सदसद्वैलक्षण्ये सत्प्रतीत्यनुपपत्तिः
सदसद्वैलक्षण्याङ्गीकारे सत्त्वेनप्रतीत्यनुपत्तिसमर्थनम्
सदसद्वैलक्षण्ये सत्प्रतीत्यनुपपत्तिः
घटादेः सद्विलक्षणत्वाङ्गीकारे सव्प्रतीत्यनुपपत्तिः । शुक्तौ भ्रमात्मकरजतप्रतीतिवत् घटेऽपि भ्रमात्मिका सत्प्रतीतिरूपपद्यत एवे ति चेत् । शुक्तौ रजतप्रतीतेः नेदं रजतमिति बाधवत्, घटः सन्नितिप्रतीतेः बाधादर्शनात् तस्याः भ्रमत्वकथनायोगात् ।
किञ्च सद्विलक्षणत्वमित्यनेन यावत्सव्प्रतियोगिकभेदवत्वम् विवक्षितमुत यत्किञ्चित्सत्प्रतियोगिकभेदवत्वम् । आद्ये प्रातिभासिकसतः शुक्तिरूप्यस्य व्यावहारिकसतः प्रपञ्चस्य सद्वैलक्षण्यायोगः । शुक्तिरजतादेः प्रातिभासिकसत्त्वानङ्गीकारे प्रपञ्चस्य व्यावहारिकसत्त्वानङ्गीकारे च तयोः सत्प्रतीत्यनुपपत्तिस्तदवस्यैव । द्वितीये व्यावहारिकसम्प्रतियोगिकभेदवत्वस्य ब्रह्मण्यपि सत्त्वेन तस्यापि सद्विलक्षणत्वापत्तिः । अत एव सप्रतीत्यनुपपत्तिश्च तथा च सत्त्रैविध्यवादे जगतः सत्प्रतीत्यनुपपत्तिर्वज्रलेपायिता । यच्चोक्तम् “ सदसद्वैलक्षण्यघटकासत्त्वस्य क्वचिदुपाधौ सत्त्वेन प्रतीत्यनर्हत्वरूपत्वात् सत्त्वस्य चाबाध्यत्वरूपत्वात् सत्त्वेन प्रतीत्यर्हत्वं, सदसद्विसक्षणत्वं च न व्याहतम् " इति तदयुक्तम् । अद्वैततत्त्वसुधायाम् “ अतः सत्त्वासत्त्वयोरेकतरस्य रूपान्तरं वक्तव्यम्” ( प. ४८ ) इति प्रतिज्ञायापि " तत्र चासत्त्वं क्वचिदुपाधौ सत्त्वेन प्रतीत्यनईत्वम्, ( त्यम् ? ) तदभावश्च सत्त्वमिति ” इति वाक्येन क्वचिदुपाधौ सत्त्वेन प्रतीत्यनर्हत्वाभावस्य क्वचिदुपाधौ सत्त्वेन प्रतीत्यर्हत्वरूपस्य सत्त्वस्य विवक्षणे सद्विलक्षणमित्यस्य सत्त्वेन प्रतीत्यर्ह विलक्षणमित्यर्थः स्यात् । तथा च सत्त्वेन प्रतीत्यर्हविलक्षणस्य सव्प्रतीत्यनुपपत्तिस्तदवस्थैव ।
अपि च सदसद्वैलक्षण्यघटकसत्पदार्थो यद्यबाध्यम्, यदि चाबाध्यत्वमसत्साधारणं तदा तत एवासद्व्यावृत्तिसम्भवादसद्वैलक्षण्यकथनं व्यर्थमेव स्यात् इष्टापत्तौ सत्त्वेन प्रतीत्यर्हत्वं सदसद्विलक्षणत्वं च न व्याहतमिति व्याहतमेव । यच्चोच्यते एकसत्तावादे सत्तादात्म्यमात्रेण अन्येषां तद्विवर्तानां सत्पदव्यवहार " इति । तत्र ब्रूमः किमिदं सत्तादात्म्यम्, यदि सदभेदः तर्हि सद्वैलक्षण्यानुपपत्तिः । यदि सत्त्वं तत् तदा जगतः सत्त्वाभावकथनानुपपत्तिरेव ।
यच्चोक्तमद्वैतदीपिकायाम् अ. शास्त्रिभिरेव ( ७ पत्रे ). न हि भेदाघटितं तादात्म्यं कुत्राप्यद्वैतिनां सम्मतम् | अद्वैतिनो हि नञ्भेदादिपदाभिलप्यभेदस्य तादात्म्यघटकभेदातिरिक्तत्वं वर्णयन्तस्तादात्म्यानापन्नत्वमेवासति बाधके भेदशब्दार्थं मन्यन्ते ” इति । तदप्यनुपपन्नम्, यदि तादात्म्यं भेदसहिष्णुरभेदः प्राचामद्वैौतिनां सम्मत इत्युच्यते तदाभेदाभेदयोः सत्त्वासत्त्वयोरिव व्याघातो दुष्परिहर एव । ततश्च सत्त्वासत्त्वयोर्व्याघातपरिहाराय प्रवृत्तेन व्याघातान्तरमेव सम्पादितं स्यात् ।
एवं सच्चेन्न प्रतीयेतेत्यर्थापत्तिसिद्धं सद्विलक्षणत्वं हि सत्तादात्म्यानधिकरणत्वमेव । तथा च सद्विलक्षणमित्यनेन सत्तादात्म्यानधिकरणत्वमुच्यते । असद्विलक्षणमित्यनेन सत्तादात्म्याधिकरणत्वमुच्यते । अतः सुदृढो व्याघातः । यदि च विषयत्वस्य चित्सुरव्युक्तरीत्या दुर्वचत्वेऽपि दृगध्यस्तत्वरूपस्य चैतन्याधिष्टानकत्वरूपस्य कुत्राप्यव्यभिचारात्, दोषान्तराभावात् "सदेव सौम्येदम् ” इत्यादिसामानाधिकरण्यस्वारस्यात्, अन्यथा विषयत्वस्य घटादौ दुर्वचत्वाच्च । चित्तादात्म्यरूपं दृश्यत्वं दुरपन्हवम् । न हि चैतन्यं चैतन्येऽध्यस्तम् इति न तत्र व्यभिचारः । शुक्तिरूप्यान्तःकरणसुखादिकमपि चैतन्येऽध्यस्तत्वात् चित्तादात्म्यवत्वाच्च न नोक्तलक्षणं दृश्यम्, " ( अ. सु. ७५ ) इत्यभिहितरीत्या सदध्यस्तत्वमेव सत्तादात्म्यं सदेव सौम्येदमिति सामानाधिकरण्यस्वारस्यादित्युच्यते; तदा तु " इदं रजत " मित्यादी इदं पदार्थस्याधिष्ठानत्वनियमदर्शनेन " इदं सर्वं पुरा सृष्टेरेकमेवाद्वितीयकम् । सदेवासीत् " इत्यादित्वदीययोजनानुसारेण सत एवेदम्यध्यस्तत्वापातेन जगतः सत्तादात्म्यासम्भवात् परस्परतादात्म्याध्यासाङ्गीकारस्त्वयुक्तः । परस्परतादात्म्यस्यैव परस्पराध्यस्तत्वरूपत्वात्, तादात्म्याभ्यास इत्युक्तौ तु अभ्यासस्याप्यध्यासप्राप्त्या वस्तुतोऽध्यासाभावापातः ।
किञ्च ब्रह्मणः भ्रमाधिष्ठानत्वं भ्रमविशेष्यत्वरूपं विषयत्वमेव । तच्च अध्यस्तत्वरूपमेवेति त्वन्मतम् । तथा च ब्रह्मणः भ्रमाधिष्ठानत्वं भ्रमेऽध्यस्तत्वमेवेति तस्य मिथ्यात्वापत्तिः । यदि च भ्रमोपादानाविद्याविषयत्वं भ्रमाधिष्ठानत्वं तदा तु अविद्याऽध्यस्तत्वं ब्रह्मणः स्यात् । अतः सत्तादात्म्यं दुर्निरूपमेव ।
। इति सदससद्वैलक्षण्ये सत्प्रतीत्यनुपपत्तिरिति ।