बृहन्तो ह्यस्मिन् गुणाः
अथनिर्गुणत्ववादभङ्गः ।
अद्वैततत्त्वसुधानुवादः । तत्खण्डनम् । अनेकश्रुतितात्पर्यवर्णनम् । ब्रह्मणः सगुणत्वे अनुमानप्रमाणोपन्यासः । सगुणश्रुतीनाम् अपरब्रह्मविषयत्वशङका | तत्खण्डनम् | अद्वैतमतानुसारेण निर्गुणब्रह्मापेक्षयापि शून्यस्य परत्वापत्तिः । “ एष नित्यो महिमा ब्राह्मणस्य" इति श्रुत्यर्थकथनम् । ब्राह्मणपदार्थनिर्वचनम् । वाक्ययोर्मिथः विरोधे बलाबलविचारः । अपहतपाप्मत्वादीनामिव सत्यकामत्वादीनामपि जिज्ञास्यत्वसमर्थनम् । 'सत्यस्य सत्यम्' इति श्रुत्यनुसारेण सत्तात्रैविध्यशङका । ' सत्यस्य सत्यम्' इति श्रुतेः तात्पर्यकथनम् । शून्यस्यापि ज्ञानानन्दात्मकत्वे अद्वैतसिद्धिलघुचन्द्रिकोपन्यासः । श्रुतयो मिथ्योपासनां न प्रतिपादयन्तीति समर्थनम् । " यस्यात्मबुद्धिः " इत्यादि भागवते मिथ्योपासनानोक्ता । निर्गुणशब्दस्य वास्तवार्थकथनम् । संसर्गस्य वा भेदस्य वा उभयोर्वा वाक्यार्थत्वकथनम् । प्राचीनमतोपन्यासः । विचार्यब्रह्मणः सधर्मकत्वावश्यंभावः । अदृश्यत्वादीनामिव सर्वज्ञत्वादीनाम् स्वीकार्यत्वसमर्थनम् । सत्तायाः देशकालघटितत्वसमर्थनम् । ब्रह्मणः सच्चिदानन्दरूपत्वाङगीकारेऽपि सत्त्वाद्यनङगीकारे युक्ति मल्लिकानुसारेण खण्डनम् ।
……………………………………………………………………………………………………………………………………………………………..
" सर्वेषामपिकारणवाक्यानां गुणोपसंहारन्यायेन निर्विशेषतात्पर्यमात्रकत्वे तात्पर्यमिति तु विशेष: " इति अद्वैततत्त्वसुधा तत्तुच्छम्-निर्विशेषे शब्दमात्रस्य अप्रवृत्तेः, कुतः ओंकारस्य, कुतस्तरां वेदवाक्यानां कुतस्तमां सर्वेषां कारणवाक्यानां तत्र तात्पर्य कल्पना? ननु निर्गुणं ब्रह्म श्रुत्या बोध्यते-साक्षी चेता केवलो निर्गुणश्चेति श्रुतेरिति चेन्न तयैव श्रुत्या ब्रह्मणि साक्षित्वचेतृत्व केवलवनिर्गुणत्वरूपधर्माणां बोधनात् । ' बृहन्तो ह्यस्मिन् गुणाः' इति श्रुत्या ' ब्रह्मेशानादिभिर्देवैः समेतैर्यद्गुणांशकः । नावसापयितुं शक्यो व्याचक्षाणैश्च सर्वदा ' इति स्मृत्याच, ब्रह्म धर्मवत्, पदार्थत्वादित्यनुमानेन च समानसत्ताकधर्मवत्तया ब्रह्म सिध्यति । न च सगुणप्रकरणस्थाया श्रुते: उपास्तिविधिविषयविशेषण समर्पकत्वेन तत्परत्वाभावः । वेदभागानां सर्वेषामपि सविशेषब्रह्मप्रतिपादकत्वस्यैवौचित्यात्निर्विशेषब्रह्मप्रतिपादकत्वासंभवाच्च । ननु प्रत्यक्षादि-प्रमाणान्तरे प्राप्तानां धर्माणामनुवादमात्रं क्रियते तत्र तात्पर्य नास्त्येव इति चेन्न; सत्यकामत्वादीनां प्रमाणान्तरैरप्राप्तत्वात् । न च प्रमाणान्तरैरप्राप्तत्वादपूर्वत्वेऽपि अन्यशेषत्वात्तत्र तात्पर्य नास्तीति चेन्न, 'सत्यं ज्ञानमनन्त ब्रह्म' इत्यादि वाक्यघटकानामपि शब्दानां ज्ञानार्थत्वेन अन्यशेषभूतेषु सत्यत्वादिषु तात्पर्याभावेन ब्रह्मणः असत्यत्वाद्यापातात् । अपि च निर्गुणप्रकरणस्थराप वाक्यैर्गुणा ब्रह्मणि बोध्यन्ते, निर्गुणप्रकरणस्थानां वाक्यानामनुपासनार्थत्वात् तत्प्रतिपादितानां गुणानां नान्यशेषत्वं संभवति । ननु तत्रत्यवाक्यैरपि अद्वितीयब्रह्मप्रतिपत्त्यनुकूलनिषेधापेक्षित विषय समर्पणात् अन्यथासिद्धिरिति चेन्न, पूर्वपक्षसिद्धान्तभावसूचक-यत्तन्नेत्यादिपदाभावेन निषेधार्थमनुवाद इत्यस्य प्रकृते असंगतत्वात् । अस्यैवार्थस्य वक्तव्यत्वे ' ब्रह्मणि न किमप्यस्ति ' इत्येतादृशेनैव वाक्येन भाव्यम् । ननु ‘ नेह नानास्ति किञ्चन ' इत्येव वाक्य वर्तते इति चेन्न, तस्य वाक्यस्य उपक्रमादितात्पर्यग्राहकालिङ्गरैन्यपरत्वाध्यवसायात् । अन्यच्च, श्रुतिप्राप्तस्य श्रुत्या निषेधे सुन्दोपसुन्दन्यायेन परस्परं विरुध्यमानयोः श्रुत्योः न कुत्रापि तात्पर्य सिध्येत् । ननु सगुणत्वस्य सविशेषत्वस्य वा श्रुतिप्राप्तत्वमेव नास्ति, न हि श्रुतिप्राप्तत्वं श्रुतिप्रसक्तत्वम्; अतिप्रसङ्गात्, तत्प्रमितत्वस्य च प्रकृते अभावादिति चेन्न, सगुणवाक्यानामतत्त्वावेदकत्वसिद्धे प्राक् सगुणत्वस्य अप्रमितत्वासिद्धे । सगुणवाक्यस्य अतत्त्वावेदकत्वे, वेदत्वाविशेषात्, निर्गुणवाक्यस्यापि तत् स्यात् । अथवा सगुणवाक्यानां बहुत्वात् तेषामेव तत्त्वावेदकत्वं, निर्गुणवाक्यानामल्पीयसामेव अतत्त्वावेदकत्वं भवतु ' त्यज्येदेकं कुलस्यार्थे ' इति न्यायात् सधर्मकत्वे ब्रह्मणः अनुमानान्यपि भवन्ति । ब्रह्म धर्मिसत्तासमानसत्ताकधर्मवत्, उक्तसत्ताकभावरूपधर्मवद्वा, यावत्स्वरूपमनुवर्तमानधर्मवद्वा, तादृशभावरूपधर्मवद्वा, स्वज्ञानाबाध्यधर्मवद्वा, पदार्थत्वात्, भावत्वात् घटवत् । ब्रह्म स्वज्ञानाबाध्यप्रकारवत् स्वारोपितव्यावर्तकस्वज्ञानाबाध्यप्रकारवद्वा, अधिष्ठानत्वात्, शुक्तिवत् । ब्रह्म स्वज्ञानाबाध्यदुःखव्यावर्तकधर्मवत्, दुःखानात्मकत्वात् घटवत् । ब्रह्म स्वज्ञानबाध्यप्रकारविशेष्यम् सन्दिग्धत्वात्, विचार्यत्वात्, निर्णेतव्यत्वाद्वा, स्थाणुवत् । ब्रह्म वेदान्ततात्पर्यगोचरप्रकारवत् वेदान्तविचारविषयत्वात्, तदेकं यथा कर्मकाण्डविचारविषयो धर्मः ।
ईश्वरः सदावाप्तिसमस्त कल्याणगुणः, सदा तत् प्रेप्सुत्वे सति यो यत्प्रेत्सुत्व सति यत्र शक्त स तदा तद्वान्, यथा चैत्रः । ईश्वरः तत्रशक्तत्वात् सदात्यक्तसमरतदोषः सदा तज्जिहासुत्वे सति तच्यागे शक्तत्वात्, यश्चैवं स तथा यथा चैत्र इत्यादीनि । नन्वत्र धर्मिंपदस्य स्वपदस्य च यत्किंचिद्धर्म्यादिपरत्वे घटादिसमसत्ताककल्पितधर्मिपरत्वेन सिद्धसाधनम्, ब्रह्मपरत्वे साध्याप्रासद्धिः; घटत्वादि धर्मे ब्रह्मसमान सत्ताकत्वादेरप्रसिद्धे मैवम् । दृष्टान्ते साध्यनिरूपणे घटादेर्धर्म्यादित्वात् । धर्म्यादिपदानां समभिव्याहृतपरत्वात् । न चानुमाने शब्दमहिमा नोपयुज्यते इति वाच्यम् । स्वार्थानुमाने तथात्वेऽपि परार्थानुमाने न्यायवाक्यरूपे तदुपयोगात् । त्वयाऽपि अस्य न्यायस्य बहुषु स्थलेषु अनुसरणात् । एषामनुमानानामुपरि ये ये दोषाभासाः उद्भाव्यन्ते ते सर्वेऽपि तरङ्गिणीकण्टकोद्धार न्यायामृत-माधुरीन्यायामृतसौरभ-न्यायामृतसौगन्ध्य-अद्वैतकालानल-द्वैतद्युमण्यादिग्रन्थेषु पराकृताः इति प्रेक्षावतामपरोक्षम् ।
ननु सगुणश्रुतिरपरब्रह्मविषया-निर्धर्मकश्रुतिविरोधेन विषयभेदस्यावश्यकत्वात् इति चेन्न सगुणातिरिक्तस्य परब्रह्मणोऽथाप्यसिद्धेः । अन्यच्च वाक्यं निधर्मकबाधकमिति व्याहतम् । वाक्यस्य किञ्चिद्धर्मपुरस्कारेण उपस्थितमुद्दिश्य किञ्चिद्धर्म विधायकत्वस्वाभाव्यात् । एतेन अन्तरधिकरणे कल्पतरुकृद्भिरुक्तम्-
" निर्विशेष पर ब्रह्म साक्षात्कर्तुमनीश्वराः ।
ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥
वशीकृते मनस्येषां सगुणब्रह्मशीलनात् ।
तदेवाविर्भवेत् साक्षात् अपेतोपाधिकल्पनम् " ॥
इति तत् सर्वमप्रामाणिकत्वादत्यन्तमुपेक्ष्यम् । श्रुतिस्मृतिसूत्रेषु कुत्रापि निर्गुणस्य अनुक्तेः वक्तुंमशक्यत्वाच्च । प्रत्युत सधर्मकस्य सगुणस्यैव सर्वत्रोक्तत्वात् । ‘परः पराणामि ' ति स्मृत्या सगुणब्रह्मणः परादपि परत्वमुक्तं तत् कथमपि तस्य अपरत्व कल्पयितुं न शक्यते । सगुणब्रह्मणः कृष्णस्य अर्जुनेन ‘परं ब्रह्म परंधामे' इत्यादिना परमात्वं प्रतिपाद्य स्वप्रतिपादितस्य प्रामाणिकत्वसमर्थनाय "आहुस्त्वामृषयः सर्वे" " सर्वमेतदृतं मन्ये " इत्याद्युक्तम् । न च जडापेक्षया पर किन्चिज्ज्ञ, तदपेक्षया सर्वज्ञस्य, शुद्धापेक्षया अपरस्यापि परत्वांयुक्तामति वाच्यम्, संकोच कल्पकस्य अद्याप्यसिद्धेः ।
सर्वज्ञापेक्षया निर्गुणस्य परत्वं मन्यते तर्हि निर्गुणब्रह्मापेक्षयापि शून्यस्य परत्वं मन्यताम् शून्यज्ञानस्यापि महापुरुषार्थजनकत्वस्य ' असन्नेव स भवति असद्ब्रह्मेति वेद चेत्' इति श्रुतावुक्तत्वादित्यपि वक्तुं शक्यत्वात् ननु शून्यतापत्तिर्न महापुरुषार्थ. इति चेन्न, निर्गुणब्रह्मतापत्तिरपि कीदृशः पुरुषार्थ इति वक्तव्यम् । निर्गुणब्रह्मतापत्तिः खलु आनन्दरूपतापत्ति, अतस्तस्या महापुरुषार्थत्वमवश्यमन्गीगीकर्तव्यमिति चेन्न; निर्विशेषह्माणि आनन्दरूपत्वस्याप्यभावात् । कुत इति चेत्, आनन्दपेदन अवाच्यस्य ब्रह्मणः दुःखादिवदानन्दरूपत्वाभावात् । ननु ब्रह्मणः आनन्दपदावाच्यत्वेऽपि तत्पदलक्ष्यत्वं संभवति इति चेन्न यथा गडगापदलक्ष्यस्य तीरस्य गङ्गात्वाभाव एवमेव आनन्दपदलक्ष्यस्य ब्रह्मण आनन्दत्वाभावः अनिच्छतापि त्वया अड्गीकार्यः एव किन्च निर्विशेष ब्रह्म विशेषाभावादेव शून्यात् व्यावर्तयितुं न शक्यते । अतोपि ब्रह्मतापत्तिर्नाम शून्यतापत्तिरेव । ब्रह्म इदानीं सगुणं, दशान्तरे कालान्तरे निर्गुणमित्यप्यतीव असाधु, निर्गुणीभूतस्य मुक्तस्यापि पुनः दशान्तरे कालान्तरे सगुमुणत्वापादनसंभवात् । अनेन गुणानामनित्यत्वमात्रसिद्धे । ' सदेव सोम्येदमग्र आसीत् ' असद्वा इदमग्र आसीत् ' इति श्रुतिवाक्याभ्या ब्रह्म इदानीं सत् दशान्तरे कालान्तरे असत् इत्यापत्तेश्च । दशान्तरे निर्गुणत्ववत् असत्त्वस्य बोधनं नास्ति तत्र असच्छन्दस्य अर्थान्तरपरत्वात् इति चेत्, त्वदभिमतनिर्गुणत्वस्याप्यबोधनात् । " ज्ञानं नित्यं क्रिया नित्या बलं नित्य परात्मनः " ‘एष नित्यो महिमा ब्राह्मणस्य ' इत्यादिश्रुतिभिः ब्रह्मज्ञानादीनां नित्यत्वप्रतिपादनाच्च । ननु ज्ञानादीनां स्वरूपत्वाद् गुणत्वासिद्धिः स्वरूपातिरिक्तानाम् चरमसाक्षात्कारपर्यन्तस्थायितया नित्यत्वोपचार इति चेन्न स्वरूपभूतस्यापि गुणीभवनं न केनापि दण्डवारितम् । ब्रह्मणोऽपि बहुदीर्घकालपर्यन्तस्थायितया नित्यत्वोपचारः स्यात् । वस्तुतः शून्यस्यैव ' असद्वा इदमग्र आसीत् ' इति श्रुत्युक्तजगत्प्राक्कालिकत्वरूपहेतुना जगत्पाश्चात्यत्वरयापि ज्ञातुं शक्यत्वेन तस्यैव असत शून्यस्य नित्यत्वं स्यात् ।
ननु ब्राह्मणपदस्य ' तदधीते तद्वेद' इतिसूत्र विहिताणन्तरय ब्रह्मवित्प्रतिपादकतया ब्रह्मपरत्वे लक्षणापत्तिरिति न वक्तव्यम् । ब्राह्मणशब्दस्य तदधीते तद्वेद ' इति सूत्र विहिताणन्तस्य मुख्यवेदनवति ब्रह्मणि मुख्यत्वात् । ब्रह्मविदा’ ब्राह्मणा विविदिषन्ति " इति बहुवचनान्तेन प्रस्तुततया एकवचनान्तेन ब्राह्मणस्येत्यनेन परामर्शायोगाच्च । एषणाभावादिरूपमहिम्नस्त्वयापि नित्यत्वाङ्गीकाराच्च । न च सगुणवाक्यानामौपाधिकगुण-विषयकत्वेन स्वाभाविकनिर्धर्मकत्वश्रुतेर्न विरोध इति वाच्यम्, ब्रह्मगुणानामौपाधिकत्वे मानाभावात् अन्तःकरणादिरूपोपाधिसृष्टेः प्रागेव ईक्षितृत्वादिश्रुतेः तेषामौपाधिकत्वायोगात् । ननु सृष्टेः पूर्वमन्तःकरणाभावेऽपि अविद्यारूपोपाधिना ईक्षितृत्वस्य उपपत्तिर्भवति इति चेन्न, स्वप्रकाशस्य ब्रह्मण अविद्योपाधिसंबन्धायोगात् । अन्यथा सूर्यस्यापि तमस्सम्बन्धापत्तेः । तयोरविरोधकल्पनं तु निर्मूलम् । गुणानामौपाधिकत्वे ' स्वाभाविकी ज्ञानबलक्रिया च' इति श्रुतिविरोध: । स्वाभाविकशब्दस्य संकोचे मानाभावात् । निर्गुणवाक्यस्यैव संकोचकत्वमित्यपि न त्वदभिमतनिर्गुणत्वस्य अद्याप्यसिद्धेः । न च सगुणवाक्यानाम् सत्यत्वबोधकत्वमेव नास्ति सत्यत्वस्य अपदार्थत्वात् इति वाच्यम्, नित्यत्वोक्तिसामर्थ्याविषयाबाधलक्षणस्य प्रामाण्यस्यौत्सर्गिकत्वात्, ' सत्यः सोस्य महिमा' इत्यादिसत्यपदश्रुतेश्च सत्यत्वं सिध्यत्येव । ' सत्यः सोस्य महिमा' इत्यादौ महिम्नः स्वरूपरूपत्वादविरोध इति चेन्न, स्वरूपस्यापि महिम्नः गुणत्वेन गुणसत्यत्वस्य दुर्निवारत्वात् षष्ठी प्रयोगेण गुणगुणिभावस्य सूचनाच्च । ननु ब्रह्मधर्मेषु ब्रह्मसाक्षात्कारेतरानिवर्त्यत्वगुणयोगेन सत्यपदप्रवृतिरुपपाद्यते इति चेन्न, एवमुपपादनस्य सत्तात्रैविध्यसिध्यनन्तरं संभवात् । अन्यथा सत्य ज्ञान 'तत्त्वमसि' इत्यादिश्रुत्युक्तः- ब्रह्मसत्यत्वैक्यादिकमपि तात्त्विकं न स्यात् । श्रुत्योर्विरोधे नैकस्या अतात्त्विकविषकत्वम् । शास्त्रयोर्विरोधे संकोचविकल्पादिना उभयप्रामाण्यस्य पूर्वतन्त्रे व्याकरणे च निर्णीतत्वात् । तथा चोक्तं " को हि मीमांसको ब्रूयात् विरोधे वाक्ययोर्मिथ:। एकं प्रमाणमितरत्त्वप्रमाण भवेदिति ॥
ननु तत्र शास्त्रयोः प्रामाण्ये समानकक्ष्यतया एकस्य आत्यन्तिकबाधायोगात् संकोचेन विकल्पेन वा उभयप्रामाण्यमाश्रितम् इह तु समानबलवत्वं नास्तीति चेत् न, अत्र प्रमाणाभावात् ।
‘मृडमृदगुधकुषक्लिशवदवसः क्त्वा '
' रुदविदमुषग्रहिस्वपिप्रच्छः सश्च '
इति सूत्रयोः 'न क्त्वा सेट्' इति निषेधनिषेधकत्वं व्याकरणशास्त्रसिद्धम् । एवमेव सगुणवाक्यानामपि निर्गुणवाक्यबाधकत्वमेव सुवचम् ,ननु दृष्टान्ते पर्युदासाधिकरणन्यायेन मृडमृदेत्याद्युत्तरावीहितान्यसट्कक्त्वाप्रत्ययकित्त्वनिषेधपरत्वेनैव एकवाक्यताया वाक्यभेदेन निषेधनिषेधकत्वं न कल्प्यते इति चेत्, अत्रापि पर्युदासाश्रयणे क्रियमाणेऽपि अभीष्टासिद्धेः । ननु नेति नेतीति वीप्सायाः प्रसक्तसर्वनिषेधकतया विशेषपरिशेषायोगन पर्युदासाश्रयण कर्तुं न शक्यते ' नेति नेति' इति वीप्सितेन इतिशब्देन सर्वनाम्ना सर्वस्य प्रसक्तरय निषेधः, अन्यथा वीप्सावैय्यर्थ्य स्यात् इति चेन्न, उपदेशरूपत्वेनाप्युपपन्नत्वेन वीप्सायाः सकलगुणनिषेधपरत्वाभावात् । ननु ' तरति शोकमात्मवित्' इत्यत्र शोकपदोपलक्षितसर्वस्य ज्ञाननिवर्त्यत्वं बोध्यते । ज्ञाननिवर्त्येन मिथ्याभूतेन भाव्यम् । सत्यस्यैव च मिथ्याभूताधिष्ठानत्वं सभवति । किञ्च ' स एवेद सर्वमात्मैवेद सर्व ' मिति श्रुतौ आत्मशब्दवाच्यस्य ब्रह्मणः सार्वात्म्यमुच्यते । भेदे सार्वात्म्यमुक्तमनुपपन्नं स्यात् । गुणगुणिभावः धर्मधर्मिभाव विशेषणविशेष्यभावश्च भेदमाक्षिपति । भेदस्य सार्वात्म्यविरुद्धत्वेन श्रुतितात्पर्याविषयत्वात् ब्रह्मणः निर्गुणत्व निर्धर्मकत्वं निर्विशेषत्वं च अवश्यमङ्गीकर्तव्यमिति चेत् न; गरुडध्यानेन सत्यभूतस्य विषस्य, सेतुदर्शनेन च सत्यभूताया ब्रह्महत्यायाः निवृत्तिदर्शनेन मिथ्याभूतस्यैव ज्ञाननिवर्त्यत्वमिति नास्ति नियमः । ' स एवेद सर्व मिति श्रुतौ " सर्वं समाप्नोषि ततोऽसि सर्वः " इति गीतोक्त्यनुसारेण सर्वनियामकत्वं सर्वव्याप्तत्वं वा उच्यते न सार्वात्म्यम् । अन्यच्च उपास्यानां गुणानां मिथ्यात्वे " आत्मेत्येवोपासीत " इति बृहदारण्यकवाक्ये अद्वैतस्याप्युपास्यत्वेन उक्तत्वात् उपासनाशेषतया अद्वैतासिद्धि स्यात् । ननु ' ह्येतत्सर्वं वेद' इत्युत्तरवाक्यस्थ विदिसमानार्थतया उपास्तिशब्दस्य क्रियावाचकत्वं नाङ्गीक्रियते इति चेत् न, अन्यत्रापि उपास्तिशब्दस्य विदिसमानार्थकतायाः वक्तुं सुकरत्वात् । न च ज्ञानस्य विधिविषयत्वं न संभवति इति चेत् न अत्रापि न संभवति इत्युक्ते किमुत्तरम् ? । " आत्मेत्येवोपासीत " इत्यत्र विधिश्रुतिसार्थक्याय तस्याः बाह्यविषयात् परावृत्य चित्तस्य प्रत्यगात्मप्रवणतासंपादकत्वमङ्गीक्रियते इति चेत्, इतरोपासनाविधिष्वपि तथैव अङ्गीकारसंभवात् । गुणोपसंहारपादे “ आनन्दादयः प्रधानस्ये " ति सूत्रे " आनन्दं ब्रह्मे " ति श्रुतानामानन्दादीना, " व्यतिहार " इति सूत्रे " तद्योऽह " मिति श्रुत्युक्तस्य जीवे ईश्वरत्वस्य ईश्वरे जीवत्वस्य वा उपास्यतया उक्त्वेऽपि आनन्दादेरैक्यस्य च यथा तात्विकत्वासिद्धि:, एवमेव सत्यकामत्वादेरपि तात्विकत्वमस्तु । आनन्दादिवाक्यसत्यकामादिवाक्ययोर्मानान्तराविरोधे उभयत्र उपासनाविध्यश्रवणे निर्गुणश्रुतिविरोधे च समानेऽपि आनन्दादयस्तात्त्विकाः सत्यकामत्वादयरत्वतात्त्विकाः इति कथं व्यवस्था संगच्छते । आनन्दादीना ब्रह्मरूपत्वेन निर्गुणश्रुतिविरोधो नास्तीति चेत् स एव न्यायः सत्यकामत्वादिष्वप्यनुसन्धीयताम् । ज्ञानबलशक्त्यादीनामपि ब्रह्मरूपत्वे ' ज्ञानात्मको भगवान् बलात्मको भगवान् ' इत्यादिश्रुतीनां प्रमाणत्वात् । यथा ईश्वरसाक्षात्कारार्थं । सगुणब्रह्मोपासना कार्या तथा अद्वैतसाक्षात्कारार्थं निर्गुणब्रह्मोपासना कार्या इति त्वया उच्यते । ततश्च यथा सगुणत्वं मिथ्या तथा निर्गुणत्वमपि मिथ्या स्यात् । इष्टापत्तिरिति चेत् न निर्गुणत्वस्य मिथ्यात्वे सगुणत्वं स्थापितं भवेत् इति तव महाननर्थ: प्रसज्येत । ननु निर्गुणोपासनं यद्यपि भ्रमः तथापि मणिप्रभाया मणिभ्रम इव सम्यक्फलप्रदम् । तदुक्तम्-
" स्वयंभ्रमोऽपि सवादी यथा सम्यक्फलप्रदः ।
ब्रह्मतत्त्वोपासनाऽपि तथा मुक्तिफलप्रदा ||
इति चेत् प्रकृतेपि तथात्वोपपत्तेः । सगुणोपास्तेर्विशिष्टविषयत्वेन भ्रमत्वेऽपि निर्गुणोपास्तेर्निर्विशेषविषयतया भ्रमत्त्वाभावोपपादनं तु निर्मूलत्वादुपेक्ष्यं प्रेक्षावद्भिः । यथा ऐक्यादेर्विध्यविधिरूपवाक्यद्वयबोधितत्वेन ध्येयत्वज्ञेयत्वे तथा सार्वज्ञादेरुपास्तिविधिविषयस्यापि अविधिरूपायाः वस्तुतत्त्वविषयिकायाः 'यः सर्वज्ञ ' इत्यादि श्रुत्योः विषयत्वात् ज्ञेयत्वमप्यस्तु । किंच ब्रह्माणि कर्तृत्वादिधर्मानारोप्य तदुपासना कर्तव्या इति भवन्मतम् । तत्पक्षे ब्रह्मणि कारणवाक्यानां समन्वय: अकर्तव्य एव । न हि नाम्नि ब्रह्मवाक्यानां समन्वय क्रियते भवता । ननु नाम्नो ब्रह्मविकारत्वात् तत्र न समन्वयः । ब्रह्म तु वस्तुतः अविकारित्वात् मुमुक्षुज्ञेयमिति कारणवाक्यानां तटस्थलक्षणभूतकर्तृत्वादिबोधनद्वारा ब्रह्मण्येव तात्पर्यबोधनसंभवेन समन्वयस्य आवश्यकत्वमिति चेत् न नाम्नोऽविशेषब्रह्मनिर्विशेषत्वात् तत्रापि समन्वयस्य कर्तव्यतापातात् । सत्यकामत्वादीनामपि निर्गुणत्ववदवश्यं ज्ञेयत्वमङ्गीकार्यम् । " य आत्मा अपहतपाप्मा ' इत्यारभ्य सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः " इति सत्यकामत्वादीनाम् अपहतपाप्मत्वादिभिः सह जिज्ञास्यत्वश्रवणात् । ननु अपहतपात्मत्वादीनां स्वरूपतया जिज्ञास्यकोटिप्रवेशेऽपि सत्यकामत्वादीनां स्वरूपबहिर्भावेन जिज्ञास्यत्वं नोक्तमिति चेन्न, सहपठितानां गुणानां केषांचन जिज्ञास्यत्वं केषांचन अजिज्ञास्यत्वमिति अर्धजरतीयायोगात् । तत्पदेन प्रक्रान्तानां सर्वेषां विशेषणानां परामर्शस्य असति बाधके न्याय्यत्वात् । न च यश्चित्रगु लम्बकर्णश्चतमानय इत्यादी योग्यविशेषणस्य लम्बकर्णस्यैव तच्छब्देन परामर्शदर्शनात्, यश्चित्रगुः बहुधनस्तमानय इत्यत्र विशेष्याशमात्रपरामर्शदर्शनाच्च अत्रापि स्वरूपभूतस्य अपहृतपाप्मत्वादेरेव परामर्शः न तु सत्यसंकल्पत्वादीनामिति वाच्यम्, लम्बकर्णबहुधनयो: परामर्शे इव अत्रापि बाधकाभावात्, साधकसत्त्वाच्च । ' एष सर्वेश्वर एष भूताधिपति रित्यादि धर्मानुक्त्वा तेषा ' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति ' इत्यादौ मुमुक्षुज्ञेयत्वोक्ते; य सर्वज्ञः सर्ववित् यस्यैष महिमा भुवि ' इत्युक्त्वा ' तद्विज्ञानेन परिपश्यन्ति धीरा " इत्यपरोक्षप्रमाविषयत्वस्योक्तेः " तुरीय सर्वदृक् सदा " इति तुरीये सार्वज्ञयश्रुतेश्च सर्वज्ञत्वादीना तात्त्विकत्वात् ' स विजिज्ञासितव्यः' इत्यत्र तत्पदेन सत्यकामत्वादीनामपरामर्शायोगात् । केवलमपहतपाप्मत्वादीना जिज्ञास्यत्वे तेषाम् भूताकाशेऽपि संभवेन दहराकाशस्य ब्रह्मत्वप्रतिपादकदहराधिकरणविरोध अपरिहार्य: । ननु चेतनधर्मात्यन्ताभावस्यपाप्मादिविरहस्य अचेतने संभवेऽपि सत्यकामत्वादीनामचेतने संभावयितुमशक्यत्वेन विरोधः परिह्रियते इतिचेन्न, सत्यकामत्वादिधर्माणाम् प्रतिपन्नोपाधौ त्रैकालिकनिपेधप्रतियोगित्वेन चेतनेऽप्यसंभावितत्वात् । चेतने आरोपेन संभावितत्वे अचेतनेऽपि असंभावितत्वाभावात् । होममात्रानुवादेन यथा आहवनीयस्य विधानं क्रियते, तथा श्रुत्युक्तमहिमानुवादेन सत्यत्वं विधीयते इति सर्व सार्वज्ञयादिकं सत्यमित्यास्थेयम् । तत्रापि निर्गुणश्रुतिविरोधेन स्वरुपमहिम्न एव सत्यत्वं वक्तव्यमिति वचनं वैय्यात्यमात्रम् । षष्ठया उपचरितार्थत्वकल्पनं साहसमात्रम् । ननु ईश्वरमहिमा व्यावहारिकसत्य इत्यङ्गीक्रियते इति चेत् ब्रह्मापि व्यावहारिकसत्यमेवस्यात् इत्युक्ते किमुत्तरम् । ननु 'सत्यस्य सत्यमिति पदस्वारस्यात् ब्रह्मणः पारमार्थिकसत्यत्वं लभ्यते इति चेन्न सत्तात्रैविध्यस्य खण्डितत्वात् । पारमार्थिकसत्यत्वेन ब्रह्मण: सविशेषत्वाच्च । “पृथगात्मान " मित्यादिश्रुतिषु " यो मामशेषदोषोज्झ गुणसर्वस्वबृं हितम् । जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं न चान्यथा, " " भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमूच्छति ” इत्यादिस्मृतिषु च सुविशेषज्ञानादेव मोक्षोक्ते: सप्रकारकज्ञानस्यैव मोचकत्वमवश्यमङ्गीकर्तव्यम् । न च पूर्वोक्तानां प्रमाणानां परममुक्तिसाधननिर्विशेषसाक्षात्कारोपयोगिच्चित्तशुध्युपायसगुणोपासनाविध्यर्थवादतया चरितार्थ्यमिति वक्तव्यम्, मुक्तिद्वयकल्पनस्य अप्रामाणिकत्वात् गौरवपराह तत्वाच्च । ननु सगुणज्ञानस्य फलान्तरश्रवणात् न परा मुक्तिः फलमिति चेन्न निर्गुणज्ञानस्यापि 'नास्य अब्रह्मवित् कुले भवति ' इति फलान्तरश्रुतेः तस्यापि परा मुक्ति न फलमित्यपि कुतो न वक्तुं शक्यम् । स्तुत्यर्थतया उपपादनमुभयत्र समानम् । एकस्य तूभयत्वे संयोगपृथक्त्व ' मिति जैमिनिसूत्रोक्तेन ' एकस्य उभयार्थत्वे संयोगस्य विनियोजकप्रमाणस्य पृथक्त्वमुभयत्वं नियामक ' मित्युक्तसंयोगपृथक्त्वन्यायेन उभयफलत्वोक्तिरपि समाना । तथा हि यथा एकस्य खादिरस्य क्रत्वर्थत्वं पुरुषार्थत्वं च " खादिरो यूपो भवति " " खादिरं वीर्यकामस्य यूपं कुर्वीत' इति वाक्याभ्यां बोध्यते तथा मुक्ते फलान्तरस्य च वाक्यद्वयेन बोधितत्वात् उभयार्थता ।
किंच सगुणज्ञानात् 'पुण्यपापे विधूय' इति सर्वकर्मनिवृत्युक्तेः परममुक्तिरेव संभवति । पुण्यपापविधूननदशायामविद्याया अप्यवस्थित्यसंभवात् अन्यथा निर्गुणज्ञानजन्याया मुक्तेरपि अवान्तरत्वमेव स्यात् । ' असन्नेवे ' ति श्रुत्युक्तशून्यताया एव परममुक्तित्वं स्यात् । शून्यतायाः असुखरूपत्वान्नेति चेन्न असुखरूपत्वस्य आनन्दाद्व्यावृत्तत्वरूपस्य ब्रह्मण्यपि त्वया अङ्गीकारात् ।
शून्यवादिनाऽपि शून्यस्य आनन्दात्मकत्वमङ्गीकृतम् । कुतः इदं ज्ञायते इति चेत् सावधानं शृणु । सच्चिदानन्दरूपत्वं ब्रह्मणः स्वरूपलक्षणमिति अद्वैतिभिः कथ्यते । तत्र ज्ञानानन्दरूपत्वमित्येवास्तु लक्षणम् किं सद्ग्रहणेन इत्याशङ्कायां सत्त्वरहितज्ञानानन्दरूपत्वं शून्येऽपि परेण अङ्गीकृतमिति अतिव्याप्तिर्लक्षणस्य । अतोऽतिव्याप्तिपरिहारार्थं सत्पदमावश्यकमिति अखण्डार्थत्वोपपत्तिप्रकरणे अद्वैतसिद्धि-लघुचन्द्रिकाभ्यामभ्युपगतम् ।
तथा हि अद्वैतसिद्धिः " शून्यवादिभिरपि सत्त्वरहितज्ञानानन्दात्मकत्वस्य ब्रह्मणोऽन्यत्र अङ्गीकारात् मिलितं विना न निर्विचिकित्सब्रह्मसिद्धिरिति मिलितं लक्षणम् " इति ।
लघुचन्द्रिका च शून्यवादस्य विज्ञानवादविशेषरूपत्वात् । तथा च आनन्दोऽपि ज्ञानाकारत्वात् ज्ञानाभिन्न इति ज्ञानात्मकानन्दत्वं तन्मते ब्रह्मभिन्नऽपीति तद्वारणाय सत्यमिति भावः " इति I
अन्यच्च गुणविशेषविधिसन्निहितस्य सामान्यनिषेधकस्य निष्प्रपञ्चवाक्यस्य विहितगुणनिषेधकत्वं न संभवति । विशेषविधायकस्य निषेधकप्रमाणसमकक्षत्वेवन सामान्यनिषेधकवाक्यसंकोचस्य अवश्यकरणीयत्वात् । उपासना प्रकरणस्थत्वमात्रेण उपास्यत्वावगतौ उद्गीथोपासनाप्रकरणस्थस्य ' स एषोऽनन्तः' इति श्रुतानन्तत्वादे भूताकाशे उपासनामात्रार्थत्वमिति सुवचत्वेन आकाशाधिकरणे अनन्तत्वादिलिङ्गेर्ब्रह्मत्वनिर्णयायोगाच्च । सार्वझ्यादीनां वाग्धेनुत्वादिवत् प्रातीतिकत्वापत्तेश्च । ननु वाग्धेनुत्वादेर्बुद्धिपूर्वकारोपविषयतया प्रातीतिकत्वेऽपि सत्यकामत्वादेर्बुद्धिपूर्वकारोपाविषयत्वान्न प्रातीतिकत्वमिति चेन्न, निर्विशेषे चैतन्ये उपासनासिध्यर्थं शास्त्रावगतगुणानां बुद्धिपूर्वकारोपस्यैव त्वया वक्तव्यत्वेन तेषां प्रातीतिकत्वस्य दुष्परिहरत्वात्।वस्तुतस्तु असदुपासना न शास्त्रसम्मता ।
'नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः ' 'नच रमन्त्यहो असदुपासनयात्मनः । यदनुशया भ्रमन्त्युरुभये कुशरीरभृत ' इत्यादिस्मृतिवचनैः, ' अचेतनासत्यायोग्यान्यनुपास्यानि, अफलत्वविपर्ययाभ्याम् ' इति संकर्षणसूत्रेणापि तस्याः प्रतिषिद्धत्वात् । ' वाचं धेनुमुपासीत ' ' योषितमग्निं ध्यायीत ' इत्यादी धेन्वग्निशब्दयोः प्रयोगः गौणः न तु तदर्थयोस्तत्र आरोपः । गौणत्वाङ्गीकारेण अर्थस्य सुवचत्वे आरोपस्य अन्यायत्वात् । एवमेव ' नाम ब्रह्मेत्युपासीत ' इत्यत्र च ' नामाभिमानिनी चोषा तस्यां ब्रह्म हरिं स्मरेत् ' इति स्मृत्यैव प्रतिमायामिव ब्रह्माधिष्ठाने नामादौ ब्रह्मोपासना उक्ता । नामेति प्रथमावचनं " वसन्तो मारुत ' इतिवत् सप्तम्यर्थे इति । तत्रापि नासदुपासना उक्ता । ननु नाम्नि ब्रह्मारोप एव अङ्गीकर्तव्यः समानविभक्तिकत्वाभावे इतिशब्दानन्वयप्रसङ्गादिति चेन्न ' नाम्नि ब्रह्म वर्तते ' इत्युपासीत इति रीत्या इतिशब्दान्वयस्य वक्तुं शक्यत्वात् तथा च नामनिरूपिताधेयत्वप्रकारिका वा ब्रह्मविशेष्यिका उपासना अत्र उक्ता न तु नामविशेष्यकब्रह्मत्वप्रकारिका वा ब्रह्मविशेष्यनामत्वप्रकारिका वा उपासना इति नेयमसदुपासना |
"यस्यात्मबुद्धि: कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधी: " इत्यस्य भागवतवाक्यस्य देवतात्वारोपनिषेधपरत्वे एव सम्यगुपपत्तिर्भवति । ननु " तदेव ब्रह्म त्वं विद्धि मेवं यदिदमुपासते ' इत्युपास्यस्य ब्रह्मभिन्नत्वमुक्तमिति चेन्न ' अन्यदेव तद्विदितादथो अविदितादधि' इति श्रुतौ अश्रौतज्ञानस्य कार्त्स्न्येन ज्ञानस्य वा निषेध इति ' तदेव ब्रह्म इत्यादावपि अश्रौतध्यानरय ब्रह्मत्वनिषेधे ' तस्याभिध्याना 'दिति श्रुतिविरोधः । विश्वमायानिवृत्तिकथनेन अभिध्यानं क्रममुक्तिसाधनमिति प्रतिपादनं न शोभते । तरमात्सगुणमेव परब्रह्म तस्य निर्गुणत्वे साधकाभावात्, बाधकसद्भावाच्च तस्मात् सगुणत्वनिर्गुणत्वयो-विरोधेन समुच्चयायोगात् साध्ये कर्मणीव सिद्धे ब्रह्माणि विकल्पासंभवात् अन्यतरवाक्यस्य प्रतीतार्थप्रच्यावनरूपे बाधे वक्तव्ये निर्गुणवाक्यस्यैव स युक्तः । निर्गुणवाक्यापेक्षया बहूनां प्रबलानां च सगुणवाक्यानां बाधस्य गौरवावहत्वात् अनौत्सर्गिकत्वाच्च । न च बहुत्वं प्राबल्यसंपादकं न भवति, ' शतमप्यन्धानां न पश्यति' इति न्यायादिति वक्तव्यम् श्रुतीनामन्धसाम्यकथनस्य पाखण्डसोदरताज्ञापकत्वात् ।
निर्गुणवाक्यस्य छागपशुन्यायेन " त्रैगुण्यवर्जितम् विना हेयैर्गुणादिभि:' इति विशेषगुणनिषेधपर्यवसाथित्व संभवति । ननु ' नेति नेति ' इत्यादिवीप्साबलेन प्रसक्तसर्वधर्मप्रतिषेधः प्रतीयते इति चेन्न, तन्छुतेरर्थान्तरपरत्वस्य समर्थित्वात् । ' एव धर्मान् पृथक् पश्यन् तानेवानुविधावति ' इति श्रुत्या ' सविशेषणे ' इति न्यायेन गुणानां पार्थवयस्यैव निषेधात् तत्साम्यादन्यत्रापि तथैव निषेधो वक्तव्यः । न च ' सविशेषणे' इति न्यायस्य विशेष्येबाधावतार एव प्रवृत्तेः विशेष्ये बाधकं च अत्र नास्तिति चेन्न, यः सर्वज्ञः इत्यादि परः सहस्रश्रुतिभिर्बाधस्य समर्थितत्वात् । ' अन्तस्तद्धर्मोपदेशात् ' अन्तर्याम्यधिदेवादिषु तध्दर्मव्यपदेशात्' 'विवक्षितगुणोपपत्तेतश्च' 'सर्वधर्मोपपत्तेश्च ' इत्यादिबहुषु सूत्रेषु धर्माणाम् तत्तदधिकरणसिद्धान्तसाधकतया उपन्यस्तत्वात् सगुणत्वसिद्धिरवश्यं भाविनी । आरोपितधर्माणां साध्यसाधकत्वे अङ्गीक्रियमाणे बाष्पारोपितधूमस्यापि वह्निसाधकत्वं स्यात् । अहिंसामीषोमीयवाक्ययोरिव सगुणनिर्गुणवाक्ययोरपि भिन्नविषयतया अविरोधे सुसंपादेऽपि सगुणवाक्यस्य अतत्वावेदकत्वकथनं सौगतसौहृदशालिनामेव शोभते ।
किंच ब्रह्मणो निर्धर्मकत्वे तस्य मीमांसाविषयत्वानुपपत्तिः । तथा शास्त्रविषयत्वानुपपत्तिश्च स्यात् । तदुक्तमनुव्याख्याने
सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यते ।
मिथ्याधर्मविघातुश्च वेदस्यैवाप्रमाणता ||
स्वरूप तावत् स्वप्रकाशत्वान्न शास्त्रप्रतिपाद्यम् प्रकाशमानार्थप्रतिपादकत्वे शास्त्रस्य अशास्त्रत्वापत्तेः । यद्वा स्वप्रकाशत्वमवेद्यत्वं परस्याभिमतम् । तथा च अवेद्यस्य शास्त्रप्रतिपाद्यत्ववचनं कथं न व्याहतम् । न च फलाव्याप्यत्वमवेद्यत्वं न तु वृत्यव्याप्यत्वमिति न व्याघात इति वाच्यम् । अद्वैत्यभ्युपेतफलस्य अप्रामाणिकत्वेन घटादेरपि फलाव्याप्यत्त्वरूपावेद्यत्वप्रसङ्गात् । किंच संसर्गस्य वा भेदस्य वा संसर्गभेदयोरुभयोरपि वा वाक्यार्थत्वेन ब्रह्मणो धर्माभावादेव संसर्गादीनामसंभवात् न तस्य शास्त्रसमधिगम्यत्वं संभवति ।
अन्यच्च संसर्गभेदयोरेव वाक्यार्थत्वमवश्यमङ्गीकर्तव्यम् । अत्र तटस्थ शङ्कते ननु सर्व वाक्येषु पदार्थानां संसर्गस्यैव उत्सर्गतः प्रतीयमानत्वात् तस्य वाक्यार्थत्वमङ्गीक्रियता कामम् व्यवच्छेदात्मनो भेदस्य तत् किमर्थमङ्गीकर्तव्यम् । तस्य सर्वत्र वाक्ये उत्सर्गतः अप्रतीयमानत्वात् किंतु क्वचिदेव विशेषणवशात् तस्य प्रतीतेः । यथा 'इन्द्रियार्थसन्निकर्षोत्पन्नज्ञानं प्रत्यक्षमिति प्रत्यक्षलक्षणे असति ज्ञानपदे ज्ञानस्य सुखादेश्च प्राप्तौ उपात्तस्य ज्ञानपदस्य प्राप्तज्ञानविधायकत्वानुपपत्त्या सुखादिव्यवच्छेदमात्रं प्रत्यायकत्वं वक्तव्यम् । वस्तुतस्तु तत्रापि अर्थाद् गम्यमानतया न व्यवच्छेदः वाक्यार्थो भवितुमर्हति । यश्चार्थादर्थो न स चोदनार्थं इति न्यायात् । अत व्यवच्छेदापरपर्यायो भेदो न वाक्यार्थ: । अत एव न्यायामृते असंसर्गत्वादित्येव हेतुकृत मितिचेत् सत्यमेवं वस्तुगतिः । तथापि दिङ्नागप्रभृतिभिर्वादिभिः आर्थिकस्यापि भेदस्य वाक्यार्थत्वाभ्युपगमेन तन्मतमाश्रित्य एवमुच्यते अथवा संसर्गवद्भेदस्यापि वाक्यार्थत्वे न किंचित् बाधकम् । तथा हि भेद एव तावत्सर्ववेदार्थः । " सर्वे वेदा हरेर्भेद सर्वस्माद् ज्ञापयन्ति हि " अत्र एतावान् विशेष अवगन्तव्यः । भेदशब्द भावसाधनः करणसाधनश्च । तत्र भावसाधनेन अन्योन्याभावः अभिधीयते । करणसाधनेन स्वातन्त्र्यादिरूपः असाधारणधर्म: । ततश्च स्वातन्त्र्यादिरूपासाधारणधर्मप्रतिपादक वेदभागः धर्मधर्मसंसर्गप्रतिपादक इति तत्र संसर्ग एव वाक्यार्थ: । नेति नेत्यादिरपरो वेदभागस्तु भेदमेव प्रतिपादयतीति तत्र स एव वाक्यार्थः तेन वेदार्थस्य संसर्गभेदान्यतरत्वनियत्या ब्रह्मणो वेदवाक्यार्थत्वं वदता परेण तस्य संसर्गभेदान्यतरस्वरूपत्वमङ्गीकर्तव्यम् । न च तच्छक्यम् । तस्य संसर्गरूपताया वा व्यावृत्तिरूपताया वा तेन अनभ्युपगमात् ।
प्रान्चस्तु वाक्यार्थः संसर्गः भेद: भेदससर्गो वा । राज्ञः पुरुष इत्यत्र स्वविशेषस्य स्वामिविशेषेण स्वामिविशेषस्य स्वविशेषेण सम्बन्ध प्रतिपाद्यते । स्वान्तरेभ्यः स्वामिविशेषस्य वा स्वान्तरेभ्यः स्वविशेषस्य वा व्यावृत्तिः अर्थसिद्धैव । न हि अव्यावर्त्यमानयो संबन्ध्यन्तरैः संसर्गों घटते इति संसर्गवाक्यार्थ मन्वाना मतम् । भेद वाक्यार्थ मन्यमानानां तु व्यावृत्तिरेव सर्वत्र उच्यते । संसर्गस्तु आर्थिकः । न हि अन्यस्मात् व्यावृत्तस्य सम्बन्ध्यन्तरेण असम्बद्धस्य अवस्थानं सम्भवति इति हि तन्मतम् । उभय वाक्यार्थ मन्यमानानां तु संसर्गदावुभावपि सर्वत्र अभिधीयेते इति मतम् । अत्र कस्यापि मते ब्रह्मणः वाक्यार्थत्वं न संभवतीति न तस्य मीमांसाविषयत्वं शास्त्रविषयत्वं या संभवति । संसर्गस्य वा भेदस्य वा वाक्यार्थत्वे अवश्यमङ्गीकार्ये ब्रह्मणि धर्मसबन्धः स्वेतरभेदश्च प्रतीयते इति अनिच्छताऽपि अङ्गीकार्यमिति तत्त्वम् ।
ननु ब्रह्मणः निर्धर्मकत्वेऽपि जिज्ञास्यता संभवति इति चेन्न विचारो हि जिज्ञासा नाम । स च धर्मनिर्णय: । धर्मनिर्णयश्च व्याप्यदर्शनरूप । कथमसौ शशविषाणवन्निधर्मके स्यात् । अङ्गीकारे च व्याघातः कथं न स्यात् । किंच अनुमानविचारापरपर्यायाया जिज्ञासाया वस्तुस्वरूपज्ञानमात्रं प्रयोजनम् । तस्य प्रागेव सिद्धत्वात् । असिद्धौ वा आश्रयासिद्धस्य अनुमानस्य अनुत्थानात् ।
किं नाम इदमिति स्वरूपानुवादेन इत्थमिति व्यापकधर्मविशिष्टघर्मिज्ञानम् । घूमानुमानादौ तथा दर्शनात् । आरोपिताभ्यां व्याप्यव्यापकाभ्यां तत्संभव इति चेन्न स्वरूपासिद्धिबाधप्रसङ्गात् । ननु यद्यपि न ब्रह्मनिष्ठेन केनचिद्धर्मेण तत्र धर्मान्तरं विधित्सितंम्, तथापि कस्यचित् व्यापकभूतधर्मस्य निवृत्या व्याप्यभूतधर्मान्तरस्य भ्रान्तिप्रसक्तस्य अन्यत्र सतो निवृत्तिर्ज्ञाप्यते । यथोक्तं ' सिद्धं तु निवर्तकत्वादिति । तदर्थस्तु मीमांसाशास्त्रस्य ब्रह्मप्रतिपादकत्वं सिद्धम् । तत्र भ्रान्तिप्रसक्तान्यधर्मनिवर्तकत्वात् इति चेन्न न खलु निराधारया कस्यचिद्धर्मस्य निवृत्त्या निराधारैव धर्मान्तरव्यावृत्तिः अनुमातुं शक्या । एवंविधानुमानप्रवृत्तेरलौकिकत्वात् । अतो ब्रह्मनिष्ठयैव व्यावृत्त्या ब्रह्मनिष्ठैव व्यावृत्तिः बोधनीया इति वाच्यम् । यदि च अस्य धर्मः न स्यात् व्यावृत्तिमत्ताऽपि न स्यात् । ननु ब्रह्मणि व्यावृत्तिमत्तारूपः धर्मः अङ्गीक्रियते न तु विधिरूपसूत्रकारणैव अदृश्यत्वादिगुणानां ब्रह्मण्येव प्रतिपादनात् । " अभावरूपधर्मा नाद्वैतं घ्नन्ति " इति वार्तिककारैरुक्तत्वाच्च इति चेन्न, यथा श्रुतिसिद्धत्वाददृश्यत्वादयो अभावरूपधर्मा अङ्गीक्रियन्ते एवमेव भावरूपा धर्मा अपि तत एव अङ्गीकर्तव्या । अथ तदङ्गीकारे 'नेहनानास्ति ' इत्यादि श्रुतिविरोध इत्युच्यते चेत्, स अदृश्यत्वाद्यंङ्गीकारेऽपि समानः । अतोऽर्धजरतीयस्य अप्रामाणिकत्वात् सर्वज्ञत्वादयोऽपि स्वीकार्याः । अदृश्यत्वादयो वापि त्याज्याः । अभावरूपधर्माङ्गीकारे अभावाधिकरणत्वरूपधर्मस्य अवश्यमङ्गीकार्यत्वाच्च । ननु सर्वज्ञत्वादय: सर्वनिरूप्यत्वात् सर्वापेक्षाः, वियदादिकं च सर्वं भ्रान्तिसिद्धमसत्यमेव असत्यसापेक्षास्तु कथं परमार्थतो ब्रह्मधर्मतया स्वीकर्तुं शक्यन्ते इति चेन्न, यथा सर्वज्ञत्वादयः असत्यसर्वसापेक्षत्वान्नाङ्गीक्रियन्ते तथा अदृश्यत्वादयोऽपि असत्यदृश्यसापेक्षत्वात् नाङ्गीकर्तव्या एव । विषयतया अन्यापेक्षत्वं प्रतियोगितया अन्यापेक्षत्वमिति वैषम्यमकिंचित्करम् । कि परापेक्षत्वात् यदि सर्वज्ञत्वादिकं ब्रह्मणो नाङ्गीक्रियते तर्हि सत्ताऽपि नाङ्गीकार्या । तस्यापि देशकालसापेक्षत्वात् यथोक्तमनुव्याख्याने
देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ।
ननु देशकालसापेक्षत्वं नाम देशकालसम्बद्धत्वं वा देशकालजन्यत्वं वा । नाद्य:,सम्बन्धमात्रेण परापेक्षाऽसिद्धेः । न हि गगन घटेन संयुक्तमित्येतावता तदपेक्षं स्यात् । न द्वितीयः । अनादिनित्यत्वादिति चेत् एवं तर्हि सार्वज्ञादेरपि नान्यापेक्षता । न हि सर्वेण सह विषयविषयिभावसम्बन्धमात्रेण सर्वापेक्षत्वं भवति । सौरप्रकाशस्यापि घटापेक्षता प्रसङ्गात् । न हि सर्वज्ञत्वं सर्वेण जन्यते । नित्यत्वात्तस्य । ननु उत्पत्ती सार्वज्ञादेः सर्वापेक्षताभावेऽपि ज्ञप्तौ सा अस्त्येव । विदिते एव सर्वस्मिन् सार्वज्ञादि विज्ञायते नाविदिते इति चेत्, सत्ताऽपि माभूदुत्पत्तौ' परापेक्षा । ज्ञप्तौ तु भवत्येव । यदि कश्चिद् वैयात्यात् क्वचिद्देशकालप्रतीत्यनपेक्षाऽपि सत्ता दृश्यते इति ब्रूयात् तदा व्याघातः स्यात् ।
सत्ताप्रतीतौ अवर्जनीयतया देशकालौ दृश्येते न तु तदपेक्षा इति चेन्न अभूत्, भवति, भविष्यतीत्यादिप्रतीतिमवधूय सत्तायाः अप्रतिभासात् ।
किंच ब्रह्मणः सच्चिदानन्दरूपत्वमङ्गीकृत्य तस्मिन् यदि सत्त्वादिकं नागीक्रियते तर्हि व्याहतिः स्यादेव । युक्तमुक्तं युक्ति मल्लिकायाम् –
किं व्याहति पुरंघ्रीणां पाणिग्रहणमस्तिते ।
विप्रः स्यात् विप्रता नैव गोमान् स्यात् गौर्नकाचन ।
धनी नैव धनं चेति कोनुन्मत्तो वदेद्वद ||
ननु सदादिशब्दानां असदादिव्यावृत्तत्वं वा अनृतादिधर्मनिवृत्तिर्वा अर्थ, सत्यादिपदानामनृतादिधर्मनिवृत्तिपरत्वादिति भाष्योक्ते इति चेत् न असदादिव्यावृत्तत्वं वा अनृतादि धर्मनिवृतिरूपत्वं वा ब्रह्मणि आगतम् तथा च तस्य निधर्मकत्वभङ्गः ननु अभावरूपधर्मा ब्रह्मणि अङ्गीक्रियन्ते तेषामद्वैताविघातुकत्वादिति चेन्न दत्तोत्तरत्वात् भावस्यापि रूपत्वात् अभावरूपत्वमस्त्येव तस्य अभावाभावरूपत्वात् । ननु ' नेहनानास्ति ' इति श्रुत्या ब्रह्मणि अभावरूपधर्मः प्रतिपाद्यते इति तस्य प्रामाणिकत्वादङ्गीक्रियते इति चेत् परः सहस्रश्श्रुतिभिः प्रतिपाद्यमाना गुणा किमर्थं नाङ्गीक्रियन्ते तेषामपि प्रामाणिकत्वाविशेषात् । किंच सत्यादिपदलक्ष्येsपि यदि असत्यादिव्यावृत्तिः स्यात्, गड़गापदलक्ष्येऽपि तीरे अगङ्गाव्यावृत्तिः स्यात् । तथा च तीरेऽपि मज्जनं सफलं स्यात् । यथोक्तं युक्तिमल्लिकायाम्
" यदि सत्यादिपदतो लक्ष्ये ब्रह्मणि केवलम् ।
व्यावृत्तिः स्यादसत्यादेस्तेन सार्थक्यमिष्यते ॥
तर्हि गङ्गापदाल्लक्ष्ये तीरेऽपि न्यायसाम्यतः ।
व्यावृत्तिः स्यादगङ्गायास्तीरेस्यान्मज्जनं सदा " इति ॥
सूत्रकारस्तु कण्ठत एव ब्रह्मणि गुणानभिधत्ते । तथाहि ब्रह्मणि गुणप्रतिपादकानि सूत्राणि । " अन्तस्तद्धर्मोपदेशात् " " विवक्षितगुणोपपत्तेश्च " "" सुखविशिष्टाभिधानादेव च " अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् "अदृश्यत्वादिगुणको धर्मोक्ते: " " धर्मोपपत्तेश्च " " आत्मनि चैवं विचित्राश्च हि " " सर्वोपेता च तद्दर्शनात् " " सर्वधर्मोपपत्तेश्च " त्यादीनि॥
। इति निर्गुणत्ववादभङ्गः ।