उत्पत्त्यसंभवाधिकरणस्य पञ्चरात्राप्रामाण्यपरत्वाभावसमर्थनम्

उत्पत्त्यसंभवाधिकरणस्य पञ्चरात्राप्रामाण्यपरत्वाभावसमर्थनम्

ॐउत्पत्त्यसंभवात्ॐ

इति सूत्रस्य " येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणमीश्वरोऽभिमतस्तेषां पक्षः प्रत्याख्यातः । येषां पुनः प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्वरोऽभिमतस्तेषां पक्षः प्रत्याख्यायते । ननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ्गनिर्धारितः प्रकृतिश्चाधिष्ठाता चेति । श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः । तत्कस्य हेतोरेष पक्षः प्रत्याचिख्यासित इति । उच्यते । यद्यप्येवंजातीयकोंऽशः समानत्वान्न विसंवादगोचरो भवत्यस्ति तु अंशांतरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारंभः । तत्र भागवता मन्यन्ते । भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्वं, स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण संकर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेणानिरुद्धव्यूहरूपेण च । वासुदेवो नाम परमात्मोच्यते । संकर्षणो नाम जीवः प्रद्युम्नो नाम मनः । अनिरुद्धो नामाहंकारः । तेषां वासुदेवः पराप्रकृतिरितरे संकर्षणादयः कार्यम् । तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यते इति । तत्र यत्तावदुच्यते योऽसौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्मा सर्वात्मा स आत्मनात्मानमनेकधा व्यूह्यावस्थित इति तन्न निराक्रियते ' स एकधा भवति त्रिधा भवति, (छां. ७/२६/२) ' इत्यादि-श्रुतिभ्यः परमात्मनोऽनेकधाभावस्याधिगतत्वात् । यदपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाऽभिप्रेयते तदपि न प्रतिषिध्यते । श्रुति- स्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् । यत्पुनरिदमुच्यते वासुदेवात्संकर्षण उत्पद्यते संकर्षणाच्च प्रद्युम्नः प्रद्युम्नाच्चानिरुद्ध इति । अत्र ब्रूमः । न वासुदेव-संज्ञकात्परमात्मनः संकर्षणसंज्ञकस्य जीवस्योत्पत्तिः संभवति । अनित्यत्वादिदोषप्रसंगात् । उत्पत्तिमत्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् । ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् । कारणप्राप्तौ कार्यस्य प्रविलयप्रसंगात् । प्रतिषेधिष्यतिचाचार्यो जीवस्योत्पत्तिं-' नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः (ब्रह्मसू. २-३-१७.) ' इति तस्मादसंगतैषा कल्पना " इति ग्रन्थेनं तत्र भागवता मन्यन्ते-वासुदेवः साक्षात् परमात्मा संकर्षणो जीवः प्रद्युम्नो नाम मनः अनिरुद्धो नाम अहंकारः तत्र वासुदेवः कारणं-संकर्षणादयः कार्यम् । तमित्थंभूतं परमेश्वरं भगवन्तं (१) अभिगमन (२) उपादान (३) इज्या (४) स्वाध्याय (५) योगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यते इति यत्प्रतिपाद्यते, तत्र श्रुतिस्मृत्यादिप्रमितत्वात् भगवंतं अभिगमनादिना वर्षशतमिष्ट्वा क्षीणक्लेशो भगवंतमेव प्रतिपद्यते इत्येवंरूपं भागवतमतमनुमोद्य वासुदेवात् संकर्षणो नाम जीवो जायते इत्येतं भागवतमतांशम् । वासुदेवात्परमात्मनः संकर्षणसंज्ञकजीवस्य उत्पत्तिर्न संभवति जीवस्योत्पत्तिमत्त्वे अनित्यत्वादयो दोषाः प्रसज्येरन् । तथा अस्य जीवस्य भगवत्प्राप्तिरूपो मोक्षो न स्यादिति सूत्रकारो निराचकारेति उत्पत्त्यसंभवात् इतिसूत्रस्यार्थवर्णनं शङ्कराचार्याणां न तद्युक्तम् ।

(१) वासुदेवात्संकर्षणो नाम जीवो जायते संकर्षणात्प्रद्युम्नसंज्ञकमनो जायते प्रद्युम्नादनिरुद्धसंज्ञकोऽहंकारो जायते इति पूर्वोदाहृतपंचरात्रवाक्यस्य वक्ष्यमाणरीत्या अनेकाबाधितार्थानां संभवेन अद्वैतवादिभिरपि प्रमाणत्वेन स्वीकृतेषु महाभारतादिग्रंथेष्वपि पञ्चरात्रागमवत् जीवादिविषयेषु उत्पत्त्यादिबोधकानां वाक्यानां सत्त्वेन तेषामप्रामाण्यमनुक्त्वा पंचरात्रस्यैवाप्रामाण्यकथनायोगात् ।

(२) भारत एव पञ्चरात्रस्य प्रामाण्यं वदद्भिः सूत्रकारैर्ब्रह्मसूत्रेषु पञ्चरात्रप्रामाण्यं निराक्रियत इत्युक्तेः सूत्रकाराणां व्याहतभाषित्व संपादकत्वेनायोगात् । न हि सूत्रकाराणां व्याहतभाषित्वमंगीकर्तुमर्हं प्रस्थानत्रयप्रामाण्यवादिभिर्वैदिकंमन्यैः ।

(३) यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः । ज्ञेयः स एवं राजेंद्र जीवः संकर्षणः प्रभुः ॥ ( महा. भा. शा. ३३९-४० ) इत्यस्मिन्वाक्ये वासुदेवस्य संकर्षणरूपतायाः उक्तत्वात् तथा केशवादिचतुर्विंशतिनामसु विश्वादिविष्णुसहस्रनामस्वपि वासुदेवात्मकपरमात्मनः संकर्षण इति नाम्नश्च सत्त्वात् ।

' अहं हि जीवसंज्ञो वै ' ' जीवः संकर्षणः प्रभुः । (महा. भा. शां. ) इति वाक्ययोः परमात्मनः जीव इति संज्ञायाः कथितत्वात् :जीवप्राणधारण इति धातुपाठानुसारेण इति प्राणधारकत्वगुणयोगेन जीवशब्दस्य परमात्मवाचकत्वसंभवात् ।

जनीप्रादुर्भावे इति धातुपाठानुसारेण जायत इत्यस्य प्रादुर्भवतीत्यर्थकत्वेन वासुदेवात्संकर्षणो नाम जीवो जायत इति पंचरात्रवाक्यस्य वासुदेवात्परमात्मनः जीवः प्राणधारकत्वहेतुना जीवशब्दवाच्यं संकर्षणनामकं भगवद्रूपं जायते अभिव्यक्तो भवति इति इतरप्रमाणानुसारिणोऽर्थस्य संभवाच्च ।

(४) संकर्षणपदेन जीव एव पञ्चरात्रे उक्त इति स्वीकारेऽपि बाधकाभावात् । तथा हि-

१. यतो वा इमानि भूतानि जायन्ते २ सर्व एते आत्मनो व्युच्चरन्ति ३ चंद्रमा मनसो जातश्चक्षोः सूर्योऽजायत । मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ४ जन्माद्यस्य यतः ५ अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरं । पतिं प्रजा- नामसृजं महर्षीनादिनो दश । (मनुस्मृ. ३-४ ) ६ बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।। (गी. ४-५ ) ७ जातस्य हि ध्रुवो मृत्युध्रुवं जन्म मृतस्य च ॥ (गी. २-५ ) ८ सहयज्ञाः प्रजाः सष्ट्वा (गी. ३-१०) ९ मया सृष्टः पुरा ब्रह्मा [ महा. भा. शां ३३९-६० ] इत्यादिषु प्रमाणतया अंगीकृतेषु ग्रंथेषु जीवस्योत्पत्तेः कथितत्वेन ग्रंथानां जीवोत्पत्तिप्रतिपादक पञ्चरात्रस्येवाप्रामाण्यस्य वक्तव्यत्वापातात् ।

न च यतो वेत्यादिवाक्येषु जीवस्योत्पत्तिर्नाम देहसंबंध एव कथ्यते न तु स्परूपोत्पत्तिः अतो नाप्रामाण्यं श्रुत्यादीनामिति वाच्यम् । श्रुत्यादीनामिव पञ्चरात्रस्यापि जीवस्य देहसंबंधरूपोत्पत्तिबोधकत्वेन प्रामाण्यसंभवात् पञ्चरात्रसमानार्थकस्यापि वेदादेः प्रामाण्यं पचरात्रस्याप्रामाण्यमित्यस्य अर्धजरतीयन्यायेनायोगात् ।

ॐन च कर्तुः करणंॐ

इति सूत्रस्य कर्तुः संकर्षणात् जीवात् प्रद्युम्ननामकं करणं मनः प्रजायते यस्मान्न हि लोके कर्तुर्देवदत्तादेः (सकाशात्) करणं परश्वादि उत्पद्यमानं दृश्यते इति यत् व्याख्यानं तत् बालानामपि उपहासकरं किमु प्रौढानाम् । तथा हि जीवः मनोरूपकरणोत्पादको न भवति । कर्तृत्वात् । यः कर्ता स करणोत्पादको न भवति । यथा देवदत्तः कर्ता न परशुरूपकरणोत्पादको भवति इति खलु अनुमानमुक्तं भवति । तन्न युक्तं अनेकशिल्पपर्यवदातस्य करणरूपं परशुं कृत्वा तेन पलाशच्छेदन क्रियाकर्तृतायाः दर्शनेन व्यभिचारात् कर्तुः सकाशात् करणं नोत्पद्यते इति अनुमातुं न शक्यते यः यस्यां क्रियायां कर्ता स तया क्रियया तत्क्रियाकरण कर्तुं न शक्नोति यथा छेदन क्रियाकर्ता देवदत्तेन तया च्छेदनक्रियया च्छिदाकरणस्य परश्वादेः कर्तुमशक्यत्वेऽपि क्रियांतरण परशुं कृत्वा स्वकृतेन परशुना करणेन पलाशच्छेदनक्रियां कर्तुं शक्यत एव ।

प्रकृते च ज्ञानरूपक्रियोत्पत्तौ जीवः कर्ता मनः करणं पञ्चरात्रे ज्ञानरूपकियाकर्त्रा जीवेन ज्ञानरूपक्रियया तत्क्रिया [ ज्ञान ] करणभूतं मनः जायते इति यद्युच्यते तदायं दोषः स्यात् । यः यत्क्रियाकर्ता तेन तत्क्रियया तत्क्रियाकरणं नोत्पद्यते लोके अदृष्टत्वात् इति न तथोक्तं पश्चरात्रे किन्नाम जीवान्मनो जायत इत्येवोक्तं तस्मान्नेदमनुमानं साधु इति सुज्ञेयमेतत् बालानामपि ।

किंच महाभारते संकर्षणाच्च प्रद्युनो मनोभूतः स उच्यते, ( म. सा. शां. ३३९/४० ) ' स हि संकर्षणः प्रोक्तः प्रधुम्नं सोऽप्यजजिनत्, । ( महाभा. ७३ ) इत्यादौ संकर्षणात् प्रद्युम्रसंज्ञकमनस उत्पत्तिरुक्ता सा च 'मयैव कथितं सम्यक् तव मूर्तिचतुष्टयं ' ( महाभा. शा. ३३९।४६ ) इति वासुदेवसंकर्षण-प्रद्युम्नानिरुद्धानां परमात्मस्वरूपताप्रतिपादनात् परमात्मन उत्पत्त्यभावेन अनुपपन्नेव यद्यपि भाति तथापि तत्र यथा प्रद्युम्नसंज्ञकस्य भगवद्रूपस्य संकर्षणरूपाद- भिव्यक्तिरूपां जनिं स्वीकृत्य प्रामाण्यं समर्थ्यते तथा पञ्चरात्रवाक्यस्यापि प्रामाण्योपपादनसंभवात् ।

प्रद्युम्नसंज्ञकान्मनसः अनिरुद्धसंज्ञक अहंकारो जायते इति पञ्चरात्रोक्ते विषये न काप्यनुपपत्तिः प्रदर्शिता शंकरभाष्ये । न संति च अनुपपत्तयः । अहंकारस्य मनस उत्पत्तिं बोधयतः संप्रतिपन्न प्रमाणभावस्य भारतवाक्यस्येव तथाविधपञ्चरात्रस्यापि प्रामाण्यमुपपाद्यत एव ।

किंच भारते ' प्रद्युम्नाद्योऽनिरुद्धस्तु सोहंकारः स ईश्वरः ( महाभा- ३३९।४१ ) ' प्रद्युम्नादनिरुद्धोहं सर्गो मम पुनः पुनः (७३) अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः ' (७४) इत्यादिवाक्यैः अहंकारस्य ईश्वरत्वस्य चतुर्मुख-ब्रह्मजनकत्वस्य चोक्तत्वेन अहंकारस्येश्वरत्वोक्तर्नाप्रामाण्यं तथा पञ्चरात्रस्य अहंकारपदेन ईश्वररूपबोधकत्वेऽपि नाप्रामाण्यम् ।

ॐविज्ञानादिभावे वा तदप्रतिषेधःॐ

इति सूत्रस्य अथापि स्यान्न चैते संकर्षणादयो जीवादिभावेनाभिप्रेयन्ते किं तर्हि ईश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते । वासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति तस्मान्नायं यथावर्णित उत्पत्त्यसंभवे दोषः प्राप्नोतीति । अत्रोच्यते । एवमपि तदप्रतिषेध उत्पत्यसंभवस्याप्रतिषेधः प्राप्नोत्येवायमुत्पत्त्यसंभवो दोषः । प्रकारान्तरेणेत्यभिप्रायः । कथं यदि तावदयमभिप्रायः परस्परभिन्ना एवैते वासुदेवादयः चत्वार ईश्वरास्तुल्यधर्माणो नैषामेकात्मकत्वमस्तीति ततोऽनेकेश्वरकल्पनार्थक्यमेकेनैवेश्वरणेश्वर कार्यसिद्धेः सिद्धांतहानिश्च भगवानेवैको वासुदेवः परमार्थतत्वमित्यभ्युपगमात् । अथायमभिप्रायः एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति तथापि तदवस्थ एवोत्पत्यसंभवः । न हि वासुदेवात्संकर्षणस्योत्पत्तिः संभवति संकर्षणाच्च प्रद्युम्नस्य प्रद्युम्नाञ्च्चा- निरुद्धस्यातिशयाभावात् । भवितव्यं हि कार्यकारणयोरतिशयेन यथा मृद्घटयोः । न ह्यसत्यतिशये कार्यं कारणमित्यवकल्पते । न च पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिष्वेकस्मिन् सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदोऽभ्युपगम्यते । वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते न चैते भगवव्यहाश्चतुः संख्यायामेवावतिष्ठे- `रन् ब्रह्मादिस्तंबपर्यंतस्य समस्तस्यैव जगतो भगव्यूहत्वावगमात् । इति व्याख्यानेन पंचरात्रोक्तस्य वासुदेवसंकर्षणप्रद्युम्नानिरुद्धानां भगवद्रूपत्वस्य अयुक्तत्वात् । तत्प्रतिपादकं पंचरात्रमप्रमाणमिति यदुक्तं तन्न युक्तम् । वासुदेवसंकर्षणप्रद्युम्नानिरुद्धरूपाणां परमात्मस्वरूपताबोधकपञ्चरात्रवाक्यस्य तथाविधभारतवाक्यसंवादित्वेन प्रामाण्योपपत्तेर्बाधकाभावाच्च । न चानेकेश्वरकल्पनानर्थक्यदोषः । भागवतैर्वासुदेवा एव हि सर्वे व्यूहा इति वासुदेवादिरूपाणामभेदांगीकारात् । न च भागवतैः तेषां भगवद्रूपाणां विशेषानंगीकारात् एकस्य कारणत्वमपरस्य कार्यत्वं विशेषाभावेन संञ्जाघटीतीति वाच्यं । न हि भागवता एकस्माद्भगवद्रूपादपरं भगवद्रूपं जायते इत्यभ्युपयन्ति येन त्वदुक्तदोषः स्यात् । किन्नाम स्वेच्छया अभिव्यज्यत इति ' यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं ' इति गीतोक्तेः ।

वासुदेवा एव हि सर्वे व्यूहा; निर्विशेषा इष्यन्ते ( भागवतैः ) इत्यत्र व्यूहशब्दस्य संकर्षणप्रद्युम्नादिरूपपरत्वं स्वीकृत्य सर्वे व्यूहाः संकर्षणादिरूपाणि वासुदेवा एव वासुदेवाभिन्ना एव इत्यर्थो भवतीति मत्वा तस्य यदूषणमुक्तं शङ्कराचार्यै: 'न चैते भगवन्द्यूहाश्चतुः संख्यायामेवावतिष्ठेरन् ब्रह्मादिस्तंबपर्यंतस्य समस्तस्यैव जगतः भगवदूव्यूहत्वावगमादिति' तदयुक्तं । वासुदेव संकर्षणप्रद्युम्नानिरुद्धानामेव भगवद्रूपत्वं नान्येषामिति कुत्राऽपि नोक्तम् । प्रत्युत मत्स्यादिदशरूपाणि केशवादिचतुर्विंशतिरूपाणि विश्वादिसहस्ररूपाणि इत्यनेकशो मूर्तीनां भगवद्रूपत्वमुक्तं इति ' चतुः संख्यायामेवावतिष्ठेरन् इत्युक्तिरनुक्तोपालंभरूपैव ।

यच्चोक्तं ब्रह्मादिस्तंबपर्यंतस्य समस्तस्य जगतः भगवदूव्यूहत्वावगमादिति तत्सकलशास्त्रविरुद्धं अद्वैतमतविरुद्धं च । कस्मिन्नपि शास्त्रे ( वेदे सूत्रेषु गीतायां वा ) जडस्य जगतः भगवद्रूपत्वानभिधानात् जन्यजनकभावेनाधाराधेयभावेन सर्वज्ञत्वासर्वज्ञत्वाभ्यां पूर्णशक्त्यल्पशक्तिभ्यां च भगवता भेदस्येवोक्तत्वात् । अद्वैतमतरीत्या असत्यस्य जगतः सत्येन ब्रह्मणा अभेदस्यायोगाच्च । मयैतत्कथितं सम्यक् तव मूर्तिचतुष्टयं ' ॥ इति भारते भगवव्यूहस्य (भगवद्रूपाणां) चतुष्टस्योक्तत्वेन त्वदुक्तरीत्या तस्याप्यप्रामाण्यप्राप्तेः, तस्मात् नेदं व्याख्यानं युक्तम् ।

ॐविप्रतिषेधाच्चॐ

इति सूत्रस्य विप्रतिषेधश्चास्मिञ्शास्त्रे बहुविध उपलभ्यते गुणगुणित्वकल्पनादिलक्षणः ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणाः आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात्....तस्मादसंगतैषा कल्पनेति सिद्धम्, इति यद्व्याख्यानं तदप्ययुक्तम् । भिन्नभिन्नोपनिषत्सु सत्यज्ञानानंदादीनां ब्रह्मरूपताप्रतिपादकानां सत्यं ज्ञानमित्यादिवाक्यानां, परमात्मगुणत्वप्रतिपादकानां ' तदैक्षत 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इत्यादिवाक्यानां एकस्यामेवोपनिषदि ' आनंदो ब्रह्मेति व्यजानात् ' ' आनंद ब्रह्मणो विद्वान् ' इत्यादीनां गुणगुणित्वबोधकानां वाक्यानां चोपालंभेन प्रकाशस्वरूपस्यापि सवितुः प्रकाशत इति : व्यवहारसिद्धप्रकाशाश्रयत्ववत् ईक्षणादि ( ज्ञानादि ) रूपस्यापि ब्रह्मणः ऐक्षत इत्याद्युक्तक्षणाद्याश्रयत्वमुपपाद्य यथा अविप्रतिषिद्धत्वं कथ्यते शंकराचार्याद्यैः तथा ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणा आत्मान एवैते भगवन्तो वासुदेवा ' इति एकस्यैव गुणगुणित्वप्रतिपादकपंचरात्रस्यापि अविप्रतिषिद्धतां संपाद्य प्रामाण्यं वक्तव्यम् । अन्यथा एकस्यैव गुणगुणित्वप्रतिपादकानां पूर्वोदाहृतवेदवाक्यानामप्यप्रामाण्यप्रसंगातू । न चान्यतरपक्षपाते कारणमस्ति ।

यचोक्तं विप्रतिषेधाच्च इति सूत्रस्य यत् वर्णनान्तरं वेदविप्रतिषेधश्च भवति चतुर्षु वेदेषु परं श्रेयो लब्ध्वा शांडिल्य इदं शास्त्रमधितगवानित्यादि वेदनिंदादर्शनात् तस्मादसंगतैषा कल्पना इति तदप्ययुक्तम् । एवंरीत्या वेदनिंदाबोधकानां बहूनां वाक्यानां वेदे पुराणेषु च दर्शनात् । तथा हि छांदोग्ये "अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं होवाच यद्वेत्थ तेन मोपासीद ततस्त ऊर्ध्वं चक्ष्यामीति स होवाच ऋग्वेदं भगवो अध्येमि यजुर्वेद सामवेदमाथर्वणं........ सोऽहं भगवो मंत्रविदेवास्मि नात्मवित्। इति सनत्कुमारं प्रत्यध्ययनार्थं नारदो गतः । तदा सनत्कुमारस्तमाह किं भवता अधीतं तन्मह्यं निवेदय तत ऊर्ध्वं उत्तरग्रंथान् तेऽहं वक्ष्यामि इति । ततो नारदः प्रत्याह ऋग्वेदाद्याः सर्वे वेदाः शिक्षादिवेदांगानि अन्यानि सर्वाण्यपि शास्त्राणि मयाधीतानि तथापि मन्त्रविदेवास्मि न मोक्षसाधनात्मज्ञानवान् इति वेदनिंदा श्रूयते ।

यदि विद्याच्चतुर्वेदान्सांगोपनिषदान् द्विजः । न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ इति पुराणे सांगसोपनिषत्सर्ववेदार्थज्ञानेऽपि पुराणज्ञानमन्तरा पण्डितो न भवतीति वेदनिन्दा श्रूयते ।

यदि वेदनिंदाश्रवणमात्रेण पञ्चरात्रमप्रमाणं स्यात् । छांदोग्यादिकमप्यप्रमाणं प्रसज्येत ।

ननु ऋग्वेदादयो महागुरूपदेशमन्तरा न समीचीनज्ञानजननाय प्रभवन्ति गहनार्थत्वात् ।

तथा ' इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । विभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति ॥ इत्युक्त्यनुसारेण उपबृंहकेतिहासपुराणाभावे वेदः बिभेति न समग्रं स्वार्थं प्रकटयति अतः ब्रह्मसूत्रैरिव इतिहासपुराणाभ्यामपि वेदास्योपष्ठंभनमावश्यकमिति सूचयत् ' न चेत्पुराणं' इति पुराणवाक्यं वेदानां अतिगंभीरार्थत्वं प्रकटयत् न निन्दति इति चेत् पञ्चरात्रमपि शांडिल्यगाथामुखेन वेदानामतिगंभीरार्थत्वादल्पमतीनां चतुरर्भिरपि वेदैर्ज्ञानासंभवात् एतच्छास्त्रमधिगंतव्यमिति बोधयत् वेदानतिगंभीरार्थत्वेन स्तौति न तु निन्दति इति न पञ्चरात्रे वेदविप्रतिषेधः क्रियते । इति न पञ्चरात्रस्याप्रामाण्यं सिध्यति । तस्मान्नेदं युक्तं व्याख्यानम् ।

॥ द्वितीयो भागः समाप्तः ॥