एको नारायण आसीन्न ब्रह्मा न च शंकरः वासुदेवो वा इदमग्र आसोन्न ब्रह्मा न च शंकरः

अथ प्रथमो भाग:

अद्वैततत्वसुधाभूमिका (प. १ ) :

मातामहमहाशैलं महस्तदपितामहम् ।

कारणं जगतां बन्दे कंठादुपारि वारणम् ॥ इति

न्यायसुधामंडनप्रकाश:

तदेतत्तुच्छम् । अनेन खलु श्लोकेन गजाननस्य पितामहरहितत्वोक्त्या रुद्रस्य पिता नास्तीत्यभिप्रेयते । तत एव तस्य सर्वोत्तमत्वं च । तदयुक्तम् ।

"एको नारायण आसीन्न ब्रह्मा न च शंकरः "

" वासुदेवो वा इदमग्र आसोन्न ब्रह्मा न च शंकरः

इत्यादिश्रुतिभिर्नारायणस्यैव ब्रह्मरुद्रादिसर्वजनकत्वसिद्धेः ।

तथा शंकरं प्रति चतुर्मुखस्य,

महापुरुषशद्धं स बिभर्त्येकः सनातनः ॥

अहं ब्रह्मा आद्य ईशः प्रजानां

तस्माज्जातस्त्वं च मत्तः प्रसूतः (म. भा. शां ३५२ - २०)

इति वचनेन शंकरो ब्रह्मण: प्रसूते ब्रह्मा च नारायणादिति सिद्धेश्च ।

'राम रामेति रामेति रमे रामे मनोरमे '

' इत्युमायै शंकरोक्तं मूलरामं सदा भजे '

इति न्यायसुधामंडनस्थमंगलश्लोकनिरुपितस्मृत्या रुद्रस्य रामनाम - जपनिरतत्वावगमेन रामचन्द्रस्य रुद्राद्युत्तमत्वसिद्धेः । काशीनिवासिनां सज्जनानां मुक्त्यै राममन्त्रं तेषां कर्णे मृतिसमये रुद्र उपदिशतीति खलु पौराणिकी प्रथितिः । तया मुक्तिहेतुज्ञानविषयस्य रामस्यैव सर्वोत्तमत्व- सिद्धेः । मन्त्रोपदेशेन श्रीरामचंद्रोपासकस्य रुद्रस्य रामादवरत्वसिद्धेश्च । एवं श्रीरुद्रस्य दुर्वाससं प्रति,

वयं न तात प्रभावाम भूम्नि यस्मिन्परेऽन्येऽप्यजजीवकोशाः ॥

भवंति काले न भवंति हीदृशः सहस्रशो यत्र वयं भ्रमामः ॥ (भाग ५. ५६ )

इति वचनेन विष्णोः सुदर्शनाद् दुर्वाससः परित्राणे आत्मनोऽशक्ति- कथनपुरस्सरं स्वस्य सर्वेषां च विष्ण्वाज्ञास्थितत्वस्यैवोक्तेश्च ।

तथा कुंभकोणस्य वाणीविलासयंत्रालयीयशंकराचार्यकृत विष्णुस्तवे.

'कृपापात्रं यस्य त्रिपुररिपुरंभोजवसतिः ।

निदानं सोऽस्माकं जयति कुलदेवो यदुपतिः ॥

इति शंकराचार्यैस्त्रिपुररिपोः शंभो: श्रीकृष्णकृपापात्रत्वस्य वर्णितत्वाच्च ।अतो नेदमयथार्थवर्णनं गजाननप्रीतिकरम् किं नाम,

प्रपितामहगोविंदं पितामहचतुर्मुखम् ।

वारणास्यमहं वन्दे मायादुर्मतवारणम् ॥' इत्येवेति । न्यायसुधा-मंडनानुवादः ( प्रास्ताविकं ) ( ४ )

अद्वैतमेव तत्वं अद्वैततत्वं तदेव सुधा इति व्युत्पत्तिं तु नाद्वैतिनोऽपि स्वीकर्तुमर्हन्तिं । शंकराचार्यै:द्वैताद्वैतविवर्जिते समरसे" इत्यादिभिर्वाक्यैः द्वितीयाभावरूपाद्वैतस्य निषिद्धत्वेन तस्य तद्विशिष्टस्य च तत्वरूपत्वासंभवात् । मधुसूधनसरस्वतीभिरद्वैतसिद्धौअद्वितीयवाक्ये द्वितीयाभावरूपद्वितीयनिषेधस्यैवोपपत्तेः ।

अतात्विक एव वा निषेधोऽयं इति च कंठरवेणा द्वैतस्यातात्विकत्वस्यैवोक्तत्वान् ।अभावस्यासत्पदार्थत्वमेव गतिःइति असुधाकारैरपि तस्यैवार्थस्य विशदीकरणाच्च । किंतु वैदिकमततत्वविचारे वक्ष्यमाणदिशा द्वैतमेव तत्वं द्वैततत्वं द्वैततत्वमेव सुधा द्वैततत्वसुधा न द्वैततत्वसुधा न द्वैततत्वसुधा अद्वैततत्वसुधा इति व्युत्पत्तिरेव वक्तव्या ।। इति । (अ. सुधाभूमिकानुवादः प. २)

सत्यं दर्शनांतरदृष्ट्या दर्शनांतर सिद्धांतोऽतत्वमिति तत्तद्दर्शनस्यांतरो विश्वासः । द्वैताद्वैतसिद्धांतयोद्वैतसिद्धांतोऽतत्वमिति अद्वैतसिद्धी मधुसूदन- सरस्वत्यः-इह कुमतिरतत्वे तत्ववादी वराकः " इति वदंति । विश्वस्यते तस्यैव प्रतिवचनं च छिद्रं लब्ध्वा मनसिकृत्य छिद्रान्वेषि सुधामंडनं तत्वपदं नामन्यपि न युक्तमिति लिखति । इति ।

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छं । मंडने खलु न दर्शनांतरदृष्ट्या अद्वैतं अतत्वमित्युक्तं । किं तु अद्वैतदर्शनदृष्टैव तथेति । तत्र चाद्वैतिनां दर्शनाचार्याणां स्वयं अ.सुधायाश्चोंक्तयः प्रमाणतयोदाहृताः । उदाहृतेषु प्रमाणेष्वेकमवि अःसुधाकारैर्न प्रत्युक्तम् । किं च, “बैधर्म्याच्च न स्वप्नादिवत्इति सूत्रभाष्ये शंकराचार्यैः, वैधर्म्यं हि भवति स्वप्नजागरितयोः । किं पुनर्वैधर्म्य बाधावाधाविति ब्रूमः । बाध्यते हि स्वप्नोपलब्धं वस्तु । ... । नैवं जागरितोपलब्धं वस्तु स्तंभादिकं कस्यांचिदवस्थायां बाध्यते" इति जानरितोपलब्धवस्तुस्तंभाद्यशेषद्वैतप्रपंचस्य अबाधितत्वलक्षणतत्वरूपतांऽगी-कृता ।

अपि च ‘“नह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारोऽन्यत्तत्वमनधिगम्य शक्यतेऽपह्नोतुं’” इति शांकरभाष्ये द्वैतस्य सर्वप्रमाण सिद्धत्वं तत एव च तत्वरूपत्वं निरूपितम् ।

तथा भाष्यस्यैतस्य व्याख्यानावसरे भामतीकारैः प्रमाणानां प्रत्यक्षादीनां प्रामाण्यस्य तद्गोचरवस्तूनां चातात्विकत्वं बौद्धमतरीत्याऽऽशंक्यप्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्वमिदमित्येव प्रवर्तते" इत्यादिवाक्यैः लौकिकप्रमाणनोचरस्य द्वैतवस्तुप्रपञ्चस्य तत्वरूपत्वं प्रमाणानां तात्विकत्वं च समर्थितम् ।

एवं ब्रह्मविद्याभरणेसर्वप्रमाणैः प्रपंचे उपलभ्यमाने तदभाव एव तत्वं इति निरूपयितुं अशक्यमिति दूषणस्य स्फुटतया तन्निराकरणाय (शून्यवादनिराकरणाय) न सूत्रकृता सूत्राण्यारचितानि " इति द्वैताभावस्य तत्वरूपत्वं अशक्यनिरूपणमिति प्रत्यपादि । अद्वैत सिद्धौ गीताव्याख्याने च मधुसूधनसरस्वतीभिःकृष्णात्परं किमपि तत्वमहं न जाने" इति वर्णयद्भिः सर्वेशत्व स्वतंत्रत्वादिद्वैतधर्मविशिष्टः कृष्ण एवैकः परतत्वं इति तस्मादन्यत्परतत्वं नास्तीति च निर्विशेषस्याद्वैतस्य तत्वरूपता प्रत्याख्याता ।

एवं अद्वैतदर्शनाचार्यैरेव तत्र तत्र द्वैतमेव तत्वं अद्वैतं चातत्वमिति सतात्पर्यं प्रतिपादितं । स्थितेऽप्येवं अद्वैतसिद्धिकारा अ. सुधाकारा वा यदि स्वपूर्वाचार्याणां स्वेषामपि च वचनानि विस्मृत्य प्रच्छाद्य वा अद्वैतमेव तत्वमिति ब्रूयुस्तर्हि सा तेषां बुद्धिरतत्वे तत्वबुद्धिरेव नूनं भवेत् । ततश्च ‘“इह कुमतिरतत्वे तत्वबुद्धिर्वराकः " इति सिद्धिकारैः प्रतिज्ञातं कुमतित्वं वराकत्वं च प्रतिज्ञातृनेवतान् लक्ष्यीकुर्यादेव । अतः प्रतिपदं अन्वेषणनैरपेक्ष्येण सुस्फुटमेवोपलभ्यमानानां दोषाणां याथातथ्येन वर्णनपरे मंडने अ.सुधायाश्छिद्रान्वेषीत्येवमारोपोनुचितो निर्धार्यते ।

अद्वैततत्वसुधाभूमिका

 (२) मंडनं... न्यायचन्द्रिकायां विद्वचक्रवर्ति विद्यासागरमुनिकृतौ शब्दतोऽर्थतो वा न्यायसुधाविमर्शो न कृत इति च लिखति । परंतु मिथ्यात्वादिप्रकरणेषु तेषु तेषु न्यायसुधा विमर्शान् न्यायचन्द्रिकागतान् मंडनमपि विस्मृत्यात्मानमपि बहुश: परीक्षते । इति ।

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छम् । ग्रंथविशेषस्य विमर्शो नाम नामनिर्देशपूर्वकं भागशोऽपिवा तं ग्रंथं शब्दतोऽर्थतो वाऽनूद्य युक्तायुक्तचिंतनम् । न पुनस्तत्प्रतिपादितस्य तद्विरुद्धस्य वाऽर्थस्य प्रतिपादनमात्रम् । तावन्मात्रेण ग्रंथांतरस्य ग्रंथांतरविमर्शरूपत्वे बुद्धप्रणीतोऽपि अ. सुधाविमर्श इति स्यात्। एतदर्थस्यैव शब्दभेदेन तत्रापि प्रतिपादनात् । शतभूषणी वा अ. सुधाद्वितीयमागस्य विमर्शात्मिका आपद्येत I तस्य तत्र तत्र एतद्वरुद्धार्थवर्णनात् । नैव लौकिका व्यवहरति । अथ विषयसाम्येऽपि विमर्शानूद्देश्यकत्वान्न तयोरेतद्विमर्शरूपत्वं तर्हि न्यायचन्द्रिकायामपि तत्समम् । मंडनेन च न्यायचन्द्रिका न न्यायसुधाविमर्शात्मिकेति परीक्षिता किं नाम स्वातंत्र्येणैव । सत्येवंविस्मृत्यात्मानं' इति असुधाया मंडने आरोपो विस्मृत्य विमर्शशब्दार्थ कृतः ।

अद्वैततत्वसुधाभूमिका

 (४) सत्यमोंकारस्य मंगलार्थत्वं सर्वेष्वपि कार्येषु परंतु तस्य सूत्रावयवत्वं विना वाक्यार्थान्वयमप्रामाणिकम् ।

न्यायसुधामंडनप्रकाश:

 :- एतत्तुछम् । मंडनेऽतिस्फुटं (७) निरूपितस्याप्य नवलोकननिबन्धनत्वात् । तत्र वाक्यार्थान्वयस्य " ओंकारस्य प्रतिपाद्यता- सम्बन्धेन सर्वेश्वरे विष्ण्वाख्ये ब्रह्मण्यन्वयान्नानुपपत्तिःइति विशदीकृतत्वात् । औपदस्य स्वरूपग्राहकत्वेन वाच्यतासम्बन्धेन ब्रह्मपदार्थे- ऽन्वयस्य ब्रह्मणि प्रमाणाभावशंकानिरासकत्वात्सूत्रकारीयतात्पर्यविषयता युक्ता । ओंशद्वोत्तरं वा षष्ठ्ट्या वा तृतीयाया वासुषां सुलुक् इति लुक् ।

वाच्यत्वं षष्ठ्यर्थे ब्रह्मण्यन्वेति । तृतीयापक्षे करणत्वं तृतीयार्थो जिज्ञासायामन्वेति । यद्वा ओंकारार्थी गुणपूर्णताविशिष्ट: प्रकारितासम्बन्धेन जिज्ञासायामेवान्वेति । तथा च गुणपूर्तिविशिष्टविशेष्यक - अभेदसम्बन्धेन तादृशविशिष्टवस्तुप्रकारिका जिज्ञासा कर्तव्येति बोधः । इत्यादिकं द्वैतद्युमणिकारैः श्रीश्रीनाथार्यसूरिवर्यै:तारस्वरूपप्रकाशे'' उक्तमनुसंधेयम् सुधीभि: । तथा च वाक्यार्थान्वयस्य बहुधा सिद्धत्वेन ओंकारस्य सूत्रावयवत्वं प्रामाणिकमेव ।

अद्वैततत्वसुधाभूमिका

 (५) मंडनमपि सप्तमे पृष्ठे 'स्वरितेनाधिकार' इति न्यायेन ओंकारानवयवत्वमेव स्वीकरोति इति न तु तस्यापि निर्भर: ओंकारावयवत्वे ।

न्यायसुधामंडनप्रकाश:

 :- इदं त्वतितुच्छम् । अवास्तवकथनत्वात् । उदाहृते पृष्ठेऽन्यत्र वा कुत्रापि मंडने ओंकारानवयवत्वस्यास्वीकारात् । प्रत्युत तदवयवत्वस्यैव सुस्थिरं समर्थितत्वात् । तथाहि मंडनस्येह पूर्वापर- वाक्यानि :- अत्र सूत्राणां संहितापाठकाले 'ओमथातो ब्रह्मजिज्ञासे' ति सूत्रपाठं विहायओम् अथातो ब्रह्मजिज्ञासा' इति ओंकारस्या- संहिततया निर्देशकरणात् न सूत्रावयवमिति तु न शंक्यम्स्वरिते नाधिकार' इति नियामानुसारेण यथा व्याकरण शास्त्रे केषांचित् पदानामुत्तसुत्रेष्वनुवृत्तिज्ञापनार्थं स्वरितयुक्ततया निर्देशः क्रियते; शब्द- स्वरूपमात्रार्थकतया पृथनिर्देशो वा क्रियते; तथा ब्रह्ममीमांसाशास्त्रे उत्तरत्रानुवृत्त्यर्थं ओंकारस्य पृथनिर्देशकरणमुपपद्यते " इति । स्थिते- ऽप्येवं असुधाकारणामयथोक्तिः आश्चर्यकरी । अथवा नैतच्चित्रं प्रमाणसिद्धं सर्वं मिथ्येति अप्रामाणिकमेव तत्वमिति चांगीकृर्वताम-द्वैतिनाम् ।

अद्वैततत्वसुधाभूमिका

 (४) ‘“अथातः " शब्दपूर्वाणि सूत्राणि निखिलान्यपि । " इति गरुडपुराणवचनम्, “अथातः शब्दपूर्वकत्वमेव सूत्राणामाम्नाति, नत्वोमथात:शब्दपूर्वकत्वम् ।

न्यायसुधामंडनप्रकाश:

 :-अथातः शब्दपूर्वाणि सूत्राणि निखिलान्यपि । प्रारभंते नियत्यैव तत्किमत्र नियामकम्" इति नारदप्रश्नः । स च विशेषार्थ- ज्ञानेच्छयैव, न तु तन्मात्रज्ञानेच्छया । नारदस्य ज्ञानित्वेन सर्वथा तद्वीजज्ञानाभावस्य वक्तुमशक्यत्वात् ।जानंतोऽपि विशेषार्थज्ञानाय स्थापनाय वा पृच्छंति साधवः" इति स्मृतेः ।आनन्तर्येऽधिकारस्ये' त्याद्युत्तरवाक्ये चादौ नियमेनाथातश्शब्द घटितत्वनियामकविषय- कप्रश्नस्योत्तरमुक्त्वाऽधिकमपि वक्तुं तत्र 'ओंकारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात् " इति ओंकारस्य प्राथमिकत्वमतश्शब्दस्य तृतीयत्वमप्यभिंधाय 'अतश्च पूर्वमुच्चार्याः सर्व एते सतां मता:' इति ओंकाराथात:शब्दानां त्रयाणामप्युच्चार्यत्वमभिहितम् ।

मंडनेओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ॥

कंठं भित्वा विनिर्यातौ तस्मान्मांगलिकावुभौ "

इति बृहन्नारदीयवचनोदाहरणेन समर्थितमेवैतत् ।

अद्वैततत्वसुधाभूमिका

 (४) अतो मङ्गळस्य सूत्रावयवेन 'अथ' शब्देनैव निवर्हि प्रथमसूत्रेऽपि किमर्थमोंकारपाठ: ?

न्यायसुधामंडनप्रकाश:

 :- बृहन्नारदीयश्लोके पूर्वोदाहते, “द्रों- एतौ उभौइति त्रेघा पक्षनिर्देशस्य कृतत्वेन, उभयत्वस्यैव पक्षतावच्छेदकत्वावगमात् ओंकाराथशब्दोभयं ब्रह्मसूत्राध्ययनप्रतिबन्धकविघ्ननिवर्तकमंगलप्रयोजनक- मिति प्रतिपादयता मंडनेन अ. सुधाया अयमाक्षेपः परिहृतः । तत्र किमप्युत्तरं अनभिधाय केवलं उक्तस्य पुनर्वचनं कंठशोषणमेव ।

अद्वैततत्वसुधाभूमिका

 (५) तत्र ओंकारो ब्रह्मणोऽभिधानमिति संप्रतिपन्नम् । ब्रह्मत्ववस्थात्रयातीतं निर्विशेषं वा, सविशेषं वा भवतु । इति ।

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छम् । अभिधानस्य वाचकत्वरूपत्वेन, अद्वैताभिमत- निर्विशेषस्य सर्वथानभिधेयत्वेन ओंकाराभिधेयत्वासंभवात् । उवतं हि मां. शां. भाष्ये ‘“ सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात्तस्य शब्दानभिधेयत्वमिति ।। तथा च ओंकाराभिधेयं ब्रह्म निविशेषं भवत्विति कल्पस्यैव व्याहतत्वात् । वस्तुतः शंकराचार्यैर्बृहदारण्यकभाष्येज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेवे' त्यादिना निर्विशेषबह्मणो ज्ञानविषयत्वनिषेधात् (मं. १७) शशविषाणवदप्रामाणिकस्य तस्य ओंकाराभिधेयत्वासंभवः । मंडनोपदर्शितनिरवकाशगीतादि प्रमाण- नारायणस्यैव तदभिधेयत्वनिश्चयात् ।

अद्वैततत्वसुधाभूमिका

 (५) स तु (नारायण) सर्वनियामक: सर्वांतर्यामी वेति तु न विप्रतिपन्नम् । तत्र नारायणपदार्थेऽवस्थाभेदेन विष्णुपुराणादिना ब्रह्मदिरपि प्रतीयते । इति

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छम् । तादृशविष्णुपुराणवाक्यस्यानुदाहरणात् । अभावाच्च ।न ते विष्णो जायमानो न जातो देव महिम्नः परमंतमाप" इत्यादिश्रुतिभिः ‘“ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते तद्यत्स्वभावः कैवल्यं स भवान्केवलो हरेइत्यादिस्मृतिभिः कस्यामप्यवस्थायां ब्रह्मरुद्रादिभिः नारायणमहिम- प्राप्त्यसंभवस्य प्रतिपादितत्वाच्च । यत्तु,

सृष्टिस्थित्यंतकारिणीं ब्रह्मविष्णुशिवात्मिकाम् ।

स संज्ञां याति भगवानेक एव जनार्दनः ॥

इति विष्णुपुराणवाक्यं नैव तत्त्वदभिमतार्थकम् । त्वयैव खलु अ. सुधायाः द्वितीये भागे (३३९) उपरिनिर्दिष्टं वाक्यमुदाहृत्य " इति विऽष्णुराणं विष्णोरपि ब्रह्मांदिकोटौ प्रवेशनात्, यथा न ब्रह्मादिस्वरूपं नारायणशब्दार्थः, न विष्णुस्वरूपमपि तथेति ज्ञापयति इति व्याख्यातम् । अत्र पुनः ‘“नारायणपदार्थोऽवस्थाभेदेन विष्णुपुराणादिना ब्रह्मरुद्रादिरपि प्रतीयते' इत्युंच्यते । तथा च त्वया तत्र ( ३३९ ) पत्रे नारायणशब्दार्थो यथा न ब्रह्मा न शिवस्तथा न विष्णुरपीत्युक्त्वा, अत्र तु नारायणशब्दार्थो विष्णुः तथा ब्रह्मा शिवश्चेत्युक्तं भवति । लो नेत: परमधिकं व्याहते: सुस्फुटमुदाहरणमस्ति ।

उदाहृतं विष्णुपुराणवाक्यं तु

"ब्रह्मविष्ण्वीशरूपाणि त्रीणि विष्णोर्महात्मनः । ब्रह्मणि ब्रह्मरूपश्च शिवरूपी शिवे स्थितः । पृथगेव स्थितो देवो विष्णरूपी जनार्दन: "

इति वामनपुराणेनैव व्याख्यातम् ।

एतेन तत्रैव जनार्दनशब्दार्थस्तु सर्वभूताशयप्रत्यगभिन्नपरमात्मैव' इत्य सुधोक्तं परास्तम् ।विष्णुरूपी जनार्दनः" इति वामने जनार्दनस्य विष्णुरूपत्वोक्तेः ।

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।।

विंश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्

(भाग, , , ३१) इत्यादिस्मृतिवचनान्यप्यत्रानुसंधेयानि ।

अद्वैततत्वसुधाभूमिका

 सति चैवं नृसिंहमंत्ररतानामुग्रादिपदानां तन्मंत्रध्येय- स्वरूपादिपदार्थानां विवरणप्रसंगेन 'अथैष उ अकार: आप्ततमार्थ: आत्मन्येव नृसिंहे देवे ब्रह्मणि वर्तते । एष ह्येवात्मा एष ह्येव साक्षी ईश्वरः सर्वगतां न हीदं सर्वं एष हि व्याप्ततम:' इत्यादिनाप्यद्वितीयमात्मतत्वमेव नृसिंहस्वरूपमिति नृसिंहतापन्युपनिषत् प्रकटयति । अतो व्यस्तरूपेण समस्तरूपेण वा अद्वैततत्त्वमेव नृसिंहतापनीयप्रतिपाद्यं तत्वम् । इति

न्यायसुधामंडनप्रकाश:

 : तत्तुच्छम् । उदाहृतोपनिषद्वाक्येषु अद्वैततत्वमेव तत्वमित्यप्रतिपादनात् । प्रत्युत नृसिंहरूप : 'ईश्वरः सर्वगतो न हीदं सर्वं' इति सुस्फुटं ओंकारप्रतिपाद्यस्य ईश्वरस्य सर्वगतत्वनिरूपणेन द्वैतस्यैव प्रतिपादनात्, “न हीदं सर्व" इति सर्वात्मकत्वनिषेधे नाद्वैततत्वस्य प्रतिषेधाच्च ।

एतेन 'सर्वं खल्विदं ब्रह्म' इत्यद्वैत्यभितमहावाक्यानां गतिरुक्ता भवति । तत्र सर्वत्रसर्वं समाप्नोषि ततोऽसि सर्व:" इति स्मृत्युक्तदिशा सर्वव्यापकत्वमेवार्थी नत्वेव सर्वात्मकत्वरूपमद्वैतमिति ।

यत्तु अस्यामेवोपनिषदि पादवत्रयेण ओंकारो ब्रह्मविष्णुरुद्रादित्मान् तुरीयेणार्धमात्रात्मकेन तुरीयं परब्रह्म नरसिंहं च प्रतिपाद्य तेषामभेदं प्रतिपादयतीत्युक्तं । तदपि तुच्छम् । अस्यर्थस्य स्वमताग्रहकलंकित - बुद्धिमात्र परिकल्पितत्वात् । 'अग्निर्वेदेवानामवम : विष्णुः परमः ' इत्यादि- श्रुतिभिविष्णोर्ब्रह्मरुद्राद्युत्तमत्वनिश्चयेन अभेदान वकाशात् ।नामानि सर्वाणि यमाविशंति तं वै विष्णुं परममुदाहरंति” “यो देवानां नामधा एक एव" इति विष्णोरेकस्यैव सर्वदेवनामधारकत्वावधारणाच्च । ब्रह्मरुद्रादीनां नृसिंहेणैक्यस्यशांकर-भाष्यविरुद्धत्वाच्च I तत्रा हि. नृसिंहतापनीयोपनिषदिनृसिंहभाषणं भद्र' मिति मंत्रस्थभीषणपदार्थ- कथनप्रसंगे ‘“अथ कस्मादुच्यते भाषणमिति यस्माद्यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि भीत्या पलायंते स्वयं यतः कुतश्चिन्न बिभेति' । इत्यादिवाक्यैः तथैतच्छांकरभाष्यरतैः 'तेजोराशियुक्तमप्रधृष्य- तेजोमयरूपं दृष्ट्वा सर्वे देवा: तदंगद्युनिवासिनो वसुरुद्रादित्याः सर्वाणि भूतानि इमानि पलायते पलायनं कुर्वंति । स्वयं देवो यस्मात्कस्मादपि न बिभेति । निरतिशयाभयगुणविशिष्टः उपास्यः भयगुणमुखेन सर्वेषां बह्मादिनां संग्रहणात्' इत्यादिवचनै: ब्रह्मरुद्रादिभयंकरत्वेन अकुतोभयत्वेन च वर्णितस्य रुद्रावतारतयाऽद्वैत्यभिमतैः शंकराचार्यैस्स्वशरीरदाहवेलायां स्वसंरक्षणाय ब्रह्मरुद्राद्याधारतया संस्तुतस्य,

श्रीब्रह्मरुद्रमरुदर्ककिरीटकोटि

संघट्टितांत्रिकमलामलकांतिकांत ।

लक्ष्मीलसत्कुचसरोरुहराजहंस

लक्ष्मीनृसिंह मम वेहि करावलम्बम् ।

( विद्यारण्य शं. वि. डि. )

श्रीनृसिंहस्य ब्रह्मरुद्राद्युत्तमत्वस्यैव निरूपितत्वात् ।

ज्ञानं च तस्मिन्परात्मभावनिवृत्तिरेव' इति शंकराचार्यै: (बृ.शां.भा. ४,,२०) निर्विशेषस्य अज्ञेयत्वोक्त्या ओंकारार्थो निर्विशेषमद्वैततत्वमिति अ. सुधावचनं गर्भस्रावेणैव निरस्तं वेदितव्यम् । निर्विशेषस्य ज्ञानसामान्यविषयत्वाभाव: यावद्विशेषाभावेन मंडने (१७) समर्थित: ।

अद्वैततत्वसुधाभूमिका

 परविद्यात्वं ब्रह्मसूत्रणामेव । न तु 'अथ परा यया तदक्षरमधिगम्यते' इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनपूर्वकमुपदिष्टा विद्येति वादस्तु न विकल्पहः । इति ।

न्यायसुधामंडनप्रकाश:

 :- ततुच्छम् । विकल्पपूर्वकदूषणं किमप्यप्रदश्यैव केवलं वादो विकल्पासहः इति वचनस्य शब्दाडंबरमात्रत्वात् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनपूर्वकमुपदिष्टा विद्या किंरूपेत्यस्यानुक्तेश्च । यदि 'उपनिषदः' इति तर्हि ऋग्वेदपदगृहीतानां तासां मुंडकोपनिषदि 'तत्रापरा ऋग्वेदो यजुर्वेद' इत्यादिनाऽपरत्वस्यैवोक्तत्वादिति मंडने (पृ. २८) निरूपितम् ।

अद्वैततत्वसुधाभूमिका

 (६) कर्मकांडतानां सर्वेषां पदानामात्मतत्वविचार प्रसङ्गे परमात्मपरत्वव्युत्पादनं त्वप्रयोजनम् । तत्र कर्मकांडार्थविचारावसरे कर्मपरत्वम् । परमात्मपरत्वविचारावसरे तेषामेव वाक्यानां किंबहुना ? तद्घटकानां पदानामपि परमात्मपरतया योजनं न सांप्रतम् । इति

न्यायसुधामंडनप्रकाश:

 : तत्तुच्छम् । मंडने ( २०पृ.) तथा योजनस्य विद्यारण्यानामारण्यकवाक्यव्याख्यानेन, शंकराचार्याणां 'कथितः' इति विष्णुसहस्रनामभाष्येण तेषामेव अपरोक्षानुभूतौ कंठरवोक्त्या च, पद्मपुराणेन, ऋग्विधानवचनेन, भाष्योत्कर्षदी पिंकाकाराद्यद्वैति वाक्यैश्च समर्थित्वात् । एतद्विषये 'न सांप्रतं' इति अ. सुधावचनस्यैव असांप्रतत्वात् ।

अद्वैततत्वसुधाभूमिका

 (७) :- तत्रेदमविप्रतिपन्नं तत्वम्, यद् भेदप्रतियोगिनी जीवेश्वरौ विशिष्टाद्वैतदृष्ट्याऽपि भिन्नावेव । अभेदस्तु जीवेश्वरयोर्जीव- वेश्वरत्वोपलक्षित एवेत्यद्वैत सिद्धांत: । अतो जीवेश्वरभेदाभेदविचारस्य भिन्नविषयत्वाद् द्वैतिनां स विचारोs किंचित्करः । इति ।

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छतमम् । मंडने (३४) ' जगद्व्यापारवर्जम्इत्यादिसूत्रीयशांकरभाष्येण ईश्वरत्वरूपधर्मस्य नित्यत्वसमर्थनात् । तथा 'प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि' इति गीताशांकरभाष्येण नियम्यत्वादिधर्माणां च नित्यत्वस्य समर्थितत्वात् । नित्यं विद्यमानधर्माणाम- विवक्षामात्रेण धर्यैक्यस्यासिद्धेः प्रतिपादितत्वाच्च । अद्वैतसिध्यभि- मतोपलक्षणलक्षणानुसारेण तथा लघुचंद्रिकत्वनित्यत्व - पारमार्थिकत्वसिद्धेः उपलक्षितैक्यस्यापि अद्वैतप्रक्रियानुसारेणैव व्याहतत्वस्य समर्थितत्वात् । अतो द्वैतिभिः क्रियमाणो जीवेश्वरभेदविचारः तत्वव्यवस्थापनद्वारा सज्जनानां मोक्षफलकत्वान्ना- किंचित्करः ।

अद्वैततत्वसुधाभूमिका

 (७) तत्र मोक्षसाधनत्वं त्वखंडसंवित्स्वरूपज्ञान- मात्रस्येतित्वद्वैतमतम् । भगवतो भक्तिरेव तत्प्रसादद्वारा मोक्षसाधनमिति तु द्वैतसिद्धांतः । अत्रापि विषयभेदाद् भगवत्प्रसादद्वारा मोक्षसाधनत्व- विचारोऽप्यप्रयोजनः |

न्यायसुधामंडनप्रकाश:

 :- भगवत्प्रसादस्यैव मोक्षसाधनत्वं मंडने (३६)

'मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।'

'तेषामहं समुद्धर्ता मृत्युसंसारसागरात्' '

मत्प्रसादात्परां शांतिं स्थानं प्राप्स्यसि शाश्वतम्'

इत्यादि गीतावाक्यैः

यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण ' इत्यादिश्रुतिभिश्च समर्थितम् ।

ईस्वरस्य मुक्तनियामकत्वं च श्रुतिसूत्रवचनैः समर्थितम् ।

यदत्रोक्तं विषयभेदाद् अयं विचारो अप्रयोजन इति, कोऽयं विषयभेदः । प्रसादस्य अपरमोक्षसाधनत्वं अखंडसंवित्स्वरूपज्ञानस्य तु परमोक्षसाधनत्वं इति विभागस्तु नोपपन्नः । अद्वैत्यभिमतनिर्विशेषचै- तन्यभावापत्तिरूपपरमोक्षस्यैवाप्रामाणिकत्वात् । मत्प्रसादात्परां शांति स्थानं प्राप्स्यसि शाश्वतम्' इति परशांतिलक्षणपरमुक्तेरेव प्रसादसाध्य- त्वोक्तेः । मधुसूदनसरस्वतीभिः परशांतेरेव सकार्याविद्यानिवृत्तिरूपतया प्रदर्शितत्वात् । अविद्याऽस्तमयो मोक्ष' इति अविद्यानिवृत्तेरेव मोक्षतयाऽद्वैतिभिरंगीकारात् (मं. ३६) (स यदि पितृलोककामो भवति, 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते; स तत्र पर्येति जक्षन् क्रीडन् रममाणः 'इत्याद्यनेकश्रुत्यादिवाक्यैः मोक्षे द्वितीयवस्तुसिद्धेः । न चैतेषां वाक्यानां मोक्षपरत्वाभाव इति वाच्यम् । एताभ्यः श्रुतिभ्योमोक्षे सुखं संवेद्यं' इति शांकरवाक्यात् (बृ. शां. भा. ३,, ८) भक्षणक्रीडापितृदर्शनादि- कस्य मोक्षालंबनत्वाध्यवसायात् अत एवैवं सति परमोक्षे ज्ञानकारणाभावेन ज्ञानं न संभवतीति स्वसिद्धांतविरोधमाशंक्य 'मुक्तस्य सर्वात्मभावे सति यत्र क्वचिद्योनिषु देवेषु वा जक्षणादि प्राप्तं तद्यथाप्राप्तमेवानूद्यते (ब्रु. शां. ३ ९) इति शंकराचार्यैर्विरोधपरिहारे प्रयत्नः आस्थितः । विरोधस्य दुष्परिहरत्वात्तेषामेष प्रयत्नो निष्फल एव इति त्वन्यदेतत् । विस्तरेण सुसमर्थितमेवैतत्सर्वं मंडने (१३७, १३८) 'येनेदं सर्वं विजानति तं च केन विजानीयात् । ... । ' विज्ञातारमरे केन विजानीयात् ।' इत्यादिवाक्यानां अद्वैतिपक्षे पौनरुक्त्य- विभक्तिविपरिणामक्लेशादिप्रापकत्वेन अद्वैतरीत्यैवाप्यननुगुणत्वनिरूपणेन ।

अद्वैततत्वसुधाभूमिका

 (७) एवं सति ओंकारार्थविचारप्रसङ्गेनानादीना- मापीश्वराधीनत्वविचारोऽपि यदीश्वरशब्देनांतर्यामी उपादानत्वात् अधिष्ठान- त्वमात्रत्वाद्वा विवक्ष्यते तर्हि नाद्वैतमतेऽपि तत्र विप्रतिपत्तिः । अद्वैताभिमतमंतर्यामिस्वरूपमेव नास्तीति वादोऽपि द्वितीयभागेऽत्र सम्यक् निराकृतः ।' इति ।

न्यायसुधामंडनप्रकाश:

 : तत्तुच्छम् । वाक्यघटकस्य 'ईश्वराधीनत्वविचारोऽपि ' इति भागस्य उत्तरभावेनानन्वयात् । व्यवहितपूर्ववाक्यस्थस्य 'अप्रयोजन: ' इत्यस्यानुकर्षणे योजनाक्लेशापातात् । क्लेशस्य सहनेऽप्यर्थंस्य बाधितत्वात् । अनादीनां प्रकृत्यादीनामीश्वराधीनत्वविचारस्य मोक्षफलकत्वेन सप्रयोजन- त्वात् । प्रमाणेन सिध्यत्प्रमेये प्रयोजनाभावकथनेन अपलापस्य मंदत्वात्, 'प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि' इति गीताशांकर- भाष्योदाहरणेन ईश्वरगतनियामकत्वस्य नित्यत्वादेव प्रकृत्यादीनां नियम्यत्वस्यापि नित्यत्वस्य मंडने (३४) समर्थितत्वात् ।

यचोक्तं 'यदि ईश्वरशब्देनांतर्यामी उपादानत्वात्, अधिष्टानमात्रत्वाद्वा विवक्ष्यते तर्हि नाद्वैतमतेऽपि तत्र विप्रतिपत्ति 'रिति तदपि मंदम् । उपादानेऽधिष्ठाने वा कापि अन्तर्यामीति कैरपि लौकिकैवैदिकैर्वाऽव्यवहारात्यदि विवक्ष्यतेइति विकल्पनस्यैव तुच्छत्वात् । अद्वैतिमात्रकृतायाः परिभाषाया वेदार्थनिरूपणे कारणत्वायोगात् । (मं. २१०)

उक्तं हि शंकराचार्यैःया तु प्रधानवादिनां रूढि : सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते " इति ( ब्र. सू. शां. भा १-४-१) आरोपाधिष्ठाने अन्तर्यामित्वविवक्षाया अद्वैतमतेऽप्यसंभवाच्च । अन्तर्यामिनये शंकराचार्यैरंतर्यामिणः परमात्मनः पृथिव्याद्यभिमानिदेवतादिरूपसमस्तजगतः यमयितृत्वामृतत्वाभयत्वतदज्ञेय- त्वादिव्यपदेशादिति व्याख्यातत्वेन अधिष्ठानानां अधिद्वैवानां अधिष्ठातुरंतर्यामिणस्य भेदस्यैवाङ्गीकारात् । एवं 'शारीरस्चोभयेऽपि हि भेदेनैनमधीयते' इति सूत्र भाष्येऽपि ।

एवं विवक्षायां दुरात्मा स्ववचनविरोधोऽपि । अ. सुधाकारैस्तत्र तत्र स्वीयनिबन्धभूमिकासु अत्रापि भूमिकायां 'महागजाः पलायन्ते मशकानां तु का कथा' इति मंडनवाक्यविमर्शप्रसङ्गेन च, नायं (निबन्धा) आत्मानं कर्तारमपि मन्यते । किंतु यस्य कस्यापि हृदि स्थितस्यांतर्यामिणो निमित्तमात्रमेव य एव हि निबन्धारमिमं साधु वाऽसाधु वाकर्म कारयति' इत्यादिना स्वकृतनिबन्धानां केनचिदन्तर्यामिणा कारितत्वमुच्यते । इदमत्र पृच्छ्यते । किमयं कारयितृत्वेनाभिमतोंऽतर्यामी शुद्धोऽशुद्धो वेति । नाद्यः । निर्विशेषस्य तस्य कारयितृत्वानुपपत्तेः । नात्यः । मिथ्याभूतस्य तस्य अधिष्ठानत्वानुपपत्तेः त्वत्कथितांतर्यामित्वस्यानुपपत्तिः । तथा च अन्तर्यामी च अधिष्ठानं चेति सुस्थो व्याघातः ।

(१) ब्रह्मणो जगदुपादानत्वं

अद्वैततत्वसुधाभूमिका

 (८) : तत्र ब्रह्म जगदुपादानकारणं निमित्तकारणं चेत्यद्वैतसिद्धांत: । तत्र निमित्तकारणत्वं द्वैतमत इव मायोप हितस्यैवेत्यत्र न विप्रतिपत्तिः । उपादानत्वमपि मायोपहितस्यैव । विशेषस्तु तत्र माया परिणामिकारणम् उपादानत्वं तु विवर्ताख्यं चैतन्यमात्रस्येत्यद्वैतम्, द्वैतं तु ब्रह्मणो निमित्तकारणत्वमात्रमिति ॥

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छम् । निमित्तकारणत्वं द्वैतमत इव मायोप हितस्यैवेत्यत्र न विप्रतिपत्तिः' इति वचनस्यासम्बद्धत्वात् । मायोपहितत्वं न तावत् मायाऽख्यप्रकृतिनियामकत्वमिहाभिप्रेतम् । तत्राद्वैतिनां विप्रतिपत्तेः 'न विप्रतिपत्तिः' इत्यस्यायोगात् । अतः अनिर्वचनीयमायोपाधिकत्वं एव वक्तव्यम् । तथा चासदनु वादस्याद्यमिदमुदाहरणम् । न हि द्वैतिनः अनिर्वचनीयमायां तदुपहितत्वमीश्वरस्य, तथाविधस्यैव निमित्तकारणत्वं वा अभ्युपयंति ।

यदुक्तंउपादानत्वमपि मायोपहितस्यै' इति तदप्ययुक्तं ।न निरोधो न चोत्पति: (गौ. का) इति वदद्भिरद्वैतिभिर्जगतः उत्पत्तेरेवानङ्गीकारेण तदुपादानत्वविचारस्यासङ्गतत्वात् (मं ६२) यदपि मायोपहितस्येति तत्र यदि माया लौकिकी तर्हि ।

" न च मायाविना माया दृश्यते विश्वमीश्वरः ।

सदा पश्यति तेनेदं न मायेत्यवधार्यतां ॥ " (ब्रह्मांड)

इति स्मृत्युक्तदिशा ईश्वरेण जगदर्शनानुपत्तिः । तस्य जगद्दर्शनं 'तुर्यं तत्सर्वंदृक् सदा" इत्यादिश्रुतिभिः " वेदाहं समती तानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि " इत्यादि स्मृतिभिश्च प्रमितम् । यदि तु माया अलौकिकी तर्हि तस्या अविद्यामयत्वापातः । अविद्या च आश्रयविषयानुपपत्त्या दुर्घटैव । अंगीकृतं च अविद्याया दुर्घटत्वमद्वैतिभिःदुर्घटत्वमविद्याया भूषणं न तु दूषणं । कथंचिद्घटमानत्वेऽविद्यात्वं दुर्घटं भवेत्इति ।अविद्याया अविद्यात्वे इदमेव हि लक्षणम् । मानाघातासहिष्णुत्वं इति च ।

एतेन ' तत्रापि प्रसङ्गे पीठिकाऽस्य निबन्धस्य निबन्धश्च तत्तत्प्रकरणेऽविद्यायाः सप्तानुपपत्तिनिरासप्रसङ्गेन विविनक्ति' (अद्वैततत्वसुधाभूमिका  ८) इत्युक्तं परास्तं । अविद्याऽनुपपत्तीनां निरासे स्वसिद्धांतभूषणस्यैव निरासापत्तेः I अविद्यायामायाघातासहिष्णुत्व' रूपलक्षणस्यैव खंडनापत्तेश्च ।

अनुपपत्तिनिरासस्याशक्यत्वाच्च । अ. सुधा खलुस्वभावतः ब्रह्माश्रितयाऽविधया" इति ( ३९ ) अज्ञानस्य ब्रह्माश्रितत्वमेव अभिप्रैति । एतेन जीवजडाश्रितत्वपक्षौ अनङ्गीकारपरास्त । न च ब्रह्माश्रितत्वमुपपद्यते ।तुर्यं तत्सर्वदृक् सदा' इति ब्रह्मण: सर्वज्ञत्वात् । तुर्यमिति निर्दिष्टं अशुद्धमिति त्वशक्यशंकम् । नचासंगस्य तस्य सर्वस्वरूपस्वरूपज्ञप्तिसम्बन्धो विनाऽविद्यां दुर्घट इति वाच्यं । अविद्यासम्बन्धवदेवोपपत्तेः । स्वभावत: ब्रह्माश्रिताऽविद्या न तस्यासङ्गत्वं निरुणद्धीति चेत् स्वरूपज्ञप्तावपि तत् समम् । अङ्गीकृताश्चाद्वैतिभिरपृथक्त्वेऽपि ब्रह्मणो धर्माः । ' आनन्दो विषयानुभवो नित्यत्वं चेति संति धर्माः । अपृथक्त्वेऽपि चैतन्यादिति पञ्च पादिकोक्तेः । कालः सदाऽस्तीत्यादिव्यवहाराणां स्वभावविशेषादेवोपपत्तेः' इति प्रकरणांतरे वदताऽद्वैतसिद्धिकारेणैव स्वभावविशेषादेव सर्वविषयकज्ञानाश्रयत्वमप्यङ्गी- कार्यम् । (मं. ३९) " स्यादेतत् । न ब्रह्मणः सर्वज्ञत्वविरोधात्तस्या- ज्ञानानाश्रयत्वं । यतोऽज्ञानावृतत्वमेव सर्वज्ञत्वविरोधि । न त्वज्ञानाश्रयत्वं।मैवं । यदाश्रितमज्ञानं तं प्रत्येव तदावरकं इति नियमस्य सुप्रसिद्धत्वात् (मं ४०) । तथा च आश्रयाद्यसम्भवादज्ञानस्य सर्वथाऽनुपपत्तिरेवेति उपादानत्वं तु मायोपहितस्यैव वेति यदुक्तं तदशुद्धम् इति ।

यदुक्तं उपादानत्वं तु विवर्ताख्यं चैतन्यमात्रस्येति तदप्यसारम् । द्विवर्ते तदुपादानत्वाव्यवहारात् । न हि कश्चित् लौकिको वैदिको वा शुक्तिविवर्ते रूपये शुक्त्युपादनकत्वव्यवहारं करोति । नापि प्रपञ्चारो- पाधिष्ठानत्वं ब्रह्मणः सिद्धम् । आरोपस्यै शांकरभाष्ये चयथा च कारणं ब्रह्म त्रिषु कालेषु सत्वं न व्यभिचरति एवं कार्यमपि जगत् त्रिषु कालेषु सत्वं न व्यभिचरति' इत्यादिना जगत: सत्यत्वस्यैवाभिधानात् (मं. १९) ।

अत्स्वारोपः । न च तावता ब्रह्मणोऽधिष्ठानत्वं । शून्यस्यैव तथात्वोपपत्तेः । निर्विशेषस्य शून्यस्य कथमधिष्ठानत्वमिति चेत् । निर्विशेषस्य ब्रह्मणोऽपि कथं । न खल्वधिष्ठानत्वनियताः सामान्यधर्मं- सादृश्यादयो विशेषा मायावादिना ब्रह्मण्यंगीक्रियते । विष्णु सहस्रनाम - भाष्ये शंकराचार्यै; “निर्विशेषत्वाच्छून्यवच्छून्यःइति निर्विशेषत्वा- भिव्यंग्यसादृश्यं शून्येन ब्रह्मणः कंठरवेणांगीकृतं ।

अद्वैततत्वसुधाभूमिका

 (९) 'न निरोधो न चोत्पत्तिः' इत्यादिवचनानि जगतोऽनिर्वचनीयस्य ब्रह्मण्यध्यासमात्रं इति जगतोऽविद्यापरिणामत्वं ब्रह्मविवर्तत्वं चाभिप्रयन्ति ।

न्यायसुधामंडनप्रकाश:

 : तत्तुच्छम् । उदाहृतवचनानामेतदभिप्रायकत्वासंभवात् । तथाहि ।

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।

न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थता (गौ. का. ३२ )

इत्यस्य शांकरभाष्यम् "न निरोधः निरोधनं निरोधः प्रलयः, जत्पत्तिर्जननम् । सन्तीत्येषा परमार्थता । । उत्पत्तिप्रलययोरभावाद्वद्धादयो न कथमुप्पत्तिप्रलययोरभावः इत्युच्यते । द्वैतस्यासत्त्वात् । यत्र द्वैतमिव भवति' ‘य इह नानेव पश्यति' 'आत्मैवेदं सर्वम्’ ‘ब्रह्मैवेदं सर्वं' एकमेवाद्वितीयं इदं सर्वंयदयमात्मा' इत्यादिनानाश्रुतिभ्यो द्वैतस्यासत्वं सिद्धं ।

सतो हि उत्पत्तिः प्रलयो वा स्यात् नासतः शशविषाणादेः । न च मनसि रज्जुसर्पस्योत्पत्तिः प्रलयो वा न चोभयतो वा । तथा मानसत्वा- विशेषाद् द्वैतस्य । न हि नियते मनसि सुषुप्ते वा द्वैतं गृह्यते । अतो मनोविकल्पनामात्रं द्वैतमिति सिद्धम् । तस्मात्सूक्तं द्वैतस्यासत्वात् निरोधाभावः परमार्थतेति ।

ततश्चानेन शांकरभाष्येण 'न निरोधो न चोत्पत्तिः' इत्यादि वचनानां द्वैतस्य असत्वे अत एव च शशविषाणादेरिव उत्पत्तिप्रलयाभावे स्फुटं तात्पर्यमवगम्यते । न त्वेव अ. सुधोक्तरीत्या जगतः अनिर्वचनीयत्वे ब्रह्मण्यध्यासे वा ।

अद्वैततत्वसुधाभूमिका

 (९ ) :- यथा चानिर्वचनीयत्वं सदसद्विलक्षण रूपत्वम्नासदासीन्नोसदासीदिति श्रुतिसिद्धं दुरपह्नवम् तदपि व्यक्तीकृतम् । तद्धि वाक्यं-प्रलये सदसतोरभावं तमसश्च भावं प्रतिपादयति तदेवं सदसतोरभावे वाक्यशेषे प्रस्तुतं तम एव सदा सद्विलक्षणं पर्यवस्यति ।। इति

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छम् सदसद्विलक्षणत्वस्याद्वैतिभिः शून्यमतखंडनावसरे स्वयं खंडितत्वेन तदङ्गीकारस्य व्याहतत्वात् । तथाहि भामतीवाक्यम् ।

लौकिकानि हि प्रभाणानि सदसत्वगोचराणि । तैः खलु सत्सदिति गृह्ममाणं यथाभूतमविपरीतं तत्वं व्यवस्थाप्यते असच्चासदिति गृह्यमाणं यथा भूतमविपरीतं तत्वं व्यवस्थाप्यते । सदसतोश्च विचारासहत्वं ब्रुवता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते ।" इति ।

यदप्यनिर्वचनीयत्वंनासदासीनो सदासीदिति" श्रुतिसिद्धमित्यभि- हितं तदपि हेयम् । अस्यां श्रुतौ अनिर्वचनीयत्वबोधक पदाभावात् । न च सदसदभावकालावस्थित्या सदसद्विलक्षणत्वरूपानिर्वचनीयत्वं परिशेष- युक्त्या सेत्स्यतीति वाच्यम् तथा सति तयैव युक्त्या ब्रह्मणोऽपि तथात्वसिद्ध्यापातात् । ब्रह्मणोऽनिर्वचनीयत्व 'ब्रह्म सत्यं' इति श्रुतिबाधितमिति चेन्न । तमसोऽपि साम्यात् । 'विश्वं सत्यं' इति श्रुत्या तस्यापि सत्यत्वनिश्चयात् । अत्र सदसच्छब्दयोर्मूर्तीमूर्तवाचकत्वेन त्वदभिमतसदसत्परत्वासिद्धेश्च । मूर्तं सदिति संप्रोक्तं अमूर्तमसदुच्यते' इति श्रुत्यैव तादृशवाचकत्वसिद्धेः ।

नैवेह किंचनाग्रे आसीन्मृत्युनैवेदमावृतमासीत् (बृ. १-२-१) इति श्रुतेस्तच्छांकरभाष्यस्य च विरोधापत्तेश्च । तत्र तच्छ्रुतिव्याख्यावसरे शंकराचार्यैः ‘“अनुपलब्धिश्चेदभावहेतुः सर्वस्य जगत: प्रागुत्पत्तेर्न कारणं कार्यं वोपलभ्यते । तस्मात्सर्वस्यैवाभावोऽस्तु" नमृत्युनैवेदमावृत- मासीत्" इति श्रुतेः । यदि हि किंचिदपि नासीद्येनाव्रियते यच्चाव्रियते तदा नावक्ष्यन्मृत्युनैवेदमावृतमितिन हि भवति गगनकुसुमच्छन्नो वंध्यापुत्र इति ब्रवीति च मृत्युनैवेदमावृतमासीदिति । तस्माद्येनावृतं कारणेन यच्चावृतं कार्यं प्रागुत्पत्तेस्तदुभयमासीच्छ्रुतेः प्रामाण्यादनुमेय- त्वाच्च ।इति वाक्येन आवरकस्य मृत्योस्तदावृतकार्यप्रपञ्चस्य च प्रलये सत्वस्य व्यवस्थापितत्वेन 'नो सदासीत्' इति श्रुतेः सन्निषेधार्थपरत्वस्य शांकरभाष्यविरुद्धत्वात् । तथाएकमेवाद्वितीयं ब्रह्म इति श्रुति- व्याख्यानावसरेऽपि शंकराचार्यै: एकं स्वकार्यपतितं अन्यत् नास्तीति एकमेवेत्युच्यत' इति निरूपणेन 'नो सदासीदिति श्रुतेर्नसन्मात्रनिषेध- परत्वं किंतु कार्यभूतसद्वस्तुमात्रनिषेधपरत्वमिति तेषामाशयोऽवनम्यते । तथा चानया श्रुत्या सर्वेषां सतां निषेधस्य शांकरसिद्धांतानुसारेणाप्य- सिद्ध्या 'तम आसी' दिति वाक्यशेषोक्ततमसः न सन्निषेधाधिकरण- कालावस्थिति: सिद्ध्यति I ततश्च परिशेषयुक्तेरसिद्धिदुष्ट- त्वान्नाविद्याख्यतमसः सदसद्वैलक्ष्यण्ये प्रामाण्यं I अत्र विस्तरो द्वैतद्युमणी । (प. ११७-१२१)

अद्वैततत्वसुधाभूमिका

 (१) तच्च तमो ब्रह्मविषयिण्यविद्यैव । तच्च वाक्यशेषोपस्थापितं मूर्तामूर्तयोरन्यतरदेव वक्तव्यम् । अतोऽत्र न तमः पदार्थो ब्रह्म, किं तु प्रकृतिरेवेति वक्तव्यम् । सदसत्पदाभ्यां वाय्वंतरिक्षग्रहणेऽपि प्रलये वाय्वंतरिक्षादिनिषेधामात्रे न तात्पर्यम् । तमसा गूढमत्रे प्रकेतम्इति ब्रह्मणस्तमसाऽऽवरणप्रतिपादनात् । तमः शब्दोऽत्राज्ञानपर एव । इति ।

न्यायसुधामंडनप्रकाश:

 : तत्तुच्छम् । अविद्याया ब्रह्मविषयित्वस्य, 'तुर्यं तत् सर्वदृक् सदा' इति तच्छांकरभाष्योदाहरणेन निरस्तत्वात् 'योऽविद्ययाऽनुपहतोऽपि दशार्थवृत्त्या निद्रामुवाह जठरीकृतलोकयात्र: " इति स्मृत्या प्रलये ब्रह्मणोऽविद्यानुपहतत्वस्यैव सिद्धेश्च । 'ज्योतिषामपि तज्योतिस्तमसः परमुच्यते' । न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' इत्यादिना तमोऽपरपर्यायाविद्याया ब्रह्मानावरकत्वस्यैवोक्तेश्च । 'कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु लीनेषु च सर्वहेतुषु । तमस्तदासीद्- गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः' इति प्रलयेऽपि ब्रह्मण: तमसः पारे एव विराजमानत्ववर्णनाच्च । तथा च ब्रह्मविषयिण्याः अविद्यायाः एव बाधितत्वात् तस्याः एतच्छ्रुतिस्थतम: पदार्थत्ववर्णनम-सङ्गतमेव ।

एतेन, ' तमसा गूढमग्रे प्रकेतम्' इति ब्रह्मणस्तमसाऽऽवरण प्रतिपादनात्; तमः शब्दोऽत्राज्ञानपर इति यदुक्तं तदपि निरस्तं उपदर्शितानेकश्रुतिस्मृतिभिर्ब्रह्मणोऽज्ञानानावृतत्वस्य निश्चयेन एतस्याः श्रुतेस्तद्विरुद्धार्थपरत्वासंभवात् । किं तु यत्तमोऽपरिमितं सलिलं भूत्वाऽऽसीत्प्रकृत्याख्यं तेनेदं सर्वं गुहितमासीदिति एवं प्रमाणांतरानुगुणस्यैवार्थस्य समाश्रयणीयत्वाच्च ।

यदप्युक्तंतच्च (तम:) वाक्यशेषोपस्थापितं मूर्तामूर्तयोरन्यतरदेव वक्तव्यं' । इति तदपि तुच्छम् । एतन्न स्वरीत्योक्तम् मूर्तामूर्तयोर- विद्याकार्यत्वोपगमेन अविद्यायाः तदन्यतरत्वस्यानुपगमात् । नापि पररीत्या। द्वैतिभिः ‘“सदसच्छब्दयोः मूर्तीमूर्तपरत्वस्य मूर्तं सदिति संप्रोक्तममूर्तमसदुच्यते' इति प्रमाणानुसारेण स्वीकृतत्वेन तत्पक्षे मूर्तामूर्तनिषेधकालावस्थितिमतस्तमसः मूर्तमूर्तान्यतरत्वस्य असम्भवात् । अतोऽसंबद्धोऽयं प्रजल्प एव ।

यच्चोक्तंअतोऽत्र न तम: पदार्थं ब्रह्म किं तु प्रकृतिरेवेति वक्तव्य' मिति तदप्यसारम्पररीत्या ब्रह्मण: तम: पदार्थत्वाप्रसक्तेः तन्निषेधायोगात् । अद्वैतमते तु निर्गुणस्य प्रकाशादिगुणहीनस्य तदभिमतब्रह्मणः तमः- पदार्थत्वमेव शोभते इति तन्निषेधायोगात् ।

अपि च 'नो सदासीत्' इति श्रुतेः त्वया ब्रह्मान्यसन्निषेधार्थक- त्वमेवास्थेयं । अन्यथा सतो ब्रह्मणोऽपि निषेधापत्तेः । तथा च त्वन्मते ब्रह्मान्यसन्निधाधिकरणकाले विद्यमानस्य तमसो ब्रह्मात्मक त्वमेव कुतो न पर्यवस्यति । तमसः सत्यताग्राहकस्य 'विश्वं सत्यं' इत्यादि- प्रमाणांतरस्याप्यनुग्रह एवं सति कृतः स्यात् ।

यच्चाभिहितं 'सदसत्पदाभ्यां वाय्वंतरिक्षग्रहणेऽपी' त्यादि तदप्यसम्बद्धम् ।यदन्यद्वायोश्चांतरिक्षाचैतत्स' दिति श्रुत्यनुरोधेन द्वैतिभिरसत्पदेनैव वाय्वंतरिक्षग्रहणेन सदसत्पदाभ्यां तदग्रहणेन अनुक्तोपालंभरूपत्वात् ।वाय्वंतरिक्षादिनिषेधमात्रे न तात्पर्य इत्येषा अ. सुधोक्तिस्तु हेत्वनिरूपणात्, कुत्र वा तात्पर्यमित्यस्यानिरूपणाच्चोपेक्षणीयैवेति । तमः शब्दोऽज्ञानपर इत्यप्ययुक्तम् । अंधकारवाचकस्य तस्य गौण्या वृत्त्या तमोत्तमः इत्येवंरूपया अज्ञानपरत्वस्वीकारस्यानुचितत्वात् ।

कल्पांते कालसृष्टेन योंऽधेन तमसाऽवृतम् ।

अभिव्यनक् जगदिदं स्वयंज्योतिः स्वरोचिषा ।'

इति स्मृत्यनुरोधेनांधकारवाचकत्वस्यैवात्र समुचितत्वाच्च तथा चानिर्वचनीयत्वं श्रुतिसिद्धमिति वल्गितमसारमेव ।

अद्वैततत्वसुधाभूमिका

 (९) भामतीकारैस्तु परमार्थतो न भ्रमो नाम कशिचदिति वर्णनेन भ्रमस्यानुपपन्नत्वास्यानिर्वचनीयत्वसाधकत्वं निरूपितं । मंडनं त्वत्र सूत्रभाष्यभामत्यादीनामन्यथानुवादेन स्वमतमुपस्थापयति । अन्यथाऽनुवादस्येदमेकं प्रकरणं निदर्शनम् । इति ।

न्यायसुधामंडनप्रकाश:

 :- तदतितुच्छम् । कस्य सूत्रभाष्यभागस्य केषां वा भामत्यादीनां वाक्यानां अन्यथाऽनुवादः मंडनेन कृतः इत्येतन्मनागप्यप्रदर्श्य केवलं वाङ्मात्रेण तत्र अन्यथाऽनुवादारोपस्य सर्वथाऽनुपपन्नत्वात् । अस्मिन्वाऽन्यत्र वा प्रकरणे कुत्रापि अन्यथाऽनुवादलेशमात्रस्यापि मंडने अभावाच्च । तथा हि मंडनं (६२)भामतीकारैरपि 'परमार्थस्तु न भ्रभो नाम कश्चित् । सर्वमेतत् सर्वानुपपत्तिभाजनत्वेन अनिर्वचनीयमिति युक्तमुत्पश्यामः' इति वचनेन भ्रमस्यैवानुपपन्नत्वेन विवर्तवादादिप्रक्रियाया अप्यनुपपन्नतरत्व- मुपदर्शितम्इति । इदं च भामतीवाक्यस्य यद्येवं प्रतिबुद्धोऽसि नास्ति

कस्यचिदप्रबोधः' इति शांकरभाष्यविवरणरूपस्यानुसार्येव न तु पुनः तदनुक्तं किमपि वाऽत्रानूदितमिति मन्दानामपि सुस्फुटम् ।

यतु 'भामतीकारैस्तु परमार्थतो न भ्रमो नाम कश्चिदितिवर्णनेन भ्रमस्यानुपपन्नत्वस्यानिर्वचनीयत्वसाधकत्वं निरूपित' मित्युक्तं तस्य कोऽभिप्रायः । भ्रमसंसारादिकमेतत्सर्वं अनिर्वचनीयं, सर्वानुपपत्तिभाजन- त्वात् इति प्रयोगः सूच्यते इति चेन्न । पक्षस्य पूर्व सिद्ध्यसिद्धिभ्यां व्याघातात् । पूर्वपूर्वभ्रमेनोत्तरभ्रमसिद्धिरिति च न विचार सहम् । अस्याः बौद्धमतप्रक्रियायाः शंकराचार्यैः ॐ न भावोनुपब्धे:' इति सूत्र - भाष्ये 'अनादित्वेऽप्यंधपरंपरान्यायेनाप्रतिष्ठैवानवस्था व्यवहारविलोपिनी स्यान्नाभिप्रायसिद्धि:' इत्यादिना दूषितत्वात् । अनिर्वचनीयत्वं च नावक्तव्यत्वं । व्याहतेः । स्याद्वादिमत निरासावसरे शंकराचार्यैः ‘“न चैषां पदार्थानां अवक्तव्यत्वं सम्भवति । अवक्तव्याश्चेन्नोच्येरन् । उच्यंते चावक्तव्याश्चेति विप्रतिषिद्ध' मित्यादिना निराकृतत्वात् । नापि सदसद्विलक्षणत्वं च अप्रसिद्धेः । सर्वानुपपत्तिभाजनत्वं च सर्वोपपत्तिराहित्यं सर्वोपपत्तिविरूद्धता चेति वक्तव्यं । उभयथाऽपिप्रकृतोपपत्तिप्रयोगानुपपत्तिः । सत्वेनासत्वेन विचारासहत्वनेव अनुपपत्तिभाजनत्वं चेत् एतदेवा- निर्वचनीयत्वमिति साध्याविशिष्टतासदसतोर्विचारासहत्वं ब्रुवता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति" इति भामतीवाक्येन बौद्धमतं निरस्यता तथात्वस्य दूषितत्वेनासिद्धेश्च । दृष्टांताभावश्च । न च रूप्यभ्रम एव दृष्टांतोऽस्त्विति वाच्यम् । भामतीकारै: 'युक्तं हि पुरोवर्तिनि द्रव्ये द्राघीयसि सामान्यरूपेणालोचिते विशेषरूपेणागृहीते विशेषांतरसमारोपणं' इत्यादिना रूप्यभ्रमे उपपन्नत्वस्यैवोक्तत्वेन तत्र तेषां सर्वानुपपत्तिभाजनत्व- रूपहेत्वसंमतेः । नापि ब्रह्म दृष्टांत: । विशिष्टस्य भ्रमाधीनसिद्धिकस्वरूपस्य पक्षत्वात् । शुद्धस्य निर्धर्मकस्य साध्यसाधनमवैकल्यात् ।

अतो भामतीकाराणां एतद्वाक्येन हेतुना अनिर्वचनीयत्व साधनं नाभिप्रेतम् । किं नाम मायावादस्य परमार्थतः एव सर्वानुपपत्तिभाजनत्वेन न तदुपपादनार्थं कैरपि प्रेक्षावभि: वृथा परिश्रांतव्यमितिनिरूपमेव । अद्वैतिपूर्वाचार्यवचनानि एतदुपष्टंभकानि :-

(कल्पतरुपरिमळ) :- मायायामनुपपत्तिरलंकार इति न मायावादे अत्यंतमुपपादनार्थं प्रयतितव्यं (ब्र. सू. १-४-२२)

(अद्वैतसिद्धि)तस्य मायिकत्वेन मायायाश्च... सर्वानुप- पत्तेर्भूषणत्वात्' इति

(प्रह्मानन्दी) : भूषणत्वादिति । उक्तं हि खंडने

अनवस्यादयो दोषाः सत्तां निनंति वस्तुनः

अद्वैतिनां ते सुहृदः प्रपञ्चे तत्प्रसंजकाः' इति

(भामती)

अस्तु वानुपपत्तिरेव कार्यकारणयोर्मायात्मकत्वात्

अनुपपत्तिर्हि मायामुपोद्वलयति अनुपपद्यमानार्थत्वान्मायायाः (ब्र. सू. १-४-२२)

तत्वप्रच्युतिविभ्रमक्षतिकरी तंत्रांत्यदृष्टिर्मता ( सं शा)

(भा) तदनेनाभिसंधिनोक्तंयद्येवं प्रतिबुद्धोऽसि नास्ति कस्यचिदप्रबोध" (शां. भा.) इति ।

एवमादिवाक्यैः अद्वैतिभिः कंठतः एव स्वमतस्यानुपपन्नतायाः (उपपत्तिविरुद्धताया:) अङ्गीकृतत्वेन द्वैतिनामस्माकं अनुपपन्नता ( उपपत्तिविरुद्धता) प्रदर्शनपरिश्रमभारः तैरेवावरोपितः । अ. सुधायाः स्वसिद्धांतानुपपत्तिपरिहारप्रयत्नः परमार्थतो मायावादविनाशक: स्वपूर्वा-चार्यद्रोहसंपादनमात्रपर्यवसायी च । एवं स्थिते यदभिहितं 'मंडनं त्वत्र सूत्रभाष्यभामत्यादीनामन्यथाऽनुवादेन स्वमतमुपस्थापयति' इति तदसारतमम् अपहासास्पदं चेति ।

एवमनुपपन्नत्वस्य स्वसिद्धांतभूषणत्वं प्रतिजानानैरद्वैताचार्यैः पुनः स्वयंसर्वथाऽनुपपत्तेश्च' इति सूत्रीयशांकरभाष्यतद्व्याख्यानैः शून्यमतस्य सर्वथाऽनुपपन्नातासमर्थनेन शून्यमतं भूषितमेवभवति तैर्नं त्वेव दूषित त्वदन्यदेतत् ।

अद्वैततत्वसुधाभूमिका

 (१०) 'आदित्यो यूप' इति विधिशेषोऽर्थवादस्तस्य विधेयस्तुतिमात्रे तात्पर्यात् । न विधौ परः शब्दार्थ:' इति न्यायेन तत्रातात्पर्येण च प्रत्यक्षाविरोधार्यं गौणार्थ : पर: स्वीकृतः । इति ।

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छम् । 'न विधौ परः शब्दार्थः' इतिन्यायेन तत्रतात्पर्येण इत्यस्यासङ्गतत्वात् । न खल्वेष न्यायः विधेरन्यत्र सर्वत्र पर एव शब्दार्थ इति विदधाति । तथा सति अवांतरवाक्यानां स्वार्थे तात्पर्याभावापत्या खादिरयूपादीनामप्यसिद्धिप्रसङ्गात् । नापि सर्वत्र विधिवाक्ये लक्षणैव नास्ति इति शाबरवाक्यार्थः । तथा सति सोमेन यजेतेत्यत्रापि लक्षणानाश्रयणापत्तेः । किं नाम कयोश्चिदनुवादकविधाय- कयोर्वाक्ययोर्विरोधे अनुवादकस्य मुख्यार्थत्वाय विधायकवाक्ये लक्षणा न न्याय्या इत्येव । तथा च शाबरन्यायेन ' यजमानः प्रस्तर:' इत्यस्य स्वार्थेऽतात्पर्यमिति यदुक्तं तदयुक्तमेव । तथा च प्रत्यक्षविरोधेनैव मुख्यार्थपरित्यागे स्वीकार्ये सिद्धं प्रत्यक्षस्यागमात्प्राबल्यं मंडनोक्तं ।

अद्वैततत्वसुधाभूमिका

 (१०) न च वेदांतवाक्यानि तद्वद्विधिशेषोऽर्थवादः । न वाऽन्यपरः कि त्वज्ञातार्थबोधकत्वात् विधिकल्पानि स्वार्थपराणि च इति न तन्न्यायेनात्र प्रत्यक्षस्यागमबाधकत्वम् । इति ।

न्यायसुधामंडनप्रकाश:

 : तत्तुच्छम् । वेदांतवाक्यानीत्यनेन 'विश्वं सत्यं ' ' द्वा सुपर्णे' त्यादीनां द्वैतबोधकानां ग्रहणे तेषां स्वार्थंपरत्वे संप्रतिपत्तिः । अर्थवादत्वाभावेऽपि तेषां स्वार्थपरित्यागे अद्वैतवाक्यानामपि कुतो न स्वार्थपरित्यागः । अद्वैतवाक्यानामन्यपरत्वाभावादिति चेत्तदेवाद्याप्य- सिद्धम् । द्वैतवाक्यानामपि वा कुतोऽन्यपरत्वम् । प्रमाणभूताद्वैतवाक्य- विरोधादितिचेदेवं तर्हि प्रमाणविरोध एव अन्यपरत्वे तदविरोधश्च स्वार्थपरत्वे प्रयोजकौ नत्वर्थवादत्वतदभावावित्यगीकर्तव्यम् । तथा च प्रत्यक्षप्रमाणविरोधादद्वैतवाक्यानां स्वार्थप्रच्यावनमपरिहार्यम् । अद्वैतागमाः इव प्रत्यक्षं न प्रमाणमिति चेन्न तदपि कुतः । अद्वैतवाक्य- विरोधादिति चेत्स्फृटः अन्योन्याश्रयः । प्रत्यक्षस्य स्वभावप्राबल्यंनैवं जागरितोपलब्धं वस्तु स्तंभादिकं कस्यांचिदवस्थायां वाध्यते (श. भा.) न हि श्रुतिशतमपि शीतः अग्निः अप्रकाशो वा इति ब्रुवत् प्रामाण्यं उपैति । यदि ब्रूयात् शीतः अग्निः अप्रकाशो वा इति अथापि अर्थांतरं श्रुतेः विवक्षितं कल्प्यं प्रामाण्यान्यथाऽनुपपत्तेः न तु प्रमाणांतरविरुद्धं स्ववचनविरुद्धं वा । (गी. शां- भा. १८-६०) (अपि च स्वतः प्रामाण्ये सिद्धे जाग्रत्प्रत्ययानां यथार्थत्वमनुभवसिद्धं' (भामती) 'प्रत्यक्षादिप्रतीतिभ्रमरूपा भविष्यति युक्तिबाधितत्वादिति चेत् न । प्रत्यक्षादिविरोध युक्तीनामेवाभासत्वोपपत्तेः (ब्र वि. भरण) इत्यादिभिरद्वैताचार्यवाक्यैरेव सिद्धम् ।

यच्चोक्तं अद्वैतवाक्यानि अज्ञातार्थबोधकानि अत: स्वार्थपराणीति तदपि हेयम् । तेषां बोधकत्वस्यैवाभावात् । 'ज्ञानं च तस्मिन्परात्मभावनिवृत्तिरेव' (शां. भा.) इति शंकराचार्यैर्बोधकत्वस्यानङ्गीकारात् । बोधकत्वेऽपि स्वरूपमात्रबोधकत्वेन स्वरूपस्य च नित्यसिद्धत्वेन अज्ञातबोधकत्वाभावात् अज्ञातार्थबोधकत्वमात्रेण स्वार्थपरत्वानिश्चयात् च । तथा सति 'असदेवेदमब्र आसीदिति' श्रुत्या अज्ञातशून्यकारणत्वबोधिकया शून्यस्यैव जगत्कारणता निश्चयापाताच्च । तत्र प्रमाणविरोधान्न स्वार्थपरत्वमिति चेत् तर्हि प्रमाणाविरोध एव स्वार्थपरत्वप्रयोजकः इत्यायातम् । तदुक्तं श्रीगुरुपादैर्मंडनेमानांतराविरुद्धत्वमेव मुख्यार्थतायां प्रधानं प्रयोजकम्' इति । (६२)

अद्वैततत्वसुधाभूमिका

 (१०)सोमविशिष्टयांगे तात्पर्यानुपपत्त्या खलु लक्षणा नान्यशेषत्वेन । तात्पर्यानुपपत्तिर्हि तद्ब्राहकोपक्रमादि विरोधे, न तु प्रमाणांतरविरोधे, I

न्यायसुधामंडनप्रकाश:

 : तत्तुच्छम् । ' प्रमाणांतराविरुद्धार्थ एव हि प्रमाणानां तात्पर्यं उपक्रमादयो निश्चाययति' (मं८२) इत्यनेनैव दत्तोत्तरत्वात् ।

अद्वैततत्वसुधाभूमिका

 (१०) न चात्र प्रमाणांतरविरोधोऽपि । प्रत्यक्षं तु न श्रुतिविरोधि । तस्य सन्मात्रे प्रामाण्येन विकल्पांशेऽप्रामाण्येन च प्रपञ्चमिथ्यात्वश्रुत्युपष्टंभकत्वात् । इति ।

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छम् । प्रपञ्चनिषेधस्य श्रौतार्थत्वाङ्गीकारे सर्वप्रमाण-विरोधापातात् । ' सर्वप्रमाणैः प्रपञ्चे उपलभ्यमाने तदभावः तत्वमिति निरूपयितुमशक्य' मिति ब्र. विद्याभरणोक्तेः । निरूपितं च निषेधस्य तात्विकत्वमद्वैतिभिः । प्रपञ्चनिषेधाधिकरण ब्रह्मस्वरूपत्वात् निषेधस्य तात्विकत्वेऽपि नाद्वैतहानिकरत्वं (अ. स.) इति ।

यच्चोक्तंप्रत्यक्षस्य सन्मात्रे प्रामाण्येन' इत्यादि तदप्ययुक्तं 'लौकिकानि हि प्रमाणानि सदसत्वगोचराणि' इति भामतीकारै: प्रत्यक्षस्य विकल्पांशेऽपि विषयीकारित्वस्य 'तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्वं व्यवस्थाप्यते' इति तदंशेऽपि प्रामाण्यस्य " सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति' इति सत्यत्वांशेऽपि प्रामाण्यानंगीकारे सर्वप्रमाणविरोधस्य च व्युत्पादितत्वेन तद्विरोधापातात् । प्रत्यक्षस्य मिथ्यात्वश्रुत्युपष्टंभकत्वोक्तिरप्येतेनैव निरस्ता । तथात्वे 'तत्वमसि' इत्यत्र प्रत्यक्षाविरोधाय शंकराचार्यैर्लक्षणा नाश्रीयेत । तदुक्तं श्रीगुरुपादैःअत एव शंकराचार्यै: प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते इत्यादिना प्रत्यक्षविरोधादेव सर्वज्ञत्वविशिष्टाल्पज्ञत्वविशिष्टैक्ये तत्वमस्यादि- वाक्यानां तात्पर्यपरित्याग उक्तः इति । (मं. ८२ )

अद्वैततत्वसुधाभूमिका

 (११) अन्यथा देहात्मप्रत्यक्षबाधितत्वेन तद्भेद श्रुतिरप्यप्रमाणं स्यात् । मम देह इति प्रत्यक्षमपि देहात्मप्रत्यक्षमेव । ममशब्देन (सूक्ष्मशरीरकताया अपि ? ) ग्रहणेन ममशब्दस्याभेदेऽपि प्रयोगेण च तस्य देहभेदप्रत्यक्षत्व ( त्वा) योगात् इति नेदमपि प्रत्यक्षं परीक्षितप्रत्यक्षम् । वस्तुतस्तु प्रत्यक्षेण प्रत्यक्षबाधोऽत्र न तु प्रत्येक्षणागमबाधः अतो नात्र प्रत्यक्षेणागमबाधः । उक्तं च ब्रह्मतर्फे ‘“प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्इति ।

न्यायसुधामंडनप्रकाश:

तत्तुच्छम् । मंडनानवलोकननिबन्धनत्वात् । मंडने खलु (२)परीक्षितप्रत्यक्षस्यागमबाधकत्वावश्यंभावा' दित्युक्त्या न प्रत्यक्षमात्रस्यागमबाधकत्वमंगीकृतम् । किं नाम परीक्षया क्लृप्त दोषा- भाववत्तया निशिचतस्यैव । तथाविधं च देहात्मभेदप्रत्यक्षमिति युक्तं तस्यैक्यागमबाधकत्वं । देहैक्यप्रत्यक्षं अपरीक्षितं, स्वयं परीक्षितप्रत्यक्षेण बाधितं न देहात्मभेदश्रुतिबाधने प्रभवति ।

मम देह इति प्रत्यक्षं तु मम गेहमितिवत् देहात्मभेदविषयकमेव । षष्ठ्यर्थस्य सम्बन्धस्य उत्सर्गत: भेदसापेक्षत्वात् । मम शद्वेन सूक्ष्मशरीरकताया अपि ग्रहणेन इत्येतदनर्थकम् । अन्वयाभावात् । जीवस्य चिदात्मकं सूक्ष्मशरीरंतु अद्वैतिभिर्नंगीकृतम् । 'ममशब्दस्या भेदेऽपि प्रयोगेण इत्यप्यसंबद्धम् । देहात्मनोरभेदेऽपि मम देह:' इति प्रयोगेण इत्यर्थत्वेऽप्यद्वैतमतेऽसंभवः । त्वन्मते आत्मनोऽह मर्थकत्वाभावात् । भेदमात्रस्य मिथ्यात्वं वदतो देहात्मभेदस्याप्यध्यस्तत्वावश्यंभावात् । देहात्मैक्याध्यासस्यैवानुपपत्तेः । प्रयोगस्य तदर्थत्ववर्णनस्य सुतरामनुपपत्तेः । अभेदे भेदव्यदहारनिवहिकस्य विशेषस्य त्वयाऽनंगीकारेण मम इति सम्बन्धितया निर्देशस्य त्वन्मते अनुपपत्तेः ।

यत्तुक्तं मम देह इति प्रत्यक्षमपि न परीक्षितप्रत्यक्षमिति तदपि रिक्तं वच: । कारणस्यानिरूपणात् । प्रत्यक्षे वलृप्तदोषाणां केषांचिदप्यत्राभावात् । तदभावस्य संवादविसंवादभावाभावपरीक्ष याऽवधारणात् । एवमपि तस्य परीक्षितत्वाभावे कुत्रापि तन्नस्यात् ।

यदपि 'वस्तुतस्तु प्रत्यक्षेण प्रत्यक्षबाधोऽत्र न तु प्रत्यक्षेणागम बाधः इति तदपि हेयम् ।प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्वमित्येव प्रवर्तते' इति भामत्युक्तरीत्या देहात्मनोस्तात्विकमेव भेदं व्यवस्थापयता 'मम देह' इति प्रत्यक्षेण आपाततो देहात्मैक्य बोधकस्यागमस्य बाधकत्वावश्यंभावात् । वस्तुतो देहात्मैक्यप्रत्यक्षस्यैवाभावेन प्रत्यक्षेण प्रत्यक्षबाधस्यैवात्रानवकाशात् । परीक्षितप्रत्यक्षेणागमबाधोऽद्वैतिभिरङ्गी- कृतश्च । तदुक्तं श्रीगुरुपादैर्मंडने (८२)एतदभिप्रायेणैव नाहं सर्वज्ञः इत्यादिप्रबल प्रत्यक्ष विरोधात्तत्वमसीत्यादिवाक्यानां सर्वज्ञत्वविशिष्टाल्पज्ञ- त्वविशिष्टैक्यतात्पर्यपरित्यागः शंकराचार्यैः कृत'' इति ।

यदत्र प्रत्यक्षापेक्षया आगमस्य प्राबल्ये ब्रह्मतर्कोदाहरणंप्राबल्य-मामस्यैव जात्या तेषु त्रिषु स्मृतम् इति तदपि मंदम् । तत्र जात्येत्यस्योत्सर्गत इत्यर्थकत्वेन आगमस्य तेन स्वभावप्राबल्यासिद्धेः । अत एवोपजीव्यविरोधे तु न प्रामाण्यममुष्य' चेत्युत्तरत्रापवादे प्राबल्याभावः उक्तः । यद्वा वैदिकार्थे प्राबल्यमिति तस्याभिप्राय: । अत एव स्वभावप्राबल्यादेव तत्र तत्र प्रत्यक्षा उक्तं च शंकराचार्यैः गीताभाष्ये :- " यत् तु उक्तं श्रुतिप्रामाण्यादिति । न, तत्प्रामाण्यस्य अदृष्टविषयत्वात् । प्रत्यक्षादि प्रमाणानुपलब्धे हि विषये अग्निहोत्रादिसाध्यसाधनसम्बन्दे श्रुतेः प्रामाण्यं न प्रत्यक्षादिविषये अदृष्टदर्शनार्थत्वात् प्रामाण्यस्य " इति ( गी. शां. भा. १८-६०) एतेनैद्रियकस्य प्रपञ्चस्य नेह नानास्तीत्यादिश्रुतिभिर्वाधितत्वोक्तिरद्वैतिनां स्वव्याहता द्रष्टव्या ।

अद्वैततत्वसुधाभूमिका

 (११) :- सत्वासत्वयोर्मिथ्यात्वलक्षणघटकयो रबाध्यत्वा- भावविशिष्टसत्वप्रतीत्यर्हत्वरूपत्वान्नात्र परस्परविरहरूपता सिद्ध्यादौ अद्वैततत्वसुधायां वा स्वीकृता । सत्वेन प्रतीत्यर्हत्वं हि सन् घट इत्यादिप्रत्यक्षात् ।

यद्यप्येवं लक्षणेऽसद्वैलक्षण्यकथनं व्यर्थम् सद्भिन्नत्वमात्रस्यापि लक्षणत्वोपपत्तेः । तथाऽपि ' नासदासीनो सदासीदिति श्रुतिमूलस्यास्य लक्षणस्य तच्छत्यर्थस्यापि निरूपणं कर्तव्यमित्युभयवैलक्षण्यनिर्देशः ।

न्यायसुधामंडनप्रकाश:

 : 'न निरोधो न चोत्पति:' इत्यस्य व्याख्यानावसरे द्वैतस्य शशविषाणादिवदसत्वात्तस्य न निरोधः उत्पत्तिर्वा संभवति, सतो हि ते संभवतः इति शंकराचार्यै: समर्थितम् । तत्र शशविषाणादिदृष्टांत- कथनपुरस्स्सरं द्वैतस्य कथितमसत्वं न सत्वेन प्रतीत्यनर्हत्वरूपं । तस्य सत्वेन प्रतीयमानत्वात् । तथा च मिथ्यात्वलक्षणघटकस्यासत्वस्य सत्वेन प्रतीत्यनर्हन्वरूपतया विवक्षणे शांकरभाष्यविरोधः । भाष्यानुग्रहाय तुच्छगतस्यासत्वस्यैवात्रापि स्वीकारे सत्वासत्वयोः परस्परविरहरूप- त्वानिस्तार: I किंचैवं असत्वस्य पारिभाषिकमर्थं परिकल्य सत्वेनाविरोधित्वांनीकारे प्रपञ्चस्य सदसत्वलक्षण: तृतीय: प्रकार एव समाश्रीयताम् । कृतं चतुर्थप्रकारपर्यंतधावनप्रयासेन ।

'सद्भिन्नत्वमात्रस्यापि लक्षणत्वोपपत्तेःइति अबाध्यभिन्नत्वं बाध्यत्वं लक्षणं पर्यवस्यति । तच्च अद्वैतमतरीत्यैव जागरितोपलब्धस्तंभादिष्वव्याप्तं । 'वैधर्म्यं हि भवति स्वप्न जागरितयोः । किं पुनर्वैधर्म्यं बाधावाधावितिब्रूमः । | नैवं जागरितोपलब्धं वस्तु स्तंभादिकं कस्यांचिदवस्थायां वाध्यते' । इत्यादि शांकरवाक्यैः जागरितोपलब्धस्तंभादीनां बाध्यत्वाभावावगमात् । किंचेदं लक्षणं विचार्यमाणे नो सत्वं सत्वं चापि प्रतीयते' इति बौद्धानां सांवृत- सत्यत्वलक्षणेन एकरूपम् ।

इत्यादीनि मंडनोक्तानि द्वषणान्यत्रानुसंधेयानि ।

अद्वैततत्वसुधाभूमिका

 (१२) 'सद्विविक्तत्वमिथ्यात्वं तु पञ्चमं' 'अतोऽन्यदार्त' इति श्रुतिसिद्धम् । इति ।

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छम् । अस्यां हि श्रुतौ प्रकृतादन्तर्यामिणः ईश्वरादन्यत् तत्समानजातीयं जीवजातं आर्तं दुःखीत्येवोक्ते: मिथ्यात्ववार्ताया अप्यत्राभावात् । प्रत्युत दुःखादिधर्माणां तद्वतां जीवानां तेषां परमात्मभेदस्य इत्यादिकस्य सत्यतायामेव श्रुते: तात्पर्यात् ।

अद्वैततत्वसुधाभूमिका

 (१२) न्यायचन्द्रिका तु यत्र सत्वाभावः सत्वे तत्र नासत्वम् । यत्रासत्त्वाभावोऽसत्वे तत्र सत्वमिति व्याप्तेरभावेन सत्वासत्वयोः परस्परविरहरूपत्वं निरस्यति, न तु मंडनोक्तरीत्या तत्समर्थंयति इत्यपरोऽयमसदनुवादो मंडनस्य। इति ।

न्यायसुधामंडनप्रकाश:

 :- तत्तुच्छम् । अभिप्रायानवबोधात् । 'लौकिकानि हि प्रमाणानि सदसत्वगोचराणि । तैः खलु सत्सदितिगृह्यमाणं यथाभूतमविपरीतं तत्वं व्यवस्थाप्यते । असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्वं व्यवस्थाप्यते । सदसतोश्च विचारासहत्वं ब्रुवता सर्वप्रमाण-विप्रतिषिद्धं व्यवस्थापितं भवति । इत्यादिभि वाक्यै: भामत्यादिगतैः सत्वासत्वयोः तावत् वस्तुगत्याविरोधोऽस्तीत्यवगम्यते । स्थितेऽप्येवं मित्यात्वलक्षणस्य कथंचित् व्याघात परिहारमात्रे दत्तदृष्टिभिः सिद्धिकारादिभिः असत्वस्य प्रमाण सिद्धार्थप्रहाणेन स्वबुद्धिमात्र परि- कल्पितः ‘“क्वचिदप्युपाधौ सत्वेन प्रतीत्यनर्हत्वरूपः अर्थः वर्णितः । तथापि लक्षणदोषानिस्तार एवेति त्वन्यदेतत् । न्यायचन्द्रिका तु उक्तरूपं सत्वं तद्विरोध्येव चासत्वं स्वीकृत्य प्रवृत्ता । ततः पुनर्विवरोध-परिहाराय सत्वे सत्वं नास्ति वृत्तिनिषेधादित्यादिप्रकारांतरमनुसरति । तच्च विफलम् वृत्तिविरोधस्यैवाभावात् । पञ्चपादिकोक्तरीत्या अभेदेऽपि स्वभाव विशेषादेव धर्मधर्मिभावोपपत्तेः । सिद्धयुक्तरीत्या 'काल: सदाऽस्तीति' सत्ता सती' इत्यादिव्यवहारनिर्वाहार्थमिव ब्रह्मगतं सत्वं सत् असत्वं चासदिति व्यवहारनिर्वाहार्थं स्वभावविशेषस्य स्वीकार्यत्वेन वृत्तिविरोधाभावात् । तथा च स्वांगीकृतस्यैव विरोधस्य परिहार-प्रयत्नोऽयंन्याव्चद्रिकाया भक्षितेऽपि लशुने न शांतो व्याधिरिति आभाणकमनुसरति इत्यन्यदेतत् । सिद्ध्यादिवत् रूपांतर परिकल्पनाक्लेशं विहाय न्यायचन्द्रिका सत्वासत्वयोर्विरोधिरूपे परस्परविरहात्मके एव अङ्गीकृत्य प्रवृत्तेत्यत्र नैव विवादः । सर्वत्र तयो विरोधस्यानङ्गीकृतत्वे इतरत्र व्यभिचारप्रदर्शनमशक्यं मत्वा सत्वासत्वयोरेव तेषां व्यभिचार-प्रदर्शनप्रयासो न्यायचन्द्रिकायाः दुरुपपाद एव स्यात् । अ. सुधाकारैरेव च कंठरवेणैवोपवर्णितः न्यायचन्द्रिकाया सत्वासत्वयोर्विरोधिरूपांगीकारः 'न्यायचन्द्रिका त्वेकरूपमेद सत्वं तद्विरोध्येव चासत्वं गृहीत्वै" व इति । एवं स्थिते मंडने योऽसदनुवादारोपः असुधाकृतां सोऽनुचित इति ध्येयम् ।