अनिर्वचनीयत्वं भावाभाव विलक्षणत्वादिरूपत्वेन दुर्वचम्, अप्रामाणिकं च
अनिर्वचनीयत्वस्य भावाभावविलक्षणत्वादिना दुर्वचत्वसमर्थनम् अप्रामाणिकत्वस्य च समर्थनम्
अनिर्वचनीयत्वं भावाभाव विलक्षणत्वादिरूपत्वेन दुर्वचम्, अप्रामाणिकं च
यच्चात्रोक्तम्- “त्रैकालिक निषेधप्रतियोगित्वादिना अनिर्वचनीयत्वं सुवचम्" इति तदयुक्तम् । तृतीयायाः प्रकारत्वार्थकत्वे त्रैकालिकनिषेधप्रतियोगित्वस्य त्वया-जगत्यङ्गीकारात्, जगत् त्रैकालिकानिषेधप्रतियोगीति निर्वचनविषयत्वात् तदभावकथनायोगः । तदभावे च जगतः प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वायोगः । मतान्तरे तस्य असत्त्वेनासद्वैलक्षण्यायोगश्च । तृतीयार्थोऽभेद इत्यपि न युक्तम् । किञ्च अनिर्वचनीयत्वस्य निर्वचनीयत्वाभावरूपस्य अभावविलक्षणत्वेन सुवचत्वकथनं व्याहतमेव । अनिर्वचनीयत्वस्य निर्वचनीयत्वाभावरूपस्य प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपत्वायागात् तृतीयायाः अमेदपरत्वाङ्गीकारोऽपि न युक्तः । वस्तुतस्तु प्रतिपन्न इत्यस्य प्रतिपत्तिविषय इत्यर्थः । `तद्विषयत्वं च तदध्यस्तत्वमिति त्वन्मतम् । तथा च प्रतिपत्यध्यस्तस्य अत एव मिथ्याभूतस्याधिष्ठानत्वायोगात् प्रतिपन्नोपाधावित्ययुक्तम् । यदि च विषयत्वमध्यस्तत्वातिरिक्तम् तदा दृश्यत्वेन मिथ्यात्वासिद्धिरित्यन्यत्र विशदीकृतमित्यलम् ।
। इति अनिर्वचनीयत्वं दुवर्चमप्रामाणिकं च ।