स्वप्नपदार्थानां सत्यत्वमीश्वरसृष्टत्वं च

स्वाप्नानामीश्वरसृष्टत्वेन सत्यत्वसमर्थनम्

स्वप्नपदार्थानां सत्यत्वमीश्वरसृष्टत्वं च

षट्प्रश्नतद्भाष्याभ्यां स्वाप्नपदार्थानां पारमार्थिकसत्यत्वप्रतिपादनस्यानुपदमेव समर्थनात् स्वापदार्थानां सत्त्यत्वम् " अथ रथान् रथयोगान् पयःसृजते " इति ईश्वरसृष्टत्वस्य श्रुत्यैवप्रतिपादनात् ईश्वरसृष्टत्वम् । यच्चोक्तं वासनायाः अर्थाकारेण परिणामो बाधितः ईश्वरसृष्टत्वे तत्तत्पुरुषमात्रानुभाव्यत्वविरोधश्च इति तदयुक्तम् । वासनायाः द्रव्यरूपायाः सावयवायाः परिणामित्वाङ्गीकारे बाधकाभावात् । एवं स्वाप्नानाम् ईश्वरसृष्टत्वेऽपि तत्तत्पुरुषीयवासनापरिणामत्वेन तत्तत्पुरुषमात्रानुभाव्यत्वस्याऽपि सम्भवेनाविरोधात् । वेशान्तादीन् सृजते वासनामात्ररूपान् इति बृ.शां. भाष्ये वासनापरिणामरूपत्वम् अङ्गीकृतं शङ्कराचार्यैः ।

। इति स्वप्नपदार्थानां सत्यत्वेश्वरसृष्टत्वसमर्थनम् ।