भगवद्गीताऽपि न जीवब्रह्मणोरैक्यबोधिका
गीताया जीवब्रह्मभेदबोधकत्वसमर्थनम्
भगवद्गीताऽपि न जीवब्रह्मणोरैक्यबोधिका
श्रीभगवद्गीतायां न तादृश एकोऽपि श्लोक उपलभ्यते यः किल जीवब्रह्मणोरभेदं प्रतिपादयेत् । परमनेके श्लोकाः किं बहुना सर्वेऽपि भेदमेवाघोषयन्ति स्पष्टमिति सामान्यतो गीतार्थं परिशीलयताऽपि ज्ञायते । न केवलं द्वैतिन एवैवमभिप्रयन्ति किन्त्वद्वैतमतस्थापकत्वेनाभिमताः शङकराचार्या अपि ' स्मृतेश्व इति सूत्रव्याख्यावसरे 'स्मृतिश्च शारीर (जीव ) परमात्मनोर्भेदं दर्शयति" ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया " इत्याद्या ' इति वाक्येन ईश्वरः सर्वभूतानामित्याद्यनेकश्लोकानां भेदपरत्वं निर्विवादमङ्गीकुर्वन्ति ।
ननु ' क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ' ( गी० १३ । २) इति श्लोके क्षेत्रज्ञ = जीवं मां = कृष्णं विद्धि इति परब्रह्मभूतस्य कृष्णस्य जीवाभेदोक्तेजीवब्रह्मणोरैक्यस्य गीताऽसम्मतत्ववचनमयुक्तमिति चेन्न । क्षेत्रज्ञं चाऽपि मां विद्धि इति लोके जीवाभेदानुक्तेः । तथाहि गीतायां
' इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ‘
इत्येतच्छलोकेन इदं प्रमाणसिद्धं शरीरं क्षेत्रशब्दवाच्यं शरीररूपक्षेत्र-'वेदिनं च क्षेत्रज्ञ प्राहुविद्वांसः, इति क्षेत्रज्ञपदं व्याख्याय ' क्षेत्रज्ञं च मां विद्धि इति श्लोकेन तं क्षेत्रज्ञं मां (कृष्ण) विद्धि इत्युक्तत्वेन पूर्वश्लोकोक्तः क्षेत्रज्ञो यदि जीवः स्थात् तर्हि रोम क्षेत्रज्ञशब्दवाच्येन जीवेन कृष्णाभेदः प्रतीयेत । नहि पूर्वश्लोकोक्तः क्षेत्रज्ञो जीवो भवितुमर्हति ।
' तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । सच यो प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥
महाभूतान्यहङ्कारो बुद्धिव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्र समासेन सविकारमुदाहृतम् ' ॥ ६ ॥
इत्यादिश्लोकः तत्-क्षेत्रं इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते इति श्लोकोक्तं क्षेत्रं क्षेत्र क्षेत्रज्ञं च सङ्क्षेपेण वक्ष्यामि शृणु इति प्रतिज्ञाय महाभूतान्यहङ्कारइत्यादिश्लोकद्वयेन पृथिव्यप्तेजोवाय्वाकाशरूपाणि पञ्च महाभूतानि, अहङ्कारः बुद्धि:, अव्यक्तं, घ्राणचक्षुश्श्रोत्रत्वग्जिह्वारूपाणि पञ्च ज्ञानजनकानि इन्द्रियाणि, वाक्पाणिपादपायूपस्थरूपाणि पञ्च कर्मेन्द्रियाणि, आहत्य दशेन्द्रियाणि मनः, रूपरसगन्धस्पर्शशब्दरूपाः पञ्चेन्द्रियविषया इच्छाद्वेषसुखदुःखादिविकाराश्च शरीररूपक्षेत्रपदेन बोध्यन्ते इत्युक्तत्वेन महाभूतादिसकलजगद्रूपक्षेत्रस्य ज्ञानं अल्पज्ञस्य अत एव स्वदेहगतेन्द्रियाद्यज्ञानेन वैद्यगृहं धावतो जीवस्य अत्यन्तासम्भवीति जीवो न क्षेत्रज्ञो भवितुमर्हति । किन्तु सर्वज्ञो भगवान् परं ब्रह्मैव महाभूतादिसकलजगद्रूपक्षेत्रज्ञो भवतीति क्षेत्रज्ञं परं ब्रह्म मां श्रीकृष्णं विद्धीति परब्रह्मकृष्णयोरेवाभेदः क्षेत्रज्ञं चापि मां विद्धि इत्यनेन कथ्यते नतु जीवात् कृष्णस्याभेदः ।
' परं ब्रह्म परं धाम पवित्रं परमं भवान् |
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ' ॥ १० । १३
इत्यादिश्लोकेषु श्रीकृष्णस्य परब्रह्मत्वं नारदाचर्षिभिः स्वयं कृष्णेन चोक्तमिति क्षेत्रज्ञं चापि मां विद्धीति श्लोके क्षेत्रज्ञभूत परब्रह्मण एव कृष्णाभेद उच्यते न तु जीवस्य । क्षेत्रज्ञशब्दस्य जीवपरत्वाभावात् ।
किंच केवलं पूर्वश्लोकोक्तरीत्या शरीररूपक्षेत्रस्य सर्वजगद्रूपत्वेन जीवः क्षेत्रज्ञो न भवतीत्येव न किंतु गीतोक्तक्षेत्रज्ञशब्दार्थपर्यालोचनयाऽपि न क्षेत्रज्ञो जीवो भवितुमर्हति । तथाहि
'क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ञानं मतं मम ' ( गी. १३/२) इति लोके क्षेत्रक्षेत्रज्ञविषयकं ज्ञानं यत् तत् ज्ञानं सम्यग्ज्ञानमिति ममेश्वरस्य विष्णोर्मतमित्यभिधाय ' महाभूतान्यहङ्कार ' इत्यादिश्लोकद्वयेन क्षेत्रपदार्थं निरूप्य
' ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्रुते ।
अनादिमत्परं ब्रह्म.. ' ॥ इति
श्लोकेन क्षेत्रज्ञस्य परब्रह्मत्वं वर्णितं साक्षाच्छ्रीकृष्णेनेति क्षेत्रज्ञो न परब्रह्मणोऽन्यो जीवो भवितुमर्हति । उक्तं च शंङ्कराचार्यैरपि स्वकृतगीताभाष्ये ‘क्षेत्रज्ञो वक्ष्यमाणविशेषणः यस्य सप्रभावस्य क्षेत्रज्ञस्यं परिज्ञानादमृतत्वं भवति तं " ज्ञेयं यत्तत्प्रवक्ष्यामी ' त्यादिना सविशेषणं स्वयमेव वक्ष्यति भगवान् (श्रीकृष्णः ) इत्यतः क्षेत्रज्ञः परब्रह्मैवेति श्रीकृष्णेन कथ्यत इति क्षेत्रज्ञशब्दार्थः परं ब्रह्मैवेति । एवं श्रीकृष्णशङ्करयोः सम्मतत्वेन वस्तुतो जीवस्य श्रीकृष्णोक्तशरीररूपक्षेत्रशब्दार्थजगद्विषयकज्ञानासम्भवेन श्रीकृष्णशङ्कराभ्यां क्षेत्रज्ञः परं ब्रह्मैवेत्युक्तत्वेन ' क्षेत्रज्ञं चापि मां विद्धि ' इति गीताश्लोको न जीवब्रह्मणोरभेदबोधकः प्रत्युत मां विद्धि इति ज्ञातृज्ञेयभावबोधनद्वारा भेदबोधक एव ।
‘ईश्वरः सर्वभूतानां ' उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ' अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः' इत्याद्यनेकैर्गीतावाक्यैर्जीवब्रह्मणोर्भेदस्यैव कथितत्वेन ' ईश्वरोऽह ' मिति ईश्वराभेदर्शिन आसुरत्वमुक्त्वा ‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि’ ।
‘ मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् " इति ईश्वराभेददर्शिनाम् असुरत्वतमः प्राप्तिमत्त्वेन निन्दितत्वाच्च ' क्षेत्रज्ञं चापि मां विद्धि ' इति गीतावाक्यं नैवाभेदपरम् ।
। इति गीताशास्त्रं नाद्वैतमतानुकूलम् ।
॥ समाप्तः प्रथमो भागः ॥