भेदस्य धर्मिस्वरूपत्वं

प्रसक्तानुप्रसक्तविचारः

भेदस्य धर्मिस्वरूपत्वं

भेदस्य धर्मिस्वरुपत्वे एकतरशेषः स्यात् इत्यस्य प्रतिबन्दीदानम् ।

................................................................................................................................................................

ननु तथापि भेद' न वस्तुस्वरूपम् । अस्य भेद इति विशेष्यत्वेन प्रतीयमानत्वात् । यो यद्विशेष्यतया प्रतीयते नासौ तत्त्वरूपम् । यथा कम्बलो ब्राह्मस्य इत्यत्र कम्बलः इति चेन्न घटस्य स्वरूपमित्यत्र व्यभिचारात् । घटस्य स्वरूपं घटविशेष्यतया प्रतीयमानमपि न ततोन्यत् । यदि तत्र भेदानिरिक्तं किमपि विशेष्यप्रतीतिनिमित्तमुच्यते तर्हि अत्रापि विशेषोऽस्तीत्यन्यथासिद्धिः । यदि वा तत्र व्यपदेशमात्रं न प्रतीतिरित्यभिधीयते तदा सममन्त्रापि । तथा च स्वरूपासिद्धो हेतुः । अनयैव दिशा पटो भिन्न इति विशेषणतया प्रतीतिरपि न भेदस्य वस्तुस्वरूपत्वाभावसाधिका विशेषेण अन्यथा सिद्धत्वात् ।

ननु भेदस्य धर्मिस्वरूपत्वेन धर्मिज्ञानापेक्षया अन्योन्याश्रयाभावेऽपि प्रतियोगिज्ञानापेक्षया अन्योन्याश्रयस्तु स्यादेव । तथाहि प्रतियोगिभूत सर्वस्य ज्ञाने हि पुरोवर्तिवस्तुनिष्टव्यावृत्तिज्ञानं प्रति योगिज्ञानस्य तत्र कारणत्वात् । सर्वस्य प्रतियोगित्वज्ञानं च भेदज्ञाने सति, धर्मिणः सकाशाद्भेदेन प्रतीतस्यैव सर्वस्य प्रतियोगित्वात् । अप्रतीतभेदस्यैव प्रतियोगित्वे तु स्वस्यापि तत्प्रसङ्गात् । न च धर्मिस्वरूपत्वमिवप्रतियोगिस्वरूपत्वमपि भेदस्याङ्गीक्रियते, तथासति अद्वैतप्रसङ्गात् इति चेन्न यदा वस्तु अन्यस्मात् व्यावृत्तमित्यनुभूयते तदा प्रतियोगिभूतमन्यदपि वस्तुना सहैवानुभूयते । एवं च प्रतियोगिना सहैव व्यावृत्तिप्रतीतेः । प्रतीतिद्वयाभावान्नान्योन्याश्रयः |

ननु घटादिज्ञानं चाक्षुषं, प्रतियोगिभूतसर्वपदार्थज्ञानं च साक्षिरूपम्, तथा च कथं साक्षिसिद्धेन सर्वपदार्थेन सह घटादिप्रतीतिरिति चेन्न यथा अस्तिति वर्तमान कालः वस्तुना सहैव अनुभूयते एवमन्यस्माद् व्यावृत्तमित्यत्र अन्यदपि सामान्यत सहैवानुभूयते । कालस्य साक्षिसिद्धत्वमन्यत्र उपपादितमनुसन्धेयम् । यथोक्तंमनुव्याख्याने तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् साक्षिसिद्धेन काले खचित ह्येव वर्तते । इति ।

ननु एवं सामान्येन भेदप्रतीतावन्योन्याश्रयः नास्तीति अभ्युपगम्यते, तथापि विशेषतः भेदप्रतीतावन्योन्याश्रयः स्यादेव । सा हि घटात् पटो भिन्न इत्युत्पद्येत । तथा च पटादूघटस्य भेदप्रतीतौ घटात् पटस्य भेदप्रतीतिः । धर्मिण सकाशाद् भेदन प्रतीतस्यैव प्रतियोगित्वात् । अप्रतीतभेदस्यैव प्रतियोगित्वे तु स्वस्यापि तत्प्रसङ्गः इति चेत् न प्रत्येतव्यभेदाधिकरणभूतपटप्रतियोगिकभेदवत्वेन ज्ञातस्य न प्रतियोगित्वं येन उक्तरीत्या अन्योन्याश्रय स्यात् किंतु यथा गोर्गवयसादृश्यज्ञानाभावेऽपि वस्तुतः गवयसादृश्यवतो गोत्वादिना प्रतीतिमात्रेण गवयविसदृशत्वेन अप्रतीतिमात्रेण वा गवयगतसादश्यप्रतियोगित्वम्, एवमिहापि वस्तुतः प्रत्येतव्यभेदाधिकरणप्रायोगिकभेदवतो घटादेर्घटत्वादिना प्रतीतिमात्रेण प्रतियोगित्वोपपत्तेः ।

ननु घटत्वादिना प्रतीतिमात्रेण प्रतियोगित्वे पटाभिन्नतया ज्ञातस्यापि घटादेः पटधर्मिकभेदप्रतियोगित्वं स्यादिति चेन्न तदा घटत्वादिना ज्ञानमोषात् । अथवा पटैक्येन अज्ञातस्य घटादेः घटत्वादिना ज्ञानमात्रेण प्रतियोगित्वमुपपद्यते इत्यदोष । अन्यथा जीवस्य ब्रह्मणा अभेदे ज्ञाते ब्रह्मणा जीवाभेदधीरिति तवाप्यन्ययोन्याश्रयः दुर्वारः स्यात् ।

ननु तथापि भेदस्य धर्मिस्वरूपत्वं न युज्यते । भेदधर्मिणो सापेक्षत्वनिरपेक्षत्वलक्षणविरुद्धधर्माधिकरणत्वात् । विरुद्धधर्माधिकरणयोरभेदासंभवात् इति चेन्न त्वयापि सापेक्षत्वनिरपेक्षत्वरूपविरुद्धधर्माधिकरणयोः अभेदस्य अङ्गीकर्तव्यात् । तथा हि ब्रह्म नास्ति असदिति वा केनचिदुक्ते ब्रह्म अस्ति सदिति वा त्वया साधनीयम् । तथा च ब्रह्मसत्ता अस्तीत्यादिवर्तमानकालसापेक्षतया अनुभूयते । तथा च ब्रह्मसत्ताया: कालसापेक्षत्वेऽपि तन्निरपेक्षब्रह्मैक्यं त्वया अङ्गीक्रियते एव । सत्तायाः ब्रह्मान्यत्वे अद्वैतभङ्गप्रसङ्गस्य वज्रलेपायितत्वात् । मिथ्यात्वे अस्तिब्रह्मेतिचेद्वेद इत्यादिश्रुतीनामतत्त्वावेदकत्वप्रसङ्गात् । ननु सत्ता न सापेक्षा इति चेन्न विद्यमानता हि वर्तमानकाम्बन्धः सम्बन्धस्य च सम्बन्धिसापेक्षत्त्वमनुभवसाक्षिकम् |

किंच भेद धर्मस्वरूपयोरभेदे सत्यपि सापेक्षत्वाविक स युज्यते एव । सविशेषाभेदाङ्गीकारात् । यथोक्तं टीकाकार:' अधिकश्चात्र सविशेभेदाङ्गीकारेण परिहार ' इति

ननु तथापि न "भेदस्य धर्मिस्वरूपत्वं युज्यते । एकस्यैव भेदस्य सयोगवत् भिन्नाविमौ भिन्ना इमे इत्यनेकाश्रितत्वप्रतीतेः । तथा च भेदस्य धर्भिस्वरुपत्वे घटपटयोरपि भेदं प्रति धर्मित्वात् घटाभिन्नभेदाभिन्नत्वेन पटस्यापि घटाभिन्नत्वं स्यात् इति चेन्न एकस्यैव भेदस्य अनेकाश्रितत्वानङ्गीकारात् । चैत्रमैत्री भिन्नौ इत्यत्र चैत्रात् मैत्रस्य भेदः, मैत्रात् चैत्रस्य मेदः इति भेदद्वयमेव प्रतीयते । मुख-चन्द्रौ आल्हाकौ इत्यत्र यथा आल्हादकत्वद्वयं प्रतीयते एवमेव अत्रापि भेदद्वयं प्रतीयते इत्यवश्यं वक्तव्यम् । अनयोर्भेद इत्यत्रापि घटपटादिधर्मिक भेदद्वयमेव प्रतीयते घटपट्यो रूपमितिवत् । इमौ संयुक्तौ अनयोः संयोग इत्यत्राप्येवमेव-एकवचनव्यवहारस्तु विप्राणां भोजनमितिवत् समुदायापेक्षया उपपन्नम् । किंच भेदो हि अन्योन्याभावः । तस्य च अनेकाश्रितत्वमसंभवि । ननु तथापि पृथक्त्वरूपो भेदः भवत्येव अनेकाश्रित इति चेन्न घटात् पटः पृथक इति प्रतीतस्य पृक्त्वस्य परेणापि द्विष्टत्वानङ्गीकारात् ।

ननु प्रतियोगिनिरूप्यभेदस्य वस्तुस्वरूपत्वे प्रतियोगिनोऽपि वस्तुस्वरूपत्वं स्यात् । निरूपितस्य यद् भवति तन्निरूपकस्यापि भवति इतिन्यायात् इति चेन्न प्रतियोगिन उपलक्षणमात्रत्वेन धर्मिण्यन्तर्भावाभावात् अन्यथा अज्ञाननिवृत्तेः पुरुषार्थत्वेन अज्ञानस्यापि तदापत्तेः । किंच निरूपितस्य यद्भवति तन्निरूपकस्यापि भवति इति नियमो नाङ्गीकर्तुं शक्य: । लम्बकर्णमानयेत्यादौ तथा दृष्टमिति चेन्न 'चित्रगुमानय इत्यादौ अन्यथाऽपि दृष्टत्वात् ।

ननु तथापि न भेदस्य धर्मिस्वरूपत्वम् । तथापि घटभेदशब्दयोः पर्यायत्वापत्त्या घटो भिन्न इत्यादिसहप्रयोगाभावप्रसङ्गात् इति चेन्न अभिनानामपि तथा व्यवहारदर्शनात् । यथा ज्ञानानन्दैक्यानां ब्रह्मस्वरूपत्वेऽपि ब्रह्मज्ञानानन्दाद्वितीय शब्दानामपर्यायत्वेन विज्ञानमानन्दं ब्रह्म एकमेवाद्वितीयमित्यादिव्यवहार: विशेषस्तथाभेदस्य घटस्वरूपत्वेऽपि घटभेदशब्दयोरपर्यायत्वेन व्यवहारः उपपद्यते । वस्तुतस्तु अस्मन्मते सविशेषाभेदाङ्गकारेण घटभेदशब्दयोरपर्यायत्वं युज्यते । न चैव त्वया वक्तुं शक्यते । विशेषानङ्गीकारात् । ननु विज्ञानानन्दादि शब्दानां ज्ञानत्वादिविशिष्टवाचकत्वात् तद्वाच्यानां भेदोऽस्त्येव । अतः न तेषां पर्यायत्वम् । न चैवं निर्भेदार्थनिष्ठत्वरूपाखण्डार्थत्वहानि: । लक्षणया ब्रह्मस्वरूपपरत्वाङ्गीकारात् । ततश्च विशेषाङ्गीकारोऽस्माकमनावश्यकः इति चेन्न अनेकशब्दप्रयोगवैयर्थ्यात् । किंच अत्र अद्वैतवादी प्रष्टव्यः । किं विज्ञानशब्देन लक्षितं ब्रह्मैव आनन्दशब्देन लक्ष्यते तदतिरिक्तं वा । नाद्यः । आनन्दशब्दवैयर्थ्यात् । न द्वितीय: । अखण्डार्थत्वहाने: । न हि धर्मधर्मिभेदासहमखण्डत्वं धर्मभेदसम् । ननु विज्ञानशब्देन लक्षितस्यैव आनन्दशब्देन लक्षितत्वेऽपि अज्ञानानन्दादिव्यावृत्तिरूपभिन्नभिन्नप्रयोजनसद्भावान्न पदान्तरवैयर्थ्यामिति चेन्न विज्ञानानन्दादिशब्देन लक्ष्यार्थे ब्रह्माणि ज्ञानत्वादिधर्मानवबोधने अज्ञानादिव्यावृत्तिबोधनस्यापि कर्तुमशक्यत्वात् । तस्मादेकधैवानुद्रष्टव्यमित्यादिश्रुतिविरोधपरिहाराय विज्ञानानन्दैक्यानां यथा ब्रह्मणा अत्यन्तामेदोऽङ्गीक्रियते एवं विज्ञानादिशब्दानां पुनरुक्ते वैय्यर्थस्य वा परिहाराय विशेषोप्यङ्गीकार्य एव ।

ननु तथापि भेदस्य धर्मिस्वरूपत्वे घट एवास्ति न भेदः भेद एवास्ति न घट इति वा प्राप्त्या एकतरविशेषः स्यात् इति चेन्न त्वयाऽपि ज्ञानानन्दैक्यानां परस्परं ब्रह्मणा च अभेदाङ्गीकारात् ब्रह्म वा स्यात्, ज्ञानं वा स्यादित्यन्यतरपरिशेषापादनंभवात् ।

ननु ज्ञानानन्दादेः परस्परं ब्रह्मणा च अभिन्नत्वे एकतरपरिशेषस्यादिति कोऽर्थः । किं वस्तुभेदो न स्यात् किंतु एकमेवस्यादिति किंवा ज्ञानमिति वा ब्रह्मेति वा व्यवहार स्यात् न तु उभयथेति यद्वा एतयोर्मध्ये एकस्यैव अर्थक्रिया नोभयस्येति वा अथवा द्विवचनप्रयोगो न स्यादिति वा । नाद्यः । इष्टापत्तेः । न द्वितीयः । प्रवृत्तिनिमित्तभेदेन तदुपपत्तेः । न तृतीयः । यथा एकस्यैदीपस्य शुक्लभास्वर रूपवत्वेन प्रकाशकत्वं उष्णस्पर्शवत्वेन दाहकत्वमिति उभयार्थ क्रिया उपपद्यते तथा ब्रह्मणः ज्ञानरूपत्वेन आनन्दरूपत्वेन च उभयार्थक्रिया उपपद्यते । न चतुर्थं अर्थप्रकाशकत्वनिरुपाधिकेष्टत्वरूपयोः ज्ञानत्यानन्दत्व- रूपयोर्विशेषणयोरनेकत्वेन

विज्ञानानन्दावित्यादिद्विवचनप्रयोगोपपत्तिरिति चेत्समं प्रकृतेऽपि ।

इति प्रसक्तानुप्रसक्तविचारः