उपमानस्य पृथक् प्रामाण्यं नास्ति
अथ उपमानस्य पृथक् प्रामाण्यभङ्गः
तत्र प्रत्यक्षानुमानागमभेदेन त्रीण्येव प्रमाणानि ।इतरेषां प्रमाणानामत्रैवान्तर्भावः ।तत्र तावत् उपमानस्य पृथक् प्रामाण्यं नास्ति ।
तथा चोक्तं प्रमाणलक्षणटीकायाम् । " सादृश्यप्रमासाधनमुपमानम् । तत्त्रिविधम् । गृह्यमाणे स्मर्यमाणप्रतियोगिकप्रमासाधनम् । यथा गां दृष्टवतो वनं गतस्य गृह्यमाणे गवये गोसादृश्यप्रमासाधनमुपमानम् । गोसदृशोऽयं गवय इति । गृह्यमाणप्रतियोोगिकं स्मर्यमाणगत सादृश्यज्ञानं स्मर्यमाणप्रतियोगिकगृह्यमाणगतसादृश्यप्रमासाधनम् । यथा गामनुभूय वनं गतस्य गवये गोसादृश्यज्ञानं स्मर्यमाणे गवि गृह्यमाणगवय- प्रतियोगिकसादृश्यप्रमा साधनम् । गोसदृशोऽयं गवयः । तस्माद् गवय सदृशो गौरिति । निर्देशवाक्यं सादृश्यप्रमासाधनम् यथा, यथा गौर्गवयस्तथेति । तदेतत्त्रयं क्रमेण प्रत्यक्षाद्यन्तर्भूतम् " इति । तत्र आद्यस्य प्रत्यक्षेऽन्तर्भावः तृतीयस्य शब्देऽन्तर्भावः स्पष्टः । द्वितीयस्य अनुमाने एवान्तर्भावः । तथाहि विमतो गौः गवयसदृशः गवयगतसादृश्यप्रतियोगित्वात् । यो यत्सादृश्यप्रतियोगि स तत्सदृशः यथा यमो यमान्तरेण इति ।
" अकृतसमयसंज्ञास्मरणसहायं तत्समभिव्याहृतवाक्यार्थप्रत्यभिज्ञाप्रत्यक्षमुपमानम् । संज्ञासंज्ञिसबन्धप्रतिपत्तिस्तत्फलम् " इत्यन्ये । साधर्म्यं वैधर्म्यं तद्धर्ममात्रं च, तद्भेदात् तत्प्रतिसन्धानात्मकमुपमानं त्रिधा भिद्यते । तदेतत्त्रितयमनुमाने एव अन्तर्भवति । विमतः गवयशद्ववाच्यः अगोत्वे सति गोसदृशत्वात् व्यतिरेकेण घटवदित्यादिप्रयोगसंभवात् । अतः उपमानस्य पृथक् प्रामाण्यं नास्ति । शाबरोपमानस्य यथायथं प्रत्यक्षाद्यन्तर्भावस्य तार्किकाभिमतोपमानस्य अनुमानान्तर्भावस्य समर्थितत्वात् ।
यत्तक्तं न्यायचन्द्रिकायां- " न च गवयसादृश्य विशिष्टगोज्ञानं प्रत्यक्षफलम्; सादृश्यस्य इन्द्रियसन्निकृष्टत्वेन प्रत्यक्षत्वेऽपि सादृश्यविशिष्टस्य गोरिन्द्रियासन्निकृष्टत्वेन सादृश्य विशिष्टगोज्ञानस्य प्रत्यक्षफलत्वानुपपत्तेः । न चेदं स्मृतिरेव; पूर्वं गवयानवगतौ गवयसादृश्यविशिष्टगोरननुभवात् । तस्माद् गवयसादृश्यविशिष्टगोज्ञानं मानान्तरम् । तत्साधनं च गोसादृश्यविशिष्टगवयज्ञानीमीत स्थितम् " इति तन्न । गवयसादृश्यविशिष्टगोज्ञानस्य अनुमानफलत्वाङ्गीकारात् । विमतो गौः गवयसदृशः गवयगतसादृश्यप्रतियोगित्वात्; यो यत्सादृश्यप्रतियोगी स तत्सदृशः यथा यमो यमान्तरेण इति प्रयोगसंभवस्योक्तत्वात् । एतेन यदप्युक्तं तत्रैव " मदीया गौः एतत्सादृश्यवती खुरपुच्छादिमत्त्वात्; एतद्गवयवत् इत्त्यनुमानादस्तु तत्सिद्धिरितिचेन्न; साध्याविकलत्वाद्दष्टान्तस्य । न ह्ययं गवयः एतत्सदृशः । अन्यस्य अन्येन सादृश्यं वैसादृश्यं वा, न स्वेनैव; प्रसिद्धिविरोधात् " इति । तदपि निरस्तम्। तदुत्प्रेक्षितानुमानस्य दुष्टत्वेऽपि अस्मदुपदर्शितानुमानस्य साध्यवैकल्यादिदृष्टान्तदोषशून्यत्वात् । चैत्रात् मैत्रः दीर्घः इति प्रतीतौ मैत्रात् चैत्रः ऱ्हस्वः इति प्रतीतिः यथा अर्थापत्तिरूपानुमानविशेषफलम्, मैत्राच्चैत्रस्य ह्रुस्वत्वमन्तरेण मैत्रस्य चैत्रात् दीर्घत्वानुपपत्तेः । एवं गवि गवयसादृश्यं विना गवये गोसादृश्यस्य अनुपपत्त्या, गवि गवयसादृश्यं ज्ञायते । सादृश्यं प्रतियोगिनिरूष्यं, हृस्वत्वादिकं नैतादृशमित्यपि न; हृस्वत्वस्यापि अवधिनिरूप्यत्वावश्यंभावात् । अवधेश्च प्रतिसंबन्धिरूपप्रतियोगिस्वरूपत्वात् ।
सादृश्यज्ञानस्य प्रमाणान्तरत्वे वैसादृश्यज्ञानस्यापि प्रमाणान्तरत्वं स्यात् । ननु गवयनिष्ठधर्माभावो महिषे वैधर्म्यमनुपलब्ध्या गम्यते । तस्य अभावत्वादिति चेन्न, अनुपलब्ध्याः अपि यथायथं प्रत्यक्षादिष्वन्तर्भाव्यत्वात् । किं च तद्वैसादृश्यं न केवलं तन्निष्ठधर्माभावः, किन्तु तन्निष्ठधर्मविरुद्धधर्मवत्त्वमपि । तस्य अभावभिन्नत्वेन अनुपलब्ध्यगोचरत्वमेव । वैसादृश्यस्य प्रमाणान्तरत्वे आपादिते क्लृप्त करणादुपपत्तौ मानान्तरकल्पनागौरवायोगात् " इति यत् न्यायचन्द्रिकोक्तमुत्तरं तदेव सादृश्यस्य पृथक्प्रामाण्यवादिनं प्रत्यपि वक्तुं शक्यते ।
यथाहुः कुसुमाञ्जलिकारा:-
साधर्म्यमिव वैधर्म्यं मानमेव प्रसज्यते ।
अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृते न किम् ।
यदष्युक्तं न्यायचन्द्रिकायाम् " सा गौः अनेन सदृशी, स्वप्रतियोगिक सादृश्येन अस्य अवच्छेदकत्वात्, स्वसादृश्येन यत् यस्य अवच्छेदकम् तत्तेनसदृशं दृष्टं यथा भ्रात्रन्तरमित्यनुमानात् तत्सिद्धिरिति चेन्न । अप्रसिद्ध विशेषणत्वात्, दृष्टान्ते साध्यसाधनोभयवैकल्याच्च । न हि दृष्टान्तस्य उभय वैकल्ये सामान्यतोदृष्टोऽपि साधीयान् " इति तदपि न;
एवं सति सामान्यतो दृष्टानुमानस्य सर्वथा उच्छेदप्रसङ्गात् । सामान्यतोदृष्टानुमानस्य लक्षणं तु साध्यतावच्छेदकभिन्नव्यापकतावच्छेदककत्वे सति हेतु तावच्छेदकभिन्नव्याप्यतावच्छेदक कत्वम् । अत्र सर्वत्र दृष्टान्ते निश्चितसाध्यतावच्छेदकावच्छिन्नहेतुतावच्छेदकावच्छिन्नवत्वं नावश्यकम् । किंतु निश्चितसाध्यतावच्छेदकभिन्नव्यापकतावच्छेदकधर्मावच्छिन्नवत्त्वे सति निश्चितहेतुतावच्छेदकभिन्न- व्याप्यतावच्छेदकधर्मावच्छिन्नवत्त्वमावश्यकम् । तस्य च अत्र विद्यमानत्वात् ।
यदप्युक्तं न्यायचन्द्रिकायाम्-" समीरितं च तिमिरारिणा " इत्युपक्रम्य " किंचित् वस्तु आश्रयमात्रग्रहणापेक्षम्, किंचित् स्वाश्रयप्रतियोग्युभयग्रहणापेक्षम् । परिमाणं हि आश्रयमात्रग्रहणापेक्षम्, प्रतियोग्यग्रहणेऽपि पूर्वं परिमाणव्यवहारदर्शनात् । सादृश्यग्रहणं तूभयग्रहणापेक्षमेव; केवलाश्रयमात्रग्रहणे पूर्वं सादृश्यव्यवहारादर्शनात् " इति तदप्यचारु । यतः परिमाणमपि उभयग्रहणापेक्षम् । सादृश्यपरिमाणयोरेतस्मिन् अंशे लेशतोऽपि न विशेषोऽङ्गीक्रियते अनुभवशरणैः परीक्षकैः । सादृश्यमपि नोभयग्रहणापेक्षमिति अनुभवकलहावतारे तूष्णींभाव एव शरणीकरणीयः स्यात् परेण । अतः अस्मदुक्तमेव साधु । तदेतत्सर्वमभिसंधायैव श्रीन्यायसुधायां सारं सरलं प्रतिपादितं श्रीजयतीर्थश्रीमच्चरणैः । तथाहि-
'गृह्यमाणे वस्तुनि स्मर्यमाणप्रतियोगिक सादृश्यदर्शनात् स्मर्यमाणे गृह्यमाणप्रतियोगिकसादृश्यप्रतीतिरुपमानम् । यथा गामनुभूय वनं गतो गवये गोसादृश्यमुपलभ्य गवि गवयसादृश्यं प्रत्येति । यद्यपि नैतत्स्मरणम् । प्रतियोगिनो गवयस्य प्रागननु भूतत्वेन गोगतसादृश्यस्याननुभूतत्वात् । न हि सामग्र्यभावे योग्येन्द्रियसन्निकर्षसद्भावमात्रेणानुभवः शक्योऽङ्गीकर्तुम् । प्रतियोगिज्ञानस्यान्वयव्यतिरेकाभ्यां सादृश्यप्रतीतौ हेतुत्वमवधृतमेव । निर्विकल्पकप्रतीत्यभ्युपगमस्त्वप्रामाणिक एव । तथापि यो यत्सदृशः स तत्सदृश इति व्याप्तिबलेन गमकत्वादनुमानमेव । व्यधिकरणत्वान्नेति चेत्तस्यादोषताया निरूपितत्वात् । एकाधिकरणतायाः शक्यसंपादनत्वाच्च । तस्माद्वैसादृश्यदर्शनवत्सादृश्यदर्शनमपि न पृथक्प्रमाणम् । अन्ये तु संज्ञासंज्ञिसंबद्धप्रमिति फलमनधिगतसंगतिसंज्ञास्मरणसहायं तत्समभिव्याहृतातिदेशवाक्यार्थ प्रत्यभिज्ञानमुपमानम् । अतिदेशवाक्यार्थश्च क्वचित्साधर्म्यं कचिद्वैधर्म्यं कचिद्धर्ममात्रमिति त्रिविधो भवति । यथाऽव्युप्तन्नगवयपदार्थों गोसदृशो गवय इति अतिदेशवाक्यानु भूतमर्थप्रत्यक्षे ( प. ) गवये प्रत्यभिजानन् गवयपद स्मरन् गवयपदस्य गवये संगतिमवगच्छति, तदिदं साधम्र्योपमानम् । वैधम्र्योपमानं तु गवादिवत् द्विशफो न भवत्यश्व इति वाक्यार्थप्रत्यभिज्ञानादश्वेऽश्वपद- संगतिग्रहणम् । धर्ममात्रोपमानमपि दीर्घग्रीवत्वादिधर्मवान्पशुरुष्ट्र इति वाक्यार्थप्रत्यभिज्ञानादुष्ट्रपदव्युप्तत्तिरिति मन्यन्ते । तत्र यद्यपि संज्ञासंज्ञिसंबन्धप्रतिपत्तिः प्राग्गवयादिदर्शनादतिदेशवाक्येन प्रयोगादिना लिंङ्गेन वा भवितुं नार्हति । संबन्धिनोऽनवगमे संबन्धस्यावगन्तुमशक्यत्वात् । तथापि गवयादिदर्शनोत्तरकालं साधर्म्यादिना लिङ्गेनैव भविष्यति । एतस्यां दशायामतिदेशवाक्यं व्याप्तिग्राहकत्वेनोपयुज्यते । यथा हि पृथिवीत्वाभिसंबन्धात् पृथिवीतिव्यवहर्तव्येति लक्षणवाक्यं श्रुतवतः पृथिवीत्वाभिसम्बन्धं कचित् द्रव्ये पश्यतः अनुमानेनैव संज्ञासंज्ञिसंबन्धप्रतिपत्तिरभ्युपगता, तथा प्रकृतेपीति । " अतः उपमानस्य पृथक्प्रामाण्यं नाङ्गीकर्तव्यम् ।
। इत्युपमानस्य पृथक्प्रामाण्यभङ्गः ।