तत्त्वमसीतिश्रुत्यर्थविचारः
आत्मा-तत्-त्वम् असि इति पदच्छेदपक्षऽपि श्रुतेर्भेदपरत्वसमर्थनम्
तत्त्वमसीतिश्रुत्यर्थविचारः
यथा आदित्यो यूपः इत्यत्र सारूप्यादिति जौमनिसूत्रानुसारेण आदित्यशब्दस्य आदित्यसदृशार्थकत्वेन आदित्यसदृशस्य यूपस्य चाभेदे मुख्यं सामानाधिकरण्यम् । यथा वा इष्टादिकारिणामवरोहणकथनप्रसङ्गे प्रयुक्तस्य वायु-भूत्वा धूमो भवति धूमो भूत्वा अभ्रं भवतीति वाक्यस्य "अन्यस्यान्यभावासम्भवात् इष्टादिकारिणः आकाशवायुधूमाभ्रसाम्यं प्रतिपद्यन्ते इत्येवार्थः " इति " साभाव्यापत्तिरुपपत्तेः " इति सूत्रतत्रत्यशाङ्करभाष्याभ्यां यत्र भिन्नत्वेन प्रमितयोः अभेदप्रतिपादनं प्रमाणवाक्येन क्रियते तत्र तद्वाक्यस्थ विधेयवाचकपदस्य विधेयसदृशार्थबोधकत्वनियमसूचनात् । तत्त्वमसीत्यत्राऽपि "साभाव्यापत्ति " रिति सूत्रानुसारेण त्वंतत्सदृशः असि इति तत्सदृशस्य तत्पदार्थस्य त्वंपदार्थस्य च अभेद एव मुख्यं सामानाधिकरण्यम् । अस्तु वा सदृशाभेदे सामानाधिकरण्यममुख्यम् । तथाऽपि श्रुतितात्पर्यनिर्णायकसूत्रोपदर्शितत्वेन तदेवाभ्युपगन्तव्यम् । यथा वा अद्वैतिभिः “ तद्गुणसारत्वात्तु तद्व्यपदेशः " इति सूत्रे अणुभूतबुद्धिगतगुणप्रधानकत्वाज्जीवस्य बुद्धिवदणुरिति व्यपदेशः इयुच्यते । तथा द्वैतिभिः ब्रह्म गतगुणसदृशचेतनत्वनित्यत्वादिगुणयोगात् ब्रह्मव्यपदेश इति सूत्रार्थकथनसम्भवेन सूत्रनिश्चितस्य गौणस्याऽपि सामानाधिकरण्यस्यावश्याभ्युपगन्तव्यत्वात् । यन्त्रारूढानि मायया इत्यत्र यथा इव शब्दोऽत्राध्याहार्य इत्युक्तं शंकराचार्यैः तथा तत्त्वमसीत्यत्राऽपि इव शब्दाध्याहारेण प्रमाणान्तराविरुद्धार्थपरत्वसम्भवे · तद्विरुद्धार्थकथनस्यायुक्तत्वात् ।
यच्चोक्तम् तत्त्वमसीत्यत्राभेदे मुख्यमेव सामानाधिकरण्यमुपाधीनामविवक्षया" इति तत्र प्रष्टव्यम् उपधीनामविवक्षा कुत ति अभेदविरोधित्त्वादविवक्षेतिचेन्द्रयात् तदा वक्तव्यम् शीतत्वोष्णत्वयोरिव स्वाभाविकयोर्नित्ययोः जीवत्वेश्वरत्वयोः सर्वज्ञत्वतदभावयोर्वा त्वदविवक्षामात्रेण अभेदविरोधित्वाऽनपायेन तदविवक्षाया अकिंचित्करत्वमेवेति ।
एवं ग्राहयन्ति च आत्मत्वेनैवेश्वरं वेदान्तवाक्यानि " सआत्मातत्त्वमसि " इत्येवमादीनि " इति शाङ्करवाक्ये "सआत्मा" इत्येवमादीनि इत्येव प्रकृतोपयुक्तत्वाद्वक्तव्यम् । अधिकांशोदाहरणप्रयोजनं तु अतत् इति पदच्छेदप्रदर्शनमेव. यथा अन्तरउपपत्तेः " इतिसूत्रशांकरभाष्ये अक्षिस्थ: किं प्रतिबिंबात्मा अथवा विज्ञानात्मा उत देवतात्मा अथवा ईश्वर इति संशये " परमेश्वर एवाक्षण्यभ्यन्तरः पुरुष इहोपदिष्ट इति । कस्मात् उपपत्तेः=आत्मत्वं तावन्मुख्यया वृत्या परमेश्वरे उपपद्यते "सआत्मातत्त्वमसीति श्रुतेः" इति, “तत्रात्मत्वं तावद् मुख्यया वृत्या परमात्म न्येवोपपद्यते सआत्मा तत्वमसीतिश्रुतेः " इति वार्तिके " उपपत्तेः आत्मत्वामृतत्वाभयत्वादीनामिहोक्तानां परमात्मन्येवोपपत्तेः " इति सदाशिवेन्द्रकृतब्रह्मसूत्रवृत्तौ । एवं " द्युभ्वाद्यायतनं स्वशब्दात् ” इत्यत्रापि भाष्ये तदूव्याख्याने च जीवे आत्मशब्दप्रवृत्तिनिमित्तस्य व्याप्तत्वस्याभावान्न मुख्मात्मत्वमित्युपदर्शितम् । तथा च अन्तर उपपत्तेरित्यस्य अक्ष्यन्तस्थः परमेश्वर एव न जीवः अन्ये वा आत्मत्वादीनामेतत्प्रकरणपठितानां परमेश्वर एवोपपत्तेः । जीवे आत्मत्वाद्यनुपपत्तेः जीवेआत्मत्वानुपपत्तिः कुत इत्याशङ्कायामुक्तम् " स आत्मातत्त्वमसीति श्रुतेः” इति । तथाच यदीयं श्रुतिः ब्रह्मणः आत्मत्वं जीवस्य च तदूभिन्नत्वं प्रतिपादयेत् तदैव उक्तहेतुसाधकत्वेन सूत्रोपदर्शितानुमाने हेत्वसिद्धिपरिहारप्रयोजकत्वेन प्रकृते तदुपन्यासो युक्तः स्यात् । प्रकृतहेतुसाधकत्वस्य चास्याः स आत्मा अतत् त्वमसि इति पदच्छेदमन्तरेणासम्भवात् । अत एवात्र " सआत्मा ” इत्येतावदंशोदाहरणं विहाय “ सआत्माऽतत्वमसीति " अधिकांशोदाहरणस्य अतत् इति पदच्छेदसूचनं प्रयोजनं तथैवेति विज्ञेयम् ।
श्वेतकेतोर्गर्वपरिहाराय तस्य ईश्वराधीनत्वतद्भिन्नत्वबाधनस्यैवैत् प्रकरणार्थत्वेन प्रकरणाविरोधात् आद्यखण्डे, "सता सौम्य तदासम्पन्नो भवती "ति भेददृष्टान्तस्यैवोपक्रमात् । तदनुसारेणात्रातदितिपदच्छेद करणान्नोपक्रमोपसंहारविरोधः । समर्थितं च त्वदाचार्यैः “ अधिकं तु भेदनिर्देशादित्यत्र सता सौम्य तदा सम्पन्नोभवती ” त्यस्य भेदपरत्वम् । प्रतिज्ञादृष्टान्तयोरपि सादृश्यप्राधान्यविषयत्वेन श्रुतीनामविरुद्धानेकार्थप्रतिपादकत्वेन भाष्योपदर्शितार्थाविरुद्धार्थतया चानुव्याख्यानस्य नानुपपत्तिगन्धोऽपि । वस्तुतस्तु अद्वैतमते तत्त्वमसीत्यादीनां बोधकत्वमेव नास्ति बोधकत्वे वा चिन्मात्रबोधकत्वमेव नाभेदबोधकत्वं तत्त्वेऽपि चित् चिदभिन्नेत्येवंरूपेणैवाभेदबोधकत्वम् । सर्वथा जीवेश्वरभेदाविरोधित्वमेव । " नहि भेदाभावोऽभेदः येनोभयोरपि विरोधः स्यात् " इत्यादिना अभेदस्य भेदविरोधित्वा भावः समर्थितश्चासुधायाम् । अधिकं गुरुपादकृताद्वैतखण्डने द्रष्टव्यम् ।
॥ इति तत्त्वमसिश्रुत्यर्थः ॥