प्रमाणानि त्रीण्येव उपमानादीनां तत्रैवान्तर्भावः

अथ तृतीयो भागः ॥

त्रीण्येव प्रमाणानि

त्रीण्येव प्रमाणानि । प्रमाणत्रित्वे मानवं प्रमाणम् । प्रस्थानत्रयेण प्रमाणत्रयस्य प्रख्यापनम् । तद्विषये प्रस्थानत्रयोपन्यासः । प्रमाणानि षडिति अद्वैतिनः । अद्वैतिमते अभावानुपलभ्भयोः अतिरिक्तप्रमाणत्वेनाङ्गीकारे बीजम् ।अनुपलब्धेर्विश्वमिथ्यात्वसाधने व्याहतिप्रदर्शनम् । शाबरोपमानस्य यथायथं प्रत्यक्षाद्यन्तर्भावसमर्थनम् ।  तार्किकोपमानस्य अनुमानान्तर्भावसमर्थनम् । अत्र प्रमाणलक्षणटीका । न्यायचन्द्रिकामतानुवादपूर्वकंतत्खण्डनम् ।

…………………………………………………………………………………………………………………………………………………………….

प्रमाणानि त्रीण्येव उपमानादीनां तत्रैवान्तर्भावः

अद्वैततत्त्वसुधायां द्वैताद्वैतमतविप्रतिपन्नप्रक्रियासंग्रहे "( द्वैतमते) प्रत्यक्षानुमानशब्दा एव प्रमाणानि, अन्येषां तत्रैवान्तर्भावः यत्र (अद्वैतमते) प्रत्यक्षानुमानोपमानागमार्थापत्यनुपलब्धयः षट् प्रमाणानि" इत्युक्तम् । तदत्र स्वपक्ष- स्थापनं परपक्षनिराकरणं च उपरिष्टात् कर्तुकामाः किञ्चिदावश्यकं प्रास्ताविकं वाचकबुद्धिसौकर्याय करिष्यामः ।

तथाहि मानाधीना मेयसिद्धिरिति सर्वे समयकारा अभ्युपयन्ति । मानमेययोः समानसत्ताकत्वमपि अद्वैत्यतिरिक्ताः सर्वे परीक्षकाः उररीकुर्वन्ति । मानशुद्धिर्यावती, मेयशुद्धिरपि तावत्येव भवितुं प्रभवति । तत्र प्रमाणसंख्याऽपि विशेषतो मननीयतामश्नुते । " यद्वै किञ्चन मनुरवदत् तद्भेषज " मिति शंकराचार्योपन्यस्त- श्रुतिप्रख्यापितमहामहिमशाली मनुः प्रमाणानि त्रीण्येव इति कण्ठतः उद्घोषयामास । तथाहि मानवं प्रमाणम्

प्रत्यक्षंचानुमानंच शास्त्रं च विविधागमम् ।

त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता " ॥

अत्र कुल्लूकटीका "तदेव च प्रमाणत्रयं मनोरभिमतम् । उपमानार्थापत्त्यादेश्चानुमानान्तर्भावः " इति । उपर्युक्तप्रमाणत्रयापेक्षया न्यूनाधिकप्रमाणान्यवलम्बमानाः प्रामाणिकपरित्यागदोषभाजो वा अप्रामाणिककल्पनाकलङ्किनो वा भवन्ति इत्यतिरोहितं सर्वेषां सुविचारशालिनाम् । यथा प्रत्यक्षमेकमेव प्रमाणमिति स्वीकुर्वतः चार्वाकस्य मते महान् प्रामाणिकपरित्यागो दरीदृश्यते । प्रत्यक्षमनुमानं च द्वे एव प्रमाणे इति मतमातिष्ठमानस्य बौद्धस्य मतेऽपि प्रमाणपरित्यागपरिमितं प्रामाणिकहानं प्रकटीभवति । एवमेव एतदतिरिक्तप्रमाणावलम्ब कुर्वाणाः नैयायिकाः अध्वरमीमांसकाश्च अप्रामाणिकातिरिक्तप्रमाणकल्पनानुसारेण अप्रामाणिकपदार्थप्रपञ्चनं वितन्वते स्वस्वशास्त्रेषु ।

तंत्र त्रीण्येव प्रमाणानीति श्रीमदानन्दतीर्थाः । परमार्थतः किञ्चिदपि प्रमाणमनङ्गीकुर्वाणाः ज्ञानदशायां प्रमाणसत्तामप्य सहमानाः मायावादिनः प्रमाणषट्कमतं पुरस्कुर्वन्ति व्यवहारादिप्रसिध्यर्थम् । वेदान्तभाष्यकाराः प्रायशः सर्वे शंकराचार्यवर्जं मन्वाद्युक्तप्रमाणत्रयमवलम्ब्य स्वस्वसमीहितसिद्धान्तं समर्थयन्ति । तत्र अमीषां समेषां वेदान्तिनामाचार्याणां वेदान्तः प्रस्थानत्रयप्रतिष्ठितः इति सुविदितं सर्वेषाम् । तादृशं च प्रस्थानत्रयम्--उपनिषत्, गीता, ब्रह्मसूत्राणि च इत्यत्रापि न विवादः । त्रिष्वपि प्रस्थानेषु प्रमाणत्रयमेव प्रख्यापितम् ।

तथाहि " आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः " इतिहिश्रुतिः । अत्र परममहाप्रमेयम्-आत्मा-परमात्मा । तद्विषये द्रष्टव्यत्वोक्त्या दर्शनं प्रत्यक्षं प्रमाणत्वेन उक्तं भवति । श्रोतव्य इत्यस्य आचार्योपदिश्यमानागमरूपशद्वजन्यज्ञानविषयताशाली संपादनीय इत्यर्थः । " आचार्यात् आगमतश्च श्रोतव्यः " इति शंकराचार्यैर्भाषितत्वात् । अनेन आगमप्रामाण्यं विवृतं भवति । " श्रोतव्यः श्रुतिवाक्येभ्यः मन्तव्यश्चोपपत्तिभिः " इति प्रमाणमपि श्रुतिवाक्यानां श्रुत्यनुसारिवाक्यानां च प्रामाण्यं ग्राहयति । ' श्रवणं शब्दजं ज्ञान मित्यपि उक्तमेवार्थं दृढयति । मन्तव्य इत्यस्य उपपत्तिजन्यज्ञानविषयी कर्तव्य इत्यर्थः । अनेन उपपत्त्यपरपर्यायस्य अनुमानस्य प्रामाण्यमुक्तं भवति । " प्रत्यक्षावगमं धर्म्यम् " " ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ब्रह्मसूत्रपदश्चैव हेतुमद्भिर्विनिश्चितैः " इत्यादिगीतावचनैः प्रत्यक्षस्य, छन्दउपलक्षितागमस्य, हेतोः- अनुमानस्य च प्रामाण्यं प्रोच्यते । ब्रह्मसूत्राण्यपि प्रमाणत्रित्वमेव अनुमन्यन्ते । तथाहि -" शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्, " दृश्यते च " युक्तेः शब्दान्तराच्च, श्रुतस्तु शब्दमूलत्वात्, उपपद्यते  चाप्युपलभ्यते च अपि संराधने प्रत्यक्षानुमानाभ्याम्, " दर्शनाच्च, " " उपपत्तेश्च " फलमत उपपत्तेः " " वाङ्मनसि दर्शनात् शब्दाच्च" स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने " इत्यादीनि सुस्पष्टमेव प्रमाणत्रयमुपाददते । 'श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति " इति विवेकचूडामण्युपात्तं प्रमाणमपि श्रुति एैतिह्यभेदेन द्विविधमागमं प्रत्यक्षमनुमानं च प्रमाणत्वेन प्रतिपादयति ।

एवं सत्यपिं वेदान्तित्वेन आत्मानं ख्यापयन्तोऽपि अद्वैतिनः प्रमाण षट्-कमभ्युपगच्छन्ति इति महत् चित्रम् । तत्र रहस्यमेवं वर्तते । अनुमानदूषकत्वेन उद्भाव्यमानाः दोषाः नैकसंख्याकाः वर्तन्ते । जगन्मिथ्यात्वं प्रत्यक्षतः साधयितुं न शक्यते । तेन तस्य सत्यत्वस्यैव सिद्धेः । आगमतोऽपि न समर्थयितुं शक्यते, जगत्सत्यत्वप्रतिपादकागमानां बहुलमुपलम्भात् । प्रत्यक्षेण जगत्सत्यत्वस्य सिद्धत्वादेव अनुमानानि सर्वाणि बाधितानि भवन्ति । अतः कथं जगन्मिथ्यात्वं साधनीयमिति भृशं व्याकुलमनाः प्रतारणपटुरद्वैती अनुमानमेव अर्थापत्तिरूपनामान्तरेण उपन्यस्य अनुमानदोषेषूद्भावितेषु 'भ्रान्ता यूयम् । नेदमनुमानम् ।

इयमर्थापत्तिर्नाम प्रमाणान्तरम् नात्र अनुमानदोषा अवकाशं लभेरन् तद्दोषाणामनुमानमात्रदूषकत्वात्इत्यादिरीत्या नेत्रयोः धूलिप्रक्षेपं कर्तुमीहते । एवमेव " । ब्रह्मसाक्षात्कारेण समूलमविद्यायामुत्खातायां ब्रह्मसाक्षात्कारवतः प्रपञ्चः नास्ति नासीत् न भविष्यति इति प्रतीतिविषयो भवति इति तेनोच्यते । ब्रह्मज्ञानिनः ज्ञानोत्पत्यनन्तरमपि तदतिरिक्तैः सर्वैः प्रपञ्चः अध्यक्षीक्रियते । अतः कथं नास्ति इति प्रतीतिविषयत्वं तस्य इति आशङ्कायां अज्ञानिनः प्रत्यक्षत्वेऽपि ज्ञानिना अनुपलभ्यमानत्वात् तस्य अभावः निश्चीयते, मिथ्यात्वं अपरोक्षीक्रियते इति । प्रपञ्चाभावप्रत्यक्षं भवति इत्युक्ते आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन इत्युक्तरीत्या मनइन्द्रियादिपदार्थसन्निकर्षः भेदमाक्षिपेत्, तन्माभूत् इति कपटाभिसन्धिना अनुपलब्धिप्रमाणेन प्रपञ्चाभावः ज्ञानिनः सिद्धः इति प्रतिपादयति मायावी मायावादी-

" यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् ।

यन्नोपलभ्यते किञ्चिदतोऽसत्स्वप्नवन्मृषा " ॥२३६॥ (वि. चू.) इति श्लोके यदि विश्वं सत्यं भवेत् तर्हि सुषुप्तावुपलभ्येत । नोपलभ्यते, अतः सत्यं न भवति इति अनुपलब्धेः विश्वमिथ्यात्वं सिध्यति इत्युक्तं शंकराचार्यैः । तदिदं व्याहतम् । तैरेव दृश्यत्वहेतुना विश्वमिथ्यात्वं साध्यते । दृश्यत्वमुपलभ्यमानत्वान्नान्यत् । यदि इदानीमनुपलभ्यमानत्वहेतुना नाम दृश्यत्वाभावहेतुना मिथ्यात्वं साध्यते कथं न व्याहतिः । ननु न वयं अनुपलभ्यमानत्वहेतुना मिथ्यात्वं साधयामः । नेयमनुमानप्रणाली । अपि तु अनुपलब्धिरूपस्वतन्त्रप्रमाणगोचरत्वं मिथ्यात्वस्य वदामः इति चेत् । अयमेव प्रतारणप्रकारः इति ब्रूमः। अनुपलब्धिप्रमाणगोचरत्वम् अनुपलब्धिज्ञाप्यत्वम् अनुपलब्धिसाध्यत्वं इति अनर्थान्तरम् । यदि अनुमानविधया उच्येत व्याहतिशङ्का भवेत् सा माभूत् इति सा प्रणाली निन्हुता । भवतु तावत् अनुपलब्धेः स्वतंत्रप्रमाणत्वं, तथापि प्रपञ्चे अनुपलभ्यमानत्वं अदृश्यत्वं वर्तते इति जातम् । तथाच दृश्यत्वहेतोरसिध्या न मिथ्यात्वसाधकत्वम् । इत्यलं पल्लवितेन ।

तदिदानीं प्रमाणत्रित्वसमर्थनार्थं उपमानार्थापत्त्यनुपलब्धिस्वरूपपरीक्षां विधाय क्लृप्तप्रमाणेष्वन्तर्भावं समर्थयामः । तद्विषये चिरन्तननवीनपराक्षकसम्मतिमपि प्रदर्शयिष्यामः । तत्र तत्र अद्वैततत्त्वसुधाकारजीवातुभूतन्यायचन्द्रिकासमीक्षामपि विधास्यामः ।