शास्त्रदृष्ट्या तूपदेशो वामदेववत्
“ शास्त्रदृष्ट्या तूपदेशो वामदेववत् (१।१०३०) आत्मेति तुपगच्छन्ति ग्राहयन्ति च (ब्र. ४|१|३) " अविभागेन दृष्ट- त्वात (ब्र. ४।४।४)इति सूत्रत्रयस्यापि अद्वैतपरत्वनिरासेन भेदपरत्वसमर्थनम् ।
प्रकृते शास्त्रदृष्ट्या तूपदेशो वामदेववत् इति सूत्रस्य भेदपरत्वम् अभेद- परत्वाभावं च दर्शयिष्यामः ।
ॐ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॐ
इति सूत्रं न जीवब्रह्मणोरभेदबोधकम् अस्मिन् सूत्रे जीवब्रह्मणोरैक्यबोधकपदाभावात् । तथाहि सूत्रस्य प्रतीयमानोऽर्थः यथा वामदेवस्य उपदेशः शास्त्रदृष्ट्या तथा प्रकृतोऽप्युपदेशः शास्त्रदृष्ट्या इति । न ह्यनेन जीवब्रह्मणोरभेदः सिध्यति । न च शास्त्रदृष्ट्या तूपदेशो वामदेववत् इति सूत्रस्य यथा वामदेवः अहं मनुरभव सूर्यश्चाहं कक्षीवान् इति आत्मनः सर्वाभेददृष्ट्या ब्रह्माभेददृष्ट्या वा मनुत्वसूर्यत्वादिकम् आत्मन उक्तवान् तथा अयमिन्द्रोऽपि अहमेव परं ब्रह्म इति शास्त्रानुसारिज्ञानेन मामेव विजानीहि इति प्राणशब्दबोध्यं परं ब्रह्म मामेव मदभिन्नत्वेन जानीहि इत्युपदेशं कृतवान् इत्यर्थ इति शङ्कराचार्यैरुक्तत्वेन जीवब्रह्मणोरैक्यं सिध्यतीति वाच्यम् । एतावदर्थबोधकपदाभावात् । अस्यार्थस्य प्रमाणबाधितत्वाच्च । अहमेव परं ब्रह्मेति वेदे सूत्रे गीतायां च कुत्राप्यनुक्तत्वेन अहमेव परब्रह्म इति दृष्टेः शास्त्रानु सारित्वाभावेन शास्त्रदृष्ट्या इति पदस्य तथा अर्थकरणानुपपत्तेः शास्त्रदृष्ट्येति पदेन तादृशार्थस्य प्रतीयमानत्त्वाभावाच्च । य आत्मनि तिष्ठन्यः आत्मानमन्तरो यमयति ' ' यः सर्वभूतेषु तिष्ठन् .....यः सर्वाणि भूतानि अंतरो यमयति, " इत्याद्यनेकैर्वाक्यैः परमात्मनः इंद्रादिसर्वनियामकत्वस्योक्तत्वेन शास्त्रदृष्ट्येत्यस्य अथवा शास्त्रजन्यांतर्यांमिदृष्टयेत्यर्थसम्भवेन यथा शास्त्रानुसार्यन्तर्यामिदृष्ट्य वामदेवः अंतर्यामिपरमात्मनः दृष्ट्या अहं मनुरभवं सूर्यश्चेति उक्तवान् तथा इंद्र मां मदंतर्यामिणं परमात्मानं विजानीहि इत्यभिप्रायेण मामेव विजानीहि इत्युक्तवान् इत्यर्थस्य युक्तत्वात् । किंच अहं मनुरभवं सूर्यश्चेति (ऋ. १५-१) मन्त्रद्रष्टुः वामदेवस्य आत्मन: ( स्वस्य ) सार्वात्म्यज्ञानं वा परमात्माभेदज्ञानं वा नासीदेव । तथाहि तेनैव
" गर्भे नु सन्न न्वेषामवेदमहं देवानां जनिमानि विश्वा ।
शतं मापुर आयसीररक्षन्नधश्येनो जवसानिरदीयम् ॥
(ऋ-४-३-६ ) (पदविभागः) गर्भे नु सन् एषां अवेदं अहं देवानां जनिमानि विश्वा शतं मां पुरः आयसी: अरक्षत अधश्येनः जवसानिः अदीयम् ।
गर्भे नु गर्भ एव सन् विद्यमानोऽहं वामदेवः एषामिद्रादीनां देवानां विश्वा विश्वानि सर्वाणि जनिमानि जन्मानि अन्ववेदं आनुपूर्व्येणाज्ञासिषं परमात्मनः सकाशात् सर्वे देवा जाता इत्यवेदिषमित्यर्थः...... १
न घासमामपजोषं जभाराभीमासत्वक्षसा वीर्येण ।
ईर्मापुरंधिरजहादरातीरुतवातां अतरच्छूशुवानः ॥ २ ॥
( पदविभागः ) न घ सः मां अप जोषं जभार अभि ईम् आस त्वक्षसा वीर्येण ईर्मा पुरंधिः अजहात् अरातीः उत वातान् अतरत् शुशुवानः ।
स गर्भः मां वामदेवं जोषं पर्याप्तं नघ नैवापजभार अपजहार गर्भेऽपि वसतो मे माहो माभूदित्यर्थः । अहं तु ईम् इदं गर्भस्थं दुःखं त्वक्षसा तीक्ष्णेन वीर्येण ज्ञानसामर्थ्येन अभ्यास अभ्यासवं ईर्मा सर्वस्य प्रेरकः पुरंधिः पुरां धारकः परमात्मा अरातीः गर्भसंस्थितान् शत्रूनजहात् अत्यजत् जघान उतापि च शूशुवानः वर्धमानः परिपूर्णः परमात्मा वा तान् गर्भक्लेशकरान् वायून् अतारीत् ॥ २ ॥
इत्युत्तरमन्त्राभ्यां सर्वे देवाः परमात्मनः नाताः सर्वस्य प्रेरकः परमात्मा अरातीः गर्भसंस्थिनात् शत्रूनजहत् । परिपूर्णः परमात्मा वातान् गर्भक्लेशकरान् वायूनतरत् इति परमात्मना स्वस्य देवानां च भेदः ज्ञातः परमात्मनः अन्तर्यामित्वं च ज्ञातं वामदेवेन इति स्पष्टमुक्तत्वेन विद्यारण्यभाष्येऽपि एवमेव व्याख्यातत्वेन च वामदेवस्य अहमेव परब्रह्म इति ज्ञानं नासीत् इति सिद्धया वामदेववदिति सूत्रगतपदस्य यथा वामदेव: अभेददृष्ट्या अहं मनुः अहं सूर्यः अहं कक्षीवान् इति उक्तवान् तथा इन्द्रोऽपीत्युक्तिरसङ्गतैव ।
अद्वैतमतरीत्यापि विशिष्टयोरैक्यायोगात् विशिष्टस्य वामदेवस्य विशिष्टैः मन्वादिभिः ऐक्यासम्भवेन अहं मनुः अहं सूर्य इत्यादिज्ञानस्य भ्रमत्वापत्तेः । न हि ज्ञानिनः भ्रमः सम्भवाहः ।
न च अहंमन्वादिपदानां चिन्मात्रे लक्षणामंगीकृत्य चित् चित् अभवं इति चा चित् इति अखंडबोधो वाऽभिप्रेतस्तस्य वाक्यस्येति वाच्यम्। तत्त्वमस्यादिवाक्यविचारोक्तरीत्या लक्षणाद्यसंभवाद्यनेकदोषदुष्टत्वेन तादृशबोधस्य स्वीकर्तुमशक्यत्वात् । मुख्यार्थस्य बाधे अन्यार्थस्य इतरप्रमाणानुकूलस्य इतर प्रमाणाबाधितस्यैव च स्वीकार्यत्वेन अभेदप्रतिपादकप्रमाणानामभावेन भेदबोधकानां प्रमाणानां सत्त्वेन तदनुकूलतया तदविरुद्धतया च ' अहं ' मदन्तर्यामी मन्वन्तर्यामी इत्याद्यनेकार्थानां सम्भवेन त्वदभिमतार्थस्य स्वीकारायोगाच्च ।
किंच अद्वैतिमते सर्वस्य प्रपंचस्य ब्रह्मज्ञानकल्पितत्वात् अहमेव परं ब्रह्मेति ज्ञाने जाते ब्रह्माज्ञाननिवृत्त्या सर्वस्यापि प्रपंचस्य निवृत्त्या ' अहं भूमिमददामार्याय अहं वृष्टिं दाशुषे मर्त्याय अहमपो अनयं वावशानामम देवासो अनुकेतमायन् ' इत्यादिभिरुत्तरैर्मन्त्रैः उक्तानि आर्याय मनवे भूमिदानं यज्ञकर्त्रे यजमानाय वृष्टिदानं उदकानां सर्वदेशं प्रति प्रापणं शंबरपुरनाशनं इत्यादिकर्माणि कथं घटेरन् । अतः अद्वैतमतरीत्यापि वामदेवस्य ब्रह्मात्मैक्यज्ञानं नासीदित्येव वक्तव्यं । तथा च " वामदेवः यथा सार्वात्म्यदृष्ट्या ( ब्रह्माभेददृष्ट्या ) अहं मनुरभवमित्याद्युक्तवान् तथा इन्द्रोपीति अद्वैतिनां कथनमयुक्तमेव । एवं इंद्रस्यापि यदि अहमेव परं ब्रह्म इति ज्ञानं तदा ब्रह्मज्ञानकल्पितस्य ब्रह्मातिरिक्तस्य सर्वस्यापि निवृत्त्यापत्त्या मामेव विजानीहि इत्याद्युक्तिरयुक्तैव स्यादिति नेन्द्रस्यापि अद्वैतमतरीत्या अहमेव ब्रह्मेति ज्ञानमासीत् इति वक्तुं शक्यमिति नेदं सूत्रं जीवब्रह्मणोरैक्यबोधकम् । किञ्चैतदधिकरणीयपूर्वोत्तरसूत्रपर्यालोचनयापि जीवब्रह्मणोरभेदः नैतत्सूत्रार्थतया वक्तुं शक्यः । तथाहि ' प्राणस्तथानुगमात् ' न वक्तुरात्मापदेशादिति चेदध्यात्मसंबंधभूमा ह्यस्मिन् ' ( ब्र. १ । १ । २ ) शास्त्रदृष्ट्या तूपदेशो वामदेववत् ' जीवमुख्यप्राणलिंगान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ' इति चतुःसूत्रात्मकमिदमधिकरणम् । तत्र प्राणस्तथानुगमादिति प्रथमसूत्रे |
शंकरानन्दकृतवैय्यासकन्यायमालायां
' प्राणोऽस्मीत्यत्र वाव्यिंद्रजीवब्रह्मसु संशय : ।
चतुर्णां लिंगसद्भावापूवपक्षस्त्वनिर्णयः || १||
ब्रह्मणोऽनेकलिंगानि तानि सिद्धान्यनन्यथा ।
अन्येषामन्यथासिद्धेर्व्युत्पाद्यं ब्रह्म नेतरत् ॥ २॥
इति अधिकारणार्थसङ्ग्राहकाभ्यां अद्वैतिभी रचिताभ्यां श्लोकाभ्यां मुख्यप्राणजीवदेवता ब्रह्मणामनेकेषां लिंगानि बहूनि संप्लवंते तत्कतमदत्र लिंगं लिंगाभासं च कतमदित्यत्र विचार्यते इत्यादिभामतीवाक्येन ' च स होवाच प्राणोस्मि प्रज्ञात्मा' (कौ. ३-१-२-३ ) इत्यादिवाक्यानि विचार्यत्वेनात्र उपक्षिप्य वाव्यिंद्रिजीवब्रह्मणां लिंगानां विद्यमानत्वेनायमेवात्र प्रतिपाद्यत इति निर्णयो नैव शक्यत इत्यादिपूर्वपक्षं च प्रापय्य ब्रह्मलिंगाव्द्रह्मैवात्र प्रतिपाद्यते इतरत् = ब्रह्म-भिन्नप्राणवाविंद्रजीवादिकं न प्रतिपाद्यत इति सिद्धांतितत्वेन स्पष्टं प्राणवाविंद्रजीवानां परमात्मना भेदस्य कथितत्वात् । यदि प्राणेंद्रजीवानां परब्रह्मणा ऐक्यं अभिप्रेतं स्यात् तदा तथा पूर्वपक्षकरणमयुक्तं स्यात् । तथा अज्ञानवशात् पूर्वपक्षे कृतेऽपि इंन्द्रादिजीवानां परमात्मना ऐक्यमेवेति समाधानं कर्तव्यं स्यात् । तथा अकृत्वा ब्रह्मैव प्राणशब्दवाच्यं नान्ये जीवादयः इत्युक्तिरसंगता स्यात् । तस्मान्नेदं सूत्रं जीवब्रह्मणोरैक्यबोधकम् । नाप्येतदधिकरणांतर्गतं ' न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबंधभूभा ह्यस्मिन् ' ( ब्र. १-१-२९) इतिसूत्रं जब्रिह्मणोरैक्यबोधकम् । तथाहि तत्सूत्रे प्राणोस्मि प्रज्ञात्मा इति इंद्रेण आत्मनः ( स्वस्य ) प्राणत्वेनोपदेशात् ब्रह्मण्यसंभाव्यमानानां त्वाष्ट्रवधादिधर्माणां इंद्रसंबंधिनां प्राणे कथितत्वेन इंद्र एव प्राणशब्दवाच्यः न ब्रह्म इति पूर्वपक्षं प्रापय्य यावदुद्ध्यास्मिन् शरीरे प्राणो वसति तावदायुरिति तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेव एता भूतमात्रा: प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः । स एष प्राण एव प्रज्ञानंदोऽजरोऽमृत इति स आत्मेति विधानात् इति च अध्यात्म (परमात्म ) संबंधबाहुल्यस्यैतदध्याये दृश्यमानत्वेन ब्रह्मोपदेश एवायं न देवतात्मोपदेशः (इंद्रोपदेशः ) इति सिध्यति इति इदमपि सूत्रं भेदबोधकमेव ।
जीवमुख्यप्राणलिंगान्नेति चेन्नोपासात्रैविध्यादाश्रित्वादिह तद्योगात् ' इत्युत्तरसूत्रेऽपि प्राणोऽस्मि प्रज्ञात्मा इत्यादिवाक्येषु जीवलिंगानां प्राणलिंगानां ब्रह्मलिंगानां च श्रवणात् जीवः प्राणो ब्रह्म च प्रतिपाद्यतां न ब्रह्मैवेति पूर्वपक्षयित्वा प्राणशब्दस्य प्राणजविब्रह्मपरत्वे अंगीकृते उपासात्रैविध्यप्राप्तेः ब्रह्मलिंगानां सत्त्वात् तेषामन्यपरतया नेतुमशक्यत्वात् 'न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवंति यस्मिन्नेतावुपाश्रितौ' । (का. २ - ५-५) इत्यादिश्रुत्या प्राणादिव्यापारस्य परमात्मायत्तत्वावगमात् प्राणाद्यन्यलिगानां परमात्मनि नेतुं शक्यत्वेन प्राणशब्देन ब्रह्मैव प्रतिपाद्यं न जीवप्राणावपि इति शंकरेण सिद्धांतितत्वेन उत्तरसूत्रेऽपि जीवपरमात्मनोर्भेदस्यैव बोधितत्वेन मध्यस्थं शास्त्रदृष्ट्येतिसूत्रमपि अद्वैतव्याख्यानरीत्याऽपि न जीवब्रह्मणोरैक्यबोधकमिति । एवं च एतदधिकरणान्तर्गताभ्यां ' प्राणस्तथेति ' न वक्तुरिति चेति पूर्वसूत्राभ्यां इंद्रब्रह्मणोर्भेदस्यैव कथने कथं 'प्राणोस्मि प्रज्ञात्मा' इति इन्द्रेण प्राणशब्दबोध्यपरमात्माऽभेदोपदेशः कृंत इति शंकायां तन्निवारणार्थं प्रवृत्तं शास्त्रदृष्ट्या तूपदेशो वामदेववत्' इति सूत्रं न प्राणब्रह्मणोरैक्यं वक्तुं प्रवृत्तमिति कथयितुं शक्यम् । यत एतदधिकरणीयप्रधानेन प्राणस्तथेतिसूत्रेण, तथा पूर्वसूत्रोक्तं भेदं व्यवस्थापयद्भयां न वक्तुरिति, जीवमुख्यप्राणेति, पूर्वसूत्राभ्यां अनेकश्रुतिसूत्रगीतारूपप्रमाणैश्च विरुद्धं तस्मात् शास्त्रदृष्ट्या इत्यस्य य आत्मनि तिष्ठन् य आत्मानमंतरो यमयति यः सर्वेषु भूतेषु तिष्ठन्...यः सर्वाणि भूतानि अंतरो यमयति इत्यादि शास्त्रजन्यया नियम्यमृत्तिकावाचिमृच्छब्देन तन्नियामकदेवतोक्तिवत् स्वान्तर्यामी ( स्वनियामकः) परमात्मा इति दृष्ट्या प्राणोऽस्मि प्रज्ञात्मा इत्युपदेशः यथा परमात्मना जीवान्मनः स्वस्य च भेदज्ञानवतो वामदेवस्य यथा अंतर्यामिदृष्ट्या अहं मनुरभवं सूर्यश्चेति उपदेशः तद्वत् इति सूत्रार्थस्यैव इतर प्रमाणानुकूलत्वेन इतर प्रमाणाविरुद्धत्वेन च युक्तत्वात् नेदं सूत्रं जीवब्रह्मणोरभेदबोधकं किंतु भेदबोधकमेवेति ।
अभेदबोधकत्वेनाद्वैत्यभिमत द्वित्रब्रह्मसूत्रान्तर्गतं ' आत्मेति तूपगच्छन्ति ग्राहयन्ति च ' इति सूत्रमपि नाभेदबोधकम् । तत्रैकस्याऽपि अभेदबोधकस्य पदस्याभावात् । भेदबोधकपदानां सत्त्वाच्च । तथाहि शब्दस्वारस्येन प्रतीयमानोऽ- र्थस्तु आत्मा इति उपगच्छन्ति जानन्ति, ग्राहयन्ति इति । अत्र हि नाभेदबोधकं किंचिदपि पदमस्ति । प्रत्युत ज्ञातृज्ञेयभावबोधनेन ज्ञातृज्ञेयज्ञापयितृभावबोधनेन च भेदबोधकमेव ।
ननु ' यः शास्त्रोक्तविशेषणः परमात्मा सः किमहमिति प्रतिपत्तव्यः किंवा मदन्य इति संशये परमात्मा अहमिति प्रतिपत्तव्यः ।
नापहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते गृहीतुं विपरीतगुणो वाऽपहतपाप्मत्वादिगुणत्वेन, अपहतपाप्मत्वादिगुणश्च परमेश्वरः तद्विपरीतगुणस्तु शारीरः (जीवः )
ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङ्गः । ततः शास्त्रानर्थक्यम् । संसारिणोऽपि ईश्वरात्मत्वेऽधिकार्यभावाच्छास्त्रानर्थक्यमेव । प्रत्यक्षविरोधश्च ।
अन्यत्वेपि तादात्म्यदर्शनं प्रतिमादिष्विव विष्ण्वादिदर्शनमिति चेत्काममेवं भवतु । नतु संसारिणो मुख्य आत्मेश्वर इत्येतन्नः प्रापयितव्यम् एवं प्राप्ते ब्रूमः आत्मेत्येवेश्वरः प्रतिपत्तव्यः । तथाहि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैनमुपगच्छन्ति । त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि देवते इति । तथाऽन्येऽपि अहं ब्रह्मास्मि इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति चात्मत्वेनैवे- वरं वेदांतवाक्यानि ' एष त आत्मा सर्वान्तरः (बृ. ३-४-१ ) एष ते आत्मान्तर्याम्यमृत: (बृ. ३-७-३ ) तत्सत्यं स आत्मा तत्त्वमसि (छां. ६-८-७ ) इत्येव मादीनि ' ( ब्र. स. शां. भा. ४-१-३ ) इति शङ्करभाष्यदिशा आत्मेति तूप- गच्छन्ति ग्राहयन्ति च इति सूत्रं जीवपरमात्मनोरैक्यं श्रुत्यवष्टम्भेन वक्तीति चेत् न । शाङ्करीयसूत्रार्थकथनस्यायुक्तत्वात् । तथाहि जाबाला आत्मत्वेन एतं (परमेश्वरं ) उपगच्छन्ति इति 'आत्मेति तूपगच्छन्ति' इति सूत्रभागस्यार्थकरणं तावदयुक्तम् । सूत्रे परमेश्वरबोधकपदाभावात् । न च परमेश्वरम् इति पदमध्याहृत्य परमेश्वरम् आत्मा इति उपगच्छन्ति इत्यर्थः क्रियते इति वाच्यम् । परमेश्वरनिय म्यं परमेश्वरदासं, परमेश्वरजन्यं परमेश्वररक्ष्यम् अस्वतन्त्रम् इति वा पदस्याध्याहारेण परमेश्वरनियम्यं परमेश्वरदासं चा आत्मा इति ( आत्मत्वेन) उपगच्छन्ति इत्यादिकं प्रमाणपरिष्कृतमर्थं परित्यज्य परमेश्वरम् इति पदमेवाध्याहृत्य परमेश्वरम् आत्मेति उपगच्छन्ति इत्यप्रामाणिकार्थ- करणे नियामकाभावात् । प्रत्युत परमेश्वरदासम् इत्यादिपदाध्याहारेण परमेश्वर- दासम् आत्मेति उपगच्छन्ति इत्यादिभेदानुगुणार्थंकरण एव ५५४ सूत्रेषु द्वित्रसूत्राणि विहाय परमेश्वरनियम्यत्वादिना भेदप्रतिपादकतया अद्वैत्यभिमतानां ५५१ सूत्राणामानुगुण्यरूपस्य भेदप्रतिपादकश्रुत्यानुगुण्यरूपस्य च नियामकस्य सत्त्वेन परमेश्वरदासम् आत्मेति उपगच्छन्ति इत्यर्थकरणैस्यव युक्तत्वात् । परमेश्वरदासमिति पदाध्याहारः कर्तव्य उत परमेश्वरमिति सन्देहेऽपि अस्य सूत्रस्य अभेदे प्रमाणत्वासम्भवात् । परमेश्वरमिति पदमध्याहृत्य परमेश्वरम् आत्मा' इति (आत्मत्वेन) उपगच्छन्ति इत्यर्थकरणेऽपि न जीवब्रह्मणेोरैक्यसिद्धिः । आत्मशब्दस्य आप्त्यादिगुणविशिष्टपरमात्मबोधकत्वेन जीवाबोधकत्वात् । परमेश्वरम् आत्मा = यच्चाप्नोतीत्यादिप्रमाणसिद्धाप्त्यादिगुणवान् इति ( आप्त्यादि-गुणवत्त्वेन ) जानन्तीत्यर्थो भवति न तु परमेश्वरम् आत्मत्वेन ( जीवत्वेन ) जानन्तीत्येवार्थो भवतीति भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायेन परमेश्वरम् इति पदमध्याहर्तुरद्वैतिनो जीवपरमात्मनोरभेदासिद्धेः । मुख्यया वृत्त्या आत्मशब्दस्य आप्त्यादिबहुगुणविशिष्टपरमात्मबोधकत्वमेव, न तु जीवबोधकत्वमित्येतत् शङ्कराचार्याद्यद्वैतिभिरेव ' द्युभ्वाद्यायतनं स्वशब्दात् ' ( ब्र. सू. १।३।१ ) इति सूत्रभाष्यव्याख्यावसरे उक्तम् । तथा हि तद्वाक्यानि ( अर्थतः शाङ्करभाष्यम्) द्युभ्वाद्यायतनं परं ब्रह्म भवितुमर्हति, न जीवादयः आत्मशब्दात् । आत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकत्म्पते नार्थान्तरपरिग्रहे ( जीवान्तरपरिग्रहे ) इति ।
भामत्यर्थानुवादः- द्युभ्वाद्यायतनं परं ब्रह्मैव, न प्रधानाव्याकृतवायुशारीर (जीव ) हिरण्यगर्भाः स्वशब्दात् ( आत्मशब्दात् ) इति ।
रत्नप्रभाः— नन्वात्मशब्दो जीवे सम्भवतीत्यत आह आत्मशब्दश्चेति ।
( आनन्दगिरि ) जीवादावपि तदुपपत्तिमाशक्योक्तम् आत्मशब्दश्चेति । पक्षान्तरे मुख्यमाप्त्याद्ययुक्तामित्यर्थः । ब्रह्मविद्याभरणे यद्यप्यात्मशब्दो जीवसाधारणोऽपि भवति, तथाऽपि योगेन ब्रह्मासाधारण एव । तथा च व्यापकत्वरूपयोगेन रूढ्या च परमेश्वरे स्वरसस्य न रूढिमात्राश्रयणेन जीवसाधारण्यं कल्पयितुं युक्तमिति ।
तथा च परमेश्वरम् इति पदमध्याहृत्य परमेश्वरम् आत्मत्वेन उपगच्छन्ति इत्युक्तावपि परमेश्वरम् आप्त्यादिगुणयुक्तत्वेन जानन्तीत्येवार्थः सिद्ध्यति, न तु परमेश्वरम् आत्मेति (जीव इति ) जानन्ति इत्यर्थः । ततः ' आत्मेति तूपगच्छन्ति ग्राहयन्ति च ' इति सूत्रं न जीवब्रह्मणोरभेदबोधकमिति ।
परमेश्वरम् आत्मत्वेन उपगच्छन्ति इत्यस्मिन्विषये यानि प्रमाणतया उदाहृतानि ' त्वं वा अहमस्मि भगवो देवते, अहं वै त्वमसि देवते' इति 'अहं ब्रह्माऽस्मि ' इत्यादीनि वाक्यानि तानि परमेश्वरस्य आत्मत्वोपरमे प्रमाणं भवितुं नार्हन्ति । तेषामद्यौतिभिः अखण्डार्थबोधकत्वाङ्गकिरात् । विशेष विचारस्तु तत्त्वमस्यादिवाक्यार्थावचारे द्रष्टव्यः ।
ग्राहयन्ति च = आत्मत्वेनैवेश्वरं वेदान्तवाक्यानि ' एष ते आत्मा सर्वान्तरः (बृ. ३ - ४ - १ ) ' एष ते आत्माऽन्तर्यांग्यमृतः (बृ. ३-७-३) तत्सत्यं स आत्मा तत्त्वमसि (छां ६-८-७ ) इत्येवमादीनि इति ग्राहयन्ति चेोति सूत्रभागस्य शाङकरीयार्थवर्णनं तदप्यत्यन्तायुक्तम् ।
ईश्वरम् इत्यर्थबोधकपदस्य सूत्रे अभावात् अध्याहारेण तथा वर्णने दोषस्योक्तत्वात् ।
अभेदविषये यत् ' तत्सत्यं स आत्मा तत्त्वमसि' इत्यादिप्रमाणोदाहरणं तदप्ययुक्तम् । तत्त्वमसीति वाक्यस्याऽपि अद्वैतिभिः अखण्डार्थबोधकत्वाङ्गीकारात् । ' तत्सत्यं स आत्मा' इत्यधिकोदाहरणस्य तेषां प्रयोजनं न पश्यामः । अधिकांशोदाहरणं तु आत्मा अतत् त्वम असि इति पदच्छेदज्ञापनद्वारा ' सन्मूला: सोम्य सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः (छां. ६।८।६ ) इति पूर्ववाक्ये सर्वप्रजानां परमात्मजन्यत्वेन परमात्माश्रितत्वेन परमात्मप्रतिष्ठितत्वेन परमात्मनो भिन्नत्वस्योक्त्या । त्वम् [ अपि ] अतत् परमात्माभिन्नोऽसि इत्यर्थकरणं ज्ञापयन्ति द्वैतिनः ।
किंवा तत् कारणीभूतं सदाख्यं ब्रह्म सत्यम् सः सदाख्यं ब्रह्म तत्त्वं याथात्म्यं इति उपनिषद्भाष्येस्वकृत ( शङकरकृत ) व्याख्यानसूचनद्वारा 'आत्मा तत्त्वमसि' इति वाक्ये केवलम् मखण्डार्यबोधकत्वेन वा आत्मा अतत् इति पदच्छेदेन वा अभेदाप्रतिपादकं न, अपितु तत् त्वम् इति पदच्छेदमन्तरा आत्मा तत्त्वम् इति पदच्छेदस्यापि सम्भवेन 'आत्मा तत्त्वमसि' इति वाक्यमभेदबोधकं (न) भवति इति सूचनार्थं च भवति ।
ग्राहयन्ति चात्मत्वेन ईश्वरम् इत्यस्मिन्विषये 'एष ते आत्माऽन्तर्याम्यमृतः " इति च यत् बृहदारण्यकवाक्योदाहरणं तत् परप्रतारणरूपं स्वव्याहतं च । तथाहि ' शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ' ( ब्र. ११२/२० ) इति सूत्रभाष्ये उभयेऽपि हि शाखिनः काण्वा माध्यन्दिनाश्चान्तर्यामिणो भेदेनैनं शारीरं ( जीवं ) पृथिव्यादिवत् अधिष्ठानत्वेन नियम्यत्वेन चाधीयते । यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयति एष ते आत्माऽन्तर्याम्यमृतः (बृ. ३/७/२२) यो विज्ञाने तिष्ठन् इति काण्वाः य आत्मनि तिष्ठन् इति मध्यन्दिनाः । य आत्मनि तिष्ठन् इत्यस्मिँस्तावत्पाठे भव- त्यात्मशब्दः शारीरस्य वाचकः । यो विज्ञाने तिष्ठन् इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते । विज्ञानमयो हि शारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम् । ( ब्र. सू. शां. भा. १।२।२० ) इति वाक्येन तथा ' भेदव्यपदेशाच्चान्यः (ब्र.- सू. - १/१/२१ ) इत्येतत्सूत्रभाष्ये.
" आदित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी ' य आदित्ये तिष्ठन् आदित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदि- त्यमन्तरो यमयत्येष ते आत्माऽन्तर्याम्यमृतः (बृ. ३/७/९) इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्र हि आदित्यादन्तरो यमादित्यो नवेद इति वेदितुरादित्याद्विज्ञानात्मनोऽन्यांऽन्तर्यामी स्पष्टं निर्दिश्यते " इति वाक्येन तथा ' उभयव्यपदेशात्त्वहिकुंडलवत् ' ( ब्र. सू. ३/२/२७ ) इत्येतत्सूत्रभाष्ये कचिज्जीवप्राज्ञयोर्भेदो व्यपदिश्यते । यः सर्वाणि भूतान्यन्तरो यमयति एष ते आत्माऽन्तर्याम्यमृतः ' इति नियन्तृनियन्तव्यत्वेन ' इति वाक्येन तथा ' अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ' इत्येतत्सूत्रभाष्ये ' एष ते आत्माऽन्तर्याम्यमृतः.... एष ते आत्माऽन्तर्याम्यमृत इति वाक्य घटितानामेकविंशतिवाक्यानां जीवब्रह्मणोर्भेदपरत्वमुक्त्वा 'एष ते आत्माऽन्तर्याम्यमृतः इति चात्मत्वामृतत्वें मुख्ये परमात्मन उपपद्येते इति जीवस्य मुख्यात्मत्वाभावकथनेन च ' यं पृथिवी न वेद, इति च पृथिवीं देवतया अविज्ञेयमन्तर्यामिणं ब्रुवन् देवतात्मनोऽ न्यमन्तर्यामिणं दर्शयति ' इति कथनेन च ' एष ते आत्माऽन्तर्याम्यमृतः ' इति वाक्यं जीवेश्वरयोर्भेदबोधकमिति क्रियासमभिव्याहारेण स्वयमेव स्पष्टं कथयित्वा आत्मत्वेनैवेश्वरं वेदान्तवाक्यानि ग्राहयन्ति इत्यस्मिन्विषये स्वव्याहतमेतद्वाक्योदाहरणमयोग्यजनमोहनार्थं वा चित्तास्वास्थ्यमूलकं वा ।
अनवस्थादयो दोषाः सत्तां निघ्नन्ति वस्तुनः ।
अद्वैतिनां ते सुहृदः प्रपञ्चे तत्प्रसञ्जकाः ॥
इत्यद्वैतिभिः स्वीकृतत्वेन स्वव्याहत्यादिर्भूषणमिति भ्रममूलकमेव वेति समुपेक्षणीयमेव प्रज्ञाशालिभिर्नादरणीयमेव । काममाद्रियन्तां नामेतरे ।
एषः पृथिव्याद्यन्तर्यामित्वेनोक्तः अमृतः आत्मा = परमात्मा ते-तव ( उपलक्षणया ) मम च अन्तर्यामी त्यर्थकत्वेन ' एष ते आत्माऽन्तर्याम्यमृतः ' इत्येकविंशतिवारं पठितानि वाक्यानि जीवपरमात्मनोर्भेदपराण्येव नाभेदपराणीति ।
ग्राहयन्ति चात्मत्वेनेश्वर मित्यस्मिन्विषये ' एष ते आत्मा सर्वान्तर: ' (बृ. ३ । ४ । १ ) इति वाक्योदाहरणमप्युक्तम् । तत्र अभेदबोधकपदाभावात् प्रत्युत ते आत्मा इति जीवपरमात्मनोः सम्बन्धकथनेन भेदबोधकत्वात् । परिच्छिन्नस्य जीवस्य आत्मत्त्वसर्वांन्तरत्वयोरसम्भवेन आत्मशब्देन जीवग्रहणासम्भवाच्चेति ।
यद्यपि 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च' इति सूत्रं नाभेदबोधकं नापि अभेदे प्रमाणतयोदाहृतानि श्रुतिवाक्यानि नाभेदबोधकानि इति स्थितमिति न विचारान्तरस्यास्त्यवकाशः तथापि परमात्मा अहमिति न ग्राह्यः इति कथयित्रा यानि यानि साधकानि परमात्मा ' अहमिति ग्रहणे यानि बाधकान्युक्तनि तेषां दूषणं यदुक्तं शंकराचार्यैः तस्मिन् असामञ्जस्यप्रदर्शनमन्तरा न स्वमते दादर्थं भवतीति तस्यासामञ्जस्यं किंचित्प्रदर्श्यते । तथाहि जीवब्रह्मणोर्भेदे 'त्वमहमस्मि ' इति वाक्यस्य का गतिरिति शंकायां भेदवादिनो 'यथा मनो ब्रह्मेति ' अभेदोक्तिः मनःप्रतीकत्वेन ब्रह्मोपासन विधायिका न तु मनसो ब्रह्मतादात्म्यबोधिका तथा त्वमहमस्मि इति वाक्यं जीवप्रतीकत्वेन ब्रह्मोपासनविधायकं न तु जीवस्य ब्रह्मतादात्म्यविधायकमिति उक्तिं प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति वाक्येनानूद्य तथात्वे गौणत्वप्रसंगात् इति यद्दषणमाहुः शंकराचार्याः तत् निजभोजनभाजने पतितेऽपि रासभशवे परस्यपत्रावल्यां मक्षिकानिवारणन्यायमनुरुन्धे । स्वमतेऽपि (शंकरमते ) ' त्वमहमस्मि तत्त्वमसि इत्यादिवाक्यानां बोधजनकत्वेमवनास्ति । बोधजनकत्वेऽपि तत् त्वम् असि इति पदत्रयाणामपि लक्षणया वृत्त्या चिन्मात्रबोधकत्वमिति गौणार्थांगीकारात् ।
यच्चोक्तम्-'यत्र हि प्रतीकदृष्टिरभिप्रेयते सकृदेव तत्र वचनं भवति, यथा ' ' मनो ब्रह्म' (छां. ३।१८ १) 'आदित्यो ब्रह्म' (छां. ३।१९।१) इत्यादि इह पुनः ' त्वमहमस्मि ' अहं च त्वमसि इत्याह । अतः प्रतीकदृष्टिवैरूप्यादभेदप्रतिपत्तिरिति ' तदप्ययुक्तम् । प्रतीकदृष्ट्यभिप्राये सकृदेव वचनमिति नियमस्य कुत्राऽप्यदृष्टेः । प्रकृतेऽपि ' त्वमहमस्मि' इति सकृदेवोक्तत्वात् ' अहं त्वमसि' इति वाक्यं भिन्नानुपूर्वीकम् अनुयोगिप्रतियोगिभेदेन भिन्नार्थकमिति न प्रतीक श्रुतिवैरूप्यमिति । यद्यपि प्रतिमादिषु विष्ण्वादिदर्शनं कार्यमिति नास्माकसिद्धान्तः । मिथ्योपासनायाः
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ||
इत्यादिना निषिद्धत्वात् । तथाऽपि मिथ्योपासनमन्यत्राङगीकृत्य अत्र तद्वैरूप्यदर्शनं शङ्कराचार्याणामयुक्तमित्येव दर्शने तात्पर्यम् । यदुक्तम् 'भेददृष्ट्यपवादाच्च ' । तथाहि-
अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद ' (बृ. ४|४|१९| कठ. ४।१०) 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' (बृ. ४।४।१९। कठ. ४।१०) ' सर्वं तं परादाद्यो ऽन्यत्रात्मनः सर्वं वेद ' (बृ. ४/५/७) इत्येवमाद्या भूयसी श्रुतिर्भेदमपवदति इति तदप्ययुक्तम् । उदाहृतां ' अथ योऽन्यां देवतामुपास्ते ' इति श्रुतिं तावत् कर्मिणां निन्दाबोधकतया उपानिषद्भाष्ये गीता- भाष्ये सूत्रभाष्ये च व्याख्याय अत्र पुनर्भेददृष्टिनिन्दाविषये तदुदाहरणस्य स्ववा- क्यविरुद्धत्वात् । जीवब्रह्मणोर्भेददृष्टिनिन्दाया अप्रतीतेः । तथाहि उपनिषद्भाष्ये-
अथ यः कश्चिद्ब्रह्मवित् अन्याम् आत्मनः (परमात्मनः ) व्यतिरिक्तां यां काचिद्देवतां (इन्द्राग्न्यादिरूपां ) उपास्ते स्तुतिनमस्कारयागबल्युपहारप्रणिधानध्यानादिना उपास्ते तस्या गुणभावम् उपगम्याऽऽस्ते, अन्योऽसावनात्मा मत्तः पृथक् अन्योऽहमस्म्यधिकृतो मयाऽस्मा ऋणिवत्प्रतिकर्तव्यमित्येवंप्रत्ययः सन्नुपास्ते न स इत्थंप्रत्ययो वेद विजानाति तत्त्वमिति वाक्येन अहमरम्यधिकृतः मया अस्मै ऋणिवत्प्रतिकर्तव्यमित्येवंप्रत्ययः सन् यः परमात्मभिन्नाम् इन्द्रादिदेवतां बल्युपहारप्र- णिधानादिना उपास्ते स तत्त्वं न वेद इति कर्मिणां निन्दा प्रतीयते न तु भेददृष्टिमतां निन्दा । प्रत्युत अन्यां= परमात्माभिन्नाम् इन्द्रादिदेवतामिति स्पष्टम् इन्द्रादि-जीवानां परमात्मनो भेद एव प्रतीयते इति नैतद्वाक्यं जीवब्रह्मणोर्भेददृष्ट्यपवादकम् ।
न च असौ अनात्मा = परमात्मभिन्ना देवता अन्यः मत्तः पृथक् अहम् अन्यः इत्येवं प्रत्ययः न वेदेत्युक्त्या भेदज्ञानिनिन्दा प्रतीयते इति वाच्यम् । इन्द्रादिदेवतायाः कर्मकर्तृजीवाद्भेदस्याद्वैतमतेऽपि विद्यमानत्वात् । इन्द्रादिदेवतानां जीवात् भेदनिन्दायामेवैतद्वाक्यस्य तात्पर्यसत्त्वे ' अन्योऽसावनात्मा मत्तः पृथक् अन्योऽहम् ' ' इत्येवंप्रत्ययः' इत्येतावन्मात्रेण निर्वाहे ' अहमस्म्यधिकृतो मयाऽस्मा ऋणिवत्प्रतिकर्तव्यम्' इति वाक्यस्याधिक्यापाताच्च । तस्मात् नित्य- फलप्रापकं ब्रह्मज्ञानमसम्पाद्य अल्पफलार्थमिन्द्राद्विदेवतामुद्दिश्य यागकर्तॄणां कर्मिणां निन्दायामेव तात्पर्यं न तु भेदनिन्दायाम् ।
यद्यस्य वाक्यस्य भेदनिन्दाबोधने तात्पर्यं स्यात् तर्हि ' योऽनन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीत्याकारः स्यात्, न तु योऽन्यां देवतामिति । न हि घटत्वेन घटं जानन् परं परत्वेनावगच्छन् गर्दभं गर्दभत्वेन मन्वानः बी. ए. परीक्षामुत्तीर्ण बी. ए. पदवीभाजं च जानानोऽविद्वान् भवति । भिन्नदेवताया भिन्नत्वेन ज्ञानिनोऽज्ञत्वं देवानां प्रियोऽपि न ब्रूयात् महान्तः शंकराचार्यास्तु एवं वदेयुरिति संम्भावनाऽपि न सम्भावनार्हति तामसलोकमोहनार्थमेव क्वचित्तथा प्रदर्शयामासुरित्यवश्यं स्वीकार्यम् तेषामेव तथाऽभिप्राये भिन्नां देवतां भिन्नत्वेनजानतोऽज्ञत्वं वक्तुः भ्रान्तत्वमेवेति किं वक्तव्यं सुधिय एव विदांकुर्वन्तु । तथा गीताभाष्ये
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । ( गीः ४ १२ )
इति श्लोकव्याख्यावसरे काङ्क्षन्तोऽभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थयन्तो यजन्त इहास्मिल्लोके देवता इन्द्राग्न्याद्याः “अथ योऽन्यां देवतामु पास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् " इति श्रुतेः, इति वाक्येन अथ योऽन्यां देवतामिति श्रुतेः इन्द्राग्न्यादिदेवता उद्दिश्य कर्मकर्तृनिन्दापरत्वं न तु भेदनिन्दापरत्वमिति सिध्यति ।
एवम् ' अनात्मवित्त्वात्तथाहि दर्शयति' (ब्र. सू. ३।१।७ ) इत्येतत्सूत्रभाष्येऽपि ' तथाहि श्रुतिरनात्मविदां देवोपयोग्यतां दर्शयति जय योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् ' इति वाक्येन च कर्मिनिन्दापरत्वं न तु भेदज्ञानिनिन्दापरत्वमिति सिद्ध्यति ।
अनेन वाक्येन भेदज्ञानिनिन्दाया असिद्धया नेदं वाक्यं भेदनिबोधकमिति नैतद्वाक्योपाहरणं भेदनिन्दायां कर्तव्यमद्वैतिभिरिति ।
यच्च जीवब्रह्मभेददृष्टयपवादे 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' ( कठ. ४/१० ) इति वाक्योदाहरणं तदपि न युक्तम् । तत्र जीवब्रह्मभेददृष्टेर- निषेधात् । तथा हि पूर्ववाक्यसहितं तद्वाक्यमिदम् ।
यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमाप्नोति यह नानेव पश्यति ।। (कठ. ८/१० )
इति तस्यार्थस्तु इह = एतल्लोके यत् ब्रह्म तदेव अमुत्र परलोके, यत् ब्रह्म अमुत्र परलोके तत् मु तदेव इह एतल्लोके ( एतल्लोकपर लोकान्तर्गतरूपयोः भेदोनास्ति ) यः मनुष्यः इह एतल्लोकपरलोकान्तर्गतरूपयोः नाना = भेदं पश्यति सः मृत्योः मृत्युं मरणम् आप्नोति = प्राप्नोति । तथा चैतद्वाक्यं स्वगतभेदं निषेधति नतु ब्रह्मणि जीवभेदम् 'यदेवेह ' इति पूर्ववाक्ये एतल्लोकपरलोकान्तर्गत- रूपयोरभेदं (ऐक्यं ) कथयित्वा उत्तरवाक्ये एतल्लोत्कपरलोकान्तर्गतपरमात्मरूपयोर्भेदं जानतोऽनर्थोक्तेः। ‘मनसैवेदमाप्तव्यं ' इत्युत्तरवाक्ये जीवस्य ज्ञातृत्वेन ब्रह्मणो ज्ञेयत्वेन कथितत्वाच्च ज्ञातृज्ञेयभावेन भेदस्यैव कथनात् ।
अङ्गुष्ठामात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
इत्युत्तरवाक्येनाऽपि ' य आत्मनि तिष्ठन् इत्यादिवाक्यवत् जीवपरमात्मनोर्भेदस्यैव कथितत्वात् । ' ईशानो भूतभव्यस्य ' इति पूर्वेण पञ्चमेन तथा उत्तरेण द्वादशेन त्रयोदशेन च भूतभविष्यज्जगदीशानत्वोक्त्या भेदस्यैव कथितत्वात् ।
' यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेविजानत आत्मा भवति गौतम ' ।।
इत्युत्तरेण पञ्चदशेन च एवं = तादृग् भवति इत्युक्त्या भेदव्याप्तसादृश्यं कथयित्वा तादृगेवेति एव शब्देन अभेदस्य निषेधाच्च ।
एवं पूर्वोत्तरैरनेकवाक्यैर्भेदस्यैव कथितत्वेन मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' । इत्येतद्वाक्यं परमात्मरूपेषु भेदज्ञानिनमेव निन्दति न परमात्मनि जीवभेदज्ञानिनम् इति नैतद्वाक्यं भेददर्शनमपवदति ।
एतेन 'मृत्योः स मृत्युमाप्नोति ' (बृ. ४-४-१९) इति बृहदारण्य- कवाक्यस्याऽपि भेददर्शनापवादकत्वं निरस्तम् । 'सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपति....एष सर्वेश्वरः एष भूताधिपतिरेष भूतपाल ' इत्युत्तरवाक्यस्वारस्येन तदूव्याख्यानभूतेन—
स च सर्वस्य ब्रह्मेन्द्रादेर्वशी सर्वो हि अस्य वशे वर्तते । उक्तं च । एतस्य वाऽक्षरस्य प्रशासने ' इति । न केवलं सर्वस्येशानः ईशिता च ब्रह्मेन्द्र- प्रभृतीनामीशितृत्वं च कदाचिज्जातिकृतं यथा राजकुमारस्य बलवत्तरानपि भृत्यान् प्रति तद्वन्माभूदित्याह सर्वस्याधिपतिः = अधिष्ठाय पालयिता स्वतन्त्र इत्यर्थः । न राजपुत्रवत् अमात्यादिभृत्यतन्त्रः । त्रयमप्येतद्वशित्वादि हेतुहेतुमद्रूपम् । यस्मात्सर्वस्याधिपतिस्ततोऽसौ सर्वस्येशानः ' इत्यादिशाङ्करभाष्येण च ब्रह्मेन्द्रादिसर्ववशित्वब्रह्मेन्द्रादीशितृत्वस्वतन्त्रत्वादिना ब्रह्मे( चतुर्भुखे ) न्द्रादिजीवानां परमात्मना भेदस्यैवकथनाच्च ।
'सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद, (बृ. ४-५ -७ ) इति श्रुतिर्भेददर्शनमपवदति इति भेददर्शनापवादे प्रमाणतया यदुदाहृता तदप्यसङ्गतम् । श्रुतौ भेददर्शननिषेधकपदाभावात् ' सर्वं तं परादात् ' इति वाक्यात् । पूर्वमेतादृशानि बहूनि सन्ति वाक्यानि । तानि च ' ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद, क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद, लोकास्तं परादु:... देवास्तं परादुः .....वेदास्तं परादुः भूतानि तं परादुः सर्वं तं परादाद्योन्यत्रात्मनः सर्वं वेद ' इत्यस्याः श्रुतेः, 'यो हि ब्रह्मक्षत्रादिकं जगत् आत्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यावादिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत् पराकरोति पुरुषार्थात् पराकुर्यात् = प्रच्यावयेत्' इति हि १।४।१९ ब्र सू. भाष्ये शङ्कराचार्या अर्थमाहुः । तथा च ' सर्वस्य वशी सर्वस्येशानः ' (बृ.) 'सर्वाः प्रजाः सदायतनाः ' इत्याद्यनेकश्रुतिषु जगतः परमात्माधारत्वेनैव स्थितेः परमात्मानमनाश्रित्य स्वातन्त्र्येण स्थित्यभावस्य चोक्तेः । अस्मिन्नपि वाक्ये परमात्माश्रितत्वेनैव तिष्ठतः ब्रह्मक्षत्रादिजगतः स्वातन्त्र्येण ज्ञातुः पुरुषस्य मिथ्याज्ञानित्वेन ( भ्रान्तत्वेन ) भ्रान्तं पुरुषं पुरुषार्थात्प्रच्यावयति । ब्रह्मक्षत्रादि- जगदित्येव बोध्यते न तु परमात्मना जगतो भेददृष्टिरपोद्यते इति नेदमपि वाक्यं भेददृष्ट्यपवादे प्रमाणं भवितुमर्हति । विशेषविचारं प्रसङ्गे करिष्यामः ।
इति भेददर्शनापवादश्रुत्यभावनिरूपणम् ।
भेदवादिनोक्तस्य विरुद्धधर्मवतोर्जीव परमात्मनोरन्योन्यात्मत्वासम्भव इति दूषणस्य विरुद्धगुणताया मिथ्यात्वोपपत्तेः इति यच्छाङ्करयसमाधानं तत्तु अतिहेयम् । ब्रह्मणः अपहतपाप्मत्वसर्वज्ञत्वाद्यनेकगुणबोधकानां ' यः अपहतपाप्मा विजरो विसृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः ( छां. ८७१ ) इत्याद्यनेकश्रुतीनां सत्त्वात् । श्रुत्युक्तापहतपाप्मत्वादिगुणनिषेधकानां (बाधकानां ) श्रुतिवचनानामभावाच्च । निर्निमित्तं नास्ति नासीन्न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वोक्तौ सर्वापलापप्रसङ्गः । वेदानामप्रामाण्यापत्तिश्च । अतो विरुद्धगुणानां मिथ्यात्वकथनं वैदिकानामयुक्तमेव । न केवलं वैदिकानामास्तिकानाम् ( अस्ति परलोक इति बुद्धिमताम् ) अपि अयुक्तम् | आस्तिकत्वहाने: । विशेषविचारो ब्रह्मणो गुणपूर्णत्वनिरूपणे द्रष्टव्यः ।
यदपि भेदवादिना ईश्वरस्य संसार्यात्मत्वे ईश्वराभावप्रसङ्गः । ततः शास्त्रानर्थक्यं संसारिणोऽपीश्वरात्मत्वेऽधिकार्यभावात् शास्त्रानर्थक्यमेवेति जीवेश्वराभेदवादिनं प्रत्युक्तदूषणस्य शङ्कराचार्यैः समाधानमुक्तम् । तदसत् । शास्त्रप्रामाण्यातू अनभ्युपगमाच्च । नहीश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छामः । किं तर्हि संसारिणः संसारित्वापोहेनेश्वरात्मत्वं प्रतिपिपादयिषितमिति । एवं च सति अद्वैतेश्वरस्यापहतपाप्मत्वादिगुणता विपरीतगुणता त्वितरस्य ( जीवस्य ) मिथ्येति व्यवतिष्ठते " इति तदप्ययुक्तम् । तथाहि-
शास्त्रप्रामाण्यादित्ययुक्तम् । निर्गुणं ब्रह्मकं सत्यं ततोऽन्यत्सर्वं मिथ्येत्यद्वैतिमते सत्यत्वेन कथ्यमानं निर्गुणं ब्रह्म तु न ज्ञेयम् यत् ज्ञेयं जगत् तत्सर्वं मिथ्येति न तस्मिन्विषये शास्त्रं प्रमाणं भवितुमर्हति इति कस्मिन्विषये शास्त्रप्रामाण्यमङ्गीकुर्वन्ति शङ्कराचार्यास्तत्सुधियः एव विभावयन्तु । ननु शास्त्रस्य तु व्यावहारिकं प्रामाण्यं कथ्यत इति चेन्न व्यावहारिकप्रामाण्यं तु अप्रामाण्यपर्यवसायीति कल्पतरुपरिमलादावुक्तत्वेन बौद्धमतनिराकरणावसरे प्रमाणानां व्यावहारिकवस्तुविषयकत्वरूपव्यावहारिकप्रामाण्यं न सम्भवतीति भामतीकारप्रभृतिभिरुक्तत्वेन च वेदानां व्यावहारिकप्रामाण्यमिति वाचो युक्तेरेवायुक्तेः ।
तिष्ठतु स विचारः । शास्त्रप्रामाण्यादिति हेतुना किं सिसाधयिषितं प्रकृते शंकराचार्याणामिति न जानीमो वयम् । ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इति नाभ्युपगच्छाम इति यदुक्तं तत्सत्यमेव । ईश्वरस्य संसार्यात्मत्वप्रतिपादक शास्त्राभावात् ।
संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपादयिषितमित्यभ्युपगच्छाम इति कथनमयुक्तम् । तथा प्रतिपादकशास्त्राभावात् । तथा शास्त्रसद्भावाभिमाने तच्छास्त्रकथनेन स्वगुरुवाक्यं साधयन्तु तन्मताभिमानिनः । अद्वैतेश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य ( जीवस्य ) मिथ्येत्युक्तिस्तु आत्मानं वैदिकम्मन्यानां न शोभते । वेदप्रामाण्यवादिनो वेदप्रतिपाद्या अर्था मिथ्या इति वाक् माता वन्ध्येति वाग्वत् स्वव्याहता ।
तस्मात् वेदोक्तानां गुणानां मिथ्यात्त्वकथनमत्यन्तासमञ्जसमिति । भेदवादिनोक्तं अधिकार्यभावः प्रत्यक्षादिविरोधश्चेत्येतदनूद्य ' तदप्यसत् । प्राक् प्रबोधात्संसारित्वाभ्युपगमात् तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य '
यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्' (बृ. २|४|१४ ) इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति । प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेन्न । इष्टत्वात् । अत्र पिताऽपिता भवति इत्युपक्रम्य वेदा अवेदाः (बृ. ४।३।२२ ) इति वचनादिष्यत एवाऽस्माभिः श्रुतेरप्यभावः प्रबोध ' इति यत्समाधानमुक्तं तत्प्राज्ञानां वैदिकानां न मनोरमम् ।
मिथ्याशब्दार्थः कल्पित इति नास्ति नासीन्न भविष्यति इति त्रैकालिकनिषेधपतियोगीति अद्वैतिभिः स्वीकृतत्वेन मिथ्यावस्तुनः कदाऽप्यविद्यमानत्वप्राप्त्या संसारित्वस्य मिथ्यात्वं (कल्पितत्वं ) स्वीकुर्वतां शङ्कराचार्याणां प्रबोधात् प्राकू सत्त्वाभ्युपगमः स्वव्याहतः । प्राक्प्रबोधात्संसारित्वस्याभ्युपगमेन ज्ञानात्पूर्वं संसारित्वं सदिति सिध्यति पुनः ज्ञानात्पूर्वकालेऽपि असत् इति सिद्ध्यतीति कथनं कथं न व्याहतमित्येतत्सचेतसो विभावयन्तु ।
( आनंदगि. ) ' अहं सुखीत्याद्यनुभवेन विरुद्धस्वभावत्वात् भेदो दहनतुहिनवदिति, अनुमानेन च विरोधान्न तयोरैक्यमिति भेदवादिनोक्तौ शङ्कराचार्यैः तद्विषयत्वात्प्रत्यक्षादिव्यवहारस्येत्युक्तम् । तत्र तद्विषयत्वादित्यस्य प्रबोधपूर्वकालीनसंसारित्वभेदादिविषयकत्वात्प्रत्यक्षादिव्यवहारस्य इति खल्वर्थः । स च न सम्भवति । प्रत्यक्षं वा अनुमानं वा न हि प्रबोधपूर्वकालीनं संसारित्वं विषयीकरोति किंतु संसारित्वादिकं विषयीकरोति इति पूर्वकालीनसंसारित्वादिकं विषयीकरोतीत्युक्तिरनुभवविरुद्वैव ।
यत्र त्वस्येत्यादिना प्रबोधे प्रत्यक्षाद्यभावं दर्शयतीत्युक्तिः ब्रह्मातिरिक्तप्रत्यक्षादिपदार्थानां कालत्रयेऽप्यभावरूपं मिथ्यात्वं वर्णयतामद्वैतिनां विरुद्धैव । प्रबोधकालविशेषे प्रत्यक्षाद्यभावकथने पूर्वं प्रत्यक्षादीनां सत्त्वासिद्धेः वस्तुतः यत्र त्त्वस्येति श्रुतिः प्रबोधे प्रत्यक्षाद्यभावं न दर्शयति प्रत्युत प्रत्यक्षादीनां सत्त्वं व्यवस्थापयतीति । अधिकं श्रुतिविचारभागे द्रष्टव्यम् ।
' प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसद्ग इति चेन्न इष्टत्वात् । अत्र पिताs पिता... वेदा अवेदा इति वचनादिष्यत एवास्माभिः श्रुतेरप्यभावः प्रबोधे ' इति यदुक्तं शङ्कराचार्यैस्तत्तु स्वव्याहतम् ।
अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा अदेवा वेदा अवेदा अत्र स्तेनो अस्तेनो भवति भ्रूणहा भ्रूणहा चण्डालोऽचण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वान्शोकान् हृदयस्य भवति ' । (बृ. ४/३/२२) वाक्यस्य शङ्कराचार्यकृता व्याख्यैवम् ।
अत्र अस्मिन् सुषुप्ते पिता-जनकः अपिता भवति पुत्रं प्रति तस्य जनयितृत्वात् यत्पितृत्वं तत्कर्मनिमित्तं तेन च कर्मणा अयमसम्बद्धोऽस्मिन्काले तस्मात् पिता पुत्रसम्बन्धनिमित्तात्कर्मणो विनिर्मुक्तत्वात् । तथा पुत्रः पितुरपुत्रो भवति इति सामर्थ्याद्गम्यते । उभयोर्हि सम्बन्धनिमित्तं कर्म तदयमतिक्रान्तो वर्तते । अपहतपाप्मेति ह्युक्तम् । तथा माता अमाता लोकाः कर्मणा जेतव्या जिताश्च तत्कर्मसम्बन्धाभावाल्लोका अलोकाः । तथा देवाः कर्माङ्गभूतास्तत्कर्मसम्बन्धात्ययाद्देवा अदेवाः । तथा वेदा: साध्यसाधनसम्बन्धाभिधायका मन्त्रलक्षणाश्चाभिधायकत्वेन कर्माभूता अधीता अध्येतव्याश्च कर्मनिमित्तमेव सम्बध्यन्ते पुरुषेण । तत्कर्मातिक्रमणात् एतस्मिन्काले वेदा अप्यवेदाः सम्पद्यन्ते स्तेन:- ब्राह्मणसुवर्णहर्ता अस्तेनो भवति ।" इत्यादिवाक्येन पिता अपिता भवतीत्यस्य न हि पितुरभावः (त्रैकालिकनिषेधप्रतियोगित्वरूपं मिथ्यात्वं-कल्पितत्वं ) वार्थः । किन्तु पितुः सत्त्वेऽपि पुत्रनिरूपितं यत्कर्मनिमित्तं पितृत्वं तत्कर्मणो मुक्तत्वेन (कर्मणामभावेन) पुत्रसम्बन्धाभावादेव अपिता भवतीत्युच्यते । यथा कस्यचित्पुरुषस्य अन्यपुरुषनिरूपितं वेतनदाननिमित्तं यजमानत्वं वेतनाभावे तस्य पुरुषस्य सत्त्वेऽपि यजमानत्वं निवर्तते तथा पुत्रत्वमातृत्वादिकमपि कर्मनिमित्तम् कर्मणो निवृत्तौ पुत्रस्य मातुश्च सत्त्वेऽपि पुत्रसम्बन्धाभावात् मातृसम्वधाभावात् अपुत्रः अमाता इत्युच्यते एवं वेदा कर्माङ्गभूता अधीता अध्येतव्याश्च कर्मनिमित्तमेव सम्बन्ध्यन्ते पुरुषेण, तत्कर्मातिक्रमणात् एतस्मिन्काले वेदा अप्यवेदा: सम्पद्यन्ते इति वेदानां सत्त्वेऽपि वेदसम्बन्धाभावादेव अवेदा इत्युक्तं न तु वेदाभावनिमित्तकमिति स्वयमेवोपनिषद्भाष्ये व्याख्याय सूत्रभाष्ये वेदानामप्यभावोक्तिः स्वव्याहता वेदनित्यत्वप्रतिपादकवाक्यविरुद्धा च ।
एतत्साम गायन्नास्ते ' ( तै. ३) इति (प्रबोधानन्तरं मुक्तिकालेऽपि साम (वेद) गायनोक्त्या वेदाभावोक्तिस्तद्विरुद्धा चेति नेयं श्रुतिर्वेदाभावं वक्तीति प्रबोधकाले वेदाभावोक्तिः स्वव्याहता प्रमाणविरुद्धा चेत्युपेक्षणीयमेव वैदिकैः ।
“ वेदसत्यत्वश्रद्धालुः शङ्कते प्रत्यक्षाद्यभाव इति... आरोपितक्रमस्वर विशिष्टवर्णात्मकस्य वेदस्य मिथ्यात्वं दुर्वारम् । वादिनां सत्यत्त्वाग्रहस्त्वविद्याविजृम्भित इति वेदसत्यत्वाभावो न दोष इत्याह-नेति । इति वक्तृभी रत्नप्रभाकारादिभिरद्वैतिभिरात्मनोऽवैदिकत्वं सम्यग् व्युत्पादितम् । वेदस्य इमे इति व्युत्पत्त्या हि निष्पन्नो वैदिकशब्दो वेदसम्बन्धित्वमाह । सम्बन्धश्च वेदप्रामा-ण्याभ्युपगन्तृत्ववेदसत्यत्वाङ्गीकर्तृत्ववेदोक्तधर्मसत्यत्वस्वीकर्तृत्वादिरूप इति ये वेदेन सह वेदप्रामाण्याभ्युपगन्तृत्वादिरूपसम्बन्धवन्तस्ते किल वैदिका इति व्यपदिश्यन्ते । ये च वेदेन सह वेदप्रामाण्याभ्युपगन्तृत्वादिरूपसम्बन्वरहिताः ( वेद-प्रामाण्यानम्युपगन्तारः, वेदसत्यत्वमनङ्गीकुर्वन्तः वेदः केनचित्पुरुषेण कल्पितइति वक्तारः वेदोक्तानां ब्राह्मणादिवर्णानामाश्रमाणां धर्माणां च केनचित्कल्पितत्वं वदन्तः ) ते खल्ववैदिका इत्येतावत्पर्यन्तं व्यवहार आसीत् । स च व्यवहारोऽद्वैतिनां वैदिकत्वांगीकारे वेदस्य इमे वैदिकाः संभन्धश्च वेदस्य कल्पितत्वाङ्गीकर्तृत्वं वेदप्रामाण्यानभ्युपगन्तृत्वं वेदोक्तानां ब्राह्मणादिवर्णानां ब्रह्मचर्याद्याश्रमाणां पुण्यपापदेवतीर्थादीनां च कल्पितत्वस्वीकर्तृत्वमित्यादिः । एतादृशसम्बन्धभानो हि वैदिकाः । ईदृशसन्बन्धविरहिता ये " अङ्गीकृतवेदप्रामाण्या वेदोक्तधर्माणां कल्पितत्वमनङ्गीकुर्वन्तः (सत्यत्वमङ्गीकुर्वाणाः) ते किलावैदिका नाम इत्यन्यथयितव्यः । हा हन्त तथा च वैदिकावैदिकव्यवहारोऽपि विपर्यासितव्यः । ततश्च वेदप्रमाण्याद्यनङ्गीकुर्वाणाश्चार्वाका बौद्धा जैना एव वैदिकाः वेदप्रामाण्यमानिनस्त्ववैदिका इति । अन्यथा बौद्धवत् वेदप्रामाण्याद्यनभ्युपगन्तृणामद्वैतिनां वैदिकत्वं कथं स्यात् । अतो बौद्धवत् वेदप्रामाण्यानभ्युपगन्तृभ्य उक्तरीत्या वैदिकम्मन्येभ्यः सहस्रकृत्वो विधास्यामो दूरात्प्रणामम् ।
हा कष्टमेतादृशं वैदिकत्वम् ।
ननु " अविभागेन दृष्टत्वात् " इति सूत्रं परं ज्योतिरूपसम्पद्य स्वेन रूपेण अभिनिष्पद्यमानो जीवः परस्मादात्मनः पृथगेव भवति उत अविभागेनैवावतिष्ठते इति संशये ' स तत्र पर्येति' (छा. ८।१२।३ ) इत्याधिकरणाधिकर्तव्यनिर्देशात् ' ज्योतिरुपसम्पद्य ' इतिच कर्तृकर्मनिर्देशाद्भेदेनैवावस्थानमिति पूर्वपक्षे मुक्तः परेणात्मना अविभक्त एवावतिष्ठते दृष्टत्वात् । तथाहि-'तत्त्वमसि' (छां. ६।८।७) अहं ब्रह्माऽस्मि ' (बृ. १।४।१० ) ' यत्र नान्यत्पश्यति' (छां. ७।२४/१). ' न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ' (बृ. ४।३।२३) इत्येवमादीनि वाक्यानि अविभागेनैव परमात्मानं दर्शयन्ति । ' यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । 'एवं मुनेर्विजानत आत्मा भवति गौतम ' (काठ. ४।१५ ) इति चैवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यानि अविभागमेव दर्शयन्ति नदीसमुद्रादिनिदर्शनानि च इति शाङ्करभाष्यरीत्या तत्त्वमस्यादिश्रुतिप्रमाणमवलम्ब्य मुक्तजविपरब्रह्मणोरभेदं प्रतिपादयतीति चेन्न । श्रुतिसूत्रादेरभेदप्रतिपादकत्वाभावात्। प्रत्युत भेदस्यैव प्रतिपादकत्वाच्च । तथाहि तत्त्वमसि, 'अहं ब्रह्माऽस्मि ' इत्यादि- महावाक्यानां बोधजनकत्वस्यैवाद्वैतिभिरनङ्गीकारात् ।
बोधजनकत्वाङ्गीकारे वा लक्षणया वृत्त्या चित् इत्येतावन्मात्रबोधजनकत्वाभ्युपगमेन अभेदविषयकत्रेोधाजनकत्वात् । तुष्यत्विति न्यायेन अभेदविषयकबोधजनकत्वोररकारेऽपि सर्वेशत्वादिगुणविशिष्टस्य तत्पदार्थस्य अल्पज्ञत्वादिगुणविशिष्टेन त्वम्पदार्थेन जीवेनैक्यासम्भवात् लक्षणया तत्त्वंपदाभ्यां चिन्मात्रोपस्थितिं स्वीकृत्य चिच्चितेोरेवाभेदो बोध्यत इत्यभ्युपगमेन जीवब्रह्मणोरभेदानुक्तेः । चितः चिदभेदबोधनस्य ज्ञातज्ञापकत्वेन निष्प्रयोजनत्वाच्च । इत्यादिदूषणैरभेदप्रतिपादकत्वाभावस्य पूर्वं वर्णितत्वात् ।
यथोदकं शुद्धे शुद्धमासिकं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम । ' इति वाक्ये यथा शुद्धोदक आसिक्तं शुद्धमुदकं तागेव पूर्वविद्यमानशुद्धजलसदृशमेव भवति, न तु पूर्वं विद्यमानोदकाभिन्नं भवति । तथा हे गौतम विजानतः (ज्ञानिनः ) सुनेः आत्मा (स्वरूप) एवं उदकवत् ( निर्दोषत्वनिर्दुःखत्वादिना ) ब्रह्मसदृशं भवति इति दृष्टान्तवाक्ये तादृक् इति पदेन स्पष्टं बोधितत्वात् ' यथोदकम् ' इतिवाक्यम् अविभागं ( अभेदं ) दर्शयति इति कथनं यादृशोऽग्निस्तादृशो माणवक इति वाक्यं श्रुत्वा माणवके पावकाभेदमभिज्ञाय तच्छिरसि पाकनिष्पत्तये भाण्डारोपणमुपदिशतो मन्दस्य व्यवहारमनुकरोति । नदीसमुद्रादिनिदर्शनानि च अविभागमेव दर्शयन्ति इत्यपि न साधु । ' ननूक्तं यथा नदी समुद्रो भवतीति का पुनर्नद्यभिमता आयुष्मतः । किं पाथः परमाणव उत एषां संस्थानभेदः आहोस्वित् तदारब्धोऽवयवी । तत्र संस्थानभेदस्य वा अवयविनो वा समुद्रनिवेशे विनाशात् । कस्य समुद्रेणैकता नदीपाथः परमाणूनां तु समुद्रपाथः परमाणुभ्यः पूर्वावस्थितेभ्यो भेद एव नाभेदः । एवं समुद्रादपि तेषां भेद एव ( ब्र. भा. भाम. १।४।२२ ) इति वाक्यैः भामत्यां नदीसमुद्रयोरैक्यस्य युक्त्या निराकृततत्वात् । कल्पतरुपरिमलेऽपि तथाच नद्या अवयवसन्निवेशविशेषरूपेण अवयविरूपेण स्वारम्भकपरमाणुरूपेण वा समुद्राभेदप्राप्त्यभावेऽपि समुद्रप्राप्तौ नद्यवयविनाशात् तदीयनामरूपप्रहाण- मस्तीत्येतावत्यंशे श्रुतौ नदीसमुद्रदृष्टान्तः । अत एवास्तं गच्छन्तीत्येव दृष्टान्तभागे श्रवणमिति भावः' इति वाक्यैरेतैर्नदीसमुद्रयोरैक्याभावस्य वर्णितत्वात् नदीसमुद्रदृष्टान्तदानं च मुक्तस्य नामरूपप्रहाणविषय एवेत्युक्तत्वाच्च ।
यत्र नान्यत्पश्यति' (छां. ७/२४/१ ) इति वाक्यं अविभागेनैव परमात्मानं दर्शयतीति यदुक्तं तन्न समञ्जसम् । तस्मिन्वाक्ये मुक्तस्य परमात्मना अभेद (अविभाग) बोधकपदाभावात् । उत्तरवाक्ये च ' स वा एष एवं पश्यन् एवं मन्वान एवं विजानन्....तस्य सर्वेषु लोकेषु कामचारो भवति इति भूम्नो ज्ञेयत्वेन जीवस्य ज्ञातृत्वस्य च कथनेन 'सर्वेषु लोकेषु कामचार " इत्यनेन सर्वलोकानां सत्त्वस्य भूमरूपब्रह्मज्ञानिनः कामचारित्वादीनां च कथितत्वेन जीव- ब्रह्मणोर्भेदः लोकानां सत्त्वं ज्ञानिनां कामचारत्वादिकं च कथ्यत इति इदं वाक्यं जीवब्रह्मणोर्भेदबोधकमेवेति ।
एवं सूत्रेऽपि अभेदबोधकपदं नोपलभ्यते । अविभागेनेतिपदं अभेदबोधकमस्तीति चेन्न । अविभागपदस्यच संयुक्तार्थकत्त्वात् । चैत्रस्य भिन्नयोरपि ओष्ठयोः परस्परसंयोगकाले चैत्रस्योष्ठौ अविभक्तौ इति प्रयोगात् अविभागशब्दो न भेदविरोध्यभेदार्थकः किन्तु भेदाविरोधि ( भेदसमानाधिकरण ) संयोगार्थकः । ' अविभागो वचनात् ' (ब्र. ४/२/१६) इति सूत्रे भेदाविरोध्यर्येऽविभागशब्दप्रयोगात् अविभागशब्दघटितं ' अविभागेन दृष्टत्वात् ' इति सूत्रं ईषदपि नाभेदं बोधयितुमलं किंतु भेदसमर्थनसमर्थमेवेति दिक् ।
। इति तदनन्यत्वाधिकरणस्य तद्विषयवाक्यानां च विश्वमिथ्यात्वपरत्वनिरासेन विश्व सत्यत्वपरत्वसमर्थनम् ।