ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति: ॐ

ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति:

ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति:

अन्यथा पुनश्चेतन कारणवाद आक्षिप्यते । चेतनाद्धि जगत्प्रक्रियायामाश्रियमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते । कुतः इतरव्यपदेशात्, इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः । स आत्मा तत्त्वमसि श्वेतकेतो ' ( छां. ६-८-७ ) इति प्रतिबोधनात् । यद्वा इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति । ' तत्सृष्ट्वा तदेवानुप्राविशत् । ( तै. २-६ ) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वप्रदर्शनात् । ' अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' ( ६-३-२ ) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती न ब्रह्मणो भिन्नः शारीर इति दर्शयति । तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेति । अतः स स्वतंत्रः कर्ता सन् हितमेवात्मना सौमनस्यकरं कुर्यान्नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् । न हि कश्चिदपरतंत्रो बंधनागारमात्मनः कृत्वाऽनुप्रविशति । न च स्वयमत्यन्तनिर्मलः सन् अत्यंतमलिनं देहमात्मत्वनेोपेयात् । कृतमपि कथंचिद्यदुःखकरं तदिच्छया जह्यात् । सुखकरं चोपाददीत । स्मरेच्च मयेदं जगद्बिंबं विचित्रं विरचितमिति । सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति । यथा च मायावी स्वयं प्रसारितां मायामिच्छयाऽनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत् । स्वमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम् । एवं हि तत्क्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति गम्यते ।