तदनन्यत्वाधिकरणस्य तद्विषयवाक्यानां च विश्वमिथ्यात्वपरत्वनिरासेन विश्वसत्यत्वपरत्वसमर्थनम्

तदनन्यत्वाधिकरणस्य तद्विषयवाक्यानां च विश्वमिथ्यात्वपरत्वनिरासेन विश्वसत्यत्वपरत्वसमर्थनम्

ॐ तदनन्यत्वमारंभणशब्दादिभ्य:

भोक्तृभोग्यलक्षणं विभागं व्यावहारिकमंगीकृत्य स्याल्लोकवादिति परिहारोऽभिहितः । भोक्तृभोग्यविभागः परमार्थतो नास्ति । तदनन्यत्वं यस्मात्तयोः कार्यकारणयोरनन्यत्वं अवगम्यते । कार्यमाकाशादिकं बहुप्रपंचं जगत्, कारणं परं ब्रह्म तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते । कुतः आरंमणशब्दादिभ्यः, आरंभणशब्दस्तावत् एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते । यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वा । चारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् " [ छां. ६-१-१] इति एतदुक्तं भवति एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञानेन सर्वं मृण्मय घटशरावोदचनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत्, यतो वाचारंभणं विकारो नामधेयं वाचैव केवलं अस्तीत्यारभ्यते । विकारो घटश्शराव उदंचनं चेति न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतं मृत्तिकेत्येव सत्यमित्येष ब्रह्मणो दृष्टान्त आम्नातः । तत्र श्रुताद्वाचारं भणशब्दाद्दाष्टन्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते । आरंभणशब्दादिभ्य इत्यादिशब्दात् " ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि ( छां. ६-८ ) " इदं सर्वं यदयमात्मा' (बृ. २-४-२ ) " ब्रह्मैवेदं सर्वं " (मुं. २-२-११ ) " आत्मैवेदं सर्वम् " ( छां. ७-२५-२) " नेह नानास्ति किंचन " (बृ. ४-४-१९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं चनजातमुदाहर्तव्यम् । न चान्यथैकविज्ञानेन सर्वविज्ञानं सम्पद्यते । तस्माद्यया घटकरकाधाकाशानां महाकाशानन्यत्वं यथा च मृगतृष्णिकोदकादीनां ऊरादिभ्योऽनत्यत्वं दृष्टनष्टस्वरूपत्वात्स्वरूपेणानुपाख्यत्वात् । एवमस्य भोग्यभोक्त्रादिप्रपंचजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् इति यव्याख्यातं तदत्यन्तमयुक्तम् ।

तथाहि-कार्यभूताकाशादिप्रपंचस्य कारणात्परब्रह्मणः परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावोऽवगम्यते इति प्रतिज्ञाय आरम्भणशब्दादिभ्य इति हेतुः कथितः । तत्र प्रतिज्ञा तावन्न युक्ता । कारणं द्विविधम् । निमित्तकारणमुपादानकारणं [परिणामिकारणं] चेति । तत्र ब्रह्मणो निमित्तकारणत्वे यथा घटस्य निमित्तकारण-कुलालात् भेदः तथा कार्यस्य प्रपंचस्य निमित्तकारणाद्रह्मणो भेद एव नत्वैक्यम् ।

उपादानकारणात्कार्यस्यैक्यं यद्यपि लोके दृष्टं तथापि परिणामिकारणत्वरूपमुपादानत्वं "निर्विकारोऽक्षरशुद्ध" इत्यादिश्रुतिसिद्धनिर्विकारस्य ब्रह्मणः न संभवत्येवेति कार्यस्य प्रपंचस्य कारणात् ब्रह्मणो व्यतिरेकेणाभावकथनमयुक्तमेव । न च ब्रह्मणः परिणामित्वरूपोपादानकारणत्वासंभवेऽपि शुक्तिकाया रजतभ्रमाधि-ष्ठानत्वरूप रजतोपादानकारणतेव ब्रह्मणो जगदुपादानलं विवर्तधिष्ठानत्वरूपं ( जगत्प्रकारकभ्रमविशेष्यत्वरूपं ) संभवतीति रजतस्य शुक्तिकाव्यतिरेकेणाभाव इव जगतोऽपि ब्रह्मव्यतिरेकेणाभावः सम्पत्स्यत इति वाच्यम् । निर्गुणं ब्रह्मकमेव सत्यम् । तदन्यत्सर्वमध्यस्तं ( कल्पितं ) इत्यद्वैतिमतरीत्या निर्धर्मके ब्रह्मणि अध्यासकारणस्यैकस्याप्यसंभवेन अध्यासाङ्गीकारे अनेकानुपपत्तीनां सत्त्वेन चाध्यासासंभवात् ( भ्रमासंभवात्) जगत्प्रकारकभ्रम विशेष्यत्वरूपजगदुपादानत्वस्य अद्वैत ब्रह्मणोऽयोमात् । अङ्गीकृतं च भामतीकृता वाचस्पतिभिश्रेण- विभ्रमो नाम कश्चित् न च संसारो नाम किन्तु सर्वानुपपत्तिभाजनत्वेन अनिर्वचनीय " मिति वदता स्पष्टं अध्यासाङ्गीकारे सर्वा अनुपपत्तयः सन्तीति । तुष्यत्विति न्यायेन जगद्भ्रमविशेष्यत्वेंऽगीकृतेऽपि शास्त्रे लोके वा रजताध्यास( भ्रम) विशेष्या शुक्तिः न रजतकारणमिति व्यवहरन्तीति न ब्रह्म जगत्कारणमिति शक्यते वक्तुम् । किंच द्वैतिमतरीत्या असत्यतयांऽगीकृतस्याद्वैतिमतरीत्या प्रातिभासिकतयांऽगीकृतस्य शुक्तिरूप्यस्य, द्वैतिमतरीत्या पारमार्थिकसत्यतयांsगीकृतया अद्वैतिमतरीत्या व्यावहारिकतयांऽगीकृतया शुक्त्या विरुद्धधर्माधिकरणत्वात् यथा आवयोर्मते नाभेदस्तथा ' कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मकत्वस्य प्रतिपत्तिरित्याद्यनेकवाक्यजालेन एतदधिकरणभाष्ये द्वैतस्य असत्त्वादिति गौडपादकारिकाभाष्ये च जगतः असत्त्वं शङ्करेणोक्तमिति असतो जगतः सत्यभूतब्रह्मणा अभेदस्यासंभवात् । नच अनन्यत्वमित्यस्य व्यतिरेकेणाभाव इत्यर्थस्य कृतत्वेन अनन्यत्वशब्देन कार्यस्य जगतोऽमेदो नोक्तः किन्तु यथा शुक्तिव्यतिरेकेण रजतस्याभावः तथा ब्रह्मव्यतिरेकेण जगतोऽभाव एव विवक्षित इति वाच्यम् । जगतो ब्रह्मव्यतिरेकेणाभाव इत्यनेन जगतोऽभाव (असत्त्वं ) एव विवक्षितः स्यात्तर्हि जगतोऽभाव इत्येव वक्तव्यं स्यात् । न तु ब्रह्मव्यतिरेकेणाभाव इति । चैत्रे द्रव्यं नास्तिति कथनाभिप्राये चैत्रे द्रव्यस्याभावः इत्येवोच्यते न तु चैत्रे द्रव्यस्य सुवर्णव्यतिरेकेणाभाव इति । द्रव्यस्य सुवर्णव्यतिरेकेणाभाव इत्युक्तौ सुवर्णात्मकं द्रव्यमस्ति न तु तदतिरिक्तमिति यथा ज्ञायते तथा जगतः ब्रह्मव्यतिरेकेणाभाव इत्युक्तौ न हि जगतोऽभावः (असत्त्वं ) बोध्यते, किंतु ब्रह्मात्मकं जगदिति (जगतः ब्रह्मरूपत्वं = ब्रह्माभेद इति ) । तच्च पूर्वं विरुद्धधर्माधिकरणत्वेन निरस्तम् । ननु * न खल्वनन्यत्वमित्यभेदं ब्रूमः किन्तु भेदं व्यासेधामः अतो नाभेदाश्रयदोषप्रसंग इति चेन्न । भेदाभेदयोर्विरुद्धत्वेन भेदनिषेधे अभेदस्यावर्जनीयत्वात् । ननु ब्रह्मव्यतिरेकेण जगतोऽभाव इति शब्दैस्तथा अबोधनेऽपि मम ( अद्वैतिनः ) जगतोऽभावकथन एव तात्पर्यमिति 'चेत्तर्हि 'नाभाव उपलब्धेः ' (न. सू. २-२-२८) इत्यादिसूत्रेषु जगतोऽभाव-क्त्रोश्शून्य विज्ञानवादिनोभते उक्तानां प्रत्यक्षादिप्रमाणविरोधादिरूपदोषाणां प्राप्तेः तस्मादद्वैतिमतरीत्या असद्भूतजगतः सत्यभूतब्रह्मणा ऐक्यासंभवात् ब्रह्मणि जगतोऽध्यासासंभवात् ब्रह्मणो जगत्यति उपादानकारणत्वासंभवात् न ब्रह्मजगतोरनन्यत्वं = व्यतिरेकेणाभाव इति कार्यकारणयोर्जगत् ब्रह्मणोरनन्यत्वमिति प्रतिज्ञाया अप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च तदनन्यत्वमिति सूत्रखण्डस्य तयोर्जगब्दह्मणोः कार्यकारणयोरनन्यत्वं व्यतिरेकेणाभाव इत्यर्थकथनमयुक्तम् ।

* भामती

आरंभणशब्दादिभ्य इति हेतुभागविचारः

यदुक्तं ' आरम्भणशब्दादिभ्य इति सूत्रखण्डगतेन आरम्भणशब्देन ' वाचरंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यं इति श्रुतिं गृहीत्वा अनया श्रुत्या जगतो मिथ्यात्वसिद्धिरिति तदप्ययुक्तम् । अस्यां श्रुतौ जगतो भिथ्यात्व बोधकपदाभावात् । न च ' वाचारंभणं ' ' नामधेयं ' इति पदे मिथ्यात्वबोधकेस्त इति वाच्यम् । वाचारंभणपदस्य वाचा आरभ्यत इति व्युत्पत्या वाग्जन्यव्यवाहरविषय इत्यर्थकत्वेन तथा नामधेयमिति पदस्य नामार्थकत्वेन मिथ्यार्थकत्वाभावात् । न च वाचारंभणपदोत्तरं मात्रं इति पदे संयोजिते वाचारंभणमात्रमिति सम्पत्त्या तस्य वाचैव केवलमस्तीत्यारभ्यते विकारो घटश्शराव उदंचनं चेति न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति इत्यर्थकत्वप्राप्त्या मिथ्यात्वबोधकत्वं, तथा नामधेयपदोत्तरं, मात्रपदे संयोजिते नामधेयमात्रमिति सम्पत्त्या तस्य च नामैव केवलं न विकारो नाम कश्चिदस्ति (ह्येतदनृतं) इत्यर्थकत्वप्राप्त्या मिथ्यात्वबोधकत्वमिति वाच्यम् । श्रुतावविद्यमानमात्रपदे संयोज्यार्थकरणस्यायुतत्वात् । अन्यथा ( अविद्यमानपदं संयोज्य अर्थकरणस्य युक्तत्वे ) सत्यं 'ज्ञानमनन्तं ब्रह्म इति श्रुत्या ब्रह्मणोऽपि असत्यत्वाज्ञानरूपत्वपरिच्छिन्नत्वसिद्ध्यापत्तेः तत्रापि सत्यादिपदात्पूर्वं न. न. न. इति पदानि संयोज्य ब्रह्म न सत्यं = मिथ्या न ज्ञानं इत्याद्यर्थकथनसंभवात् । ननु वाचारंभणनामधेयपदयोः पुरतः मात्रपदसंयोजने पूर्ववाक्यं ज्ञापकमस्ति । अतस्तत्र मात्रपदसंयोजनं कर्तव्यम् । सत्यं ज्ञानमनन्तं ब्रह्मेति वाक्ये न इति पदसंयेाजने ज्ञापकाभावात् नात्र न इति पदसंयोजनं कार्यम् । तथाहि-एकब्रह्मविज्ञानेन सर्वजगद्विज्ञानं ' येनाश्रुतं श्रुतं भवति ' इत्यादिवाक्येन प्रतिज्ञाय दृष्टान्तापेक्षायामिदमुच्यते ' यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति । यद्यस्य वाक्यस्य घटादेः मृद्व्यतिरेकेणाभावरूपमिथ्यात्वं नाभिमतं स्यात्तर्हि मृद्विज्ञानेन सर्वमृण्मयज्ञानं न स्यात् । तथाच जगतो ब्रह्मव्यतिरेकेणाभावरूपमिथ्यात्वं विना अनुपपद्यमानायां एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायां दृष्टान्तत्वं एकब्रह्मविज्ञानेन जगज्ज्ञाने दृष्टान्तत्वमिति वाचारंभणनाम न स्यात् । उक्तं च धेयशब्दयोः पुरतो मात्रपदे संयोज्य मृद्व्यतिरेकेणाभावरूप मिथ्यात्वार्थकत्वं स्वीकरणीयम् इति चेन्न । अनेकदोषयुक्तत्वात् । तथाहि-येनाश्रुतं श्रुतं भवतीति प्रतिज्ञायेति यदुक्तं तत्तावदयुक्तम् । लोके शुक्त्यादितत्त्वं विजानतां यतोऽध्यस्तं रूप्याद्यविज्ञातं भवति अजानतामेव त्वध्यस्तं विज्ञातं भवतीति प्रसिद्धम् । तथा ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्त्वादेव तत्त्वविदो न ज्ञातं ब्रह्म पश्यन्तीति केनोपनिषच्छाङ्करभाष्यटीका वाक्यैरधिष्ठानाज्ञान एवाध्यस्तज्ञानं भवति । अधिष्ठानज्ञानेऽध्यस्तज्ञानं न भवति । प्रत्युत विद्यमानमपि नश्यति । विज्ञेयत्वादिरूपजगतो ब्रह्मण्यध्यस्तत्वेन ब्रह्मज्ञानिना ब्रह्माणि ज्ञेयत्वाद्यध्यस्तजगज्ज्ञानं न भवति इति ' अविज्ञातं विजानतां विज्ञातमविजानताम् ' (केन २-११ ) इति मन्त्रव्याख्यानावसरे अद्वैतिभिरेवोक्तत्वेन अधिष्ठानभूतब्रह्मज्ञानेन अध्यस्तजगज्ज्ञानासंभवात् । किंच ब्रह्मविज्ञानेन सर्वविज्ञाने ब्रह्मविदः घटपटादिषु कुत्रापि संशयो न स्यात् । तथा ब्रह्मव्यतिरेकेण जगतोऽभावात् ब्रह्मज्ञानेन जगतो ज्ञानत्वेन अश्रुतममतमिति विशेषणानामनुपपत्तिश्च स्यात् । दृष्टान्ते मृदादिज्ञाने सति तत्कार्यघटादिविषयक संशयश्च न स्यात् । अस्ति च संशय इति न कारणीभूतब्रह्मज्ञानेन कार्यभूतजगञ्ज्ञानविषयोऽयं दृष्टान्तस्सम्भवति । मृत्पिण्डलोहमणिनखनिकृन्तनानामपि घटकटककुद्दालादिवत् मृल्लोहायः कार्यविशेषतया घटादीन्प्रत्युपादानकारण त्वाभावाच्च उपादानकारणज्ञानेनोपादेयज्ञाने नायं दृष्टान्तः ।

ननु मास्तु 'येनाश्रुतं श्रुतं भवति इति पूर्ववाक्यं ज्ञापकं, मृत्तिकेत्येव सत्यमित्युत्तरवाक्यं मात्रपदसंयोजने ज्ञापकं भविष्यति । मृत्तिकेत्येव सत्यमिति मृत्तिकायाः सत्यत्वावधारणेन मृत्तिकाकार्यस्य घटादोर्मिथ्यात्वस्याभिप्रेततया मात्र- पदसंयोजनस्य सूचनादिति चेन्न । त्वन्मते घटादेर्मृत्तिकाकार्यतया मिध्यात्वस्याङ्गीकारे मृत्तिकाया अपि जलकार्यत्वेन तन्मिथ्वात्वस्यापि त्वन्मतरीत्या अङ्गीकार्यत्वात् । मृत्तिकायास्त्वन्मतरीत्या पारमार्थिकसत्यत्वाभावेन मृत्तिका सत्यमित्यस्य च्यावहारिकसत्यं = मिथ्या इत्यर्थस्यैवाङ्गीकरणीयतया मृत्तिकाकार्यघटादेरपि व्यावहारिकसत्यत्वस्य त्वन्मतसिद्धतया मृत्तिकेत्येवकारेण ( अवधारणेन ) मृत्तिकाकार्यघटादे: व्यावहारिकसत्यता निषेधायोगेन वाचारंभणनामधेयपदोत्तरं मात्रपदयोजनेन तन्निषेधासंभवान्नेदमपि मात्रपदसंयोजनस्य ज्ञापकमिति ।

यदुक्तं आरम्भणशब्दादिभ्य इत्यादिशब्दात् " ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मतत्त्वमसि श्वेतकेतो " (छां, ६-८-८) इति वाक्यं जगतो ब्रह्मव्यतिरेकेणाभावे ( मिथ्यात्वे) प्रमाणमिति तदप्ययुक्तम् । अस्यां श्रुतौ जगतो

मिथ्यात्वबोधकपदाभावात् । न च तत्सत्यमिति परमकारणस्य ब्रह्मणः सत्यत्वकथनात् ब्रह्मातिरिक्तस्य जगतो मिथ्यात्वं = ब्रह्मव्यतिरेकेणाभावस्सिध्यतीति चाच्यम्। यतस्तत्सत्यमिति वाक्येन तद्रह्म सत्यमिति ब्रह्मणस्सत्यत्वसिद्धावपि न तु जगतो मिथ्यात्वं सिध्यति अवधारणाभावात् ( एवकाराभावात्) नहि वसिष्ठो ब्राह्मण इत्युक्ते गौतमत्याब्राह्मणत्वं सिध्यति । तथा च परमकारणस्यैकस्यैव सत्यत्वावधारणात् इति शङ्कराचार्योक्तिस्तामसजनमोहनमूला वा स्वमताग्रहमूला वेत्युपेक्षणीयैव सुधीभिः ।

' इदं सर्वं यदयमात्मा' ( बृ २/४/६ ) ' ब्रह्मैवेदं सर्वं (मुं. २-२- ११) ' आत्मैवेदं सर्वं (छां. ७-२५-२) 'नेह नानास्ति किंचन' (बृ, ५-४-१९ ) इत्यादिश्रुतीनां यथा जगतः ब्रह्मव्यतिरेकेणाभाववोथकत्वाभावस्तथा दर्शितः वाक्यान्वयाद्यधिकरणविचारावसरे इति नेह पुनर्विचार्यते ।

तथा एकविज्ञानेन सर्वविज्ञानं श्रुत्यादिषु नोक्तम् । न वा जगतो मिथ्यात्वसाधकमित्येतदपि पूर्ववाक्येषु बहुवारमुक्तं तत्रैव द्रष्टव्यम् । अतस्तेनापि न जगतो मिथ्यात्वसिद्धिरित्यलम् ।

" नन्वनेकात्मकं ब्रह्म यथा वृक्षोऽनेकशाख " इत्यादिना ब्रह्मण एकत्वं नानात्वं च सत्यमेवेति भेदाभेदवादिमतमनूद्य नैवं स्यादित्यादिना यत् तस्याप्युक्तत्वं वर्णितं तत्समीचीनमेव । परन्तु अयुक्ततावर्णनप्रकारस्स्वयुक्तः-तथाहि-

' मृत्तिकेत्येव सत्यम् ' इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् यदुक्तं तन्न युक्तम् अद्वैतिमते अधिष्ठानसत्तापेक्षया अभ्यस्तस्य न्यूनत्ताकत्वांगीकारेण पारमार्थिकसत्ताके ब्रह्मणि अभ्यस्तस्यैव व्यावहारिकसत्ताकत्वप्राप्तिः न तु व्यावहारिके आरोपितस्य व्यावहारिकसत्त्वप्राप्तिरिति घटस्य स्वकारणभूतायां मृदि आरोपितत्ववत् मृदोऽपि स्वकारणे व्यावहारिके आरोपितत्वात् अधिष्ठानभूतस्वकारणगतव्यावहारिकसत्तापक्षया न्यूनसत्ताकत्वं ( प्रातिभासिकसत्त्वं ) स्यात् न तु व्यावहारिकसत्वमिति । एवं तत्तत्कारणानामपीति प्रकृतिमात्रस्य ( कारणमात्रस्य मृदादे: ) सत्यत्वावधारणात् इत्युक्तेरसंगतत्वात् ।

न च मृदः ब्रह्मैव कारणं ब्रह्मण्यैवारोपितत्वमिति ब्रह्मसत्तापेक्षया न्यूनसत्ता ( व्यावहारिकी सत्ता ) मृद उपपद्यते इति वाच्यम् । तर्हि घटोऽपि ब्रह्मकारणक' ब्रह्मण्येवारोपित इति घटस्यापि मृद्वत् व्यावहारिकसत्यत्वमेव स्यात् इति मृद्घटयोः भिन्नसत्ताकत्वासिद्ध्या श्रुतौ मृदः सत्यत्वं घटस्य मिथ्यात्वमुच्यते इत्युक्तेरसङ्गतत्वापत्तेः ।

एतेन वाचरम्भणशब्देन च विकारजातस्यानृतत्वाभिधानादित्युक्तिरपि परास्ता ।

वाचारंभणव्दस्य वाग्जन्यव्यवहार विषयत्वार्थकत्वेन अनृतार्थकत्वाभावाच्च । न च वाचारंभणशब्दस्य पुरतः मात्रपदसंयोजने कृते वाचारंभणमात्रं वाग्जन्यव्यवहारविषयमात्रं न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति इति वाचा रंभणशब्देन विकारस्य मिथ्यात्वं सिध्यतीति वाच्यम् । यतः स्वचित्तप्रभवाः एवमादिकल्पना: अक्षरबाह्याः ( मेदाक्षराप्रतिपाद्या:) । नाक्षरबाह्यो वेदार्थः वेदार्थोपकारी वा. ( भवितुमर्हति ) इति (बृ. शां. भा. २-३-६) शाङ्करोक्त दिशा अविद्यमानमात्रपदसंयोजनेन कृतस्यार्थस्य वेदाक्षरबाह्यत्वात् (वेदाक्षराप्रतिपाद्यत्वात् ) वेदार्थत्वाभावात् । तथा च दृष्टान्तवाक्येन मृत्तिकादीनां सत्यत्वस्य घटादीनां मिथ्यात्वस्य चासिद्ध्या दाष्टन्तिकेऽपि ब्रह्मण एव सत्यत्वमन्येषां च मिथ्यात्वमिति न सिध्यति । तस्मात् ।

नच " दार्ष्ट्रान्तिकेऽपि 'ऐतदात्म्यमिदं सर्वं तत्सत्यं ' इति परमकारणस्यैकस्यैव सत्यत्वावधारणात् " * ब्रह्मण एव सत्यत्वमन्येषां मिथ्यात्वं सिध्यतीति वाच्यम् । तत्सत्यमित्यत्र परमकारणस्यैकस्यैव सत्यत्वावधारकैवकाराभावेन तदर्थस्य वेदाक्षरबाह्यत्वेन वेदार्थत्वाभावात्

स आत्मा तत्त्वमसि श्वेतकेतो ' इति च शारीरस्य ( जीवस्य ) ब्रह्मभावोपदेशात् संसारस्य मिथ्यात्वं. सत्यत्वे जीवब्रह्मणोरैक्यायोगात् ' इत्युक्तिरपि स्वव्याहत्याद्यनेकदोषयुता । तत्त्वमसीत्यादिवाक्येन निर्विषयकं ब्रह्मरूपं ज्ञानमेवाभिव्यज्यते तत्तु यत्किंचिद्विषयकं ज्ञानं जायते इति 'एकधैवानुद्रष्टव्यं एतदप्रमेयं ध्रुवम् ' (बृ. ४-४-२० ) इत्युपनिषच्छांकरभाष्ये, दशश्लोकीसिद्धान्तबिन्दुटीकायां चोक्तत्वेन अद्वैतमतरीत्या तत्वमसीतिवाक्येन बौधस्यैवानुपत्तेः ।

तुष्यत्विति न्यायेन तत्त्वमसीति वाक्यस्य बोधजनकत्वेंऽगीकृतेऽपि अखण्डार्थबोधकत्वांगीकारेण चित् इत्येतावद्बोधोत्पत्या तद्बोस्य शारीरत्य ब्रह्मभावाविषयकत्वात् न शारीरस्य ( जीवस्य ) ब्रह्मभावासद्धिः इत्यादि तत्त्वमस्यादिश्रुतिविचारप्रकरणोक्तानेकदोषयुक्तत्वात् ।

यदुक्तं " दर्शयति च-' यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् ' (बृ. ४-५-१५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफलक्षणस्य व्यवहारस्याभाव इति तदप्ययुक्तम् । यत्र त्वस्येति वाक्ये ब्रह्मात्मत्वदर्शिनः व्यवहाराभावस्याकथनात् । प्रत्युत क्रियाकारकफललक्षणसर्वव्यवहारस्यैवोक्ते:- जीवब्रह्मणोर्भेदस्यापि कथितत्वाच्च । तथाहि -पूर्वोत्तरवाक्यसहितं यत्र त्वस्येति वाक्यं त्वित्थम् -

" यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्नति-तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघेत् तत्केन कं रसयेत्तत्केन कमभिवदेत्त केन कंशृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत् । तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यते विज्ञातारमरे केन विजानीयात् " (बृ. ४-५-१५) इति । तस्यार्थः-

निर्विशेष चैतन्यभावमात्रस्य मुक्तस्य न विज्ञानादिकमस्तीति वदतां मायावादिनां मते अनिष्टं प्रसंगं वक्तुं तस्य व्याप्तिसापेक्षत्वात् व्यतिरेकव्याप्तिं तावदाह यत्र हीति ........

यत्र = यदा, द्वैतं भिन्नं वस्तु, भवति विद्यते, तत् = तदैव, इतरः, पुरुषः इतरं = गन्धं, जिघ्नति, तत् = तदा इतरः = पुरुषः, इतरं = घटं, पश्यति . 'तत् = तदा, इतरः पुरुषः इतरं विजानाति, " इति वाक्येन यदा द्वैतसद्भावः तदैव दर्शनादिभोगः इति वक्ष्यमाणतर्फे व्यतिरेकव्याप्तिमभिधाय तस्या हि-शब्देन प्रमाणप्रसिद्धतामुपदर्श्य प्रसंग ( तर्क ) माह-यत्र = यस्यामवस्थायां ( अविद्या निवृत्तिरूपायां मुक्तौ ) अस्य ज्ञानिनः सर्व कारणादिकं आत्मैवाभूत्=आत्मव्यतिरेकेण नाभूत, तत् तस्यामवस्थायां, केन = कारणेन, कं= विषयं = जिघ्नेत् ( गन्धादिज्ञानं न स्यात् एवमेव तत्तत्पदार्थविषयकज्ञानं न स्यात् ) येन परमात्मना इदं सर्व, विजानाति ( जीवः ) तं वक्ष्यमाणमूर्तामूर्त-विलक्षणत्वाशीर्यत्वादिगुणयुक्तं परमात्मानं, केन विजानीयात् स एष आत्मा इति न मूर्त न इति न अमूर्तं न अगृह्यः साकल्येन ज्ञानाविषयः हि= यस्मात् न गृह्यते प्रमाणेन, अशीर्यः = अनाश्यः हि = यस्मात् न शीर्यते, असंगः=असंबन्धः हि यस्मात् न सज्ज्यते असित:- अबद्धः न व्यथते न रिष्यति इति तथा अरे. विज्ञातारं आत्मानं केन विजानीयात् इति ( गंधादिज्ञानं अशीर्यत्वादिगुणविशिष्टपरमात्मज्ञानं स्वात्मज्ञानं च न स्यात् तस्मात् गन्धादिज्ञानाभावस्य परमात्मज्ञानाभावस्य स्वात्मज्ञानाभावस्य चानिष्टत्वेन, (प्रमाणविरुद्धत्वेन) नांगीकार्यं गन्धादिज्ञानाभावपरमात्मज्ञानाभावस्वात्मज्ञानाभावादिकम् । अतः मुक्तौ आत्मातिरिक्तं किंचिदपि नास्तीति न वक्तव्यमिति । मोक्षे ज्ञानाभावाद्यंगीकर्त्रद्वैतमतं निराकरोतीयं श्रुतिरिति जगतः मिथ्यात्वविषये वा जीवस्य ब्रह्मात्मत्वदर्शने वा, दर्शने सति क्रियाकारकफललक्षणव्यवहाराभावे वा, विद्याविषये दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावे वा विद्यावस्थायां कर्तृत्वभोवतृत्व निवारणे वा प्रमाणं भवितुं नार्हतीति ।

स्वभाष्ये शङ्कराचार्यैः एतेषां विषये ' यत्र हि द्वैतमिव भवति ' यत्र त्वस्य सर्वमात्मैवाभूत् ' इति श्रुत्युदाहरणमयुक्तम्|

न च यदा भोजनं कृतं स्यात्तदा तृप्तिः स्यात् तृप्त्या नैव भाव्यम् अतो भोजनं न कर्तव्यम् इति अस्माकं तृप्तेरिष्टत्त्वेन यथा वक्तुं न शक्यते तथा विद्यावस्थायां ( मोक्ष ) गंधादिज्ञानाभावपरमात्मज्ञानाभावस्वज्ञानाभावादेः अस्माकं (अद्वैतिनां ) इष्टत्वेन मोक्षे आत्मातिरिक्तं किंचिन्न स्यात्तदा गन्धादिज्ञानं, येनेदं सर्वं विजानाति तस्य परमात्मनो ज्ञानं, स्वज्ञानं च न स्यात् । गन्धादिज्ञानाद्यभावो नैव युक्तः । अतस्तज्ज्ञानमात्मातिरिक्तमंगीकरणीयमिति वक्तुं न शक्यते । युष्मदीयतर्के अपाद्यस्यानिष्टत्वरूपांगाभावात् इति वाच्यम् । गन्धादिज्ञानाद्यभावरूपापाद्यस्य अनिष्टत्वेन गन्धादिज्ञानाभावो नांगीकार्यः । अत आत्मातिरिक्तं वस्त्वंगीकरणीयमिति वक्तुं शक्यत्वात् कथं गन्धादिज्ञानाभावस्यानिष्टत्वमिति चेत् । आपाद्यस्यानिष्टत्वं नाम प्रमाणविरुद्धत्वं ( प्रमाणगृहीताभावप्रतियोगित्वं ) न तु युष्मदनिष्टत्वम् । तञ्च प्रमाणविरुद्धत्वरूपमनिष्टत्वं मोक्षे धीनदज्ञानाभावस्य वर्तत एव ।

तथाहि - " अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते " ( छां- ८-२-६)

अथ यद्यन्नपान लोककामो भवति संकल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते " ( छां. ८-२-७ )

अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन संपन्नो महीयते ( ८-२-८)

अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते " ( छां. ८-२-९)

" यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते " ( छां. ८-२-१० )

स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते " ( ८-२-१ )

अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरस्समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते " ( ८-२-२ )

अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरस्समुत्तिष्ठन्ति तेन भ्रातृलोकेन संपन्नो महीयते " ( ८-२-३ )

अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारस्समुत्तिष्ठन्ति तेन स्वसृलोकेन संपन्नो महीयते " ८-२-४ )

अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते " छां. ८-३-५ )

एवमेवैष सम्प्रसादोऽस्माच्छंरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तम पुरुषः स तत्र पर्येति क्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा " इत्याद्यनेकैर्वेदवाक्यैर्मोक्षे गन्धमाल्यान्नपानगीतवादित्रस्त्रीपितृमातृभ्रानृस्वसृसख्यादीप्सितकामनावान् भवति सर्वस्यापि प्राप्तिर्भवति सर्वमनुभवति । पर्यटनजक्षणक्रीडनस्त्री कर्मकरमणयानकरणकगमनादिकं सर्वं करोति इति मोक्षे गन्धादिज्ञानस्य विद्यमानत्वबोधनेन प्रामाणिकत्वात् गन्धादि–ज्ञानाद्यभावः प्रमाणगृहीताभावप्रतियोगित्वरूपानिष्टत्ववानेवेति नांगीकार्यो हि गन्धादिज्ञानाभावः। अतस्तत्कारणीभूतानां आत्मातिरिक्तानां इन्द्रियादीनां विद्यावस्थायां मोक्षेऽपि स्वीकार्यत्वमेवेति इयं श्रुतिः मोक्षावस्थायामपि आत्मातिरिक्तवस्तु (द्वैत) सद्भावं गमयति । न च स तत्र पर्येति जक्षन् क्रीडन् रममाणः इति, स यदि पितृलोककामो भवति इत्यादिश्रुतयः संसारावस्थायां क्रीडादिकं वदन्ति न तु मोक्षे इति कथं गन्धादिज्ञानस्य क्रीडावत्त्वस्य च मोक्षे सत्त्वसिद्धिरिति वाच्यम् । मोक्ष एव गन्धादिज्ञानवत्त्वबोधनात् । तथाहि. ' तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति ' ( छां. ८-१-६ ) इति राजादिसेवाजनितो लोकः यथा क्षीयते यथा अग्निहोत्रादिपुण्यचितोपि लोकः स्वर्गादिः क्षीयते तथा आत्मानं = परमात्मानं, अननुविद्य = अज्ञात्वा, एतान् = परमात्मसम्बन्धिनः सत्यान् कामान् = सत्यकामादिगुणांश्च अज्ञात्वा गच्छन्ति । तेषां परमात्माज्ञानिनां परमात्मगुणाज्ञानिनां च सर्वेषु लोकेष्वकामचारो भवति । ये जनाः परमात्मानं ज्ञात्वा एतान् परमात्मसम्बन्धिनः सत्यकामत्वादींश्च ज्ञात्त्वा गच्छन्ति तेषां सत्यकामत्वादिगुणविशिष्टपरमात्मज्ञानिनां सर्वेषु लोकेषु कामचारो भवतीति अज्ञानिनां क्षयफलवत्त्वमुक्त्वा ज्ञानिनां मुक्तानामक्षयफलवत्त्वमुक्तम् । तदेवाक्षयफलवत्त्वं स यदि पितृलोककामो भवति संकल्पादेवास्य पितरस्समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयतेइत्याद्युत्तरवाक्ये । * य आत्मानं यथोक्तलक्षणं परमात्मानं साक्षात्कृतवान् वक्ष्यमाणब्रह्मचर्यादिसाधनसम्पन्नः सन् तत्स्थान् [ परमात्मस्थितान् ] सत्यान् कामान् साक्षात्कृतवान् स त्यक्तदेहः मुक्तः पितृलोककामः = पितृदर्शनकामो भवति । अस्य सत्यकामत्वादिगुविशिष्टपरमात्मापरोक्षज्ञानिनः सङ्कल्पादेव इच्छामात्रादेव पितरस्समुत्तिष्ठन्ति तेन इच्छितेन पितृलोकेन पितृदर्शनेन सम्पन्नः महीयते स्वावरैः पूज्यते वर्धते वा महिमानमनुभवति । एवं मातृलोककामः भ्रातृलोककामः स्वसृलोककामः सखिलोककामः गंधमाल्य लोककामः गीतवादित्रलोककामः स्त्रीलोककाम एवं यद्यत्कामः तेन तेन कामितेन सम्पन्नः महीयते स्वावरैः पूज्यते वर्धते वा महिमानमनुभवति इति विवृतमिति (६ शंकरभाष्यानुसार्यर्थोऽयम् । )

मोक्ष एव गंधमाल्यवादित्रादिज्ञानं तथा पितृमातृस्वसृसख्यादिज्ञानं भवतीति कथ्यते इति ।

एवं परं ज्योतिरुपसम्पद्येति वाक्यमपि परं ज्योतिरुपसंपद्य प्राप्य स्वरूपेणाविभूर्य [ प्राकृतदेहं परित्यज्य मुक्तो भूत्वा ] स मुक्तस्तत्र पर्येति जक्षन् क्रीडन् रममाणः इति मोक्षे जक्षणादीन् बोधयतीति मोक्ष एव क्रीडादिबोधनात् ।

शंकराचार्यैरपि स्वकृतब्रह्मसूत्रभाष्ये २ तथा बृहदारण्यकोपनिषद्भाष्ये ३ छान्दोग्यभाष्ये च स तत्र पर्येतीति वाक्यं स यदि पितृलोककामो भवतीति वाक्यं च मोक्षावस्थाप्रतिपादकमिति स्पष्टमुक्तम् । तथाहि तद्वाक्यानि-" परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते यः स किं परस्मादात्मनः पृथगेव भवत्युताविभागेनैवावतिष्ठत इति वीक्षायाम् ' स तत्र पर्येति । ( ८-१२-३ ) इत्यधिकरणाधिकर्तव्यनिर्देशात् ' ज्योतिरुपसम्पद्य ' [ छां. ८- १२-३ ] इति च कर्तृकर्मनिर्देशाद्भेदेनैवावस्थानमिति यस्य मतिस्तं व्युत्पादयत्यविभक्त एव परेणात्मना मुक्तोऽवतिष्ठते " ( ब्र. सू. ४-४.४ ) इति भाष्यवाक्येन मोक्षावस्थायां भेदेनैवावस्थानं बोधयतीत्युक्तम् । न चास्य शङ्करभाष्यस्य पूर्वपक्षवाक्यत्वात् कथं शंकराचार्यैरिदं वाक्यं मोक्षावस्थाप्रतिपादकमिति स्वीकृतमित्युच्यते इति वाच्यम् । सिद्धान्तेऽपि भेदनिर्देशस्तु अभेदेऽप्युपचर्यते इति वाक्येन स तत्र पर्येतीति वाक्यस्य मोक्षावस्थायां भेदप्रतिपादकत्वं स्वीकृत्य परं स्वमताग्रहेण मोक्षे भेदनिर्देशः औपचारिकतया नेय इत्युक्तम् ।

तथा अत एव च जक्षणादिसंकीर्तनमपि दुःखाभावमात्राभिप्रायं स्तुत्यर्थमात्मरतिरित्यादिवत् । न हि मुख्यान्येव रतिक्रीडामिथुनान्यात्मनि शक्यन्ते वर्णयितुं द्वितीयविषयत्वात्तेषाम् " ( ब्र. सू. शां. ४-४-६ ) इति वाक्येन स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वेत्यादिवाक्यं मोक्षे क्रीडनादिकं वक्तीति स्वीकृत्य अज्ञजनमोहनाय वा स्वमताभिनिवेशेन वा क्रीडनादेर्द्वितीयवस्तुसापेक्षत्वान्मोक्षे द्वितीयवस्तुनोऽभावात् भक्षणक्रीडादिकं दुःखाभावमात्रविषयतया योजनीयम् इत्युक्तत्वेन इदं वाक्यं मोक्षावस्थां प्रतिपादयतीत्यत्र न विवादोऽद्वैतिनाम् ।

मोक्षे आत्मातिरिक्तं द्वितीयं वस्तु विद्यते इति द्वैतिनः, न विद्यत इत्यद्वैतिनः । एतद्विचारस्यैव प्रक्रान्तत्वेन मोक्षे द्वितीयवस्तु नास्तीति सिद्धवत्कथनमनुपपन्नमेव । ' स यदि पितृलोककामो भवति ' ' सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ' ( तैं. २1१ ) इत्याद्यनेकश्रुत्यादिवाक्यैः मोक्षे द्वितीमवस्तुसिद्धेः । न चैतेषां वाक्यानां मोक्षपरत्वाभाव इति वाच्यम् । जक्षन् क्रीडन् रममाणः ' स यदि पितृलोककामो भवति ' सर्वान् कामान् समश्नुते इत्यादिश्रुतिभ्यो मोक्षे सुखं संवेद्यमिति ' (बृ. शां. भा. ३-९-८) इति भाष्यवाक्येन मोक्षे भक्षणक्रीडापितृदर्शनादिकं सिध्यति ' इत्युक्त्वा स्वमताग्रहेण मोक्षे ज्ञानकारणाभावेन ज्ञानं न संभवतीति कथयित्वा तर्हि ( भक्षणक्रीडापितृदर्शनाद्यनङ्गीकारे ) जक्षन् क्रीडन्नित्यादिश्रुतिविरोधोऽसंवेद्यत्वे इति चेत् इति वाक्येन मोक्षे जक्षणादिप्रतिपादकश्रुतिविरोधमाशंक्य " सर्वात्मैकत्वे यथा प्राप्तानुवादित्वात् मुक्तस्य सर्वात्माभावे सति यत्र क्वचिद्योगिषु देवेषु वा जक्षणादि प्राप्तं तद्यथा प्राप्तमेवानूद्यते तत् तस्यैव सर्वात्मभावादिति सर्वात्मभावमोक्षस्तुतये [ बृ. शां. ३-९] इति वाक्येन मुक्तस्य स्वतो जक्षणाद्यभावेऽपि सर्वात्मस्वरूपत्वातू ( संसारिभिरभेदात् ) ये योगिनो देवा वा अमुक्ता जक्षणक्रीडादिकं कुर्वन्ति तदभेदान्मुक्तस्य मुक्तोऽपि जक्षणक्रीडापितृदर्शनादिमानिति मोक्षस्तुतये कथ्यते इति समाधानमुक्तं शंकराचार्यैः । एवं च जक्षन् क्रीडन् रममाण इति श्रुतिः मोक्षे मुक्तस्य जक्षणक्रीडापितृदर्शनादिकं कथयतीत्यत्र विवादाभावोऽद्वैतिनाम् । परंतु यदुक्तं योगिभिर्देवैर्वा अभेदान्मुक्तस्य, देवादिकर्तृकजक्षणादिकं मुक्तस्य कथ्यते इति तदसंगतम् । अद्वैतमतविरुद्धत्वात् । तथाहि मुक्तस्य सर्वात्मभावो नाम सर्वैर्विशिष्टैर्योगिभिर्देवैर्वा अभेदो वा शुद्धैर्वा । नाद्यः विशिष्टैर्योगिभिर्देवैर्वा अद्वैतिनां मते मुक्तेन ऐक्यानंगीकारात् । न द्वितीयः । शुद्धानां देवानां योगिनां वा क्रीडाद्यभावेन तदभिन्नस्य जक्षणक्रीडादिकथनमद्वैतमतविरुद्धम् । किंच संसारे विद्यमानं जक्षणक्रीडादिकं अद्वैतमते इष्टं वा दुष्टं वा । इष्टं चेन्मोक्षे इष्टक्रीडाद्यभावेन इष्टविघातकत्वान्मोक्षो नापेक्षणीयः स्यात् । दुष्टत्वे मोक्षे देवादिनिष्टदुष्टजक्षणादिप्रापकदेवादितादात्म्यस्यानिष्टत्वेन मोक्षस्तुतिर्नस्यात्, प्रत्युत निन्दैव स्यात् । अतोऽनिष्टं देवादिनिष्ठजक्षणादिकम् । मुक्तस्य सर्वात्मभावात् अनूद्यते मोक्षस्तुतये इत्युक्तिरयुक्तैव ।

किंच मुक्तस्य सर्वात्मभावे सति यत्र काचिद्योगिषु देवेषु वा जणक्षादि प्राप्तं तद्यथाप्राप्तमेवानूद्यते तत् तस्यैव सर्वात्मभावादिति सर्वात्मभावमोक्षस्तुत ये ( वृ. शां. भा. ३-९) इति शंकराचार्योक्तिरयुक्तैव ।

" यथाप्राप्तानुवादित्वे दुःखित्वमपीति चेत् योग्यादिषु यथाप्राप्तजक्षणादिवत् स्थावरादिषु यथाप्राप्तदुःखित्वमपीति चेत् ” (बृ. शां. भा. ३--९) इति शंकराचार्योक्तदिशैव संसारिणो ये ये दोषाः दुःखादयस्तेषां सर्वेषां मोक्षे मुक्तस्य प्राप्त्या स्वस्वकृतदुष्टकर्मजन्यदुःखादि यत्किंचिदनिष्टयुक्तसंसारापेक्षया मोक्षे सर्वकृतदुष्टकर्मप्रयोज्यदुःखादिसर्वानिष्टप्रसंगेन मोक्षस्यात्यन्तहेयत्वप्राप्तेः । तथा च मोक्षः कैरपि नापेक्ष्यो भवेदिति मोक्षे संसारिनिष्ठभक्षणादिकं सर्वात्मभावनिमित्तं तिष्ठतीत्युक्तिरसंगतैव ।

न च स्थावरनिष्ठदुःखित्वादीनां मिथ्यात्वात् न मुक्तस्य वस्तुतो दुःखित्वमिति वाच्यम् । योगिदेवनिष्ठजक्षणक्रीडानंदादीनामपि मिथ्यात्वेन मुक्तस्य मोक्ष अवक्तव्यत्वात् । " मिथ्याभूतस्यापि योगिनिष्टजक्षणक्रीडास्त्रीरमणादेः इष्टत्वेन मोक्षस्तुतये मुक्तस्य वर्ण्यत्वे दुःखादेस्तु अनिष्टत्वेन मोक्षस्यातिहीनत्वप्राप्तेः न मोक्षे वर्ण्यते " इति आनंदगिर्युक्तिरप्ययुक्तैव । संसारिगतदुःखादेरिव संसारिगतजक्षणस्त्रीरमणादेः तज्जन्यसुखस्यापि हेयत्वेन तत्कथनेन मोक्षवर्णनायोगात् संसारसुखस्य हेयत्वाभावे मोक्षार्थं कोऽपि न यतेतेति पूर्वोक्तदोषात् ।

तथा च मोक्षे गन्धादिज्ञानस्य परमात्मज्ञानस्य स्वज्ञानस्य च प्रामाणिकत्वेन प्रामाणिकपरित्यागस्यानिष्टत्वेन मोक्षे गन्धादिज्ञानार्थं तत्कारणभूतानामात्मातिरिक्तानामंगीकार्यत्वेन विद्यावस्थायामात्मातिरिक्तं नास्तीत्यद्वैतिभिरुक्तमयुक्तमेवेति यत्र त्विति वाक्यं जीवब्रह्मणोर्भेदं जगतः सत्यत्वमेव बोधयति ।

अद्वैतिभिरपि ब्रह्मविद्याभरणकारै: 'विज्ञातारमरे केन विजानीया' दित्यतः पूर्ववाक्ये ' येनेदं सर्वं विजानाति तं केन विजानीयात्' इति जीवात् भिन्नतया परमेश्वरः किमर्थं प्रतिपाद्यते येनेश्वरेण जीवः इदं सर्वं विजानाति तं परमेश्वरं केन विजानीयात् इति तदर्थः । तस्मादिदं वाक्यं अत्यंताभेदवादिनोऽ( अद्वैतिनोऽ )ननुगुणमिति ( ब्र. सू. १।४।२२ ) इति ब्रह्मसूत्रशांकरभाष्यव्याख्यावसरे यत्र त्वस्येति श्रुतिः जीवब्रह्मणोर्भेदबोधिकेत्युक्तम् ।

तथा अपेयदीक्षितैरपि न्यायरक्षामणौ-" एवं जीवे परमात्मनि च प्राक् प्रस्तुतेंऽगीकृते ' येनेदं सर्वं विजानाति तं च केन विजानीयात् ' इत्युपसंहारवाक्यं येनेति तृतीयांतस्य परामर्शनीयं परमात्मानं विजानातेः कर्तारं जीवं चासाद्य समंजस भवति । जीवस्य ब्रह्माभेदेन प्रस्तुतत्वांगीकारे तु येनेति तृतीया प्रथमार्थेयोजनीयेति क्लेशः स्यात् ' इत्यादिवाक्येन जीवब्रह्मणोर्भेदबोधिकेत्युक्तमिति नैतद्वाक्यं जीवब्रह्मणोरैक्यविषये उदाहरणीयं नापि जगतः मिथ्यात्वविषये ।

न च उभाभ्यां अद्वैतिभ्यां पूर्वपक्षतया उक्तं वाक्यं संगृह्य येनेति वाक्यं जीवब्रह्मणोर्भेदं बोधयतीति द्वैतिनां कथनमयुक्तम् । सिद्धान्ते अपेयदीक्षितैः एवमादौ मध्ये च जीवपरामर्शस्य जीवविषयत्वमंगीकृत्यैव भेदपक्षे तदुपपादनस्य कर्तुं शक्यत्वेऽपि तस्य ब्रह्मविषयत्वं सिद्धं कृत्वा यत्तदुपपादनाय यत्नमास्थितवान् सूत्रकारः तेन ज्ञायते जीवपरयोरभेद एवास्य सिद्धान्तः । 'येनेदं सर्वं विजनाति ' इत्यस्य योजनाक्लेशोऽपि अद्वैतिप्रस्तावानुरोधार्थत्वान्न दोषायेत्याशय" इति वाक्येन । एवमेव ब्रह्मविद्याभरणकारैरपि ' येनेति तृतीया प्रथमार्थे भविष्यति इति वाक्येन च येनेति पदस्य य इति प्रथमान्तत्वं स्वीकृत्य ' येनेदं सर्वं विजानाति ' इत्यस्य यः = जीवः इदं सर्वं विजानाति तं जीवं केन विजानीयात् इति येनेति पदेन जीव एव ज्ञानकर्तृतया बोध्यते, न तु ब्रह्म जीवकर्तृकज्ञानकरणतयेति । अस्य वाक्यस्य यथा अभेदाविरुद्धता तथा अर्थस्य कथितत्वात् इति वाच्यम् । अभेदाविरुद्धतया अर्थकथनस्यासंभवात् । ताभ्यामेवाभेदाविरुद्धतया योजनस्य क्लेशकरत्वं भेदपरतया योजने क्लेशाभावः( समंजसः) इति तथा अर्थकथनस्य अयुक्तताया वर्णनाच्च । तथार्थकथनस्यासंभवस्त्वित्थम् । यत्र वा सर्वमात्मैवाभूत् तत् केन कं जित् केन कं पश्येत् तत्केन कं विजानीयात् । येनेदं सर्वं विजनाति । तं च केन विजानीयात् । य एष नेति नेत्यात्मा गृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसंगो न हि सज्यते असितो न व्यथते न रिष्यति । विज्ञातारमरे केन विजानीयात् " (बृ. ४-५-१५) इति वाक्यम् । तस्य चाद्वैतिमतरीत्या अर्थः ।

अविद्यायामेव सत्यां क्रियाकारकफलव्यवहारो न ब्रह्मविदः । यत्र = यस्यां विद्यावस्थायां सर्वं आत्मैवाभूत् आत्मव्यतिरिक्तं नास्ति, तत् = तदा, केन = घ्राणेन्द्रियेण, कं = गंधं जिध्रेत्, केन चक्षुषा कं = रूपादिकं पश्येत् केन = श्रोत्रेन्द्रियेण, कं = शब्दं शृणुयात् ' इति गंधादिज्ञानानि निषिध्य इतरज्ञाननिषेधार्थं प्रवृत्तं येनेदं सर्वं विजनाति तं केन विजानीयात्... विज्ञातारमरे केन विजानीयात् ' इत्युत्तरवाक्यं तस्य च येनेतिपदं प्रथमांततया विपरिणम्य यः = जीवः इदं सर्वं विजानाति तं जीवं केन विजानीयात् विज्ञातारं = जीवं केन विजानीयात् इति । स चार्थोऽसंभावितः । तथा हि येनेदं सर्वं विजानाति तं केन विजानीयात् विज्ञातारमरे केन विजानीयात् इति वाक्ययोर्मध्ये ' .....एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसंगो न सज्ज्यतेऽसिता न व्यथते न रिष्यति' इति वाक्यमस्ति । तथा च येनेदं सर्वं विजानाति तं च केन विजानीयात् स एष नेति नेत्यात्मा गृह्यो न हि गृह्यतेऽ शीर्यो नहि शीर्यतेऽसंगो नहि सज्जतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजानीयादिति समग्रं वाक्यं तत्र स एष नेति नेति आत्मा अगृह्यो नहि गृह्यतेऽशीयों नहि शीर्यतेऽसंगो नहि सज्यतेऽसितो न व्यथते न रिष्यति इति वाक्यस्य तु सः एषः आत्मा परं ब्रह्म नेति नेति=सर्वधर्मरहितः अगृह्यः ज्ञानाविषयः हि यस्मात् न गृह्यते अशीर्यः हि यस्मात् न शीर्यते असंगः न हि सज्ज्यते तथा असितः अबाह्यः न व्यथते न रिष्यति हिंसां नापद्यते इति अद्वैतमतरीत्याऽर्थः । तथा च ' स एष नेति नेति' इति वाक्यस्याभ्यां स एष इति पदाभ्यां परब्रह्मैव ग्राह्यं न जीवः तस्य नेति नेतीत्यादिवाक्योक्तसर्वधर्मनिषेधादीनामयोगात् । एकवाक्यघटकयत्तच्छन्दयोः एकार्थकत्वेन स एष नेति इति वाक्योक्तेन स इति शब्देन परब्रह्मणः ग्रहणे यच्छब्देन परमात्मन एव ग्रहणं कर्तव्यम् । अत एव ब्रह्मविद्याभरणकारैः अपेयदीक्षितैरपि येनेति यच्छब्देन परमात्मग्रहणं स्वरसमित्युक्तम् । एवं च येन परमात्मना इदं सर्वं विजानाति तं परमात्मानं केन विजानीयात् इति भेदानुकूलार्थ एव स्वीकार्ये नतु येनेति पदस्य यः इति विभक्तिविपरिणामं कृत्वा यः जीव इत्यर्थः न स्वीकार्यः । उत्तरवाक्यस्थेन स इति शब्देन जीवस्यैव ग्रहणापत्त्या तस्मिन् नेति नेत्याद्युक्तसर्वधर्मनिषेधायोगात् । विभक्तिविपरिणामादिक्लेशकरत्वात् । येनेति वाक्यस्य जीवज्ञाननिषेधकत्वे स्वीकृते विज्ञातारमरे केन विजानीयात् इत्यस्यापि जीवज्ञाननिषेधकत्वस्य वक्तव्यतया पौनरुक्त्यापाताच्च । न चाद्वैतप्रस्तावानुरोधित्वात् अगतिकागतिकतया पौनरुक्त्यं विभक्तिविपरिणामादिक्लेशोऽपि सह्य इति वाच्यम् । अस्यामुपनिषदि अन्यत्र कुत्रापि वा अद्वैतप्रस्तावस्याभावात् ।

तथा च येनेदं सर्वं विजानाति तं केन विजानीयात् इति वाक्यं येन परमात्मना इदं सर्वं विजानाति जीवः तं परमात्मानं केन विजानीयात् इति एकज्ञानक्रियायां परमात्मनः करणत्वत्य जीवस्य कर्तृत्वस्य बोधकतया विज्ञातारं स्वात्मानं ( जीवं ) केन विजानीयादिति पृथगुक्त्या च जीवस्य परमात्मना भेदबोधकमेव ।

अभेदवादिनामद्वैतिनामननुगुणं ( विरुद्धमेव ) इदं वाक्यं इति ब्रह्मविद्याभरणकारैरपेयदीक्षितैरुक्तं युक्तमेवेति ।

विज्ञातारमरे केन विजानीयादिति वाक्यं मोक्षेऽपि जीवस्य विज्ञातारमिति पदेन विज्ञातृत्वं ( ज्ञानकर्तृत्वं ज्ञानाश्रयत्वं ) वक्तीति मोक्षे जीवस्य ज्ञानमंगीकरणीयमेव । न च विज्ञातारमिति पदेन जीवस्य भूतपूर्वगत्या विज्ञानकर्तृत्वमुच्यते न तु मोक्षे इति शंकराचार्यैः स्वभाष्ये उक्तमिति वाच्यम् । शंकराचार्यैस्तथा उक्तत्वेऽपि विज्ञातारमिति पदेन तथा अप्रतीत्या शब्दार्थत्वाभावेन स्वमताभिनिवेशमूलकत्वेन च उपेक्षणीयत्वात् ।

शङ्कराचार्य-आनंदगिरि-वार्तिककार सुरेश्वरादिभिः यत्र त्वस्य सर्वमात्मैवाभूदिति वाक्यस्य पूर्वं विद्यमानं यत्र हि द्वैतमिव भवति इति वाक्यं द्वैतप्रपंचस्य पारमार्थिकत्वं बोधयतीत्युक्तं च । विशेषविचारः बाक्यान्वयाधिकरणे कृतः तत्रैवानुसन्धेयः । तथा च ' दर्शयति च ' ' यत्र त्वस्य सर्वमात्मैवाभूत् ' 'तत्केन' कं पश्येत्' (बृ. ४/५/१५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारक फललक्षणस्य व्यवहारस्याभावं, न चायं व्यवहाराभावोऽवस्थाविशेषनिबद्धोऽभिवीयत इति युक्तम् । तत्त्वमसीति ब्रह्मात्मभावस्यानवस्थाविशेषनिबंधनत्वादिति शङ्करोक्तिरयुक्तैव । यत्र त्वस्येति वाक्ये ब्रह्मात्मत्वदर्शी जीवब्रह्माभेदे नोक्तः ज्ञानी । तस्य क्रियाकारक फललक्षणव्यवहाराभावोपि नोक्तः ।

क्रियाकारकफललक्षणव्यवहाराभावस्यानुक्तत्वेन तस्य व्यवहाराभावस्य अवस्थाविशेषनिवद्धत्वशंका सुदूरमपास्ता । 'तत्त्वमसि' इति वाक्यं बोधमेव न जनयति इत्यद्वैतिभिरुक्तत्वेन तुष्यत्वितिन्यायेन बोधजनकत्वांगीकारेऽपि चित् इति चिद्विषयकाभेदाद्य विषय कबोधजनकत्वस्याद्वैतसिध्यादिग्रंथकृद्भिः स्वीकृतत्वेन च तेन वाक्येन ब्रह्मात्मत्व ( जीवब्रह्माभेद ) प्रतीतेरेवाजननेन " ब्रह्मात्मभावस्य अनवस्थाविशेषनिबंधनत्वा" दित्युक्तिरप्ययुक्तैवेति ।

'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' (बृ. ४-४-१९ ) इति च भेददृष्टिमपवदन्नेवैतद्दर्शयति इत्युक्तिरप्यसंगतैव । अस्याः श्रुतेर्भेददृष्ट्यपवादकत्वाभावात् । इति पूर्वमेव दर्शितम् ।

यदप्युक्तम् ' न चास्मिन् दर्शने ज्ञानान्मोक्ष उपपद्यते .... सम्यग्ज्ञानापनोद्यस्य कस्य चिन्मिथ्याज्ञानस्य संसारकारणत्वेनावगमात् ' इति तदपि तुच्छम् ।

संसारस्य मिथ्याज्ञानकल्पितत्वेऽपि कथं ज्ञानेन निवृत्तिः ( संसारः अज्ञानकल्पितो भूयात् । तथापि कथं ज्ञानेन निवृत्तिः ) इति शंकायां यथा ज्ञानस्य विरोध्यज्ञाननिवर्तकत्वस्वाभाव्यात् ज्ञानेनाज्ञाननिवृत्तौ अज्ञानकल्पितः संसारोऽपि निवर्तते इति उच्यते अद्वैतिना-तथा ' सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्त्यां व्यपोहति, इत्यादिप्रमाणेन अवगतब्रह्महत्या निवर्तकत्वस्वभाववतो सेतुदर्शनादेः सत्यभूतस्य ( सेत्वज्ञाना- कल्पितस्य ) अपि ब्रह्महत्यादेर्निवर्तकत्ववत् सत्यभूतस्यापि प्रकृतिबंधस्य निवृत्तेः । ' पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ' इति श्रुत्याऽवगतबंधनिवर्तकत्वस्वभाववता प्रेरकत्वभिन्नत्वादिना ज्ञातेन परमात्मना उपपत्तेः । किञ्च अद्वैतमत एव त्रैकालिकनिषेधप्रतियोगिनः ( कालत्रयेऽप्यसतः) बन्धस्य संसारस्य निवृत्तिः [ ज्ञानानन्तरकालीनः अभावरूपो ध्वंसः ] नेवोपपद्यते । ( कदाचिद्विद्यमानस्यैव ध्वंसः ) न हि कदाप्यविद्यमानस्य शशविषाणादेर्ध्वंसः ।

" न विरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्नवै मुक्तः इत्येषा परमार्थता " इति गौडपादकारिकायां तथा " न निरोधः निरोधनं निरोधः प्रलयः ( नाशः ) उत्पत्तिर्जननं बद्धः संसारी जीवः साधकः मुमुक्षुः मोचनार्थी मुक्तः विमुक्तबंध: : उत्पत्तिप्रलययोरभावात् । बद्धादयो न सन्ति कथमुत्पत्ति- प्रलययोरभावः इति उच्यते द्वैतस्यासत्त्वात् "सतो हयुत्पत्तिः प्रलयो वा स्यात् नासतः शशविषाणादेः " इति तद्व्याख्यानशङ्करभाष्ये च बन्धादीनामसत्त्वात् बन्धध्वंसादीनामभाव एवोक्तः इति न तु बन्धस्य सत्यत्ववादिद्वैतमते परमात्मज्ञानातू प्रसादद्वारा मोक्षः न ( बंधध्वंसः ) संभवति इति श्रुत्यादिप्रमाणसिद्धत्वात् ।

एतेन उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यते इत्युच्यते इत्युक्तिरपि परास्ता । असत्यस्य बन्धस्य शशविषाणादिवत् ध्वंसासंभवस्याद्वैतिभिरेवोक्तत्वेन सत्यस्यैव ध्वंस इत्यंगीकार्यत्वात् ।

नन्वेकत्वैकान्ताभ्युपगमे (१) नानात्वाभावात् प्रत्यक्षादिलौकिकानि प्रमाणानि व्याहन्येरन्निर्विषयत्वात् स्थाण्वादिष्विव पुरुषादिज्ञानानि (२) तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात् तदभावे व्याहन्येत (३) मोक्षशास्त्रस्यापि शिष्यशासित्रादि भेदापेक्षत्वात् तदभावे व्याघातः स्यात् ( ४ ) कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्यते इति वाक्येन ब्रह्मातिरिक्तद्वितीयवस्त्वनंगीकारे अबाधितासंदिग्धविज्ञानसाधनत्वरूपप्रमाणलक्षणाभावात् सर्वेषामप्रामाण्यं प्रसज्यते इति यदुक्तं शंकराचार्यैः तत्सत्यमेव । 'तमेवं विद्वानमृत इह भवति' इत्यादिमोक्षशास्त्रमपि परमात्मज्ञानं मोक्षसाधनमिति बोधकं शिष्यशासितृज्ञेयज्ञानमोक्षादिद्वितीयवस्तुसापेक्षमप्रमाणं प्रसज्येत । ज्योतिष्टोमेन स्वर्गकामो यजेत इति विधिशास्त्रं यागस्वर्गयागोद्देश्यदेवतायागकर्त्रा दिभेदसापेक्षमप्रमाणं च प्रसज्येत । ' न सुरां पिबेत् ' ' न परदारान् गच्छेत् ' इत्यादिनिषेधशास्त्राण्यपि अप्रमाणानि प्रसज्येरन् । कथं चानृतेन ( नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगिरूपमिथ्याभूतेन = कदाप्यसता ) आत्मैकत्वप्रतिपत्तिः स्यात् । आत्मैकत्वप्रतिपत्तेरेवाभावे अप्रतिपद्यमानस्य आत्मैकत्वस्य सत्यत्वं वा कथं स्यात् इत्यादयो दोषा अद्वैतिमते वज्रलेपायिता एव. [ दुष्परिहरा एव ]

एतद्दोषपरिहारार्थं यदुक्तं शङ्कराचार्यै:-

अत्रोच्यते नैषदोषः सर्वव्यवहाराणां प्राक् ब्रह्मात्मताविज्ञानात् । सत्यत्वोपपत्तेः । स्वप्नव्यवहारस्येव प्राक् प्रबोधात् । यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते विकारानेव त्वहं ममेत्यविद्ययात्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते । स्वाभाविकीं ब्रह्मात्मतां हित्वा तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान् भावान् पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक् प्रबोधात्, न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत्इति तदत्यन्तमयुक्तम् । अनेकदोषयुक्तत्वात् तथाहि--

सर्वव्यवहाराणां नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वं वदतामद्वैतिनां मते प्राग्ब्रह्मात्मताविज्ञानात् सत्यत्वकथनमयुक्तम् । नासीदिति पूर्वकाले सत्त्वं निषिध्य ब्रह्मात्मताविज्ञानात् पूर्वकाले सत्त्वोक्तः व्याहतत्वात् ।

स्वामव्यवहारस्येव प्राकू प्रबोधादित्युक्तिरप्ययुक्तैव । दृष्टान्तासंमते: स्वाप्नपदार्थानांस हि कर्ता " इत्यादिश्रुतिभिः ईश्वरकर्तृत्वोक्तेः सत्यत्वात् ।

शङ्कराचार्याः स्वकृतग्रन्थेस्वप्नव्यवहारस्येव प्राक् प्रबोधात् स्वप्नवन्मिथ्या" इत्यादिवाक्येन स्वप्नपदार्थानां मिथ्यात्वं प्रतिक्षणमाहुः तत्र तत्र सत्साधना भासांश्च प्रदर्शयामासुः अतः स्वाप्नपदार्थानां मिथ्यात्वे ये युक्त्याभासाः प्रदर्शिताः तेषां आभासतां प्रदर्श्य स्वाप्नपदार्थानां सत्यतां प्रमाणेन प्रदर्शयिष्यामः । तथाहि " संध्ये सृष्टिराह हि (ब्रह्म. सू. ३ । २ । १ )

स यत्र प्रस्वपिति (बृ. ४ । ३ । ९) इत्युपक्रम्य न तत्र रथा रथयोगा न पन्थानो भवन्ति अथ रथान् रथयोगान् पथः सृजते (बृ. ४ । ३ । १० ) इत्यादि तत्र संशयः किं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिः आहोस्विन्मायामयीति तत्र तावत्प्रतिपद्यते संध्ये तथ्यरूपा सृष्टिरिति तस्मिन् संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति कुतः यतः प्रमाणभूता श्रुतिरेवमाह ' अथ रथान् रथयोगान् पथःसृजते (बृ. ४।३।१० ) इत्यादि सहिकर्तेति चोपसंहारात् एवमेवावगम्यते (१) इति वाक्येन. ।

अपि चैके शाखिनः अस्मिन्नेव संध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति ' य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः (क. ५-८) इति पुत्रादयश्चात्र कामा अभियंते ज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः प्राज्ञस्य हि इदं प्रकरणम् ।' अन्यत्र धर्मादन्यत्राधर्मात् ' (क. २1१४) इत्यादि तद्विषय एव च वाक्यशेषोऽपि । " तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ” (क. ५/८) इति प्राज्ञकर्तृका च सृष्टिः तथ्यरूपा समधिगता जागरिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति ... तस्मात्तथ्यरूपैव संध्ये सृष्टिरिति वाक्येन च श्रुत्यादिप्रमाणानुकूलं संध्ये सृष्टिराह हि निर्मातारं चैके पुत्रादयश्चेति सूत्राभ्यामुक्तं स्वाप्नपदार्थस्य पारमार्थिकसत्य त्वरूपं अर्थं पूर्वपक्षत्वेन स्वीकृत्य ' मायामात्रं तु कात्स्र्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ' ( ब्र. सू. ३-२-३ ) इति सूत्रं सिद्धांतसूत्रमिति मत्वा तस्येत्यं व्याख्यां चक्रुः शङ्कराचार्याः । तु शब्दः पूर्वपक्षं व्यावर्तयति । नैतदस्ति यदुक्तं संध्येसृष्टि: पारमार्थिकीति, मायैव संध्ये सृष्टिः न परमार्थगंधोप्यस्ति । कुतः कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । नहि कात्स्न्र्त्स्न्येन=परमार्थवस्तुधर्मेण अभिव्यक्तः स्वप्नः कार्यं नाम ( १ ) देशसम्पत्तिः (२) कालसंपत्तिः (३) निमित्तसंपत्तिः ( ४ ) अबाधश्च । न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वमे संभाव्यन्ते तथाहि-

१) न तावत् स्वप्ने रथादीनामुचितो देशस्संभवति न हि संवृते देशे रथादयोऽवकाशं लभेरन् ।

(२) कालसम्पत्तिरपि नास्ति कालविसंवादोऽपि स्वप्ने भवति । रजन्यां सुप्तो वासरं भारते वर्षे मन्यते । तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचिद्बहुवर्षपूगानतिवाहयति ।

(३) निमित्तानि च स्वप्नपदार्थज्ञानकारणानि स्वाप्नपदार्थ निर्माणकारणानि चेति द्विविधानि न तानि द्विविधान्यपि निमित्तानि उचितानि विद्यन्ते ।

( १ ) करणोपसंहाराद्धि नास्य स्वाप्नपदार्थरथादिज्ञानकारणानि चक्षुरादीनि सन्ति ।

(२) स्वाप्नपदार्थ निर्माणकारणमपि घटस्य कुलाल इव निमित्तकारणं मृदिव उपादानकारणं चेति द्विविधम् । उभयमपि स्वप्नपदार्थनिर्माणकारणं नास्ति ।

(१) निमेषमात्रेण रथादिनिवर्तने कुतोऽस्य ( स्वप्नद्रष्टुः ) सामर्थ्यमिति निमित्तकारणाभावः ।.

(२) रथादिनिर्माण उपादानकारणानि दारूणि न सन्ति इत्युपादानकारणाभावः ।

( ३ ) एवं स्वाप्नपदार्थज्ञानकारणचक्षुराद्यभावात् निमित्तकारणस्य स्वानपदार्थसर्जनसमर्थस्य चाभावात् उपादानकारणदारूणामभावात् स्वप्ने न बुद्धये कर्मणे वोचितानि विद्यन्ते ।

४ ) बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे इति स्वप्नदृष्टस्य प्रबोधकाले बाधः । स्वप्ने एव चैते सुलभबाधा भवन्ति । रथोऽयमिति हि कदाचित् स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः ।

स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रं (श्रुतिः ) ' न तत्र रथा न रथयोगा न पन्थानो भवंति, (बृ. ४-३-१० ) इत्यादि । तस्मात् (१) स्वाप्नरथादीनामुचितदेशाभावात् (२) उचितकालाभावात् (३) ज्ञानकारणचक्षुरादीनामुपरतत्वेन स्वाप्नपदार्थज्ञानकारणाभावात् (४) निमेषमात्रेण स्वप्नपदार्थसर्जनसमर्थपुरुषाभावात् (५) स्वाप्नपदार्थोपादानकारणदार्वभावात् (काष्टाभावात् ) [६] प्रबोधकाले स्वप्नपदार्थानां प्रत्यक्षवाधितत्वात् स्वप्नकालेऽपि बाधितत्वाच्च श्रुतिबाधितत्वाच्च ।

स्वानदर्शनं मायामात्रं मिथ्या तस्मात् स्वाप्नपदार्थस्य सत्यत्वं नांगीकाराहमिति यच्छंकराचार्यैरुक्तं तदयुक्तम् । स्वाप्नपदार्थस्य मिथ्यात्वबोधनपरतया शङ्कराचार्यकृतस्य मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति सूत्रव्याख्यानस्य दुष्टत्वात् । तथाहि-

न तत्र रथा. न रथयोगा न पंथानो भवन्ति (बृ. ४-३ - १० ) इत्यादि-शास्त्रं स्वाप्नपदार्थानां रथादीनां स्वप्ने अभावं (बाधं ) बोधयतीति यदुक्तं तत्तावदयुक्तम् । पदार्थस्य बाधो नाम नास्ति नासीन्न भविष्यतीति बोध्यमान- त्रैकालिकनिषेधप्रतियोगित्वम् । स च दाप्यस एव संभवति । न पूर्वकालमात्रे असतः (प्रागभावप्रतियोगिनः ) संभवति । विवाहानंतरं जातानां पुत्राणां विवाहात्पूर्वमसतां प्रागभावप्रतियोगिनां पश्चाच्च भवतां इमे पुत्रा बाधिता इति व्यवहाराभावात् एवं जातानां पुत्राणां नाशानंतरमुत्तरकाले असत्त्वमात्रेण बाधितत्वव्यवहाराभावात् । तथाच ' न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान् रथयोगान् पथः सृजते न तत्रांनंदा मुदः प्रमुदो भवन्ति अथानंदान मुदः प्रमुदः सृजते न तत्र वेशांताः पुष्करिण्यः स्त्रवन्त्यो भवन्ति अथ वेशांतान् पुष्करिणीः स्रवन्तीः सृजते सहि कर्ता (बृ. ४-३ - १० ) इति श्रुतिः तत्र = तस्मिन् प्रदेशे, रथाः स्थयोजका अश्वाः मार्गाश्च स्वप्नात् पूर्वं न भवन्ति अविद्यमानाः अथ अनन्तरं ( स्वप्नकाले रथान् अश्वादीन् मार्गांश्च सृजते ईश्वरः इति तत्र आनंदा: सुखविशेषाः मुदः पुत्रादिलाभनिमित्ताः हर्षाः प्रमुदः = प्रकर्षोपेता हर्षा न भवन्ति । अथ अनन्तरं स्वप्नकाले आनंदाः मुदः प्रमुदः सृजते सृष्टिं करोति ईश्वरः तत्र वेशांताः पल्वलाः पुष्करिण्यः तडागाः स्नवन्त्यः नद्यः न भवन्ति अथ अनन्तरं ( स्वप्नकाले ) पल्वलान् पुष्करिणीर्नदीः सृजते ईश्वरः स हि यस्मात् कारणात् कर्ता = सर्वकर्ता तस्मात् इति अथपदेन स्वप्नात्पूर्वं रथादीनामभावं (प्रागभावं ) उक्त्वा स्वप्नकाले रथादीन् सृजते ईश्वरः इति स्वप्नकाले रथादीनामीश्वरसृष्टत्वेन सत्त्वं वक्तीति न तत्र रथा.... अथ रथान् रथयोगान् सृजते इति श्रुतिः स्वाप्नरथादीनां नास्ति नासीन्न भविष्यति इति बोध्यमानत्रैकालिक निषेधप्रतियोगित्वरूपमसत्त्वापरपर्यायं मिथ्यात्वं न वक्तीति नानया श्रुत्या स्वापदार्थस्य मिथ्यात्वसिद्धिः ।

॥ इति स्वाप्नपदार्थस्य मिथ्यात्वे शंकराचार्योक्तश्रुतिबाध्यत्वहेतुनिराकारणम् ॥

Load More