न चाभेदे कश्चिदागमः सन्ति च भेदे सर्वागमाः
श्रुतिस्मृतीनां जीवेश्वरभेदे एव तात्पर्यसमर्थनम्
अथ योऽन्यां देवतां " " उदरमन्तरं कुरुते " इत्यादि श्रुतीनामर्थवर्णनम् ।
" स एवेदं सर्वम् " " अहमेवेदं सर्वम्”“आत्मैवेदंसर्वम् इति श्रुतीनां तात्पर्य कथनम् ।
........................................................................................................................................................
न चाभेदे कश्चिदागमः सन्ति च भेदे सर्वागमाः
यद्यपि द्वा सुपर्णादिपरःशतश्रुतयो भेदं प्रतिपादयन्ति तथापि तेषा भेदे तात्पर्यं नास्ति प्रत्यक्षसिद्धभेदानुवादित्वात्तासाम् इति चेन्न; त्वन्मते अहमर्थ-विशिष्ट एव भेदानुभवेन निरुपाध्यात्मनि भेदस्य प्रत्यक्षेण अगृहीतत्वात् तब्दोधकत्वेन श्रुतीनामनुवादित्ववर्णनं न युक्तियुक्तम् । न च प्रत्यक्षसिद्धातिरिक्तभेदविषयकत्वे प्रमाणाभावः । अनन्तानां श्रुतीनामनुवादित्वे नैरर्थक्यापातात्, विषयान्तरकल्पनेन नैरर्थक्यपरिहारस्य प्राज्ञसंमतत्वात् ।
' तुष्यतु दुर्जन: ' इति न्यायेनेदमुक्तम् । अस्मद्रीत्या भेदश्रुतीनामनुवादित्वेऽपि न दोषः । तस्य याथार्थ्यरूपप्रामाण्याविरोधित्वात् । यत्तनेत्यादिनिषेधलिङ्गाभावेन अधिकविधानार्थमनुवादित्वमिति किं न स्यात् । नैकविधविधेयानां विधानदर्शनाच्च । विधानार्थमनुवादित्वेऽनुवादकपदानां स्वार्थपरत्वाक्षतेश्च । किंच प्रतिजीवं भेदस्य प्रत्यक्ष सिद्धत्वेऽपि जीवत्वावच्छिन्ने तदसिद्धयभावात् श्रुतेरननुवादित्वमुपपद्यते । कि औपनिषदस्य ब्रह्मण: प्रमाणान्तरेण अप्राप्ततया तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भेदस्य कथं शास्त्रनिरपेक्षप्रत्यक्षेण प्राप्ति: । न च श्रुत्यर्थज्ञानशून्यानामपि भेदप्रतीतेः न शास्त्रसापेक्षत्वमिति वाच्यम् । प्रतियोग्युपस्थितिं विना तत्प्रतियोगिकभेदप्रतीतेरसम्भवात् सत्यम्; तथापि, भवतु भेदप्रत्यक्षं यः सर्वज्ञः सर्वविदित्यादि प्रतियोगिग्राहकश्रुतिसापेक्षं भेदश्रुतिसापेक्षत्वस्य अनुपयोगात् इति चेन्न, यत् प्रमाणं यद्विषये यदुपजीव्यैव प्रवर्तते, तस्य तद्विषये तस्य तज्जातीयरय वा अनुवादत्वानापादकत्वात् । अन्यथा तवापि ' तत्त्वमसि' इत्यादिमहावाक्यानामनुत्वादित्वमेव स्यात् । श्रुत्या तत्पदार्थस्य ब्रह्मत्वावगत्यनन्तरं ' अहमस्मी ' ति तदर्थब्रह्माभेदस्य प्रत्यक्ष-'सिद्धत्वात् तस्माच्छ्रुतेरननुवादित्वेन भेदे एव तात्पर्यमुपवर्णनीयम् । भेदस्य श्रुति-तात्पर्यविषयत्वेनैव तात्त्विकत्वसिद्धेश्च । न च तात्त्विकत्वसिद्धिं विना तात्पर्य विषयत्वं न सिध्यति इति चेन्न ब्रह्मणोऽपि श्रुतितात्पर्यविषयत्वासिद्धेः प्राक् तात्त्विकत्वासिद्धया तत्त्वावेदकश्रुतीनां ब्रह्मणि तात्पर्यं न सिद्धयेत् । ननु भेदस्य 'निषिद्धत्वेन कथं तात्त्विकत्वनिश्चयः तदभावे च कथं श्रुतितात्पर्यविषयत्वमिति चेत् 'नेति नेति, ' ' असद्वा इदमग्र आसी' दित्यादि श्रुतिः ब्रह्मणोऽपि निषिद्धत्वप्रतीतेः ।
ननु भेदज्ञानान्महापुरुषार्थाप्रतिपादनेन प्रत्युत “ उदरमन्तरं कुरुते अथ तस्य भयं भवति," " मृत्यो समृत्युमाप्नोति य इह नानेव पश्यति " इति भेदज्ञानस्य अनर्थहेतुत्वप्रतिपादनेन च श्रुतीनां भेदपरत्वं न संभवति ।
“अथ अन्यथातो विदुरन्यराजानस्तेऽक्षय्यलोकाभवन्ति, "" अथ योऽन्यां देवतामुपास्ते अन्योसावन्योहमस्मीति न स वेद यथा पशुः इत्यादिना भेदस्य निन्दितत्वाच्च । ‘नान्योऽतोऽस्ति द्रष्टा' इत्यादिना भेदाभावस्य प्रतिपादितत्वाच्च । भेदं प्रतिषिद्धय एष ते आत्मान्तर्याम्यमृतः " इत्यभेदप्रतिपादनाच्च । अत्र सर्वत्र ईश्वरनानात्वस्य अप्रसक्तत्वान्न निषेधो युक्तः इति चेत् तदेतत्सर्वमापातरमणीयम् । " पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति " " जुष्ट यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः " इत्यादिश्रुत्या " यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद् भजति मां सर्वभावेन भारत " इत्यादिस्मृत्या च भेदज्ञानस्य महापुरुषार्थहेतुत्वावगमात् । पूर्वोदाहृतवाक्यपर्यालोचनया च उपर्युक्त-प्रमाणयोः जीवेश्वरभेदपरत्वस्यैव न्याय्यत्वाच्च । ऐक्यमात्रस्य प्रतिपिपादयिषितत्वे, चशब्द पृथक्शब्दयोर्वैय्यर्थ्याच्च । न च उदरमन्तर कुरुते ' इत्यस्यां श्रुतौ भेदज्ञानस्य अनर्थहेतुत्वं प्रतिपाद्यते इति वाच्यम् उदरम् अल्पमेव, मिथ्याभूतमेव, अन्तरं भेदं करोति-भेद बुद्धिं करोति, तस्य भयं भवतीति मिथ्याभूतभेद-दर्शिन एव भयप्रतिपादनात् । " य इह नानेव पश्यति" इत्यस्यापि नानेव अलीकं अल्पं वा भेदं यः पश्यति तस्य मृत्युभयप्रदर्शनात् । वस्तुतस्तु एतदादिवाक्यजातं परमात्मनि स्वगतस्वप्रतियोगिकभेददर्शिनिन्दापरमिति न ततः परस्येष्टसिद्धिः । पूर्ववाक्येषु परमेश्वरस्यैव प्रस्तुतत्वात् । अथ येन्यथातो विदु ' रित्यस्यापि ' स एवेद सर्वम् ' ' अहमेवेदं सर्वम् ' ' आत्मैवेद सर्व' मिति सामानाधिकरण्यनिर्देशलब्धं यत्सर्वनियामकत्व सर्वकारणत्वादि, अतोन्यथा तद्विरुद्धाकारेण ये जानते तन्मात्रनिन्दापरत्वाच्च । ' अथ योन्यां देवता ' मिति श्रुतिरपि योऽन्यो जीवः अन्यां विलक्षणां देवतामुपास्ते किमिति अन्योऽसौ परमात्माहमस्मीति ' न स वेद यथा पशु' रिति जीवपराभेदोपासना विनिन्दति इति न त्वदनुकूलम् । न च व्यवहितान्वयो दोषः सन्निधानात् योग्यतायाः प्रबलत्वात् ।
यद्वा ' अन्योसावन्योहमस्मी त्येवोपासनाप्रकारः । सा चौपासना परदेवताविषयिण्येव कार्या । यस्तु परदेवतान्यां देवतामुपास्ते, न स वेद यथा पशुः तथा च प्रमाणम् " वासुदेवं परित्यज्य योऽन्यं देवमुपासते । तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः " इति । न चैवं " नान्योतोऽस्ति द्रष्टा' इत्यादिना भेदं प्रतिषिध्य ' एष ते आत्मा अन्तर्याम्यमृत' इत्यभेदप्रतिपादन कथमुपपद्यताम् एषान्तर्यामी ते आत्मा स्वरूपमिति तदर्थप्रततिरिति वाच्यम् । " सदापश्यन्ति सूरयः' इत्यादिद्रष्ट्रनेकत्वप्रतिपादकश्रुतिविरोधेन द्रष्टृसामान्यभेदनिषेध परत्वायोगात् । अत इत्यनेन प्रकृतं सर्वनियन्तारं परामृश्य ' अतोऽन्यो द्रष्टा नास्ति इत्युक्ते अस्मिन् ग्रामे अयमेव सर्वनियामकः नान्यः पुरुषोऽस्ति इत्यादावन्यशब्दस्य प्रकृतसदृशान्यपरतया व्युत्पन्नत्वेनेहापि सर्वनियामक द्रष्ट्रन्तरनिषेधस्यैव उचितत्वाच |
" एष ते आत्मान्तर्याम्यमृतः " इत्यत्र पृथिव्यादिनियामकत्वेन प्रस्तुत आत्मा ते अन्तर्यामी इत्यर्थः । तथा च सूत्रम् " शारीरश्चोभयेऽपि भेदनैनमधीयते " इति । गुरुचरणास्तु-अद्वैतभाष्यकारैः एतत्सूत्रव्याख्यानावसरे अस्याः श्रुतेर्भेदपरत्वमुक्तमिति सुनिपुणं प्रतिपादयन्ति । तदनुसारेण अपसिद्धान्तोऽपि तदन्यथा-व्याख्यानकर्तुर्गले पतति ।
अत एव साधु सत्यं चोक्तं श्रीमदानन्दतीर्थभगवत्पूज्यपादैः " न चाभेदे कश्चिदागमः सन्ति च भेदे सर्वागमाः " इति
। इति श्रुतिस्मृतीनां जीवेश्वरभेदे एव तात्पर्यसमर्थनम् ।