ॐ ओम् अथातो ब्रह्मजिज्ञासा ॐ

ब्रह्मसूत्राणाम् ओमथशब्दपूर्वकत्वसमर्थनम्

ॐ ओम् अथातो ब्रह्मजिज्ञासा ॐ

श्रीमदानन्दतीर्थभगवत्पादैःतत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते" इत्यनुव्याख्यानेओम् अथातो ब्रह्मजिज्ञासे " ति सूत्रशरीरं सूचितम् । श्रीमन्न्यायसुधाकारैः श्रीमज्जयतीर्थश्रीमच्चरणैश्च अनुव्याख्यानव्याख्यानावसरे " यदयमोङ्का राथशब्दावादितः कृतवा नित्यादिना प्रमाणोपन्यासपुरःसरं तदेव समर्थितम् । मङ्गलादीनि मङ्गलान्तानि किल प्रचीयन्ते, परिसमाप्यन्ते च । अत एव नैयायिकादयोऽपि स्वग्रन्थारम्भे मङ्गलमाचरन्ति । मङ्गलस्यावश्याचरणीय- तां च प्रतिपादयन्ति ।

सत्यप्येवं नैयायिकाद्यपेक्षयाप्यात्मन आस्तिकतरत्वं मन्यमानैः कैश्चन वेदान्तसूत्र्याख्यातृभिः स्वग्रन्थेषु मङ्गलं नोपनिबद्धमिति तु महदाश्चर्यम् ।

सत्सम्प्रदायप्रवर्तकेन भगवता बादरायणेन स्वप्रणीतानां सर्वप्रन्थानामादौ मङ्गलमुपनिबद्धमिति भारत-पुराणोपपुराणावलोकनेन स्फुटीभवति । एवमेवं स्वप्रणीतप्रबन्धमूर्धन्यभूतस्य ब्रह्ममीमांसाशास्त्रस्याप्यादौ मङ्गलं कृतम् निवेशितं च, ओङ्कारं सूत्रादौ निवेशयता सूत्रकृता ।

तंत्र भगवतो बादरायणस्य स्वतः पूर्णत्वेन स्वप्रयोजनाभावात्तत्कृतं मङ्गलनिबन्धनं शिष्यशिक्षार्थमेव न स्वप्रयोजनार्थम् । तत्र मङ्गलकरणं स्वीयविघ्नपरिहारार्थं सन्निहित शिष्यशिक्षार्थं च भवेत् । न तु सन्निहितासन्निहितसकलशिष्यशिक्षार्थम् । अतः सकलशिष्यशिक्षार्थं सूत्रकृता मङ्गलं सूत्रादावुपनिबद्धमित्यवश्यं विज्ञेयम् ।

मङ्गलं भवत् त्रिविधं भवेत् " आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि मङ्गलम् " इत्यभियुक्तोक्तेः । तत्र आशीः शब्दः अप्राप्तविषयकप्रार्थनावाची । नमस्क्रिया च स्वावधिकोत्कर्षबोधानुकूलो व्यापारः । वस्तुनिर्देशश्च वासुदेवापर- पर्यायेश्वररूपवस्तुसंकीर्तनम् ।धर्मः प्रोज्झितकैतवोऽत्र परम " इति भागवते ईश्वरस्यैव वस्तुशब्देन ग्रहणात्; वस्तु तावत्परं ब्रह्मेति शांकरवचनाच्च ।

एतेन " आर्थिकस्याप्यर्थस्य प्रथममुपन्यासस्तु ..  मङ्गलाचरणम्........ उपलक्ष्ये " ति ( अ० सुधा ११९) कथयन्तः परास्ता: अध्यासस्यार्थिकार्थस्यावस्तुत्वादमङ्गलत्वाच्च ।

" ओतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः " इति गीतायाम् ओम् तत् सत् इति त्रयाणां ब्रह्मरूपवस्तुनिर्देशत्वमुपदर्शितम् । तेषु ओंकारस्य " गिरामस्म्येकमक्षरम् " " प्रणवः सर्ववेदेषु " इति भगवद्विभूतिरूपत्वमुक्तम् ।

ओमित्येकाक्षरं ब्रह्म व्याहरत् मामनुस्मरन् ।

यः प्रयाति त्यजन् देहं स याति परमां गतिम् ।

इति वाक्येन च मोक्षप्रयोजकोच्चारणविषयत्वं च प्रतिपादितम् । अतः अत्यन्तमाङ्गलिकस्य ओंकारस्यैव सूत्रादौ निबन्धनं युक्तम् ।

अत एव भगवता " तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् " इत्यत्र यज्ञादेरोंङ्कारपूर्वकत्वमुक्तम् । अत्र यज्ञशब्देन " श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप " इति गीतोक्तदिशा सर्वयज्ञप्रधानभूतः ज्ञानयज्ञ एव मुख्यप्रतिपाद्यः । ज्ञानयज्ञश्च ब्रह्ममीमांसाध्ययनरूप एव । ' स्वाध्यायज्ञानयज्ञाश्चे' त्यत्र स्वाध्याययज्ञस्य वेदाध्ययनरूपस्य ज्ञानयज्ञात् पृथग्ग्रहणात् । गीताव्याख्यानावसरे अद्वैतिभिरपि एवमेव विवृतत्वात् ।

स्वाध्यायज्ञानयज्ञाश्च स्वाध्याययज्ञाः यथा विधिवेदाभ्यासपरा:।ज्ञानयज्ञाः न्यायेन वेदार्थनिश्चयपराः इति मधुसूदनीये ।

" विधिवद्वेदाभ्यासो यज्ञो येषां ते स्वाध्याययज्ञाः । ज्ञानं पूर्वोत्तर- मीमांसाविचारेण शास्त्रार्थपरिज्ञानं यज्ञो येषां ते ज्ञानयज्ञाः " इति भाष्योदीपिकायाम् ।

वेदाभ्यासो यथाशास्त्रमेषां स्वाध्यायिनां मखः ।

शास्त्रार्थनिश्चयो येषां न्यायेन ज्ञानयाजिनाम् ॥ इति सदानन्दीये ।

सूत्रकारः व्यासः गीताचार्यात् श्रीकृष्णादनन्य एव । अत एव गीताचार्य आत्मनः वेदान्तकृत्त्वं कथयति । " वेदान्तकृद्वेदविदेव चाह " मिति । गीताचार्यरूपेण च -

' तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः ।

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥

इति ब्रह्ममीमांसाध्ययनरूपज्ञानयज्ञादीनामोङ्कारोच्चारणपूर्वकत्वनियममभिधाय स्वयं ब्रह्मसूत्रनिर्माणकाले कथं तन्नियममुल्लङ्घयेत्; कथंतरां ब्रह्मसूत्रोच्चारणस्य अविधानोक्तत्वम्; कथंतमां च आत्मनः अब्रह्मवादित्वमङ्गीकुर त सर्वशिक्षार्थं प्रवृत्तश्च कथं सूत्रादौ ओंकारनिबन्धनं च न कुर्यात् ।

" यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः "

इति श्रुतिरपि इममेवार्थं स्फुटं प्रतिपादयति ।

अत्र स्वरशब्दस्य एष उ स्वर:' इति छान्दोग्योपनिषदनुसारेण ओंकार एवार्थः । तथा च यः स्वरः = ओंकारः वेदादौ प्रोक्त : वेदान्ते च = ब्रह्मसूत्रे तु प्रतिष्ठित इति योजना । ओंकारस्य वेदादौ प्रोक्तत्वं वेदान्तसूत्रे च प्रतिष्ठितत्वमिति विशेषोऽनेन श्रुतिवाक्येन ज्ञाप्यते । तत्र तुशब्दसमानार्थक ''- शब्देन सूचितो विशेषः प्रतिष्ठित इत्यनेन विशदीकृतः । प्रत्युपसर्गपूर्वकष्ठाधातुना ओंकारस्य घटकावयवत्वबोधनात् ।

इदमत्रावधेयम् तदवयवत्वं चात्र तत्प्रयोज्यकार्यप्रयोजकत्वम् । कार्यं च दृष्टादृष्टभेदेन द्विविधम् । लौकिकवाक्यतदवयवानां कार्यं दृष्टमात्रं, हुंफडादीनां कार्यमदृष्टमात्रं, ब्रह्मसूत्रतदवयवानां कार्यं तु दृष्टादृष्टोभयम् । ब्रह्मसूत्रेष्वपि प्रथमसूत्रे ' कर्तव्ये ' तिपदस्य दृष्टमात्रं प्रथमसूत्रान्त्यस्य द्वितीयादिसूत्राद्यन्तयोरुच्चार्य- माणस्य च ओंकारस्यादृष्टमात्रम् । अत एव 'कर्तव्ये ' ति पदस्य प्रथमोंकार- भिन्नोंकाराणां च ब्रह्मसूत्राघटकावयवत्वम्, ओंकारस्य तु सूत्रप्रयोज्यदृष्टादृष्टो- भयकार्यप्रयोजकत्वात् घटकावयवत्वम् । तथा च सूत्रावयवः सूत्रघटका घटक- भेदेन द्विविध इति ज्ञेयम् । तथा चेदमेव घटकावयवत्वं प्रथमोंकारस्य 'वेदान्ते च प्रतिष्ठित ' इत्यनेनोच्यते । इदं च व्याख्यानमुपदर्शितगीतानुसारि ज्ञेयम् ।

ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।

स्त्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यते ।।

इति मनुस्मृत्यनुसारि व्याख्यान्तरमप्यत्रानुसन्धेयम् ।

"विन्दन्त्यनेन परमात्मानमिति वेदशब्दोऽपि परमात्मप्रतिपादकमेव ग्रन्थमाचष्टे " इति ( ऐ० आ० दीपिकायां) विद्यारण्योक्तेः वेदशब्दः परमात्मप्रतिपादकग्रन्थपरः । तथा च पौरुषेया अपौरुषेयाश्च सर्वेऽपि वैष्णवशास्त्रग्रन्थाः वेदशब्देन गृहीताः । तथा च यः स्वरः ओंकारः वेदादौ वैष्णवशास्त्रादौ वेदान्ते वैष्णवशास्त्रान्ते च प्रतिष्ठित इत्यर्थः इत्यं च मनुस्मृतिगतब्रह्मशब्दोऽपि परमात्मप्रतिपादकशब्दराशिपरो ज्ञेयः ।

केचित्तु " वेदशब्दस्य ब्रह्मविद्याऽर्थः सा च प्राधान्यात् ब्रह्ममीमांसारूपा परविद्यैव ग्राह्या । तथा च यः स्वरः वेदादौ = परविद्यादौ प्रोक्तः घटकावयवत्वरूप-विशेषविशिष्टोच्चारणविषयतावान्, वेदान्ते प्रतिष्ठितः अध्याहृतः । चकारात्, द्वितीयसूत्राद्यन्तयोश्च प्रतिष्ठित अध्याहृत;" इति श्रुत्यर्थं संवर्णयन्ति । अपरे तु " वेदादिशब्देन बहुवीहिणा वेदघटित निर्णेयप्रन्यसमुदायोऽभिधीयते वेदान्तशब्देन निर्णायकब्रह्मसूत्राणि प्रतिपाद्यन्ते । तेन निर्णेयग्रन्थारम्भे निर्णायकग्रन्थारम्भे च ओंकार आवश्यक इत्यर्थ " इत्याद्दुः । एतेन-

" प्रणवाद्यास्तथा वेदा: प्रणवे पर्यवस्थिताः ।

वाङ्मयं प्रणवं सवं तस्मात्प्रणवमभ्यसेत् ॥

ओंकारः स्वर्गद्वारं तस्माद्वह्माध्येष्यमाण एतनादि प्रतिपद्येत " इत्यादिस्मृतिबलाद्विष्णुसहस्रनाम्नामोंकारपूर्वकत्वसमर्थनाय " विश्वशब्देन ओंकारोऽभिधोयते, वाच्यवाचकयोरत्यन्तभेदाभावा " दित्यादिना विश्वशब्दोंकारयोरैक्यविवक्षणमपि संगच्छते शंकराचार्याणां विष्णुसहस्रनामभाष्ये । स्मृतिघटकब्रह्मशब्दस्यापौरुषेयवेदमात्रपरत्वे विष्णुसहननाम्नामपौरुषेयवेदभिन्नतया तेषामोंकारपूर्वकत्वे ब्रह्मशब्दघाटितस्मृत्युदाहरणासंगत्यापत्तेः । इत्थं च विष्णुसहस्रनाम्नामिव ब्रह्मसूत्राणामपि ब्रह्मविद्यात्वेन तस्माद्ब्रह्माध्येष्यमाण ' इति स्मृतिबलेनोंकारपूर्वकत्वं शंकराचार्याभिप्रेतमेवेति सिद्धवत्कृत्य, अथशब्दघटितत्वे—

" ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।

कण्ठं भित्त्वा विनिर्यातौ तस्मात्माङ्गलिकाथुमौ "

इति प्रमाणादाहरणं च भामतीकाराणां संगच्छते ।

अत्र ओंकारस्य 'ओंकारस्स्वर्गद्वारं ' 'स्रवत्यनोकृतं ब्रह्मेत्यादिप्रमाण बलान्माङ्गलिकत्वस्य प्रसिद्धत्वात्तस्यास्मिन्वाक्ये माङ्गलिकत्वकथनं दृष्टान्तार्थम् । इत्थं च यथा ओंकारो माङ्गलिकः तथाऽथशब्दोऽपि माङ्गलिक इति 'ओंकार- रचाथशब्दरचे ' ति वाक्यस्यार्थं इति विज्ञेयम् ।

वस्तुतस्तुओंकारश्चाथशन्दश्च द्वावेतौ ब्रह्मणः पुराकण्ठं भित्वाविनिर्यातौ-"तस्मान्माङगलिकावुभौ " इति 'बृहन्नारदीय' श्लोके पादत्रयेण हेतुस्वरूपं विवृतम् । चतुर्थपादेन चानुमानं सूचितम् । तत्र तच्छन्दस्य पूर्व- परामर्शकत्वेन शब्दान्तरनिर्गमनपूर्वकालीनब्रह्म कण्ठनिर्गमनकर्तृत्वं तदा बोध्यते । ङसिप्रत्ययेन च तस्य ज्ञापकत्वरूपं हेतुत्वं प्रतिपाद्यते । माङ्गलिकावित्यनेन मङ्गलप्रयोजनकत्वरूपं साध्यं सूचितम् । पक्षनिर्देशस्तु 'द्वौ -- एतौ उभौ ' इति त्रेधा कृतः । तत्र हेतुविवरणपरवाक्ये ' एतौ द्वौ ' इति प्रतिज्ञावाक्ये ' एतौ ' इत्यनुवृत्य ' एतौ उभौ माङ्गलिकौ ' इति योजनया ओंकाराथशब्दोभयं मङ्गल- प्रयोजकमिति प्रतिज्ञाशरीरं सम्पत्स्यते ।

अत्रोभयत्वस्य पक्षतावच्छेदकत्वं पर्याप्त्यैव, न तु स्वरूपसंबन्धमात्रेण, उभयपदवैयर्थ्यात् । तत्र एतौ इत्येतावता पक्षनिर्देशसंभवे द्वाविति उभाविति च पक्षनिर्देशन ओंकाराथशब्दयोर्मङ्गलप्रयोजकत्वं न तृणारणिमणिन्यायेन, किं तु दम्पत्योरिव परस्परसाहित्येनैवेति ज्ञायते । तेन च दण्डः घटकारणमित्युक्ते दण्डत्वस्य घटकारणतावच्छेदकतालाभवत्, ओमथशब्दौ उभौ मङ्गलप्रयोजकावित्युक्ते उभयत्वस्यापि मङ्गलप्रयोजकतावच्छेदकत्वसिद्धया मङ्गलनिरूपितोभयत्वावच्छिन्नप्रयोजकतावन्ताविति साध्यनिष्कर्षः । तथा च अग्नीषोमयोर्मिलितयोरेव यागविशे- पदेवतात्ववत् औमथशब्दयोः मिलितयोरेव मङ्गलप्रयोजकत्वम्; न केवलाथशब्दस्य न वा केवलोंकारस्येति ज्ञायते ।

न चैवं क्वचिदोंकारस्य केवलस्यापि माङ्गलिकत्वदर्शनादयुक्त मिदमिति वाच्यम् । केवलोंकारस्य मङ्गलप्रयोजकत्वसंभवेऽपि ब्रह्मसूत्राध्ययनप्रतिबन्धक- विघ्ननिवर्तकमङ्गलनिरूपितोभयत्वावच्छिन्नप्रयोजकत्वरूपस्यैवात्र माङ्गलिकत्वस्य विवक्षितत्वेन तस्य तत्राभावात् ।

ततश्चायमर्थः तत्तत्कार्यप्रतिबन्धकविघ्नपरिहारार्थकमङ्गलस्य कार्यारम्भ एव कर्तव्यत्वात्, ओमथशब्द यो रुपदर्शितमाङ्गलिकत्वात्, ब्रह्मसूत्र घटक-प्रथमद्वितीयावयवत्वमेव वक्तव्यमित्यभिप्रेत्य पुराणकृता भगवता सूत्रकृता बादरायणेन गारुडपुराणे-

ओंकारश्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमात् ॥

तद्धेतुत्वं वदंश्चापि तृतीयोत उदाहृतः

अतश्च पूर्वमुच्चार्याः सर्व एते सतां मताः "

इति वाक्येन विष्णोः सकाशात्प्रथमनिःसृतत्वरूपहेतोः परमसाध्यं प्राथ-मिकत्वं साध्यतया निर्दिष्टम् । तत्र साक्षात्साध्यं तु बृहन्नारदीयवचनानुसारेण माङ्गलिकत्वमेवेति वचनद्वयानुसन्धानेन लभ्यते । प्राथमिकत्वं च ब्रह्मसूत्रघटकप्रथम द्वितीयावयवत्वं तृतीयावयवभूतातः शब्दपूर्वावयवत्वं वेत्यन्यदेतदिति ।

सति चैवम् 'अ. सुधा ' तु " ओंकारश्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमात् " इति गारुडपुराणपाठे सुप्रसिद्धेऽपि तत्स्थाने " ओंकारश्चाथशब्दश्च तस्मान्माङ्गलिकं क्रमात् इत्यपपाठं प्रकल्पयन्ती; असति बाधके विशेष्य- विशेषणवाचकपदयोस्समान-लिङ्गवचनकत्वनियमस्य विरोधं न मनागपि गणयति; न वा ओंकारस्य प्रथमपदत्वं विना 'तृतीयोत उदाहृत' इति वाक्योप-दर्शितस्य अतः शब्दतृतीयत्वस्यानुपपत्तिमपि गणयति । तेन च स्वप्रणेतुः वञ्चनाभिनिवेशमचातुर्यातिशयं च समर्थयति ।

अत्र सूत्राणां संहितापाठकाले ' ओमथातो ब्रह्मजिज्ञासे' ति सूत्रपाठं विहाय ' ओम् अथातो ब्रह्मजिज्ञासा' इति ओंकारस्यासंहिततया निर्देशकरणात् न सूत्रावयवत्वमिति तु न शक्यम् ' नाधिकार स्वरिते ' इति नियमानुसारेण यथा व्याकरणशास्त्रे केषांचित् पदानामुत्तरसूत्रेष्वनुवृत्तिज्ञापनार्थं स्वरितयुक्ततया निर्देशः क्रियते ; शब्दस्वरूपमात्रार्थकतया पृथङ निर्देशो वा क्रियते; तथा ब्रह्ममीमांसाशास्त्रे उत्तरत्रानुवृत्यर्थम् ओंकारस्य पृथइनिर्देश-करणमुपपद्यते । ओंकारस्यप्रतिपाद्यता संबन्धेन सर्वेश्वरे विष्ण्वाख्येब्रह्मण्यन्वयान्ना-नुपपत्तिरिति ब्रह्मसूत्राणामोमथपूर्वकत्वसिद्धिः ।