संविन्मात्रस्य अधिष्ठानत्वाभावसमर्थनम्

संविन्मात्रस्याधिष्ठानत्वाभावसमर्थनम्

संविन्मात्रस्य अधिष्ठानत्वाभावसमर्थनम्

यच्चोक्तम्--"शरीरेन्द्रियादीनां तद्धर्मस्यचोभयस्यापि संविन्मात्रे अधिष्ठाने आरोप "इति तदप्ययुक्तम् । मात्रशब्देन कार्त्स्यविवक्षायां संविन्नानात्वापातः । अवधारणविवक्षायां संविदितरत्र नाधिष्ठानत्वमिति वक्तव्यम् । तच्च न सम्भवति शुक्त्यादेरधिष्ठानत्वाभावप्रसङ्गात् । संविन्मात्रस्य निर्धर्मकत्वेन तत्राधिष्ठानत्वधर्मस्यायोगात्, अधिष्ठानस्वव्यापकानां सामान्यधर्मप्रकारकज्ञानविषयत्नस्यविशेषधर्मप्रकारकाज्ञानविषयत्त्वस्य आरो प्यमाणप्रतियोगिकसादृश्यादीनांचाभावेन व्याप्यस्य अधिष्ठानत्वस्याप्यसम्भवात् ।

किञ्चाधिष्ठानत्वं भ्रमविशेष्यत्वं भ्रमकारणाविद्याविषयत्वं वा वक्तव्यम् । त्वन्मते तद्विषयत्वस्य तदध्यस्तत्वातिरिक्तस्य निराकृतत्वेन ब्रह्मणः संविन्मात्रस्य भ्रमाध्यस्तत्वं अविद्याध्यस्तत्वं च भ्रमाधिष्ठानकारोपत्रकारत्वं एवमेवाविआध्यस्तत्वम् । तथा च भ्रमाविद्यवोरथिष्ठानत्वेन अवधारणानुपपत्तिः । संविदः अध्यस्तत्वेन मिथ्यात्वापत्तिः अविद्यायाः भ्रमस्य चाधिष्ठानत्त्वेन सत्यत्वापत्तिश्च स्यात् । किञ्च शरीरं संविन्न मम शरीरन् इत्यादिभेदप्रत्यक्षस्य जागरूकतया शरीरादीनां संविदि अध्यासाऽसम्भवात् ।

किन्तु अन्तर्यामिब्राह्मणरूपशास्त्रेण शरीरेन्द्रियादीनामीश्वराधीनत्वसमर्थनात् । सत्यभूतशरीरविशेष्यकेश्वरानधनित्वप्रकारक एवारोपः मम देह इत्यादि रूपः । ममेति षष्ठ्याः मदितरानाधीनत्वविशिष्टमदधीनत्वतात्पर्यकतया मम देह "इत्यादिव्यवहारप्रयोजकत्त्वस्य उक्तारोप एव सम्भवात् । तत्र यः तत्त्वज्ञानिनां षष्ठ्याः ईश्वराधीनत्वविशिष्टमदधीनत्वतात्पर्येण मम देह इत्यादिव्यवहारः स तु प्रमामूलक एवेति व्यवस्था बोध्या ।

। इति संविन्मात्रस्य देहेन्द्रियाद्यारोपाधिष्ठानत्वनिरासः ।