जीवेश्वरभेदस्यैवोपनिषदत्वम्
जीवेश्वरभेदस्यैव औपनिषदत्वसमर्थनम्
जीवेश्वरभेदस्यैवोपनिषदत्वम्
यच्चोक्तम्-अ. सुधायाम्-
" ईश्वरभेदस्य शास्त्रकगम्यस्याप्युपासनोपयोगितामात्रेण चारितार्थ्यात् " इति तदयुक्तम् । तत्र मात्रशब्दस्य मोक्षोपयोगित्वनिषेधकत्वमेव वक्तव्यम् । तच्च ” पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ” “ जुष्टं यदापश्यत्यन्यमीशमस्यमहिमानमिति वीतशोकः " इत्यादिश्रुतिषु जीवेश्वरभेदस्यैव मोक्षोपयोगित्वस्य मोक्षहेतुज्ञानविषयत्वरूपस्य स्फुटमभिधानात् । यदप्युक्तम्" परत्वेन निर्विशेषवाक्यस्य प्रबलप्रामाण्येन निषेधापेक्षितनिषेध्यसमर्पकतया अवान्तरतात्पर्याऽविरोधा" दिति तदपि हेयम् । उपनिषत्सु निर्विशेषवाक्यस्यैवाभावात् तस्य परत्वप्रबलप्रामाण्यविचारस्य दूरपराहतत्वात् । इतरानुद्देशेन विधीयमाने मुख्यं तात्पर्यम् इतरोद्देशेन विधीयमाने त्ववान्तरं तात्पर्यमिति निषिध्यमाने तु न महातात्पर्यं न वा अवान्तरतात्पर्यमिति वस्तुगतिः । अतः निषेध्यसमर्पकतया अवान्तरतात्पर्यमिति कथनमसङ्कतमेव । अपि च भेदस्यैव तादात्म्यनिषेधरूपत्वात् " तादात्म्यमसिशब्दार्थो ज्ञेयस्तत्त्वंपदार्थयोः । सोऽयं पुरुष इत्यादिवाक्ये तादात्म्यवन्मतः " ॥ इत्यद्वैतिग्रन्थोपदर्शिता भेदवाक्यानामेव निषेध्यसमर्पकत्वं युक्तम्, न निषेधकानां भेदवाक्यानाम् । यच्चोक्तम् " सर्वविशेषनिषेधपरतया निर्वि- शेषवाक्यस्यैव प्राबल्यम् ” इति तत्तु मूकोऽहमिति वाक्यस्याऽपि सर्ववचननिषेधपरत्वेन प्राबल्यापत्त्या अतिहेयम् । यदप्युक्तम् " भेदवाक्यानामभेदवाक्यानां चाधिकारिभेदेन व्यवस्था” इति तदतितुच्छम् । कर्मणि अधिकारिभेदेन व्यवस्थासम्भवेऽपि वस्तुनि विकल्पासम्भवेन अधिकारिभेदेन व्यवस्थाकथनस्यायुक्तत्वात् । यदि च अधिकारिभेदेन व्यवस्थेत्यस्य "दैवीसम्पद्विमोक्षाय निबन्धायासुरमिता " इत्युपक्रम्य असत्यमप्रतिष्ठं ते जगदाडुरनीश्वरम् । ईश्वरोऽहमहं भोगी....ततो यान्त्यधमा गतिम् " इति गीताप्रदर्शितरीत्या असुराणामधिकारिणां जगदसत्यत्वज्ञानजीवेश्वराभेदज्ञानादिरूपसाधनसम्पत्त्या अधमगतिरूपफलप्राप्तिः देवानामधिकारिणां " उत्तमः पुरुषस्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः... योमामेवमसम्भूढो जानाति पुरुषोत्तमम्... एतद्बुध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत " इति गीतोक्तदिशा च विष्णोरीश्वरस्य जीवजडमेदज्ञान सर्वोत्तम- त्वज्ञानसत्यजगद्रक्षकत्वज्ञानरूपसाधनसम्पत्त्या विमोक्षरूपफलप्राप्तिर्भवति इति व्यवस्थायां भवतः परिभाषा । तदा तु स्वागतार्ह एव भवान् । "उदिते जुहोति " " अनुदिते जुहोति " इत्यादाविवाधिकारिभदेन व्यवस्थां तु नानुमन्यामहे । अधिकमन्यत्र ।
। इति जीवेश्वरभेदस्यैवौपनिषदत्वसमर्थनम् ।