अद्वैतमते अनिर्वचनीयख्यात्यसम्भवेन असत्ख्यातेरेव साधुत्वम्

अनिर्वचनीयख्यात्यसंभवसमर्थनम्

अद्वैतमते अनिर्वचनीयख्यात्यसम्भवेन असत्ख्यातेरेव साधुत्वम्

यचोक्तम्-" अनिर्वचनीयख्यातेरेव साधुत्वम्" इति तद् गौडपादादिप्राचीनाद्वैतमतविरुद्धत्वादयुक्तम् । यतः गौडपादाचार्यैः

" स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।

तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ।।

न निरोथो न चोत्पत्तिः " इत्यादिवाक्यैः तथा शङ्कराचार्यैः

'स्वष्नश्च माया च स्वप्नमाये असद्वस्त्वात्मिके असत्यौ सत्यौ सद्वस्त्वात्मिके इव लक्ष्येते अविवेकिभिः " " यथा च स्वप्नमाये दृष्टे असद्रूपे तथा विश्वमिदं द्वैतं समस्तमसत् दृष्टम् ” " द्वैतस्यासत्त्वं सिद्धम् सतो हयुत्पत्तिः प्रलयो वा स्यान्नासतः शशविषाणादेः " “....रज्वां सर्पादिवदात्मनि द्वैतस्याविद्याध्यस्तत्वात्इत्यादिना जगतः शशविषाणवदेव असत्त्वं न तु सदसद्विलक्षगत्वम् । एवम् असत एव जगतः अध्यस्तत्वं चाभिहितम् । तेन अनिर्वचनीयख्यात्यसम्भवः । असत्ख्यातेरेव साधुत्वमद्वैतमते इति सिद्धम् ।

द्वैतमते तु असत एव ख्यातिः असत्ख्यातिरित्यर्थङ्गीकारेण भ्रमे अधिष्ठानस्य सत्त्वेन सन्मात्रविषयकत्वाभावेन तार्किकाभिमतान्यथाख्यातिविलक्षणान्यथाख्यातिरेव नानिर्वचनीयख्यातिः असत्ख्यातिर्वेति तत्त्वम् ।

। इति अनिर्वचनीयख्यातिनिरासः ।