अद्वैतमते जीवन्मुक्त्यनुपपत्तिः
अद्वैतमते जीवन्मुक्त्यनुपपत्तिसमर्थनम्
अद्वैतमते जीवन्मुक्त्यनुपपत्तिः
अद्वैतमते अज्ञानस्यानादित्वेन अज्ञानस्य तत्वज्ञानेन नाशेऽपि तल्लेशोऽनुवर्तते इति कथनमयुक्तम् । ननु लेशो नाम नाऽवयवः किन्तु आकारमात्रम् । आकारिनिवृत्तावप्याकारस्यानुवृत्तिः व्यक्तिनिवृत्तावपि जातेरिव युक्तेति चेन्न व्यक्त्यतिरिक्तजातिवादे व्यक्तिनिवृत्तावपि जात्यनुवृत्तिसम्भवेऽपि आकाराकारिणोरभेदवादे आकारिनिवृत्तावाकारस्याऽनुवृत्त्ययोगात् ।
अपि च " तत्त्वमस्यादिवाक्योत्यसम्यग्धीजन्ममात्रतः । अविद्यासहकार्येण नासीदस्ति भविष्यति” इति त्वदाचार्यवचनेन तत्त्वज्ञानोत्पत्तिमात्रेणैव सविलासाया अविद्याया अभावकथनात् तत्त्वज्ञानानन्तरमपि अविद्यायास्तदाकारस्य तत्छतेस्तल्लेशस्य तत्कार्यस्य कस्याप्यनुवृत्ययोगेन जीवन्मुक्त्यनुपपत्तिरपरिहार्यैव । एतेन बाधितानुवृत्त्या विक्षेपशक्तिमात्रेणाज्ञानस्यैवानुवृत्त्या जीवन्मुक्त्युपपत्ति " रिति निरस्तम् । बाधितस्यानुवृत्तिवार्तायाः व्याहतत्वात् । तथात्वे अनिर्मोक्षप्रसङ्गात् तत्त्वसाक्षात्कारेण अज्ञानस्येव तच्छक्तीनामपि नाशेन विक्षेपशक्तिमात्रेणाज्ञानानुवृत्ति कथनस्यानौचित्यात् ।
। इति अद्वैतमते जीवन्मुक्त्यनुपपत्तिसमर्थनम् ।
एतावता प्रबन्धेन द्वैतमतप्रक्रियाविरुद्धत्वेन अ. सुधोत्प्रेक्षिता अद्वैतमतप्रक्रियाः निराकृताः । द्वैतमतप्रक्रियाश्च अ. सुधया यथावदनूदिताः समर्थिताः । याश्चासुधयाऽन्यथानूदितास्ताअपि अन्यथाऽनुवाददूषणपूर्वकं यथावदुपदर्शनपूर्वकं समर्थिताः। मन्यामहे चैतावतैवाद्वैततत्त्वसुधा परितुष्टा स्यादिति । अथेतः परं जिज्ञासुजनमनस्तोषणार्थं श्रीमत्सत्यध्यानतीर्थगुरुपादोपदर्शितदिशा श्रुतिगीतासूत्राणां जीवेश्वरभेदपरत्वमेव नाभदेपरत्वमिति समर्थयामः । तत्र तत्र अ. सुधायाः तदुपदर्शितदूषणैरेव दूषितत्वं च प्रदर्शयामः ।
॥ इति प्रक्रियाभागविचारः ॥