नित्यो नित्यानाम्
अनादीनामपि ईश्वराधीनत्वम्
यत्तक्तम् - " अनादिप्रकृत्यादीनां प्रकृत्युपाधीनामीश्वरोपाधीनामौपाधिकधर्मादीनां वा निर्विशेष चैतन्यसमकालिकत्वमात्रम्; नेश्वराधीनत्वम् ईश्वरवदेव तेषामप्यनादित्वा " दिति (८) तदप्यतिहेयम् । ईश्वरस्य
" नित्यो नित्यानाम् "
मिति कठश्रुत्या नित्यत्वाभिधानात् ।" परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे " त्यादिना तद्धर्माणामपि स्वाभाविकत्वोक्ते'; ' ईश्वरोपाधीनामौपाधिकधर्मादीना' मित्यादिवल्गनमवैदिकजनमात्रमनस्तोषकरम् ।
निर्विशेषचैतन्यस्य नरविषाणादिसरूपस्य कालमात्र संबन्धशून्यतया तत्समकालिकत्वप्रलापस्य त्वदभिप्रेतविकल्पमात्रहेतुत्वेनाप्रमाणत्वात् । सर्वेषामप्यनादीनां सादीनां च पदार्थानामन्तर्यामिब्राह्मणरूपशास्त्रदृष्ट्या ईश्वराधीनत्वेनानादीनां जीवानामिव प्रकृत्यादीनामनादित्वेऽपि ईश्वराधीनत्वस्य शंकराचार्योक्तेस्तदनुसारिणा भवता तद्विरुद्धकथनस्यायुक्तत्वात् ।
इति अनादेरीश्वराधीनत्वम् ।