिः स्यात् । न च प्रवृत्तिनिमित्तभेदमङ्गीकृत्यैव सत्यादिपदानां लक्षणया अखण्डपरत्वमिति वाच्यम् । लक्षणाप्रयोज्यबोधे यद्यधिकभानं वाक्यस्य अखण्डार्थकत्वहानिः । अभाने च लक्षणावैयर्थ्यात् ।
वाक्यस्य अखण्डार्थकत्वे प्रमाणमपि न विद्यते । ननु सत्यादिवाक्यमखण्डार्थनिष्ठं ब्रह्मप्रातिपदिकार्यनिष्ठं वा लक्षणवाक्यत्वात् तन्मात्रप्रश्नोत्तरत्वाद्वा प्रकृष्टप्रकाशचन्द्र इति वाक्यात् सोऽयं देवदत्त इत्यादिवाक्यवच्च इति चेत् न, उक्त वाक्यद्वयस्य सखण्डार्थपरत्वेन दृष्टान्तासिद्धेः । तत्रापि दृष्टान्तान्तरस्य अन्वेषणीयत्वे अनवस्थाप्रसङ्गात् । प्रत्यक्ष निर्विकल्पक ज्ञानहेतुः इति मतस्य अप्रामाणिकत्वेन प्रमाणमात्रस्य सविशेषधीजनकत्वनियमेन साध्याप्रसिद्धेश्च ।
न च प्रमात्वं संसर्गागोचरवृत्ति सकलप्रमावृत्तित्वात् अभिधेयत्ववत् इति सामान्यतस्तत्सिद्धिरिति वाच्यम् । प्रमात्वं संसर्गागोचरप्रमावृत्ति न भवति ज्ञानत्वव्याप्यधर्मत्वात् अनुमितित्वादिवदिति सत्प्रतिक्षत्वात् । पारमार्थिक भिन्नसत्यत्वादेरन्यत्र संभवेन पारमार्थिकस्य ब्रह्मण्यप्यभावेन सत्यादिस्वरूपं तु न लक्षणम् । न हि घटो घटस्य लक्षणं किन्तु तद्गतासाधारणधर्मः । न चैवं स्वरूपतटस्थलक्षणयोर्विभागो न स्यादितिवाच्यम् । यावद्द्रव्यभावित्वाभावित्वयोस्तद्भेदनियामकत्वात् ।
अत्र यद् बहु वक्तव्यमस्ति तद् अस्यैव ग्रन्थस्य तुरीयाद्यग्रिमभागेषु अद्वैततत्वसुधायाः प्रतिविषयखण्डनावसरे विस्तरेण वक्ष्यते ।
। इति महावाक्यानामखण्डार्थपरत्व भङ्गः ।