अभावस्यापि क्लृप्तप्रमाणान्तर्भावसमर्थनम्

अथ अभावस्यापि क्लृप्तप्रमाणान्तर्भावसमर्थनम्

अभावस्य क्लृप्तप्रमाणान्तर्भावः । न्यायकुसुमाञ्जलिमतम् । भासर्वज्ञमतम् । पदपञ्चिकामतम् । गङ्गेशोपाध्यायमतम् । तर्कताण्डवानुवादः । न्यायचन्द्रिकाखण्डनम् । न्यायसुधासिद्धान्तानुवादः ।

.............................................................................................................................................................

अथ अभावस्य प्रत्यक्षादिषु यथायथमन्तर्भावः

तत्र तावदिह भूतले घटो नास्तीति प्रतीनिरिन्द्रियजन्या, अनन्यत्रोपक्षीणेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वात् रूपादिबुद्धिवत् । अधिकरणग्रहणोपक्षीणमिन्द्रियमिति चेन्न । त्वगिन्द्रियेण घटादिग्रहणे प्रतियोगिस्मृतिमतोऽन्धस्य शुक्लाद्यभावप्रतीतिप्रसङ्गात् । प्रतियोगिग्राहकेन्द्रियेणाधिकरणप्रतीतिरपेक्षणीया इति चेत् न । त्वागीन्द्रियग्राह्ये वायौ चाक्षुषरूपाभावानवगमप्रसङ्गात् । अभावप्रतीतौ चाधिकरणप्रतीतेरनुपयोगान्न तत्रेन्द्रियमुपक्षीयते । उपयोगे तन्तुनाशोत्तरकालं पटप्रध्वंसानिरूपण प्रसङ्गात् । तस्य हि प्रतियोग्यधिकरणाधारत्वेन तन्त्वाश्रयत्वात् तेषां च विनष्टत्वात् । भवतु वा अधिकरणग्रहणावश्यम्भावः । तथापि नेन्द्रियं तत्रोपक्षीयते, तदवान्तर व्यापारत्वात्तस्य । नचैवं लिङ्गज्ञानस्यापि इन्द्रियावान्तरव्यापारत्वप्रसङ्गः । यद्धि यज्जनयित्वैव यज्जनयति, तत्र तस्य तदवान्तरव्यापारत्वात् । इन्द्रियस्य च लिङ्गज्ञानमन्तरेणापि लिङ्गिज्ञाने सामर्थ्योपलम्भात् । न च तुच्छत्वादिन्द्रियसन्निकर्षाभावोऽभावस्य यथा ज्ञानेन विषयत्वेन सन्निकृष्यते तथेन्द्रियेणापि सन्निकर्षोपपत्तेः। न च तुच्छत्वमप्यभावस्य । अभावप्रतियोगित्वं हि तुच्छत्वं, नाभावत्वम् । किंच षष्ठप्रमाणवादिनाऽप्यनुपलब्धेरज्ञाता या एव ज्ञानजनकत्वमास्थेयम् ।अन्यथा तस्या अप्यभावरूपत्वेन अनुपलब्ध्यन्तरापेक्षायामनवस्थाप्रसङ्गात् । ततश्च अज्ञातकरणत्वात् रूपादिज्ञानवदेव अभावज्ञानस्येन्द्रियजन्यत्वं स्वध्यवसानम् ।

सर्वत्र च बाह्यार्थेषु भावप्रमाणावष्टम्भेनैव मनसोऽपि ज्ञानहेतुत्वं दृष्टमित्यभावज्ञानेऽपि तथात्वमुपगम्यत इति अनुपलब्धिसहायत्वं नोपपद्यते । किंच भावज्ञानजननसमर्थस्य लिङ्गशब्दादेस्तदभावज्ञानजननेऽपिसामर्थ्यमुपलब्धमिति इन्द्रियस्यापि अभावप्रतियोगिनि घटादौ समर्थस्य तदभावज्ञानजननेऽपि सामर्थ्यमनुमीयते । किंच इन्द्रियदोषेण दूष्यमाणमभावज्ञानं तदेव आत्मनः करणीकरोति । कारणदोषापादेव कार्यदोषाः प्रादुर्भवन्ति । अन्यथा अतिप्रसङ्गात् किंच अघटं भूतलमिति विशिष्टज्ञानस्य इन्द्रियजन्यत्वावश्यम्भावात् विशेष्यांश इव विशेषणांशेऽपि तज्जन्यत्वमकामेनापि स्वकिरणीयम् । तस्मात् प्रत्यक्षयोग्यार्थानुपलब्धौ तदभावोऽपि प्रत्यक्षः । नन्वेवमनुपलब्धिः कारणं स्यादिति चेत्, हन्तैवमभावानुपलब्धिरपि भावग्रहणकारणमापन्नमायुष्मताम् । भावोपलम्भेऽपि अभावानुपलम्भस्य नित्यं सन्निधानादिति । तदेत्सर्वं न्यायकुसुमाञ्जली प्रपंचितमाचार्यैः-

" प्रतिपत्तेरापरोक्ष्यादिन्द्रियस्यानुपक्षयात् । अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः ॥ प्रतियोगिनि सामर्थ्याद्व्यापाराव्यवधानतः । अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात् " अनयोः श्लोकयोस्तात्पर्यम्

नन्वघटं भूतलमिति विशिष्ट बुद्धाविन्द्रियग्राह्यत्वेऽप्यभावस्य विशिष्टबुद्धित्वाभावान्नास्ति इन्द्रियग्राह्यत्वम् । सत्त्वे वा केवल सौरभस्य चाक्षुषत्वप्रसङ्गः । तस्मात् पूर्वं केवलग्रहणाय अनुपलब्धिराश्रयणीया । अन्यथा नागृहीतविशेषणेतिन्यायात् विशिष्टे धीरेव नस्यात् । अनन्यनिरूप्य स्वभावानां दण्डकुण्डलादीनामेव विशेषणीभविष्यतां पूर्वं कैवल्येन ग्रहणम् । विषयसम्बन्धिप्रतियोगिनिरूप्याणां तु ज्ञानसमवायाभावानां नित्य सनिरूप्यस्वभावतया विशेषणविशेष्यत्वे विकल्पसामग्री समवधानवत एव इन्द्रियस्य सामर्थ्यावधारणान्न कैवल्ये निर्विकल्पक ग्रहणापेक्षा इति । न कुत्राऽपि अनुपलब्धिपैशाच्याः प्रवेशावकाशः ।

अभावप्रतिपत्तिः इन्द्रियजन्या अपरोक्षत्वात्, रूपादिप्रतिपत्तिवत् । परोक्षत्वे वा लैङ्गिकांदिवदज्ञांतकरणत्वानुपपत्तिः, भावावेशात् भावप्रमाण परतन्त्रत्वात् इत्यर्थः । प्रतियोगिनिषेध एव अभाव इत्यर्थः । पूर्वमभावग्रहणे अधिकरणप्रहणस्यानुपयोगादिति पर्यहारि । इदानीमुपयोगमङ्गीकृत्य परिह्रीयते अधिकरणग्रहणस्यावान्तरव्यापरत्वेनाव्यवधायकत्वादिति । अभावविपर्ययस्य इन्द्रियदोषोत्थत्वादैन्द्रियकत्वमित्यर्थः । अघटं भूतलमित्यभावविकल्पस्यैन्द्रियकत्वात् विशेषणस्य अभावस्याप्यैन्द्रियकत्वम् । ननु गृहादिमात्रमनुभूय अन्यत्र गतवतः प्रतियोगिस्मरणे सति इन्द्रिय व्यापारमन्तरेणाप्यभावोऽनुमीयते ।

यथाहु:-

स्वरूपमात्रं दृष्टंवापि पश्चात् किंचित् स्मरन्नपि ।

तत्रान्यनास्तितां पृष्टस्तदैव प्रतिपद्यते " ॥ इति

सत्यम् । न तत्र अभावः प्रत्यक्षः । किन्तु स्मरणयोग्यस्य स्मरणाभावादनुमीयते । स्मरणाभावश्च मानसप्रत्यक्ष इति नानवस्था । अनयैव दिशा प्रातर्गजाभावविज्ञानेपि ज्ञेयम् । कथमन्यथा प्रमाणान्तरवादिनः सायंतनसमयेऽनुभूयमामानस्य गजादेः प्रातःकालीनाभावविषयोऽनुभवो जायेत । न हि तदानीं तस्य अनुपलब्धिरस्ति । प्रातःकालीनैव अनुवर्तत इति चेत् न, तत्रापि दृश्यत्वाभावेन.योग्यानुपलब्धेरभावात् स्मर्तव्यस्य स्मरणाभावस्तत्र अभावज्ञाने कारणमितिचेत् न तर्हि " अभावोऽपि प्रमाणाभावो नास्तीत्यर्थस्येति भाष्यमुन्मत्तप्रलपितमेवं स्यात् अभावोऽपि अभावाख्यं प्रमाणमित्यर्थः । प्रमाणाभावः प्रमित्यभावः इत्यर्थः । अभावाख्यं प्रमाणमिति लक्ष्यम् प्रमित्यभाव इति लक्षणम् । तस्य प्रमेयमाह नास्तीत्येतस्य अर्थस्य वेदान्तपरिभाषायां ज्ञानकरणाजन्याभावानुभवासाधारणकारणत्वमनुपलब्धिरूपप्रमाणस्य लक्षणमुक्तम् । अनुमानादिजन्यातीन्द्रियाभावानुभवहेतौ अनुमानादौ अतिव्याप्तिवारणाय अजन्यन्तेति पदम् । अदृष्टादौ साधारण कारणे अतिव्याप्तिवारणाय असाधारणेति पदम् । अभावस्मृत्यसाधारणहेतुसंस्कारे अतिव्याप्तिवारणाय अनुभवेति विशेषणम् । न च अभावानुमितिस्थलेऽपि अनुपलब्ध्यैव अभावो गृह्यतां विशेषाभावादिति वाच्यम् । धर्माद्यनुपलब्धिसत्त्वेऽपि तदभावानिश्चयेन योग्यानुपलब्धेरेव अभावग्राहकत्वात् ।

ननु केयं योग्यानुपलब्धिः ? किं योग्यस्य प्रतियोगिनोऽनुपलब्धिः ? उत योग्ये अधिकरणे प्रतियोग्यनुपलब्धिः ? नाद्यः, स्तम्भे पिशाचादि भेदस्य अप्रत्यक्षत्वापत्तेः । नान्त्यः । आत्मनि धर्माद्यभावस्य प्रत्यक्षत्वापत्तेः, इति चेन्न; योग्या चासौ अनुपलब्धिरिति कर्मधारयाश्रयणात् । अनुपलब्धेः योग्यता च तर्कितप्रतियोगिसत्त्वप्रसञ्जित प्रतियोगिकत्वम् । यस्य अभावः गृह्यते तस्य यः प्रतियोगी तस्य सत्वेन अधिकरणे तर्कितेन प्रसञ्जितमापादनयोग्यं प्रतियोग्युपलब्धिस्वरूपं यस्य अनुपलम्भस्य तत्त्वं तदनुपलब्धियोग्यत्वम् ।

क्लृप्तेन्द्रियस्यैव अभावग्राहकत्वं किमर्थं नाङ्गीक्रियते इति चेत्, ; त्प्रतियोग्यनुपलब्धेरप्यभावग्रहहेतुत्वेन क्लृप्तत्वेन कारणत्वमात्रस्य कल्पनात् । इन्द्रियस्य चाभावेन सह सन्निकर्षाभावेन अभावग्रहाहेतुत्वात् । इन्द्रियान्वयव्यतिरेकयोः अधिकरणज्ञानाद्युपक्षीणत्वेन अन्यथासिद्धेः । ननु भूतले घटो नास्ति इत्याद्यभावानुभवस्थले भूतलांशे प्रत्यक्षत्वमुभयसिद्धमिति तत्र वृत्तिनिर्गमनस्यावश्यकत्वेन भूतलावच्छिन्नचैतन्यवत् तन्निष्ठघटाभावावच्छिन्नचैतन्यस्यापि प्रमात्रभिन्नतया घटाभावस्य प्रत्यक्षतैव सिद्धान्तेपि इति चेत्, सत्यम् अभावप्रतीतेः प्रत्यक्षत्वेऽपि तत्करणस्य अनुपलब्धेर्मानान्तरत्वात् । न हि फलीभूतज्ञानस्य प्रत्यक्षत्वे तत्करणस्य प्रत्यक्षप्रमाणतानियतत्वमस्ति; ' दशमस्त्वमसि' इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षत्वेऽपि तत्करणस्य वाक्यस्य प्रत्यक्षप्रमाणभिन्नप्रमाणत्वाभ्युगमात् । ननु फलवैजात्यं विना कथं प्रमाणभेदः ? इति चेत्, न वृत्तिवैजात्यमात्रेण प्रमाणवैजात्योपपत्तेः । तथा च घटाभावाकारवृत्तिर्नेन्द्रियजन्या इन्द्रियस्य विषयेण असन्निकर्षात्, किन्तु घटानुपलब्धिरूपमानान्तरजन्या इति भवत्यनुपलब्धेर्मानान्तरत्वमिति; तन्न अभावस्य तु त्रिष्वपि यथासंभवमन्तर्भावसंभवात् । तथाचोक्तं भासर्वज्ञेन अभावस्य तु त्रिष्वपि यथा सम्भवमन्तर्भावः । तथाहिकौरवाद्यभावप्रतिपत्तिरागमादिति । आत्मादिषु रूपाद्यभावप्रतिपत्तिरनुमानादिति ।

पदपन्चिकायाम्-

आत्मा रूपरहितो नियमेनाचाक्षुषप्रत्यक्षत्वात् वायुवत्, गन्धरसरहितो रूपरहितत्वाद्वायुवत् । स्पर्शरहितोऽस्मदादिमानसप्रत्यक्षत्वात् सुखादिवत् । आकाशं रूपरसगन्धशून्यं स्पर्शरहितत्वात् आत्मवत् इत्याद्युह्यम् । भूतलादिषु घटाद्यभावप्रतिपत्तिः प्रत्यक्षात् इन्द्रियव्यापारभावभावित्वादिति ।अन्यत्र तद्भावभावित्त्वं पर्यवसितमिति चेत्

पञ्चिकायाम्-अन्यत्र-आधार भूतलादिग्रहणे । तथाचोक्तम् " गृहीत्वास्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसि नास्तिताज्ञानं जायतेऽक्षानपेक्षया " ।। परिहरति-न रूपादिष्विव बाधकाभावादिति ।

पश्चिका-

न हि रूपाद्याश्रयग्रहणे एवेन्द्रियव्यापारः पर्यवसितो न रूपादिष्विति युक्तम् । घ्राणव्यापारे सत्येव निर्गन्धं कुसुममिति ज्ञानमुत्पद्यते । न च तत्र इन्द्रिय-व्यापारोऽन्यत्र पर्यवसित इति युक्तं वक्तुम्; द्रव्यस्य चाक्षुषज्ञानविषयत्वात् । सम्बन्धाभावो बाधक इति चेत्, ; स्वपक्षपरपक्षयोरसिद्धत्वात् । स्वपक्षे ( मीमांसकपक्षे ) रूपादिष्विव अपरोक्षानुभवकार्यानुमेयो योग्यताख्यः सम्बन्धः । परपक्षेऽपि संयुक्तविशेषणभावादिति । संयोगसमवायरहितस्य विशेषणविशेष्यभावानुपपत्तिरिति चेत्, , विशिष्टप्रत्ययेन तत्सिद्धेरिति ।

अनुपलब्धेः प्रामाण्यं खण्डितं गङ्गेशोपाध्यायैः तत्त्वचिन्तामणौ प्रत्यक्षखण्डे-अत्रोच्यते इत्यादिना ।

प्रतियोगिग्राहकेन्द्रियेण आश्रयग्रहो न हेतुः, प्राक् नास्तिताग्रहेत्वन्वयेन व्यभिचारात्, वाय्वादौ च रूपाद्यभावधीरिन्द्रियजन्यैव, नानुपलब्धिलिङ्गजन्या अनुपलब्धेरज्ञानात् । अथाज्ञातैव रूपाद्युपलम्भस्य अनुपलब्धिः रूपाद्यनुपलब्धि गृह्णति भूतले घटाभावमिवेतिचेत्, त्वन्मते उपलम्भस्यातीन्द्रियत्वेन योग्यानुपलब्ध्यां उपलम्भाभावस्य ग्रहीतुमशक्यत्वात्, अनुपलब्धिमात्रस्य अभावाग्राहकत्वात् । घटाभावधीरज्ञातकरणिका लिङ्गाद्यनुसन्धानं विना जायमानत्वादिति चेत्, ; वाय्वादौ रूपाद्यभावप्रतीतिरपि तथा । अथ रूपादिमत्तया ज्ञातत्वाभावस्तदनुमितरूपवत्तानुपलब्धिर्वा लिङ्गमिति चेत्, ; वाय्वादौ ज्ञातत्वाभावस्यापि रूपाद्यभावतुल्यतया ग्रहीतुमशक्यत्वात् । वाय्वादौ तस्य प्रत्यक्षत्वे रूपाद्यभावोऽपि तथास्तु । नापि कायवाग्व्यवहाराभावेन अनुपलब्धिरनुमीयते, उपेक्षाज्ञानमूकस्वप्नयोर्दर्शनेन व्यभिचारात् न च व्यवहाराभावमात्रं लिङ्गं कस्यचिदुव्यवहाराभावस्य व्याभिचारात्, सर्वव्यवहाराभावस्य ग्रहीतुमशक्यत्वात् । किञ्च घटवत्तया ज्ञातत्वाभावेन तदनुमितानुपलब्ध्या वा लिङ्गेन भूतलादावभावानुमितिरस्तु किं मानान्तरेणानुपलब्ध्या । गृहमुपलभ्य निर्गतश्चैत्रो यत्र केनचित् पृष्टस्तत्र मैत्र आसीदिति, स च क्षणं ध्यात्वा अनुपलब्ध्या तत्र मैत्राभावमवगम्याह-नास्तीत्तत्र मैत्र इति । सेयं प्राङ्नास्तिताधीर्न स्मृतिः, पुरा गेहेऽनुभूयमाने मैत्रास्मरणेन तदभावाननुभावात् । एवञ्च तत्रैव इन्द्रियव्यापारं विनैव अनुपलब्ध्या अभावानुभवादन्यत्रापि सैव हेतु:, क्लृप्तत्वात् । तदाहुः " स्वरूपमात्रं दृष्टं हि वेश्माद्यर्थं स्मरन्नथो । तत्रान्येनास्तितां पृष्टस्तदैव प्रतिपद्यते " इति । मैम् । प्राङ्नास्तितायां हि न तावदज्ञातानुपलब्धिः । भूतले घटाभावस्येवाऽभावग्राहिका; तदानीं गेहस्य विप्रकृष्टत्वेन योग्यानुपलब्धेरभावात् । नापि ज्ञाता, अनवस्थाप्रसङ्गात् । अनुपलब्धेरप्यभावरूपतया अनुपलब्ध्यन्तरेण ग्राह्यत्वात् । उपलम्भस्यानुपलब्धिरज्ञातैव स्वरूपसती मैत्रानुपलब्धि गृह्णाति इति चेत् त्वन्नये उपलम्भस्य अतीन्द्रियत्वेन तदभावस्य योग्यानुपलब्ध्यग्राह्यत्वात् । अथ गेहस्य योग्यमैत्रवत्तया स्मरणार्हस्य स्मरणाभावस्तत्र अज्ञात एव गेहे मैत्राभावग्राहक इति चेत्, ; स्वरूपसतः स्मरणाभावस्य ग्राहकत्वे तस्मिन् सति अभावसंशयविपर्ययाभावप्रसङ्गात् । भवति च कदाचित् तत्र आसीदिति विपर्य्ययः, तत्रासीन्नवेति संशयश्च । अथ दोषात्संशयविपर्ययौ । न चासाधारणं प्रमाकरणं दूषयन्तः एव दोषाः संशयादिहेतवो भवन्ति । न चात्र स्वरससिद्धस्य योग्यास्मरणस्य किञ्चिद्ददुषितमितिवाच्यम् । दोषसाहित्यमेव हि करणानां दुष्टता । न हि दूरत्वादिना चक्षुषः किश्चिदपक्रियते, किन्तु मण्यादेर्दाह इव स्वरूपसतामेव प्रतिबन्धकत्वमिति चेत्, ; अज्ञातायोग्यास्मरणात् तत्राभावधीरित्यसिद्धेः । किन्तु मनसा ज्ञातायोग्यास्मरणालिङ्गात् प्रमाणत्वेन क्लृप्तात् तत्राभाव प्रतीत्युपपत्तौ नानुपलब्धिः प्रमाणान्तरं कल्प्यते । योग्यस्मस्मरणाभावो न मनोग्राह्यः, प्रत्यासत्यभावात् । ज्ञानस्य अयोग्यत्वाद्वेति चेत्, ; वाय्वादौ रूपाद्यभावप्रतीतेरलैङ्गिकत्वेनेन्द्रियानुविधानेन न तज्जन्यत्वे सिद्धे इन्द्रियसंबद्धविशेषणतायाः प्रत्यासत्तित्वकल्पनात् । तज्ज्ञानं प्रत्यक्षं, जानामीत्यनुभवस्य लिङ्गाद्यजन्यत्वात् । न च ज्ञातता लिङ्गम् निराकृतत्वात् ।

तवापि कथमभावे संशयविपर्ययाविति चेत्, ; लिङ्गसंशयविपर्ययाभ्यां लैङ्गिकसंशयविपर्ययदर्शनात् । यदा तु सुनिपुणेन एकज्ञानविषयतायोग्यस्य मैत्रस्य अनुभवे सति स्मरणार्हस्य अस्मरणमवधार्यते, तदा अनुमितिः प्राप्ता । अत एव अस्मरणमात्रस्य व्यभिचारमुपलभ्य तदुपेक्ष्य विशिष्टास्मरणं ज्ञातुकामस्य प्रणिधानमुपयुज्यते । अन्यथा ध्यानमनुपपन्नम् । स्वरूपसत एव अस्मरणस्य अभावग्राहकत्वात् । तस्माद्योग्यास्मरणं लिङ्गत्वेनोपयुज्यते । प्रयोगस्तु-तद् गेहं तदा मैत्राभाववत् तत्तुल्यपरिमाणादियोगितया स्मरणेऽपि तद्वत्तया अस्मर्यमाणत्वात् । यदेवं तदेवम् । यथा घटाभाववदूतलामिति । अतः साधूक्तं जयतीर्थश्रीमच्चरणैः पद्धतौ । " तत्रेदानीं कौरवाद्यभावो भारताद्यादवगम्यते । देवदत्तस्य चक्षुराद्यभावो रूपाद्यदर्शनलिङ्गगम्यः । सुखाद्यभावप्रमितिस्तु साक्षिप्रत्यक्षेणैव । पुरोवृत्तिघटाद्यभावप्रमितिस्तु झटिति जायमाना प्रत्यक्षफलमेव । न त्वनुपलब्धिमात्रजन्या । अपरोक्षज्ञानत्वात् । अनुपलब्धिस्त्ववर्जनीयसन्निधिरेव । यत्र त्वन्धकारे हस्तप्रसारणादिरूपपरामर्शेन घटाभावं प्रत्येति, न तदा अनुपलब्धिः करणम् । किन्तु लिङ्गत्वेनैव । अत्र घटो नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वादिति । एवं प्रातर्गजाद्यभावज्ञानमनुपलब्धिलिङ्गजन्यम् । अभावस्येन्द्रियसन्निकर्षानुपपत्तिरिति चेन्न; भाववदभावस्यापि इन्द्रियसन्निकर्षो बाधकाभावात् " इति तर्कताण्डवे च-

अनुपलब्धेरभावग्रहजनकत्वं नास्ति, व्यभिचारात् अन्यथासिद्धेश्च । तथा हि विनश्यदवस्थघटे कपाले घटोऽस्तीति चाक्षुषसाक्षात्कारे तदुत्तरक्षणे घटध्वंसे अनन्तरमेव चक्षुषा घटध्वंससाक्षात्कारस्य जायमानत्वेन व्यतिरेकव्यभिचारः । ध्वंससाक्षात्कारोत्पत्तिक्षणाव्यवहितपूर्वक्षणे ध्वंसोत्पत्तिक्षणरूपे उक्तरूपघटसाक्षात्कारस्य स्थित्या तदभावरूपानुपलब्धेरभावात्। आवश्यकेनेन्द्रियेण अन्यथासिद्धेश्व । अन्यथा अभावग्रहे भावानुपलब्धिरिव अभावानुपलब्धिरपि भावग्रहहेतुः स्यात् । तस्यास्तत्र अन्यथासिद्धत्वे प्रकृताया अपि तथात्वमिति । यदुक्तं न्यायचन्द्रिकायाम् " विमता रूपाभावप्रतीतिः इन्द्रियकरणिका अन्यत्र अनुपक्षीणेन्द्रियव्यापारानुविधायित्वात् रूपप्रतीतिवत् । तन्न; अधिकरणग्रहणे तस्य उपक्षीणत्वात् " इति तदसत् । तथा सति अन्धस्यापि त्वगिन्द्रियोपनीते घटादौ रूपविशेषाभाव- प्रतीतिप्रसङ्गात् । ननु प्रतियोगिग्राहकेन्द्रियगृहीते अधिकरणे, अनुपलब्धिः प्रमाणमिति चेन्न; वायौ त्वगिन्द्रियोपनीते रूपाभावप्रतीत्यनुदयप्रसङ्गात्, वाता- यनविवरविसारितकर परामृष्टेप्यधिकरणे तदुपलम्भप्रसङ्गाच्च ।

यदप्युक्तं तत्रैव " यत्त्विदं गदितम्-वायौ त्वगिन्द्रियोपनीत इत्यादि तदसत्; योग्यानुपलब्धे रूपाभावप्रतीतेः " इति तन्न; अन्धस्यापि त्वगिन्द्रियोपनीते घटे रूपाभावप्रतीतिप्रसङ्गात् । यदप्युक्तं तत्रैव "करपरामृष्टे च न रूपाभावप्रतीतिः अधिकरणचक्षुस्सन्निकर्षलक्षणयोग्यताभावात् " इति तदपि न; तद्रीत्या चक्षुषः अधिकरणग्रहणमात्रे उपक्षीणत्वात्, । इन्द्रियान्तरेण गृहीते च अधिकरणे अधिकरणचक्षुस्सन्निकर्षस्य अनावश्यकत्वात् । यथोक्तं -

'गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । "

मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ।। " अक्षानपेक्षया जायते इत्यस्य "बाह्येन्द्रियानपेक्ष्यनुपलब्धिसापेक्षमनोजन्यत्वमित्यर्थः " इति न्यायप्रकाशिकायां व्याख्यातम् ।

अन्यच्च इन्द्रियम् अभावप्रमाकरणम्, तद्विपर्ययकरणत्वात्, यत् यद्विपर्ययकरणम् तत् तत्प्रमाकरणम् । यथा रूपप्रमायां चक्षुः । न चासिद्धो हेतुः ।

तथाहि-अस्ति तावद्विद्यमान एव वस्तुनि विपर्ययात्मकोऽभावप्रत्ययः । स यस्मिन् दुष्टे सति भवति तदेवादुष्टं समीचीनाभावज्ञानकारणं भवितुं युक्तम् । तस्मादिन्द्रियदोषादेव अभावविपर्यय इति इन्द्रियस्य अभावप्रमाकरणत्वं वक्तव्यम् ।

यत्तूक्तं न्यायचन्द्रिकायाम्यदपि तद्विपर्ययकारणत्वादिति, तदन्यथा-सिद्धम् । विषयतदधीनेतरेन्द्रियादिकारणसाकल्यलक्षणयोग्यपदार्थपक्षनिक्षिप्तत्वादिन्द्रियादेः, तद्दोषे योग्यतैव दुष्टेति तद्विशिष्टानुपलब्धेरेवाभावविपर्ययः, न तु तस्य दुष्टेन्द्रियमात्रनिबन्धनत्वम् " इति तन्न; दुष्टेन्द्रियमात्रनिबन्धनत्वमभावविपर्ययस्य वक्तव्यम् लाघवात् इन्द्रियदोषेणैव निर्वाहे कुतः कारणसामग्र्याः दुष्टत्वारोपः । तस्करस्य अपराधे कुतो मस्करिणो मारणम् । कुतो वा शरीरैकदेशस्य कर्दमदूषितत्वे समग्रस्य शरीरस्य तद्दषितत्वकथनम् । अनुपलब्धिनिरपेक्षदुष्टेन्द्रियस्य तद्धेतुत्वे गृह्यमाण एव शुक्तीदमंशादौ तदभावभ्रमो भवेदित्यापादनमसाधु, अनुपलब्धेः सहकारित्वस्य अङ्गीकारात् दुष्टेन्द्रियसहकारिण्या अनुपलब्धे दुष्टत्वाङ्गीकारे आलोकसहकृतमेव दुष्टेन्द्रियं रजतभ्रमजनकमिति आलोकस्यापि दुष्टत्वव्यवहारः प्राज्ञानां स्यात् ।

अपरं च अघटं भूतलमिति विशिष्टधियः अवश्यमिन्द्रियकरणकत्वं वा स्वीकार्य, सप्तमं प्रमाणं वा आस्थेयम् । यथा इन्द्रियस्य विशेष्यमात्रोपक्षीणत्वात् अकरणत्वमुच्यते, तथा अनुपलब्धेरपि वा विशेषणमात्रोपक्षीणत्वात् अकारणत्वं स्वीकर्तव्यं स्यात्, न्द्रियस्य अभावप्रमाकारणत्वं वा स्वीकर्तव्यं स्यात् । सप्तमं प्रमाणं वा गवेषणीयं स्यात् ।

अत्रोक्तं न्यायचन्द्रिकायाम्-मेदिनीतले कलशो नास्तीति वेदनं नाक्षादुत्पद्यते, अक्षस्य संसृष्टवेदनोत्पादकत्वनियमात्, कलशनास्तित्वस्य अक्षेण असंसर्गात् इति तन्न; संयोगादिसंसर्गाणामभावेऽपि विशेष्यविशेषणभाव संसर्गस्य जागरूकत्वात् । ननु विशेष्यविशेषणभावमात्रेण इन्द्रियैर्ज्ञानजनने चक्षुरसंयुक्तकलशविशेषणस्य रसादेरपि चाक्षुषत्वं स्यात् इति चेन्न, कलशनास्तित्वं योग्यत्वात् गृह्यते, न रसादि, अयोग्यत्वात् । ननु केयं योग्यता नाम-स्वरूपं वा, सहकारिसाकल्यं वा तदतिरिक्तं वा । नाद्यः रसादेरपि तुल्यत्वात् । नान्त्यः, स्वरूपसहकारिसाकल्यातिरिक्तयोग्यतायास्त्वयाऽनङ्गीकारात् इति चेन्न; चक्षु-रसंयुक्तफलसमवेतरसस्य चाक्षुषत्वे आपादिते यादृशयोग्यताभावात् रसस्य अचाक्षुषत्वं समर्थ्यते, तद्रूपैव योग्यता इति गृहाण । अथवा चाक्षुषत्वावच्छिन्नं प्रति महत्त्वत्त्व-जातित्व-रूपत्व-रूपवत्त्वेत्यादीनामन्यतमत् प्रयोजकम् तस्यैव योग्यतारूपत्वं स्वीक्रियते ।

यत्तु न्यायचन्द्रिकायाम् इन्द्रियमभावज्ञानकारणम्, अभावप्रतियोगिसामर्थ्यादिति अनुमानदूषणाय तत्सामर्थ्यं तद्धीजनकत्वं वा तद्धीकारणसाकल्यवत्त्वं वा तदतिरिक्तातीन्द्रिययोग्यता वा ? नाग्रिमः, तद्धीजनकत्वात्, तदभावधीजनकत्वमितिव्याघातात् । न हि यद्यस्य भावं यदा बोधयति, तत्तदा तदभावबोधकम्, अतिप्रसङ्गात् । अत एव न द्वितीयः । न तृतीयः । सिद्धान्तविरोधात् । "ज्योतिष्टोमेन स्वर्गकामो यजेत " इति वाक्येन यागस्वर्गसम्बन्धबोधकेन तदभावप्रमाऽजनकेन व्यभिचाराच्च इत्युक्तं, तन्न; इन्द्रियम् अभावविषयकप्रत्यक्षप्रमाजनकम् तत्प्रतियोगिविषयक प्रत्यक्षग्रहजनकतावच्छेकधर्मवत्वात् इति खलु अनुमानशरीरं क्रियते इति न कोऽपि क्षुद्रोपद्रवः । भिन्नसमयावच्छेदेन प्रतियोगिग्राहकतावच्छेदकधर्मशालिनोSपि अभावप्रमाजनकत्वं संभवत्येव । ज्योतिष्टोमेनेति वेदवाक्ये अव्यभिचारः स्पष्ट एव । हेतोरभावात् ।

यदुक्तं न्यायचन्द्रिकायाम् " ( इन्द्रियस्य ) अभावज्ञानं प्रत्यव्यवहितपूर्वकालभावित्वमसिद्धम्, विषय तदितर कारणसाकल्यलक्षणयोग्यत्वेन व्यवधानात् भावान्धकारराद्धान्ते अन्तरेण अधिकरणग्रहणमन्धकाराध्यक्षणात्, अधिकरणग्रहणस्य ' धरातले जलधरो नास्ति ' इति प्रतिषेधे करणव्यापरत्वायोगाच्च' इति, तन्न; विषयतदितरकारणसाकल्ये इन्द्रियमन्तर्भूतं न वा । यदि अन्तर्भूतम्, सिद्धं तर्हि तस्य अव्यवहितपूर्वकालभावित्वम् । यदि नान्तर्भूतमसिद्धं तर्हि साकल्यम् । किं च दण्डस्यापिघटकारणत्वं न स्यात्, तस्यापि स्वेतर कारणसामग्या व्यवधानात् । किंच अधिकरणग्रहणस्य करणावान्तरव्यापारत्वात् न तेन व्यवधानेऽपि दोषः । न हि व्यापारिणः व्यापारेण व्यवधानदोषाय ननु भावान्धकारराद्धान्ते अन्तरेण अधिकरणग्रहणमन्धकाराध्यक्षणात् अधिकरणग्रहणस्य अवान्तरव्यापारत्वं, नास्तीति चेन्न; अन्धकारस्याऽपि साक्ष्युपनीते देशरूपाधिकरणे अध्यक्षीक्रिय माणत्वात् । अत्र अन्धकारः, नात्र अन्धकारः इति अधिकरणत्वेन देशावगाहिनी एव प्रतीतिरुत्पद्यते । देशरूपाधिकरणविनिर्मोकेण केवलं ' अन्धकारः' इति प्रतीतेरेव अभावात् । ननु भवतु अन्धकारप्रतीतिः देशरूपाधिकरणविषयिणी तथा च तत्राप्यस्तु अधिकरणग्रहणानन्तरमन्धकाराध्यक्षणम् तथापि ' धरातले जलधरो नास्ति ' इति प्रतिषेधे अधिकरणग्रहणस्य करणव्यापारत्वं नास्तीति चेन्न; तत्रापि अधिकरणग्रहणाभावे अधिकरणत्वेन धरातलस्य प्रतिभासायोगात् । प्रतिषेधप्रतीत्यभिलापेकवाक्यघटक-धरातले-इति सप्तम्यन्तपदेन अभिलप्यमानप्रतीतिविषयविषयकेण भाव्यम् इति नियमस्य केनापि अपलपितुमशक्यत्वाच्च ।

अघटं भूतलमिति विशिष्टधियः इन्द्रियजत्वाभावे सप्तमप्रमाणत्वापत्तेः परिहारः न्यायचन्द्रिकायामेवं कृतः । तथाहि " यत्पुनरुदितम् विशिष्टधीः अवश्यमिन्द्रियकरणिका आस्थेया, प्रमाणान्तरं वा सप्तमम् इति तदसारम् । सुरभि चन्दनामित्यादिविशिष्टप्रत्ययेऽपि समानत्वात् । त्वगिन्द्रियस्य चक्षुषश्च चन्दनमात्रोपक्षीणत्वात् घ्राणस्य गन्धमात्रोपक्षीणत्वात्। गन्धज्ञानसहकृतत्वाच्चक्षुषः सुरभि चन्दनमिति विशिष्टप्रत्यय इति चेत्; अधिकरणोपलब्धिसहायानुपलब्ध्या अघटं भूतलमिति विशिष्टधीरत्रापि स्यात्इति तदचारु । सुरभिश्चन्दनखण्डः इत्यत्र घ्राणेन्द्रियजन्यसौरभज्ञान सहकृतं त्वगिन्द्रियं चक्षुरिन्द्रियं वा विशिष्टधियं जनयति विशेषणज्ञानसहकृतस्य विशेष्यग्राहकस्य विशिष्टधीजनकत्वस्य बहुलमुपलम्भात् । अघटं भूतलमित्यत्र चक्षुरिन्द्रियजन्यभूतलोपलब्धि सहकृता अनुपलब्धिः अघटं भूतलमिति विशिष्टधियं जनयतीति उक्ते विशेष्यज्ञानसहकृता विशेषणग्राहिका विशिष्टधियं जनयतीति आपतितम्, तञ्च अनुभवविरुद्धम् ।

यत् पुनरुक्तं-" किंचाघष्टं भूतलमिति विशिष्टबुद्धेः पूर्वमेव विशेषणस्य. अभावस्य ग्रहणं वाच्यम् । विशेषणग्रहणकार्यत्वाद्विशिष्टबुद्धेः । न च विशिष्टेसामर्थ्यमस्तीति विशेषणेपीन्द्रिय सामर्थ्यम् । केवलसौरभेऽपि चक्षुरसामर्थ्यप्रसङ्गात् । तस्मादभावात्मनो विशेषणस्य ग्रहणाय षष्ठं प्रमाणमास्थेयमिति;” तन्न; अधिकरणविनिर्मोकेण अभावज्ञानासंभवात् । भूतलघटाभावयोरपि एकदैव ज्ञानोदयात् । विशेषणज्ञानस्य विशिष्टबुद्धिं प्रति कारणत्वनियमस्य अप्रामाणिकत्वात् ' तुष्यतु ' न्यायेन अङ्गीकृतेऽपि प्रामाणिकत्वे तस्य प्रकृते प्रसरासंभवाच्च । ननु एतज्जन्मनि प्राथमिकं गौरिति प्रत्यक्षं जन्यविशेषणज्ञानजन्यम्, जन्यविशिष्टज्ञानत्वादनुमितिवत् इति अनुमानं मानम् । न च तंत्र विशेषणज्ञानस्मृतिरूपम् । एतज्जन्मनि तस्य गोत्वस्य अननुभवात् । न चाद्यस्तनपानादाविव अत्र अदृष्टमेव जन्मान्तरीयसंस्कारोद्बोधकम् । तद्वदनन्यगतिकत्वाभावात् । अन्यथा अतिप्रसङ्गात् । तद्वदेव सन्निकर्षेऽपि प्रथमं गोत्वस्मृत्यापाताच्च । गोत्वसन्निकर्षस्याप्यपेक्षायां तु सन्निकर्षात् गोत्वानुभव एवोचितः । तस्यानुभवे एव हेतुत्वस्य क्लप्तत्वात् । स्मृतिसामग्रीतोनुभवसामग्न्याः बलवत्त्वात् । अन्यथा जन्मान्तारानुभूतानाम् एतज्जन्मनि इन्द्रियसन्निकृष्टानां, नित्यानां वैदिकानां च अर्थानां स्मृतिरेव स्यान्नत्वनुभवः । न च गोत्वरूपविशेषणानुभव: सविकल्पकः । तथात्वे विशेषणज्ञानजन्यत्वावश्यंभावेन अनवस्थानात् । तस्मादर्थान्निर्विकल्पकसिद्धिः । न चाप्रयोजको हेतु: । अनुमितिशाब्दज्ञानादौ हि साध्यप्रसिद्धिपदार्थोपस्थित्यादिर्हेतुः । साध्यादीनि च विशेषणानि । एवं च यद्विशेषयोः कार्यकारणभावः असति बाधके तत्सामान्ययोरपीति न्यायेन साध्यप्रसिद्धयादेर्जन्यविशिष्टज्ञानसामान्ये जन्यविशेषणज्ञानत्वेन हेतुत्वसिद्धिरिति तन्न; अनुमित्यादौ साध्यप्रसिद्ध्यादेरेव अहेतुत्वेन यद्विशेषयोरिति न्यायानवकाशात् । न हि व्याप्त्यादिज्ञाने सति तद्विलम्बेन अनुमित्यादिविलम्बः ( " असिद्धसाधने दोष: को व्याप्तिर्यदि विद्यते) । " इत्यनुव्याख्यानोक्तेः । न च व्यात्प्यादि धीरेव तेन विना नेति वाच्यम् एवं हि तस्य हेतुहेतुत्वेन अन्यथासिद्धत्वान्नानुमित्यादिहेतुता ।

अस्तु वा साध्यप्रसिद्धयादिरनु मित्यादिहेतुः वन्हिनमानित्यादिज्ञानं प्रतिवहून्यान्यादिज्ञानस्य न विशेषणज्ञानत्वेनैव कारणता । द्रव्यत्वादिना वह्निनज्ञानेऽपि तदभावात् नापि विशेषणतावच्छेकप्रकारकाविशेषणज्ञानत्वेन । तेन निर्विकल्पकासिद्धेः गौरवाच्च । किंतु विशेषणतावच्छेदकप्रकारकज्ञानत्वेन । तथा च न निर्विकल्पकसिद्धिः ।

ननु पूर्वमज्ञातस्य विशेषणस्य भानायोगः इति चेन्न नैय्यायिकानां मते घटाभावभूतलमिति ज्ञाने अभावरूपविशेषणस्य संयुक्ताविमौ समवेताविमावित्यादिज्ञाने अनुव्यवसाये च संयोगसमयायादिरूपस्य विशेषणस्य, व्यवसायगतस्य रजतत्वप्रकारकत्वरूपस्य विशेषणस्य, अभावज्ञाने प्रतियोगित्वादिरूपस्य विशेषणस्य च पूर्वमज्ञातस्यैव भानमिति स्वीकृतत्वात्तत्र व्यभिचारः । भूतले अभाव इत्यभावादिविशेष्यकज्ञानानन्तरमेव भूतलमभाववदित्यभावविशेषणकज्ञानमितिकल्पने त्वन्योन्याश्रयः । एतत्कल्पनस्य विशिष्टज्ञान विशेषणज्ञानयोः कार्यकारणभावसिद्ध्यधीनत्वात् । उक्तेन व्यभिचारेणैव विशिष्टज्ञानं सम्बन्धविषयकम्; सम्बन्धज्ञाने च सम्बन्धिज्ञानं हेतुः, सम्बन्धि च विशेषणमिति निरस्तम् । सम्बन्धिनोर्युगपदिन्द्रियसन्निकर्षे तयोरसंसर्गाग्रहे च ताभ्यां सहैवन्द्रियसन्निकृष्टसम्बन्धस्यापि धीरित्युक्तत्वाच्च ।

तदेतत्सर्वमभिसन्धायैव अनुव्याख्यान व्याख्यातं न्यायसुधाकारैः तथा हि -घटादिप्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रतीतिसाधनं प्रमाणमभावः । तच्चा-नुपलब्धिलक्षणं लिङ्गमेवेत्यभावोऽपि नानुमानाद्भिद्यते । अतो युक्तं त्रीण्येव प्रमाणानीति । तत्किमभावो नियमेनानुमानान्तर्गत इत्यत आह । क्वचिदिति । कदाचिद्धटाद्यभावग्राहकं प्रत्यक्षमपि भवति । किं तर्हि प्रत्यक्षयोग्यार्थानां सर्वेषामप्यभावः प्रमाणद्वयवेद्य इत्यत आह । सुखादेरिति । चस्त्वर्थः । सुखादेरान्तरस्य साक्षिवेद्यस्याभावस्तु नियमेन साक्षिप्रत्यक्षेणैव ग्राह्य इत्यर्थः । यद्वाऽभाव इति प्रमाणमेवोच्यते । तस्य सुखादेरिति परंपरया संबन्धः । नियमेन प्रत्यक्षान्तर्गत इति संबन्धः । अनेन बाह्यानां प्रत्यक्षयोग्यानां घटादीनामभावः प्रत्यक्षानुमानवेद्य इत्युक्तम् । तदयुक्तम् । एकस्यैव ज्ञानस्य स्वतन्त्रकारणद्वयजन्यत्वानुपपत्तेः / परस्परविरुद्धपरोक्षापरोक्षत्वलक्षणाकारद्वयप्राप्तेश्चेत्यत उक्तम् क्वचिदिति । तथाप्यनुपपत्तिरेव । प्रत्यक्ष ग्राह्येर्थेऽनुमानानवकाशादित्यत आह । अन्यत्रेति । सुखादेरन्यत्र घटादौ प्रतियोगिनि सति योऽभावोऽभावप्रमाणं झाडिति प्राप्नोति तत्प्रत्यक्षम् । यत्तु विलम्बेन जायते तदनुमानमिति । एतदुक्तं भवति । घटाद्यभावग्राहकं योग्यानुपलब्धिरूपं प्रमाणं पृथगेवेति मीमांसकाः । अनुपलब्धिलिङ्गकमनुमानमेव तदिति सौगताः । तदुभयमप्यनुपपन्नम् । प्रतियोगिस्मरणवतः पुरोवर्तिनि भूतले घटा ( द्य ) भावस्य प्रत्यक्षेणैवावगम्यमानत्वात् । इंद्रियान्वयव्यतिरेकानुविधायिनोऽभावप्रत्ययस्याप्रत्यक्षफलत्वानुपपत्तेः । अपरोक्षाकारस्यानुभवसिद्धत्वात् । बाधकाभावाच्चान्यत्रोपक्षय कल्पनानुपपत्तेः । अन्यथारूपादि-ज्ञानेपि प्रमाणान्तरकल्पनाप्रसङ्गात् । लिङ्गदर्शनव्याप्तिस्मरणादिविलम्बेन विना झडिति जायमानस्यानुमानफलत्वानुपपत्तेः लिङ्गस्य ज्ञातस्यैव कारणत्वादनुपलब्धेरपि अभावत्वेनानुपलब्ध्यन्तरापेक्षायामनवस्थाप्रसङ्गाच्च । ननु च प्रातश्चत्वारादौ प्रतियोगिस्मरणाभावेन गजाद्यभावमननुभूय देशान्तरं गतो गजस्मृतिमान्प्रातश्चत्वरे गजो नासीदिति प्रतिपद्यते । न तत्र प्रत्यक्षस्यावकाश इति अनुपलब्धिलक्षणं पृथक् प्रमाणं तत्राङ्गीकार्यमिति । मैवम् । तत्राभावस्याप्रत्यक्षत्वेऽप्यनुप- लब्धिलिङ्गकानुमानवेद्यताभ्युपगमात् । अनुपलब्धेश्च स्मरणाभावालिङ्गानुमेयत्वात् । अत एव तत्र क्षणं ध्यात्वा नासीच्चत्वरे गज इति प्रतिपद्यते । स्मरणाभावोऽप्यनुपलब्ध्यान्तरानुमेय इत्यनवस्थेत्यपि नास्ति । साक्षिग्राह्याणां बुद्धिसुखादीनामभावस्य नियमेन साक्षिप्रत्यक्षवेद्यत्वादिति । अतः अभावस्य पृथक् प्रामाण्यं नास्ति ।

इति अभावप्रामाण्यवादभङ्गः ।