पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति

वैदिकमततत्व विचारः ।

द्वैतस्य वैदिकमततत्त्वरूपत्वसमर्थनम् अमृतत्वप्रयोजकत्वेन सुधारूपत्वसमर्थनम् तद्विरोधिनः असुधात्वसूचनं च ।

पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति '

 इत्येषा जीवब्रह्मभेदबोधिका श्रुतिः । तदर्थस्तु आत्मानं = परमात्मानं पृथक् = जीवजडात्मकप्रपञ्चभिन्नं च = तथा प्रेरितारं = जगतः प्रेरकं ( नियामकं ) मत्वा जुष्टः = परमात्मकर्तृकप्रीतिविषयः (तत्प्रसादयुक्तः ) सन् ततः -अनन्तरं तेन = प्रसन्नेन परमात्मना अथवा परमात्मप्रसादेन अमृतत्वं = मोक्षं एति = प्राप्नोति इति । तथा च अनया श्रुत्या जीवजडात्मकप्रपञ्चभिन्नत्वेन प्रपञ्चप्रेरकत्वेन च परमात्मज्ञानस्य मोक्षहेतुत्वोक्त्या जीवब्रह्मणोर्भेदः ब्रह्मणः प्रेरकत्वाद्युक्त्या गुणवत्त्वं च सिध्यतीति ब्रह्मणो जीवैक्यं निर्गुणत्वं च निराकृतं भवति ।

यत्तु ( ब्रह्मानन्दीकृतः ) प्रेरकत्वेन पृथक्त्वेन च मत्वा मुच्यत इति नोक्तश्रुत्यर्थः, किन्तु तत्त्वमतेः पूर्वं प्रेरकत्वेन पृथक्त्वेन च उपलभ्यमानमखण्डात्मरूपं मत्वा मुच्यत इत्यर्थ इति भावेनाह-मतेरित्यादि । (अद्वैतसिद्धिः ) ' मतेः पूर्वं ममाऽपि प्रेरकपृथकदृष्टे : । (ब्रह्मानन्दी ) प्रेरकत्वादिरूपेण मत्वेत्यर्थकत्वेऽपि न क्षतिरित्याशयेनाह सगुणेति ।

अद्वैतसिद्धिः-सगुणब्रह्मज्ञानवत्-प्रेरकत्वेन ब्रह्मज्ञानस्यापि परम्परयोपकारकत्वात् ।

ब्रह्माः-गुणान्तरयुक्तेत्यर्थः । इत्यद्वैतसिद्धिब्रह्मानन्दीग्रन्थयो: ' पृथगात्मानं प्रेरितारं च मत्वा ' इति श्रुतेः ब्रह्मणो जीवभिन्नत्वेन जीवप्रेरकत्वेन च ज्ञानं मोक्षसाधनमित्यर्थ इति स्पष्टं ज्ञात्वाऽपि अद्वैतदुराग्रहगृहीतत्वेन तं पृथक्, प्रेरितारम् इति पदयोः पूर्वं तत्त्वमतेः पूर्वमिति उत्तरं च उपलभ्यमानमिति च पदसंयोजनेन पृथक् इत्यस्य तत्त्वमतेः पूर्वं पृथक्त्वेन उपलभ्यमानमिति प्रेरितारमिति पदस्य तत्वमतेः पूर्वं प्रेरकत्वेन उपलभ्यमानमिति चार्थकरणं 'न सुरां पिबेत् ' ' न परदारान् गच्छेत् इत्यादिश्रुतीनां बाल्येऽसामर्थ्ये चेति पदसंयोजनेन बाल्ये सुरापानं निषिद्धं बाल्येऽसामर्थ्यं च परदारगमनं प्रतिषिद्धमित्यर्थकरणमिव तिरस्करणीयमेव ।

यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।

यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते ।।

इति शङ्कराचार्योदाहृतमहाभारतवक्यानुसारेण आप्त्यादिगुणविशिष्टार्थकात्मशब्दस्य अखण्डार्थरूपमिति चार्थकरणं प्रज्ञाप्रकर्षशालिनि निरूढवृत्तेः प्राज्ञशब्दस्य अज्ञ इत्यर्थकरणवन्नितान्तमपहसनीयमेव ।

एकधैवानु द्रष्टव्यम् ' इत्यादिवाक्यस्वारस्यादभेदज्ञानस्यैव साक्षान्मोक्षहेतुत्वात् ।अत एव प्रेरकत्वज्ञानस्य जोषहेतुत्वमुक्तमि ' ति यदुक्तमद्वैत सिद्धौ तथा केवलार्थकेनैकपदेन शुद्धब्रह्मण उक्तत्वात् तत्स्वरूपविषयप्रकारो धाप्रत्ययेनोच्यते । तथा च शुद्धब्रह्मविषयकज्ञानमेव मोक्षहेतुः न प्रेरकत्वादिविशिष्टस्य ज्ञानमित्यर्थं इति । अत एव प्रेरकत्वज्ञानस्य साक्षान्मोक्षाहेतुत्वादेव । जोषेति । ब्रह्मलोकावच्छिन्नप्रीतिविशेषेत्यर्थः । तथा च प्रीतः सन् ततः तादृशप्रीतिसमाप्तौ तेन मननेन तत्त्वसाक्षात्कारद्वारा मुच्यत ? इत्यर्थः इति च तद्व्याख्यानभूतब्रह्मानन्द्यां यद भिहितं तद्दुराग्रहग्रहावेशविलसितम् । तथाहि-

एकधैवानुद्रष्टव्यमेतदप्रमेयं ध्रुवम् ।

विरजः पर आकाशादज आत्मा महान् ध्रुवः ॥ बृ. ४/५/२० इति श्रुतावभेदबोधक पदाभावेन, अभेदज्ञानेन मोक्षो भवतीत्यर्थकपदानामभावेन कथं ज्ञातं लोकोत्तर प्रज्ञाशालिनाऽद्वैत सिद्धिकृता अभेदज्ञानस्य मोक्षहेतुत्वबोधने स्वारस्यमस्य वाक्यस्येति प्रज्ञावन्त एव जानन्तु ।

किंच " ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव अन्यात्मभावनिवृत्तावात्मभावः स्वात्मनि स्वाभाविकः यः स केवलो भवतीत्यात्मा ज्ञायत इत्युच्यते " (बृ. शां. भा. ४/४/२० ) इति शाङ्करभाष्येण शुद्धब्रह्मणोऽज्ञेयत्वस्य कथितत्वेन तद्भाष्यविरुद्धा हि ' केवलार्थकेनैकपदेन शुद्धब्रह्मण उक्तत्वादि 'ति ब्रह्मणः ब्रह्मानंदीयज्ञेयत्वोक्तिः ।

अपि च शुद्धब्रह्मविषयकज्ञानस्यैवाद्वैतमतरीत्याऽसम्भवेन मोक्षहेतुत्वबोध- कपदाभावेन च शुद्धब्रह्मविपकज्ञानं मोक्षहेतुः न प्रेरकत्वादिविशिष्टस्य ज्ञानमित्यर्थ इति ब्रह्मानन्दीयश्रुत्यर्थवर्णनं स्वमतापरिज्ञानासम्भवनीयपरमतनिरास दुराग्रहो भय- मूलकमेवेत्युपेक्षणीयम् ।

' जुष् प्रीतिसेवनयो:-' इति धातुपाठात् जुष् धातोः प्रीतिमात्रार्थकत्वेऽपि जोषेति ब्रह्मलोकावच्छिन्नप्रीतिविशेषेत्यर्थ ' इति ब्रह्मलोकावच्छिन्नेति प्रीतौ विशेषणदाने किं ज्ञापकं दृष्टवन्तो ब्रह्मानन्दीकारास्तद्देवो वा देवानां प्रियो वा जानातु । ' तथा च मत्वा प्रीतः सन् ततः प्रीतिसमाप्तौ तेन मननेन तत्त्वसाक्षात्कारद्वारा मुच्यत इत्यर्थ इति यदुक्तं ब्रह्मनन्दीकृता तदयुक्तम् । एतदर्थबोधकानां पदानां श्रुतावभावात् ।

जुष्टस्ततस्तेनामृतत्वमेति' इति तेन प्रसादेन प्रसन्नपरमात्मना वा अमृतत्वं = मोक्षं प्राप्नोति इति प्रसादस्य साक्षान्मोक्षहेतुत्वे श्रुतेऽपि'तेन = मननेन तत्त्वसाक्षात्कारद्वारा' इत्थर्थकथनं स्वमताग्रहमात्रनिबन्धनम् । किं च मननेन तत्त्वसाक्षात्कारद्वारा मुच्यत इत्यर्थकत्वे प्रसादस्य मोक्षं प्रति कारणत्वाभावाभिप्राये च मत्वा मुच्यत इत्येतावन्मात्रेण निर्वाहे ' जुष्टस्ततस्तेन ' इत्येतेषां पदानां वैय्यर्थ्यम् । प्रीतेः तद्वाक्यार्थेऽनुपयोगात्, तत इति पदेन अनुपयुक्तप्रीतिसमाप्तिकथनस्यात्यन्तानुपयुक्तत्वाच्च ।

तथा च अद्वैतिनः कामं जल्पन्तु । परं ' पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति' (श्वेता ११६ ) इति श्रुतौ परमात्मा जीवजडात्मकात्प्रपञ्चाद्भिन्नः सर्वप्ररेकश्चेति ज्ञानस्य तत्प्रसादद्वारा मोक्षहेतुत्वं श्रुतिघटकशब्द- सामर्थ्येन प्रतिपाद्यत इत्यस्मिन्विषये न सन्देहलेशोऽपि । अत इयं श्रुतिः प्रेरकत्वादिगुणविशिष्टस्य परमात्मनः प्रसादद्वारा मोक्षहेतुत्वोक्त्या ब्रह्मणः सगुणत्वं  (प्रेरकत्वादिगुणयुक्तत्वं ) प्रपञ्चभिन्नत्वं, प्रसादद्वारा मोक्षहेतुत्वोक्त्या बन्धस्य 'सत्यत्वं (अज्ञानकल्पितत्वाभावं ) च प्रतिपादयन्ती ब्रह्मणो निर्गुणत्वं जीवब्रह्मणोरिभेदं जगतो मिथ्यात्वं ( अज्ञानकल्पितत्वं ) च निराकुर्वती दूषयत्यद्वैतमतमिति सिद्धम् ।

इति द्वैतस्य वैदिकमततत्त्वरूपत्वसमर्थनम् अमृतत्वप्रयोजकत्वेन सुधारूपत्वसमर्थनम् तद्विरोधिनः असुधात्वसूचनं च