आगमानां मिथ्यात्वे अप्रामाण्यापत्तिसमर्थनम्
आगमानां मिथ्यात्वे अप्रामाण्यापत्तिसमर्थनम्
यच्चोक्तम्-"स्वरूपतो मिथ्यात्वेऽपि महावाक्यमात्रे विषयतोऽबाध्यत्वान्नागमस्याप्रामाण्यम्, अन्यत्र तु यावद् ब्रह्मसाक्षात्कारं व्यावहारिकं प्रामाण्यम् इति ततुच्छम्, आगमस्वरूपस्येव तत्प्रामाण्यस्यापि मिथ्यात्वेन त्रैकालिकनिषेध- प्रतियोगित्वेन अप्रामाण्यस्य स्थैर्यात् ।"ज्ञानं तस्मिन् परात्मभावनिवृत्तिरेव " इत्यादिना (बृ. भा.) महावाक्यानां ज्ञानजनकत्वस्यैवाभावेन प्रमाजनकत्वंरूपप्रामाण्यासम्भवात् त्वन्मते वेदान्तवाक्यजनितवृत्तेरुपहितविषयत्वाङ्गीकारेण उपहितस्य बाध्यत्वनियमेन विषयतोऽबाध्यत्वाभावेनाप्रामाण्यस्य दृढनिरूढत्वाच्च । एवम् उपलक्षितशब्दस्य अविद्यमानधर्मज्ञाप्यभेदविशिष्टार्थकताया लघुचन्द्रिका- कारैरुक्तत्वात् भेदविशिष्टस्वरूपाभेदस्यात्यन्तचाध्यत्वेन तद्विषयकमहावाक्यानां विषयतोऽबाध्यत्वस्य सर्वथा वक्तुमशक्यत्वात् ।
अपि च यावद्बाधं प्रामाण्यस्य सर्वभ्रमसाधारण्येन सकलविप्रलम्भक-वाक्यसाधारण्येन चार्वाकादिसकल ग्रन्थसाधारण्येन च प्रामाण्याप्रामाण्य-व्यवस्थाऽयोगः। अतः सर्वेषां वेदानां सत्यत्वं तत्प्रामाण्यसत्यत्वं तद्विषयाणां सर्वथाऽबाध्यत्वं च सर्वैर्वेदिकैरङ्गीकार्यम् ।
॥ इति आगमतत्प्रामाण्यमिथ्यात्वनिरासः ॥