प्रकृत्यधिकरणस्य ब्रह्मणः विवर्तोपादानकारणतापरत्वनिरासपूर्वकं विश्वकर्तृत्वपरत्व समर्थनम्
प्रकृत्यधिकरणस्य ब्रह्मणः विवर्तोपादानकारणतापरत्वनिरासपूर्वकं विश्वकर्तृत्वपरत्व समर्थनम्
प्रकृतिश्चेत्यादिपंचसूत्रात्मकमिदमधिकरणं ब्रह्मण उपादानकारणतां निमित्तकारणतां च बोधयितुं प्रवृत्तमित्याचक्षते शङ्कराचार्याः तद्याख्यानं प्रथमतः सङ्ग्रहेण अनूद्य तस्यायुक्तता प्रदर्श्यते पश्चात् ।
ॐप्रकृतिश्च प्रतिज्ञादृष्टांतानुपरोधात् ॐ
ब्रह्म न केवलं जगतो निमित्तकारणं प्रकृतिश्च उपादानकारणं च, कुतः प्रतिज्ञादृष्टान्तानुपरोधात् । उत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं " ( छां. ६-१-२) इति प्रतिज्ञया परमात्मज्ञानेन सर्वविज्ञानं बोध्यते । तच्च ब्रह्मविज्ञानेन सर्वविज्ञानं ब्रह्मणः सर्वभेद एव सञ्जाघटीति । ब्रह्मणः सर्वाभेदश्च उपादानकारणत्व एव घटत इति प्रतिज्ञा ब्रह्मण उपादानकारणत्वं गमयति ।
तथा दृष्टान्तोऽपि ' यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्युपादानकारणगोचर एवाम्नायते, तथा एकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् । एकेन नखनिकृन्तनेन सर्वं कार्य्यायसं विज्ञातं स्यात् इति च ।
तथान्यत्रापि " कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति " ( मुं. १-१-२ ) इति प्रतिज्ञा । (मुं. १-३-७ ) इति दृष्टांतः । तथा इदं सर्वं विदितं " इति प्रतिज्ञा । यथा पृथिव्यामोषधयः संभवन्ति ” " आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते स यथा दुंदुभेर्हन्यमानस्य न बाह्यांञ्छब्दान् शक्नुयादग्रहणाय दुंदुभेस्तु ग्रहणेन दुंदुभ्याघातस्य वा शब्दो गृहीतः । (बृ. ४-५ - ६ - ८ ) इति दृष्टान्तः। एवं यथासंभवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ ।
यत इतीयं पञ्चमी, “ यतो वा इमानि भूतानि जायन्ते " इत्यत्र जानिकर्तुः प्रकृति: ( पा. सू. १- ४-- ३० ) इति विशेषस्मरणात् प्रकृतिलक्षणे एवापादाने द्रष्टव्या इति यव्द्याख्यातं तत्तुच्छम् ।
" येनाश्रुतं श्रुतं भवती " ति प्रतिज्ञावाक्यं, ब्रह्मज्ञानेन सर्वज्ञानं भवतीति बोधयतीति शङ्कराचार्यैरेवव्याख्यातत्वेन प्रत्युत सर्वजगज्ज्ञानस्य ब्रह्मज्ञानं फलमिति विपरीततया व्याख्यातत्वेन च ब्रह्मज्ञानेन जगज्ज्ञानस्यानया प्रतिज्ञया अबोधनात्, प्रत्युत जगज्ज्ञानेनैव ब्रह्मज्ञानं ( फलरूपम्) भवतीतिबोधनात् ।
" निर्विकारोऽक्षरश्शुद्ध " इति श्रुत्या ब्रह्मणो निर्विकारत्वावगमेन जगत्प्रति परिणाम्युपादानत्त्वासंभवात् विवर्तोपादानत्वे ब्रह्मज्ञाने सर्वज्ञानासंभवाच्च । भ्रमाधिष्ठानत्वरूपविवर्तोपादानतायाः ब्रह्मणोऽसंभवाच्च । भ्रमाधिष्ठाने उपादानत्वव्यवहारस्य कैरपि शास्त्रकृद्भिरकृतत्वेन त्वत्कृतायाः भ्रमाधिष्ठाने उपादानत्व-परिभाषायाः वेदार्थनिरूपणे कारणत्वायोगात् ।
उक्तं हि शङ्कराचार्यैः-" या तु प्रधानवादिनां रूढिः सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते " इति ( ब्र. सू. शा भा. १-४--१)
ब्रह्मज्ञानेन सर्वज्ञानं भवतीति व्याख्याने श्रुतिपदानामस्वारस्याच्च । येनाश्रुतं श्रुतं भवतीति प्रतिज्ञावाक्यस्य ब्रह्मज्ञानेन सर्वज्ञानाबोधकत्वेन ब्रह्मण उपादानत्वाबोधकत्वात् । तथा हि-
येनाश्रुतं श्रुतं भवत्यमतंमतमविज्ञातं विज्ञातम् " इत्युपनिषदः शांकरभाष्यम्–“ तमादेशं विशिनष्टि, येनादेशेन श्रुतेनाश्रुतमप्यन्यच्छ्रुतं भवत्यमतंमतमतर्कितं तर्कितं भवत्यविज्ञातं विज्ञातमनिश्चितं निश्चितं भवतीति सर्वानपि वेदानधीत्य सर्वं चान्यद्वेद्यमधिगम्याप्यकृतार्थः एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यत" इति ।
आनन्दगिरिव्याख्या-" किमित्यधीत्य सर्वं वेदं अधिगततदर्थं च पुत्रं आत्मविद्यामधिकृत्य पिता पृच्छति, तस्य सर्ववेदाध्ययनादिनैव कृतार्थत्वादित्याशङ्क्याह सर्वानपीति ” इति ।
एतच्छांकरभाष्यानन्दगिरिव्याख्यानाभ्यां इत्थमवगम्यते सर्ववेदाध्ययने कृतेऽपि तथा सर्वं चान्यद्वेद्यमधिगम्यापि (परमात्मभिन्नस्य सर्वस्य जगतः ज्ञानेऽपि ) परमात्मज्ञानाभावे अकृतार्थ एव भवति, स्वेन यत्कर्तव्यं तस्याकर्तेव भवति इति परमात्मभिन्नजगज्ज्ञानस्य परमात्मज्ञानमेव फलं, न तु परमात्मज्ञानेन जगज्ज्ञानं भवतीति, सर्वं चान्यद्वेद्यमिति जगतः ब्रह्मणाभेदश्च उक्तो भवति इति नेयं प्रतिज्ञा ब्रह्मविज्ञानेन जगज्ज्ञानबोधनद्वारा ब्रह्मजगतोरभेदं बोधयन्ती सती उपादानकारणत्वं ज्ञापयतीति ।
विवर्तोपादनत्वपक्षे ब्रह्मज्ञानेन सर्वज्ञानासंभवश्च । तथा हि-यथा शुक्त्यज्ञानेन शुक्तौ कल्पितं [अध्यस्तं ] रजतं यावत्कालं शुक्त्यज्ञानं तिष्ठति तावत्पर्यन्तं भासते-ज्ञातायां शुक्तौ शुक्त्यज्ञानं नश्यति, अज्ञानकल्पितं रजतं च नश्यति रजतज्ञानं च नश्यति अधिष्ठानज्ञानेऽध्यस्तनिवृत्तेर्नियतत्वात् । तथा अद्वैतिमते 'ब्रह्मज्ञानेन जगतः ब्रह्मणि कल्पितत्वेन यावत्कालं ब्रह्माज्ञानं तिष्ठति तावज्जगद्भासते । जाते च ब्रह्मज्ञाने ब्रह्माज्ञानं, तत्कल्पितं जगत्, जगज्ज्ञानं च नश्यत्येव, उपादाननाशे, उपादेयनाशस्यावश्यकत्वात् । तथा चाद्वैतिमतरीत्या ब्रह्मणि ज्ञाते ब्रह्माज्ञान- कल्पितस्य जगतः निवृत्तिरेव न तु स्थितिः । तथा तज्ज्ञानस्यापीति ब्रह्मज्ञानेन जगज्ञानं भवतीति कथनमनुपपन्नम् । तथा च-' येनाश्रुतं श्रुतं भवतीति प्रतिज्ञावाक्यं कथमनुपपन्नमर्थं बोधयेदिति ।
उक्तं च शङ्करादिभिरद्वैतिभिः-
अथवा हेत्वर्थ उत्तरार्धो विज्ञातमित्यादिः” (के. शां. भा. २ -११-३) ( आनन्द . ) अथवा हेत्वर्थ इति लोके शुक्यादितत्त्वं विजानतां यतोऽध्यस्तं रूप्यादि अविज्ञातं भवति, अजानतामेव तु अभ्यस्तं विज्ञातं भवति इति प्रसिद्धं, तथा ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्वादेव तत्त्वविदो न ज्ञातं ब्रह्म पश्यन्तीत्यर्थ: " इति ( ११-३ ) केनोपनिषद्भाष्ये तट्टिप्पण्यां च अध्यस्तपदार्थज्ञानं अधिष्ठानाज्ञानदशायामेव, ज्ञाते त्वधिष्ठानेऽव्यस्तज्ञानं न भवति इति ।
अद्वैतमतरीत्या निर्धर्मके अद्वितीये ब्रह्मणि अधिष्ठानत्वं भ्रान्तत्त्वं च न संभवतः, भ्रमकारणानां सामान्यधर्मविशेषधर्मारोप्यजगत्सादृश्यानां सामान्यधर्म-सादृश्यज्ञानानां विशेषधर्माज्ञानादीनां च असंभवात् ।
उक्तं च भामतीकारै:-"परमार्थस्तु न विभ्रमो नाम कश्चित्, न च संसारो नाम किन्तु सर्वमेतत् सर्वानुपपत्ति ( ब्रह्मणि भ्रमासंभवे वाद्युक्तसर्वानुपपत्ति) भाजनत्वेन अनिर्वचनीयं ( भ्रमः कथं जायते इति वक्तुमशक्यं ) इति युक्तमुत्पश्यामः । तदनेनाभिसंधिनोक्तं [ शङ्कराचार्येण ] ' यद्येवं प्रतिबुद्धोऽसि नास्ति कस्यचिदप्रबोधः ' [ ब्र. सू. शा. ४-१-३ ] इति ।
येनाश्रुतं श्रुतं भवतीत्यस्य ब्रह्मज्ञानेन सर्वजगज्ज्ञानं भवतीति व्याख्याने श्रुतिपदास्वारस्यं च । तथा हि-यदा ब्रह्मजगतोरुपादानोपादेयभावेनाभेदः श्रुत्यभिप्रेतः स्यात्तदा ब्रह्मणः श्रवणे मनने विज्ञाने तदभिन्नजगतः श्रुतत्वस्य मतत्वस्य विज्ञातत्वस्यैव प्राप्त्या अश्रुतममतमविज्ञातं इति जगतः अश्रुतत्वादिबोधकपदानामसंगतत्वप्राप्तेः। न च " यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात्, यथा सोम्यैकेन नखनिकृन्तनेन सर्वं काययसं विज्ञातं स्यात् ' इति दृष्टान्ता उपादानोपादेयभाववद्वस्तु-बोधका इति दाष्टन्तिकेऽपि ब्रह्मजगतोरुपादानोपादेयभावः अंगीकरणीय " इति वाच्यम् । यतो दृष्टान्तेषु श्रुतानां मृत्पिण्डलोहह्मणिनखनिकृन्तनानामपि घटादिवत् मृदादिकार्यत्वेन घटादीन् प्रत्युपादानत्वाभावात् न तेषां दृष्टान्तवाक्यानामुपादानोपादेयभाववद्वस्तुविषयकतेति, न तद्वाक्यबलेन येनाश्रुतं श्रुतं भवतीति वाक्यं ब्रह्मजगतो रुपादानोपादेयभावबोधकम् ।
एकनखनिकृन्तनज्ञानेन सर्वकार्ष्ण्यायसानां एकमृत्पिण्डज्ञानेन मृण्मयादिसर्वपदार्थानां ज्ञानानुभवाभावेन शंकरभाष्परीत्या मृदादिषु घटादीनां अध्यस्तत्वांगीकारेण च मृदादीनां घटादीन् प्रति परिणाम्युपादानत्वाभावात् विवर्तोपादानत्वे शुक्तिज्ञानेन रजतस्य रजतज्ञानस्य निवृत्तिवत् मृज्ज्ञानेन घटादिज्ञानस्यनिवृत्तेः-मृदादिज्ञानेन घटादिज्ञानं भवतीति [ पूर्वोक्तरीत्या ) वक्तुमशक्यत्वाच्च । तद्दृष्टान्तानुसारेण ब्रह्मज्ञानेन सर्वजगज्ज्ञानं भवतीति वक्तुमशक्यत्वाच्च । एतेन ( येनाश्रुतं श्रुतं भवतीति प्रतिज्ञायाः यथा सोम्यैकेन नखनिकृन्तनेनेत्यादि दृष्टान्तस्य चोपादानोपादेयत्ववद्वस्तुबोधकत्वाभावकथनादिना ) कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इत्यादिप्रतिज्ञा उपादानोपादेयभाववद्वस्तुबोधिका इति निरस्तम् ।
तथा च प्रतिज्ञादृष्टान्तयोः ब्रह्मणो जगदुपादानत्वज्ञापकत्वाभावेन प्रतिज्ञादृष्टान्तवाक्यमवलंब्य ब्रह्म प्रकृतिश्च = उपादानकारणं चेति साधनमयुक्तम् ।
यदप्युक्तम् " यतो वा इमानि भूतानि जायन्ते ” इति श्रुतिघटकं यत इति पदं पंचम्यन्तं-पंचमी च ' जनिकर्तुः प्रकृति' रिति (पा. सू. १.३-३० ) पाणिनिसूत्रेण प्रकृति ( उपादान) लक्षणापादाने दृष्टेति यत इति पंचम्या ब्रह्मण उपादानत्वसिद्धिरिति तदप्ययुक्तम् । जनिकर्तुः प्रकृतिरिति सूत्रस्थप्रकृतिपदस्योपादानार्थकत्वाभावात् । तथा हि- पुत्रात् प्रमोदो जायते इत्यादौ अनुपादानेऽपि पंचमीदर्शनात्--प्रकृतिपदं हेतुमात्रपरमित्युक्तं वृत्तौ । तथा जनिकर्तुः हेतुरित्येव शब्दलाघवादुच्यतामित्याशंक्य असति प्रकृतिग्रहणे, हेतुग्रहणे सति उपादानस्यैवापादानसंज्ञा स्यात् प्रत्यासत्तेः, नेतरस्य प्रकृतिग्रहणात् । प्रक्रियते कार्यमनेनेति व्युत्पत्त्या कारणमात्रस्य भवतीति प्रकृतिपदं अनुपादानेऽपि अपादानसंज्ञासिध्यर्थमित्युक्तं न्यासे ।
तथा महाभाष्येऽपि-" अयमपि योगः ( जनिकर्तुः प्रकृतिरिति सूत्रं ) शक्योऽवक्तुम् । गोलोमाजलोमाविलोमभ्यो दूर्वा जायन्ते अपक्रामन्ति तास्तेभ्यः" इत्यादिना लोमादीनां दूर्वादीन् प्रत्यवधित्वात् ध्रुवमपायेऽपादानम् इत्यनेनैवापादानसंज्ञासिद्धेः इदं सूत्रमनारंभणीयमिति सूत्रं प्रत्याख्यातम् " इति ।
ततश्च भाष्यकारमते वृत्तिकारादिमते च ' जनिकर्तुः प्रकृतिरित्यनेन उपादाने एव पंचमीति न सिध्यतीति ।
न च पशुना यजेतेत्यादौ पशुपदस्य पशुमात्रवाचकत्वेऽपि छागस्य वपाया इति वाक्यशेषानुसारेण पशुविशेषपरत्ववत् यतो वा इमानि इति श्रुतिघटकपंचम्या ब्रह्मणः कारणत्वसामान्यबोधनेऽपि येनाश्रुतं श्रुतं भवतीत्यादिवाक्यविशेषबलेन पंचम्या उपादानकारणत्वसिद्धिरिति वाच्यम् । येनाश्रुतं श्रुतमित्यादिवाक्यानां उपादानकारणत्वबोधकत्वाभावस्य उपपादितत्वात् । ब्रह्मण उपादानकारणत्वबोधकानां अन्येषामभावात् ब्रह्मणो द्विविधोपादानकारणताया असंभवाच्च, यतो वेत्यत्र यत इति पदस्य सार्वविभक्तिक' तसि ' प्रत्ययान्तत्वेन कारणत्वाद्यर्थ-कतृतीयादिविभक्त्यन्तत्वस्यापि वक्तुं शक्यत्वेन पंचम्यन्तमेवेति निश्चेतुमशक्यत्वाच्च ।
एतेन 'आत्मन आकाशस्संभूतः इत्यादिश्रुतिभिर्ब्रह्मण उपादानत्वसिद्धिरित्यपि निरस्तम् ।
यदप्युक्तम्-" यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातनपेक्ष्य प्रवर्तते, नैवं ब्रह्मणः उपादानकारणस्य सतोऽन्योऽधिष्ठाताऽपेक्ष्योऽस्ति, प्रागुत्पत्तेरेकमेवाद्वितीयमित्यवधारणात् । अधिष्ठात्रंतराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यः । अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासंभवात् प्रतिज्ञादृष्टान्तोपरोध एव स्यात् । तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम् ” इति, तदप्येतेनैव निरस्तम् । प्रतिज्ञया एकविज्ञानेन सर्वंविज्ञानस्याबोधनेन असंभवेन च उपादानादन्यस्याधिष्ठातुः ( कर्तुः ) सत्त्वे बाधकाभावात् ।
ॐअभिध्योपदेशाच्च ॐ
“ अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गम्यति । सोऽकामयत बहु स्यां प्रजायेय " इति तदैक्षत बहुस्यां प्रजायेय ' इति च । तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते बहुस्यामिति प्रत्यगात्मविषयत्वात् बहुभवनाभिध्यानस्य प्रकृतिरिति गम्यते " इति शाङ्करव्याख्यानमयुक्तम् ।
अभिध्याशब्दस्य सृष्टिसङ्कल्प (सृष्टीच्छा) वाचकत्वेन अभिध्योपदेशादिति सूत्रस्य सृष्टीच्छाया उपदेशादित्यर्थकत्वप्राप्त्या ईश्वरस्य सृष्टीच्छावत्त्वोक्त्या कर्तृत्वमेव गमयेत् नतूपादानत्वमिति ब्रह्मण उपादानत्वविषये एतसूत्रस्य प्रमाणतया कथनायोगात् ।
'न च तदैक्षत' ' बहुस्या' मिति श्रुतौ सृष्टीच्छायाः आत्मबहुभवनविषयत्वेन आत्मन उपादानत्वं च सिध्यतीति वाच्यम् । अभिध्याशब्दस्य 'अभिध्या तु परस्य विषये स्पृहा' इति कोशपर्यालोचनया परकीयविषयकस्पृहा ( इच्छा )र्थकत्वेन स्वकीयबहुभवनेच्छायाः अभिध्याशब्दार्थत्वाभावेन बहु स्यामिति श्रुतेः अभिध्योपदेशादित्यतत्सूत्रगृहीतत्वासंभवेन नैतत्सूत्रं ब्रह्मण उपादानत्वबोधकं किन्तु कर्तृत्वबोधकमेवेति ।
न च मास्त्वमिध्याशब्दः स्वीयबहुभवनेच्छां न बोधयतीति ब्रह्मण उपादानत्वे प्रमाणं अभिध्योपदेशादिति सूत्रं, ' सोऽकामयत बहु स्यां प्रजायेय ' ( तै. ) “ तदैक्षत बहु स्यां प्रजायेय ' ( छ. ) इति वाक्ये आत्मब्रह्मविषयकबहुभवनेच्छां बोधयन्ती ब्रह्मण उपादानत्वे प्रमाणं भवितुमर्हतः इति वाच्यम् । विकल्पासहत्वात्-( विकल्पपूर्वकं दूषणे कृते संभावनानर्हत्वात्) तथा हि-
ब्रह्मण उच्यमानमुपादानत्वं किं परिणाम्युपादानत्वं किं वा विवर्तोपादानत्वं (भ्रमाधिष्ठानत्वं ) । परिणाम्युपादानत्वपक्षे ब्रह्म किं निर्गुणं सगुणं वा । तत्र निर्गुणं ब्रह्म परिणाम्युपादानमिति प्रथमपक्षस्य प्रथमपक्षो न. युक्तः । अद्वैतिभिः निर्गुणस्य ब्रह्मणो निर्विकारत्वाभ्युपगमेन परिणाम्युपादानत्वासंभवात्, निर्विशेषत्वाभ्युपगमेन बहुभवनेच्छाया अप्यसंभवात् । नापि सगुणं ब्रह्म परिणाम्युपादानमिति प्रथमपक्षे द्वितीयः पक्षः साधुः । अद्वैतमतरीत्या ' सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् तदैक्षत बहु स्यां प्रजायेय ' इति अद्वितीय ब्रह्मण: (निर्गुणब्रह्मणः ) एव बहुभवनेच्छाश्रवणात् । न हि एकमेवाद्वितीयमित्युक्तब्रह्मणः अद्वैतमतरीत्या सगुणत्वम् ।
किंच सगुणब्रह्मणः अज्ञानादिविशेषणविशिष्टविशेष्यरूपत्वेन तस्योपादानत्वं विशेष्ये वा विशेषणे वा उभयस्मिन् वा वक्तव्यम् । न तावद्विशेष्ये, उक्तरीत्या निर्विकारत्वेन उपादानत्वासंभवात् । नाप्युभयस्मिन्, एकस्मिन् विशेष्ये असंभाव्यमानस्य उपादानत्वस्य उभयत्रासंभवात् । विशेषणे अज्ञानादावेवेति वक्तव्यम् । तथा च न ब्रह्मणः उपादानत्वसिद्धिः किंच निरनिष्टो निरवद्य इति श्रुत्या अज्ञानादिदोषाभावेन ' असङ्गो ह्ययं पुरुष ' इति श्रुत्या असंगत्वेन च ब्रह्मणः अज्ञानादिदोषसंसर्गासंभवेन अज्ञानादि (दोष) विशिष्टं ब्रह्म सगुणं इति कथनमप्ययुक्तमेव ।
उपादानत्वं नाम विवर्तोपादानत्व ( भ्रमाधिष्ठानत्व) मिति पक्षेऽपि निर्गुणं ब्रह्म विर्वर्तोपादानं ( भ्रमाधिष्ठानं ) उत सगुणं ( अज्ञानादिदोषसंसृष्टं ) नाद्यः । भ्रमकारणानां (भ्रमजनकानां ) अधिष्ठाने शुक्त्यादौ दृष्टानां सामान्यधर्मविशेषधर्मारोप्यमाणवस्तुसादृश्यानां सामान्यतो ज्ञातत्वस्य विशेषतोऽज्ञातत्वादीनां च अद्वैतमतरीत्या निर्विशेषे स्वप्रकाशे ( इतरावेद्ये) ब्रह्मण्यभावेन भ्रमासंभवात् । स्वीकृतं च भामतीकारादिभिः ' परमार्थतो न भ्रमो नाम कश्चित् न संसारो नाम सर्वमेतत् सर्वानुपपत्तिभाजनत्वात् अनिर्वचनीयमिति युक्तमुत्पश्यामः इत्यादिना अनेकग्रन्थेषु ।
सगुणस्यापि विवर्तोपादानत्वं न संभवति । सगुणस्य कल्पितत्वेन ( अनेकदोषयुक्तत्वेन ) ' सोऽकामयत बहु स्यां प्रजायेय' इति श्रुतिरपि ब्रह्मणः परिणाम्युपादानत्वे वा विवर्तोपादानत्वे वा प्रमाणं भवितुं नार्हति । ' सोऽकामयत बहु स्याम् ' इति वाक्यं ब्रह्मणो जगद्रूपेण बहुभवनं कथयतीत्युक्तौ बहु स्यामित्यनेनैव बहुभवनेच्छासिद्धिः । प्रजायेयेतिपदस्य वैय्यर्थ्यापत्तेः ।
सिद्धान्ते तु इदं सर्वमसृजत यदिदं किंच तत्सृष्ट्रा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवदिति उत्तरश्रुतौ जगत् सृष्ट्वा, तत्र नियामकरूपेण ( चेष्टकरूपेण ) प्रविश्य बहुभवनस्य उक्तत्वेन ' बहु स्या' मिति नियामकबहुरूपेण भवनं संकल्प्य प्रजायेयेत्यनेन नियामक बहुरूपार्थं नियम्य प्रजाः प्रजायेय, सृजेय ' इति संकल्पपरतया 'बहु स्यां' प्रजायेय इत्यनयोः सार्थक्यं संभवतीति नेयं श्रुतिर्ब्रह्मणः जगदुपादानत्वं वक्ति ।
तथा च ' अभिध्योपदेशादिति सूत्रस्य तथा तत्सूत्रे उदाहृतयो: 'तदैक्षत बहु स्यां प्रजायेय ' 'सोऽकामयत ' इति श्रुत्योः ब्रह्मण उपादानत्वे प्रमाणतया शङ्कराचार्योदाहरणमयुक्तमिति स्थितम् ।
ॐसाक्षाच्चोभयाम्नानात्ॐ
यत्कारणं "सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यान्ति " ( छां. १-९।१ ) इति साक्षाद्ब्रह्मैव कारणमुपादाय प्रभवप्रलययोराम्नानात् ब्रह्मैवोपादानकारणं इति यद्व्याख्यानं शंकराचार्याणां तन्मन्दम् । शंकरभाष्यव्याख्यानरूपे ब्रह्मविद्याभरणे “ भूतले घटप्रलयेऽपि न भूतलं घटोपादानम् । न च यस्मात्प्रभवति" इति भूतलव्यावृत्तिः 'निमित्तकारणेऽपि चक्रादौ लयसंभवात् ' इति वाक्ये नाद्वैतिभिरेव प्रभवप्रलयाम्नानयोर्व्याभिचारेणोपादान- कारणत्वासाधकताया उक्तत्वात् । न च न हि वयं ब्रह्मणि प्रभवप्रलययोराम्नानमात्रेणोपादानत्वं ब्रूमः किंतु ' अन्तवद्वै किल ते शालावत्य सामे' ति उपक्रमात् । स एषोऽनन्त' इत्युपसंहाराच्चानन्त्यव्युत्पादनार्थं ' सर्वाणि ह वा इमानि ' इत्यादिवाक्यमाम्नायते । न चोपादानान्यत्वे ब्रह्मणः आनन्त्यं व्युत्पादयितुं शक्यं, आनन्त्यवाक्यैकवाक्यतापन्नतयैव प्रभवप्रलयाम्नानं ब्रह्मण उपादानत्वसाधकमिति वाच्यम् । 'साक्षाच्चोभयाम्नानात् ' इति सूत्रस्य उपादानत्वविषये उदाहरणायोगात् उपक्रमोपसंहाराभ्यां प्रतीतस्यानन्त्यस्योपादानतां विनाऽ नुपपत्त्यभावाच्च। तथा हि “महद्गुणत्वाद्यमनन्तमाहुः" इति स्मृत्यनुसारेण अनन्तपदस्य महागुणवत्त्वार्थकत्वेन गुणतः आनंत्यस्य न विद्यते अंतो नाशो यस्य इति व्युत्पत्त्या अनन्तशब्दस्य नाशाभाववदर्थकतया कालतः आनंत्यस्य, न विद्यते अंतः देशपरिच्छेदः यस्य इति व्युत्पत्या देशतः आनंत्यस्य च उपादानत्वं विनाऽनुपपत्त्यभावात् स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्य इत्यादिश्रुत्या आकाशस्यापि अनन्तत्वबोधनात् तस्यापि सर्वजगदुपादानतापत्तेश्च ।
ब्रह्मणः परिणाम्युपादानताया विवर्तोपादानतायाश्च प्रमाणविरुद्धत्वेनोभयाम्नानस्य तदाक्षेपकत्वासंभवाच्च । न ह्याक्षेपकं प्रमाणविरुद्धमाक्षिपति । ब्रह्मैव कारणमुपादाय प्रभवप्रलययोराम्नानात् ब्रह्मैवोपादानकारणमिति व्याख्याने साक्षादिति पदस्य वैय्यर्थ्यं च ।
न च आकाशादेवेति श्रौतावधारणोक्तापादानान्तराभावं साक्षात् इति सूत्रपदेन दर्शयति इति साक्षात्पदस्य सार्थक्यमिति वाच्यम् । साक्षात् इति पदेन एतावदर्थस्याबोधनात् । अद्वैतिमतेऽविद्यायाः उपादानत्वांगीकारेणोपादानांतरव्यावृत्तेः कर्तुमशक्यत्वाच्च । घटादीनामनुपादानभूते भूतले चक्रे च लयदर्शनात् प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्ट ' इति शाङ्करभाष्यन्त्वयुक्तमेव ।
ॐआत्मकृतेः परिणामात् ॐ
'इतश्च प्रकृतिः = उपादानकारणं ब्रह्म " तदात्मानं स्वयमकुरुत ” (तै. २-७) इत्यात्मनः कर्तृत्वकर्मत्वाभिधानात् कथं पूर्वसिद्धस्य सतः कर्तृत्वेन स्थितस्य क्रियमाणत्वमित्याशंकायां परिणामात् पूर्वसिद्धोऽपि परमात्मा विकारात्मना परिणमयामासात्मानं इति ।
अथवा परिणामादिति पृथक्सूत्रम् । ' सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च' इत्यादिना सामानाधिकरण्येन ब्रह्मण एव विकारात्मना परिणामः आम्नायतेऽतः ब्रह्म प्रकृतिः-उपादानमिति यव्द्याख्यानं ततुच्छम् । अस्यार्थस्य सर्वप्रमाणविरुद्धत्वात् ।
तथा हि-कथं पूर्वसिद्धस्य सतः कर्तृत्वेन स्थितस्य क्रियमाणत्वमित्याशंक्य परिणामात् पूर्वसिद्धोऽपि परमात्मा विकारात्मना परिणमयामास आत्मानमिति तत्तावदसंगतम् । परब्रह्मणो निर्विकारतायाः श्रुत्यादिसिद्धत्वेन विकारवत्त्वरूप- ...परिणामासंभवात् ।
न च ' तदात्मानं स्वयमकुरुत' इति वाक्ये श्रूयमाणः परिणामरूपो विकारो मिथ्येति न विकाररूपपरिणामबोधकश्रुतेः निर्विकारश्रुतिविरोध इति वाच्यम् । इष्टापत्तेः । यतो मिथ्येत्यस्य त्रिकालेऽपि नास्तीत्यर्थकत्वेन ब्रह्मणो विकारित्वरूपपरिणामवत्त्वं नास्तीत्येवोक्तं स्यात् । तथा चास्मदिष्टसिद्धिः । अस्याःश्रुतेः ब्रह्मणो मिथ्याभूत ( अविद्यमान ) परिणामबोधकत्वांगीकारे श्रुतेरप्रामाण्यापत्तेश्च । न चाप्रामाण्यं वेदस्य, वैदिकम्मन्येन वक्तुं शक्यम् । अतो नेयं श्रुतिः परिणामबोधिका ।
ननु तस्याः श्रुतेः कोऽर्थ इति चेत्, ' जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ' ( गी. ४-९) ' यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तादात्मानं सृजाम्यहम् । ' ( गी. ४-७ ) इत्याद्युक्तरीत्या "स्वयमविकारः सन्नेव स्वसृष्टजगन्नियामकान्तर्यामिरूपेण स्वस्य बहुभावोपपत्तेः । 'यदेकमव्यक्तमनन्तरूप ' मिति श्रुतौ एकस्यैवानन्तरूपतायाः श्रवणात् । तस्मात् ( अद्वैतिभिरेवोपादानकारणतायाः मिथ्यात्वबोधनात् विवर्तोपादानताया अकथनात् ) नेदं सूत्रं ब्रह्मण उपादानत्वबोधकम् । ब्रह्मं विवर्तोपादानमिति अस्मिन् सूत्रे कथ्यते इति शंकायाः न प्रसरः, स्पष्टं परिणामादिति परिणामवाचकपदस्य श्रवणात् ।
यच्चोक्तं परिणामादिति सूत्रं पृथक्कृत्य “ सच्च त्यच्चाभवत् " ' निरुक्तं चानिरुक्तं च ' ( तै. २-६ ) इत्यादिना ब्रह्मण एव विकारात्मना परिणामः सामांनाधिकरण्येनाम्नायते इति ब्रह्म उपादानकारणमिति तदप्यतिहेयम् । तथा हि ' इदं सर्वमसृजत यदिदं किंच तत्सृष्ट्रा तदेवानुप्राविशत् ' ( तै. २-६ ) इति पूर्ववाक्ये सर्वजगतः सृष्टिमभिवाय ' तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च ' इति सर्वजगत्सृष्ट्वा स्वसृष्टं जगत् 'अनुप्राविशत् । अनुप्रविश्य च सच्च त्यच्चाभवत् इति प्रवेश्यप्रवेशकभावादिना स्वसृष्टजगद्भिन्नताया आवश्यकत्वेनोपादानकारणत्वासंभवात् । निर्विकार ब्रह्मणः परिणामासंभवेन सच्च त्यच्चाभवदिति वाक्येन ब्रह्मणः सत्यदादिजगद्रपेण परिणामः कथ्यत इति वक्तुमशक्यत्वात् श्रुतौ कथितस्य परिणामस्य मिथ्यात्वेन ब्रह्मण उपादानत्वासिद्धेः श्रुतेरप्रामाण्यप्रसंगाच्च न ब्रह्मण उपादानकारणत्वसिद्धिः ।
ॐयोनिश्च हि गीयते ॐ
' कर्तारमीशं पुरुषं ब्रह्मयोनिं ' (मुं. ३-१-३) ' यद्भूतयोनिं परिपश्यन्ति धीराः ' (मुं. १-१-६) इति च ब्रह्मणि योनिशब्दः प्रयुज्यते योनिशब्दश्चोपादानवचन इति ब्रह्म उपादानकारणमिति यच्छंकरव्याख्यानं तत्तुच्छम् । योनिशब्दस्य ' योनिष्ठ इन्द्र निषदे अकारि ' (ऋ. सं. १-१०४-१ ) इति वाक्ये हे इन्द्र ते तव निषदे उपवेशनाय योनिः स्थानं मया अकारि इति स्यानार्थेऽपि प्रयोगदर्शनात् न योनिशब्देनोपादानत्वसिद्धिः । न च ' यथोर्णनाभिः सृजते गृह्णते च ' (मुं. १-१-७ ) इत्युत्तरवाक्ये उपादानकारणीभूतोर्णनाभिदृष्टान्तदानात् योनिशब्द उपादानवचन इति वाच्यम् । ऊर्णनाभेश्चेतनत्वेन तन्तुं प्रति निमित्तकारणत्वात् ऊर्णनाभ्युपभुक्तान्नपरिणतलालाया एवोपादानकारणत्वात् इति वाक्यशेषेणापि योनिशब्देनोपादानकारणत्वासिद्धेः, नेदमपि सूत्रं ब्रह्मणः उपादानत्वबोधकमिति नेदं पंचसूत्रात्मकमधिकरणं ब्रह्मण उपादानत्वबोधकमिति ।
ॐएतेन सर्वे व्याख्याता व्याख्याताः ॐ
इदं सूत्रं अण्वादिकारणवादा ब्रह्मकारणवादस्य प्रतिपक्षत्त्वात् प्रतिषेद्धव्याः । अतः प्रधानमल्ल निबर्हणन्यायेनातिदिशति । एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वे अण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः । तेषामपि प्रधानवत् अशब्दत्वात् शब्दविरोधित्वाच्चेति व्याख्यातमिति ब्रह्मण एव कारणत्वं न त्वण्वादीनामित्युक्त्या अकारणेभ्यः अण्वादिभ्यो जगत्कारणस्य ब्रह्मणो भेदः सिध्यति इति ।
। इति प्रकृत्यधिकरणस्य ब्रह्मणः विवर्तोपादानकारणतापरत्वनिरासपूर्वकं विश्वकर्तृत्वपरत्व समर्थनम्।