ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्
ईश्वरस्यैवोंकारार्थत्वसमर्थनम्
"ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ॥
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥
इति श्रीमद्भगवद्गीतायां श्रीकृष्णाभिन्नेश्वरस्योंकारार्थत्वोक्तेः ओंकारप्रतिपाद्यो भगवान् विष्णुरीश्वर एवेति सिद्धयति ।
' ओमित्येकाक्षरं ब्रह्म = ब्रह्मणोऽभिधानभूतमोंकारं व्याहरन्तु-च्चारयन्; तदर्थभूतमीश्वरं मामनुस्मरन्' इत्यादिना शंकराचार्यैरपि श्रीकृष्णात्मकेश्वरस्यैवों कारार्थत्वेन गीताप्रतिपाद्यत्वं प्रदर्शितम् ।
एतेन 'ओमित्येकाक्षरं ब्रह्मे' त्यत्र ब्रह्मशब्दस्य ब्रह्मणोऽभिधानभूत-मितिवत् " प्रणवं हिश्वरं विद्या " दित्यत्र माण्डूक्योपनिषदि ईश्वरं ईश्वरस्या-भिधानभूतमिति व्याख्यानं सूचितं भवति । अकारोकारमकारनादरूपोंकारेण व्यस्तसमस्तोंकारेण वा विश्वतैजसप्राज्ञतुरीयाणां भगवदीश्वररूपाणामेव प्रतिपाद्यत्वस्य माण्डूक्ये अभिधानात् । तत्र हि अयमात्मा ब्रह्म । सोऽयमात्मा चतुष्पात्" इति तस्य ब्रह्मात्मनश्चतूरूपत्वमभिधाय एष सर्वेश्वर एष सर्वज्ञ एषोन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्" इति वाक्येन तस्य सर्वज्ञत्वं च वर्णयित्वा "सोऽयमात्माऽध्यक्षर- मोंकारोऽधिमात्रं पादा मात्रा अकार उकारो मकार इति” “अमात्रश्चतुर्थ" इति वाक्याभ्यामोंकारस्याऽपि व्याहृतीनामिव व्यस्तसमस्तरूपेण चतूरूपब्रह्म- वाचकचतूरूपत्वं वर्णितम् । तत्र " अभिधानाभिधेययोरेकत्वं चावोचामे " ति "ब्रह्म = ब्रह्मणो अभिधानभूतम्" इत्यादि शांकरभाष्यानुसारेण 'ओंकार आत्मैव ' ' प्रणवं होश्वरं विद्या ' दित्यादौ ईश्वरमात्मानं प्रणववाच्यं विद्यात् प्रणवं वा ईश्वरवाचकं विद्यादित्यर्थः । तथा चेश्वरस्यैव व्यस्तसमस्त-चतूरूपोंकार वाच्यत्वसिद्धिः ।
तत्र चतुर्थस्य वासुदेवाभिधस्य मुकुन्दस्य जागराद्यवस्थाप्रेरणादि-व्यवहाराभावेनाव्यवहार्यत्वं संसारकालीन-जागराद्यवस्थात्रयनाशेन संसारनाशेन मुक्त्यवस्थाप्रापकतया प्रपञ्चोपशमत्वं चोक्त्वा नैयायिकोक्तरीत्या दुःखनाशवत् संसारसुखस्यापि नाशेन मोक्षस्यानुपादेयत्व - शङ्कापरिहाराय शिवशब्देन मङ्गलकरत्वं नित्यसुखप्रदत्वमभिहितम् । विश्वतैजसप्राज्ञेभ्यस्तुरीयस्य भेद-शङ्कामपाकर्तुं च तस्य अद्वैतपदेन' पूर्वोपदर्शित रूपत्रयप्रतियोगिक भेदाभावः इतरेषां ब्रह्मादिसर्वजीवानां सर्वावस्थाप्रेरकत्वाभावेन सर्वावस्था- प्रेरकत्वेन स्वसदृशप्रेरकान्तरहीनत्वं चोपवर्णितम् । तेन च सर्वथा ईश्वर एव ओंकारार्थः न त्वद्वैततत्त्वसुधोक्तरीत्या बौद्धाभिमतं निर्विशेषविज्ञानमात्रम् । सर्वशब्दावाच्यस्य तस्य सुतरामों का रवाच्यत्वासंभवात् । तत एव तस्य लक्ष्यत्व-स्याप्यसंभव: ।
शंकरानन्दकृत- 'माण्डूक्योपनिषद्दीपिकायाम् ' " यच्चान्यत्त्रिकाला- तीतं तदप्योंकार एवे " ति वाक्यव्याख्यानावसरे 'त्रिकालातीतं नर-विषाणादि तदप्योंकार एवे ' ति वाक्येन ओंकारप्रतिपाद्यब्रह्मणः नरविषाणाद्यभेदः कथितः । एतावता 'अद्वैततत्त्वसुधया ' माण्डूक्योपनिषद्दी-पिकया ' च स्वस्य विज्ञानवादि --शून्यवादि - बौद्धमतानुयायिप्रणीतत्वमाविष्कृतम् । तेन च वैदिकैर्हेयत्वमात्मनः सूचितम् ।
इत्थं च ' अयमात्मा ब्रह्मे' त्याथर्वणं महावाक्यं सर्वेश्वरस्य हरेरेव ब्रह्मत्वं वर्णयति न तु जीवब्रह्माभेदम् । यतः " ईशावास्यमिदं सर्वं " मित्यस्य व्याख्यानभूते भागवतस्थे ' आत्मावास्यमिदं सर्वं ' मिति वाक्ये मनुना आत्मशब्देशशब्दयोरेकार्थत्वसूचनात् अयमात्मा = ईशः = ब्रह्म इत्येवोक्तवाक्यार्थः ।
आततत्वात्प्रभातृत्वादात्माहि परमो हरिः "
इति श्रीधरस्वाम्युदाहृत-परमश्रुतिवचनेन आत्मशब्दस्य हरिवाचकत्व -समर्थनात्, हरिरेव ब्रह्म; स एवोंकारार्थः स एवच ' एष सर्वेश्वर ' इत्यादिना वर्णितः । इत्थंच 'अयमात्मा ब्रह्मे' ति वाक्यं न जीवब्रह्मैक्यपरं न वा सर्वेश्वरादन्यस्य विज्ञानमात्रस्य शून्यस्य वा ओंकारप्रतिपाद्यत्वपरमिति विज्ञेयम् ।
एवम् "ओमित्येव ध्यायत आत्मानं स्वस्ति वः पाराय तमसः -परस्तात्" इति मुण्डकोपनिषदि,
" ओमित्येव सदा विप्राः पठत ध्यात केशवम् ॥
हरिरेकः सदा ध्येयो भवद्भिः सत्वसंस्थितैः "
इति शंकराचार्यकृत – विष्णुसहस्रनामभाष्योद्धृत - हरिवंशवाक्यानुसारेण 'ओमित्येकाक्षरं ब्रह्मे ' ति भगवद्गीतावाक्यानुसारेण च ब्रह्मरुद्रादि- नियामकस्य केशवस्य हरेरेव ओंकारपठनपूर्वकथ्यानविषयत्वेन ओंकारार्थत्व- समर्थनात् सर्वेश्वरो हरिरेवोङ्कारप्रतिपाद्यः ।
तथा नृसिंहतापनीये-
" अथैव अकार: आप्ततमार्थः परे देवे नृसिंहे वर्तते । अथैष उकारः उत्कृष्टतमार्थः परे ब्रह्मणि नृसिंहे देवे वर्तते । अथैष मकारः महाविभूत्यर्थः परे ब्रह्मणि नृसिंहे देवे वर्तते " इति व्यस्तोंकारप्रतिपाद्यत्वं नृसिंहस्याभिधाय
अथ तुरीयेण ओतश्च प्रोतश्च ह्ययमात्मा सिंहः । अस्मिन् हीदं सर्वम् " इति वाक्येन तुरीयेण समस्तेन वा ओंकारेण समस्तगुणपूर्णत्वादिरूपमोतत्वं नृसिंहस्य प्रतिपादितम् । तेन च विश्वतैजसप्राज्ञतुर्यात्मकचतरूपत्वं भगवतः नृसिंहस्येकस्यैव । अतो न विश्वादीनां परस्परं भेदः । न वा नृसिंहस्यैतेभ्यो भेद इति चाद्वैतपदेन तत्र तत्रोच्यत इति ध्येयम् ।
किंच " प्रणवं वाचकं मत्वा वाच्यं ब्रह्मेति निश्चितः ।
एकाग्रं सततं कृत्वा चित्तं विष्णौ निवेशयेत् "
इति हरिवंशे सर्वेश्वरस्य विष्णोः ओंकारवाच्यत्वमुक्तम् अपिच " सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
-यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् " इत्यभिधाय उतरत्र “ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् "
इति ओंकारप्रतिपाद्यत्वं वासुदेवाख्यविष्णोरेवेति प्रदर्शितं काठकोपनिषदि । एवं पटप्रश्नोपनिषद्यपि -
“ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुत्रीयते ब्रह्मलोकम् । स एतस्माज्जीवधनात् परात्परं पुरिशयं पुरुषमीक्षते " इत्युक्त्वा 'तमोंकारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजर ममृतमभयं परं चेति ' इति वाक्येन पुरुषोत्तमस्यों- कारार्थत्वं तस्य ब्रह्मलोकं गतैः जीवोत्तमहिरण्यगर्भोपदेशेन ईक्षणीयत्वं; जाग्र- त्स्वप्नसुषुप्त्यादि विशेष सर्वप्रपञ्चरहितत्वरूपं शान्तत्वं चोक्तम् । सचायं पुरुषोत्तमः "अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः " इत्युक्तः वासुदेवात्मा श्रीकृष्ण एव ।
किंच " क्लेशकर्मविपाकाशयैर परामृष्टः पुरुषविशेष ईश्वरः " " तस्य वाचकः प्रणवः " इत्यादि योगसूत्राण्यपि ईश्वरस्यैवोंकारार्थत्वं प्रति-पादयन्ति ।
एवं वस्तुगतावपि 'अद्वैततत्त्वसुधायाः १२१ पत्रे तथा १३० पत्रे 'ओमर्थो न नारायण: । भर्गशद्वार्थो न नारायणः । एवं १३५ - १३६ पत्रे 'ओंकारार्थो न सगुणं ब्रह्म किं तु निर्विशेषम् । ब्रह्मपदस्य न नारायणमात्र-परत्वम् । विष्णुनारायणपदयोरपर्यायत्वम् । ब्रह्मपदस्य निर्विशेष एव स्वारस्यम्, इत्यादि वर्णितम् । तच्चात्यन्तमयुक्तम् ।
तथाहि 'आत्मा वाडरे द्रष्टव्यः श्रोतेव्यो मन्तव्यो निदिध्यासितव्यः इति श्रुत्या श्रवण मनन निदिध्यासन-दर्शनानां चतुर्णामेकवस्तुविषयक- त्वमुपदर्शितम् । तच्चैकं वस्तु बृहदारण्यके आत्मशब्देन निर्दिष्टम् ।
'अथातो ब्रह्म जिज्ञासे ' ति सूत्रे ब्रह्मपदेनेोपदर्शितं च । ' आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ' इति सहस्रनाम शांकर-भाष्योदाहृत भारतवचनेन ब्रह्मसूत्रकृता वेदव्यासेन नारायणस्यैव जिज्ञास्यत्वं; सर्वशास्त्रालोडनपरिनिष्पन्नोऽर्थ इत्युक्तम् । नारायणशब्दार्थोऽपि न ब्रह्मरुद्रादि- जीवाः किंतु सर्वजीवनियामकत्वेन सर्वजीवेभ्योऽत्यन्तभिन्नः नारायणाख्यो विष्णुरेव । अत एव ' जन्हुर्नारायणो नर ' इति (वि. स. शां. भाष्ये) "नाराणां जीवानामयनत्वात्प्रलये इति वा नारायणः ' यत्प्रयन्त्यभिसंविशन्ती ' ति श्रुतेः । नाराणामयनं यस्मात्तस्मान्नारायणः स्मृतः ' इति ब्रह्मवैवर्तवचनात् इत्युक्तम् ' यत्प्रयन्त्यभिसंदिशती ' ति वाक्यैकदेशोदाहरणेन च -
“ यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तद्ब्रह्मेति "
इति सम्पूर्णवचनं सूचितम् । तेन नारायणस्यैव ब्रह्मत्वं, जिज्ञास्यत्वं, ब्रह्मा-दिस्थावरान्तसकलजीवजनकत्वं, सर्वजीवजीवनहेतुत्वं, सर्वजीवप्राप्यत्वं, जीव- प्रवेश्यत्वं च नान्यस्येति च समर्थितम् । ब्रह्मवैवर्त पुराणवचनोदाहरणेन च सर्वजीवाश्रयत्वेन ब्रह्मादिसर्वजीवभिन्नत्वं जिज्ञास्यनारायणस्योपदर्शितम् । अत एवानन्दगिरिणा गी. शां. भाष्यटीकायां " सूक्ष्मदर्शिनः पुनराचक्षते । नर- शब्देन चराचरात्मकं शरीरजातमुच्यते ( तत्र नित्यसान्निहिताश्चिदाभासाः ) जीवा नारा इति निरुच्यन्ते । तेषामयनमाश्रयः = नियामकः अन्तर्यामी नारायण इति यमधिकृत्यांऽन्तर्यामिब्राह्मणं श्रीनारायणाख्यं मन्त्राम्नायं चाधीयते " इति नारायणशब्दो व्याख्यातः सूक्ष्मदर्शिविद्वद्द्द्दृष्ट्या । अत्र ' यमधिकृत्यान्तर्यामि- ब्राह्मणमधीयते इति वचनेन ।
“ यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः यं पृथिवी न वेद यस्य पृथिवी शरीरम् यः पृथिवीमन्तरो यमयति एष त आत्माऽन्तर्याम्यमतः ' इत्यारभ्य समग्रं सप्तमं ब्राह्मणं नारायणप्रतिपादकमिति सूचितम् । तत्र चैतद्ब्राह्मणभाष्यगतं ' य ईदृगीश्वरो नारायणाख्यः पृथिवीं पृथिवीदेवतां यमयति नियमयति । स्वव्यापारे अन्तरः अभ्यन्तरस्तिष्ठन् एष त आत्मा इति शांकर- वचनं मूलम् ।
इदं पुनरिहावधेयम्--जिज्ञास्यस्य नारायणाख्यस्य ब्रह्मणः सकलजीवान्तर्या- मित्वेन जीवभिन्नत्वं च सूत्रकारामिमितिशांकरभाष्यावलोकनेन स्फुटीभवति ।
तथाहि " भेदव्यपदेशाच्चान्यः " इति सूत्रभाष्ये ' अस्तिचादित्यादि- शरीराभिमानिभ्यो जोवेभ्योऽन्य ईश्वरोऽन्तर्यामी 'य आदित्ये तिष्ठन्नादि-त्यान्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्य मन्तरो यमयत्येषत आत्मान्तर्याम्यमृतः ” इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्रहि 'आदित्यादन्तरो, यमादित्यो न वेदे ' ति वेदितुरादित्याद्विज्ञानात्मनः अन्योऽ न्तर्यामी स्पष्टं निर्दिश्यते इति ।
एवंम् " अन्तर्याम्यधिदेवादिषु तद्धमंध्यपदेशात् " इति सूत्रभाष्ये ' यं पृथिवी न वेदेति च पृथिवीदेवतायाः अविज्ञेयमन्तर्यामिणं ब्रुवन् देवतात्मनोऽ न्यमन्तर्यामिणं दर्शयति इति ।
तथा " शारीरस्चोभयपि हि भेवेनैनमधीयते " इति सूत्रभाष्ये “नेति पूर्वसूत्रादनुवर्तते । शारीरश्चनान्तर्यामीष्यते । उभयेऽपि हि शाखिन: काण्व माध्यन्दिनाश्च अन्तर्यामिणो भेवेनैनं शारीरं पृथिव्यादिवदधिष्ठान-त्वेन नियम्यत्वेन चाधीयते । यो विज्ञाने तिष्ठन्' इति काण्वाः आत्मनि तिष्ठन्' इति माध्यन्विताः य आत्मनि तिष्ठन्' इत्यस्मि- स्तावत्पाठे भवत्यात्मशब्द: शारीरस्य वाचक: 'यो विज्ञाने तिष्ठन् इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते । विज्ञानमयो हि शारीरः । तस्मादन्य ईश्वरोऽन्तर्यामीति सिद्धम् " इत्यादिसिद्धान्तसूत्राक्षरानुसाराणि शांकरभाष्यवचनानि प्रस्फुटानीति, इतर सिद्धान्ताविरुद्धतया समुपादेयानि । द्वैतसिद्धान्तविरुद्धावि शांकरवचनानि सूत्राक्षराननुगुणतया उत्सूत्रत्वेन हेयानीत्यत्र ब्रह्मसूत्रप्रामाण्यवादिनां वेदान्तिनां न विप्रतिपत्तिः ।
अत एव ' चन्द्रिकामण्डना ' द्यनेकाखण्डयगम्भीरार्थक-प्रन्यप्रणेतृभिः श्रीमद्भिर्गुरुचरणै: 'भेदपराण्येव खलु ब्रह्मसूत्राणी 'ति शीर्षकान्विते अद्वैतखण्ड-नापराभिधाने ग्रन्थे सूत्रार्थवर्णनप्रसङ्गे शांकरभाष्यानुसारेणाऽपि सकल्ब्रह्मसूत्राणां भेदपरत्वमुपवर्णितम् ।
तेषामयमाशयः--शंकराचार्यैः स्वभाष्येषु यावान् सूत्राक्षरानुसारी सूत्रार्थो वर्णितः; गीतांक्षरानुसारी श्रुत्यक्षरानुसारी वाऽर्थोऽभिहितःस सर्वोप्यद्वैत सिद्धान्त-प्रतिक्षेपपरः द्वैत सिद्धान्तसमर्थकश्च । यश्च सूत्राक्षरेभ्यो न लभ्यते; अद्वैत्यभिमतोऽर्थः स सर्वोप्युत्सूत्र उन्मूलश्च । न केवलमुत्सूत्रः श्रुत्याद्यनेकप्रमाणविरुद्धः अनेक प्रबलतमयुक्तिविरुद्धः स्ववचनविरुद्धश्चेति । अतः प्रस्थानत्रयार्थविचारपरैः प्रेक्षावद्भिर्मूलप्रन्याक्षरानुगुणे प्रमाणान्तराविरुद्धे सोपपत्तिके निर्दुष्टे चार्थे संभवति तद्विपरीतोऽर्थो नोपादेय इति सूचयितुमेव स्वोक्तार्थे तत्र शांकरभाष्योदाहरणं क्रियते श्रीगुरुचरणैः ।
स चायं नारायणः अव्यक्तापरः अव्यक्तमव्याकृतं मायेत्यनर्थान्त-रम् । तस्मात्परः तेनासंसृष्टः 'अक्षरात्परतः पर ' इति श्रुतेः ' इत्यानन्द गिरि-वचनोपदर्शितरीत्या न मायाशबलः; किं तु " आदिकर्ता नारायणाख्यो विष्णुः वसुदेवादंशेन कृष्णः किल संबभूव । स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्य- तेजोभिः सदा सम्पन्नः । अजः अव्ययः ईश्वर : = नित्यशुद्धबुद्धमुक्तस्वभावः स्वां मायां मूलप्रकृतिं वशीकृत्येत्युक्तेः प्रकृतिनियामकः ।
एवं समस्तवेदार्थसार-संग्रहरूपगीताशास्त्रस्य प्रतिपाद्यः परमार्थश्च । परमार्थतत्त्वं च वासुदेवाख्यं परं ब्रह्माभिधेयभूतमभिव्यञ्जयद्गीताशास्त्रमिति-शांकरोक्तेः तथा च ब्रह्मरुद्रादिसकलजविभिन्नस्य वासुदेवनारायण--विष्णु- कृष्ण भगवदात्म· ब्रह्मादिशब्दबोध्यस्यैव जिज्ञास्यत्वम् 'ओमित्येव ध्यायत आत्मान 'मिति ओंकारपठनपूर्वकं ध्यातव्यत्वोक्तेः ओंकारार्थत्वं चेति सिद्धम् ।
यदुक्तं " भूर्भुवस्सुव" इति भूमसुखस्वरूपमपि न विशिष्य नारायण- पदवाच्यमित्यादि तदसत् ! "दुःखौषधं तदपि दुखमतद्धियाहं भूमन् मामि वद मे तव दास्ययोगम्" इत्यादिना अनेक स्थले श्रीमद्भागवते नारायणस्यैव भूमपदेन संकीर्तनातू; भूरादिव्याहृतिप्रतिपाद्योऽपि नारायण एव ।
यदुक्तम् ' तत्सवितुर्वरेण्यं भर्गो देवस्य धीमही ' त्यत्र भर्गशब्दः न नारायणस्वरूपं वदतीति; तदयुक्तम् । ब्रह्माण्डपुराणगत -- वेङ्कटेशसहस्रनामसु नारायणस्य भर्गशब्दार्थत्वोक्तेः । तथा मैत्रायणीयोपनिषदि 'भासयति रञ्जयति = गमयती--मान् लोकानिति ' व्युत्पत्तिप्रदर्शनपूर्वकं विष्णोर्नारायणस्य भर्गशद्व- प्रतिपाद्यत्त्वसूचनात् । भर्गशब्दस्य सकारान्तत्वे तेजोवाचकत्वेऽपि " यदादित्यगतं तेजो जगद्भासयते ऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धिमामक मिति गीतोक्तेः ।
ऋग्विधानगत-गायत्रीध्यानश्लोके " ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसनिविष्टः केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः " इति शौनकोक्तेश्च । सवितुः भर्ग इत्यनेन सूर्यान्तर्गतं नारायणाख्यं तेज एवोच्यते ।
" अन्तस्तद्धर्मोपदेशा " दिति सूत्रव्याख्यावसरे-" अथ य एषोऽन्त- रादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः- हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । तस्योदिति नाम । स एष सर्वेभ्यः पाप्मभ्य उदितः । उदेति हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद ” इति श्रुतिप्रतिपादितः सुवर्णवर्णः पुण्डरीकाक्षः; संसारी जीवो वा, आदित्यदेवता वा, परमेश्वरो वेति संशय्य परमेश्वर एव स इति निर्धारितम् । सर्वथा पापसंबन्धान्यत्वादिधर्माणामत्र श्रवणादिति ।
तत्र परमेश्वरस्य रूपाभावात्कथं तस्य हिरण्यश्मश्रुत्वादिकमित्याशंक्य शंकराचार्यैः नारदं प्रति नारायणोक्तस्य " माया होषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसी " ति वचनस्योपन्या- सेनात्र प्रतिपाद्यो नारायण एव परमेश्वरः । स एव गायत्रीप्रतिपाद्यश्चेति ( ब्र. सू. शां. भाष्ये) सूचनाच्च ।
एवं पुरुषसूक्तप्रतिपाद्योऽपि नारायण एव भागवते द्वितीय स्कन्धे पुरुषसूक्तस्य नारायणपरतया व्याख्यानातू । यमधिकृत्य " श्रीनारायणाख्यं मन्त्राम्नायं चाधीयते " इत्यानन्दागिरिवचनानुसारेण " सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् । विश्वं नारायणं देवमक्षरं परमं पदम् । विश्वतः परमान्नित्यं विश्वं नारायणं हरिम् । विश्वमेवेनं पुरुषस्तद्विश्वमुपजीवती त्यादिमन्त्राम्नायवचनैः नारायणस्य पुरुषसूक्तोक्त-सहस्रशीर्षत्वादिगुणयुक्तत्त्वेन पुरुषपदेन च निर्देशात् ।
ब्रह्मा तदुपधार्याथ सहदेवैस्तया सह
जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः । इत्युक्त्वा
पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः
इत्यादिना ब्रह्मरुद्रादिभिः पुरुषसूक्तेन स्तूयमानत्वस्य क्षीरसमुद्रशायिनि नारायणे काथनात् पुरुषसूक्तप्रतिपाद्यो नारायण एव न सदाशिवादयः ।
यदप्युक्तम् - " ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । तमेव शरणं गच्छ सर्वभावेन भारते " ति, तमेव शब्देन भगवता स्वातिरिक्तेश्वरस्य ध्येयत्व विज्ञेयत्वादि प्रतिपादनं च नारायणपदमात्रवाच्यस्यैव परमात्मत्वे विरुध्येते " ति तच्छांकरभाष्यानव-लोकनमूलकं प्रतारणामात्रं वा । यतः शंकराचार्यैः 'ईश्वरः सर्वभूताना ' मिति श्लोकव्याख्यानावसरे ईश्वरशब्देन नारायणादन्यः कश्चिदीश्वर इति भ्रमो माभूदित्यर्थमेव " ईश्वर : ईशनशीलो नारायण: " इति व्याख्यातम् । तथा च ' तमेवे ' त्यत्र तच्छब्देनापि नारायणाख्यस्यैवेश्वरस्य परामर्शः नान्यस्य । अत एव " तत्प्रसादात् = ईश्वरप्रसादात् परां शान्ति प्रकृष्टां शान्ति परामुपति; स्थानं च मम विष्णोः परमं पदमवाप्स्यसि, शाश्वतं = नित्य " मिति व्याख्यातम् ।
तथा चतुर्थाध्याये बहूनि मे व्यतीतानी' त्येतत्पद्यावतरणिकायाम् 'या तु वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणां तां परिहरन् भगवा-नुवाचे " ति वाक्येन ' कृष्णस्तु नेश्वरः; कृष्णादतिरिक्त एव कश्चिदीश्वर इति वादिनां मूर्खत्वमुक्तं शंकराचार्यैः । भगवता श्रीकृष्णेनापि ' तमेवे ' ति तच्छ- ब्दनिर्देशेन श्रीकृष्णादन्य एव कश्चिच्छरणीकरणीय इति भ्रममपाकर्तुम्—
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥
सर्वधर्मान् परियज्य मामेकं शरणं व्रज ।
अहं त्वां सर्व पापेभ्यो मोक्षयिष्यामि मा शुचः ॥
इत्यादिना ' मामेकं शरणं व्रजे ' त्युपसंहृतम् । विवृतमेतन्मधुसूदन-सरस्वतीभि--र्भाष्योत्कर्षदीपिकाकारैश्च । इत्थं च ओंकार-व्याहृति--गायत्री-पुरुषसूक्तादिसकलवेदप्रतिपाद्यं, नारायणाख्यं ब्रह्मैव, तदेव च जिज्ञास्यमिति सिद्धम् ।
एतेन अद्वितीयसंविन्मात्रनिर्विशेषचैतन्यस्यैवों कारार्थत्वम् " “ केवल मत्र ब्रह्मपदप्रयोगान्निर्विशेषं ब्रह्मैव जिज्ञास्यमिति प्रतीयते ' ' निर्विशेषब्रह्मस्वरूप- मात्रप्रतिपादकाश्च बहव उपनिषदः '' तत्र ब्रह्ममीमांसा निर्विशेष--परमात्मस्वरूप-मात्रमुख्यतात्पर्यकत्वं वेदान्तानां निर्धारयति ” इत्यद्वैततत्त्वसुधाम्रेडितं परास्तम् शंकराचार्यैर्बृहदारण्यकभाष्ये 'ज्ञानं च तस्मिन् परात्मभाव-निवृत्तिरेवे' त्यादिना निर्विशेषब्रह्मणः ज्ञानविषयत्वनिषेधात् । इष्टसिद्धिकृता अनुभूतित्वेन हेतुना ब्रह्मणः अनुभवाविषयत्वसमर्थनाच्च ।
किं च ज्ञानविषयत्वं हि द्वेधा संभवति; फलव्याप्यत्वं वृत्तिव्याप्यवं चेति । तत्र फलव्याप्यत्वं शास्त्रकृद्भिरेव निराकृतम् । फलव्याप्यत्वमेवास्य शास्त्र-कृर्द्धािनिवारित ' मिति विद्यारण्योक्तेः । वृत्तिव्याप्यत्वं तु अ० सुधाकारैः अ० शास्त्रिभिः अद्वैतसिद्धिसंग्रहे प्रमाणोदाहरणपूर्वकं निराकृतम् "" यत्तदद्देश्य मिति श्रुत्या वृत्तिव्याप्यत्वनिषेधात् वृत्तिव्याप्यत्वपक्षे नात्मनि व्यभिचारः " इत्यादिवाक्यैः । तथा च विशेषाभावकूटेन सामान्याभावसिद्धेर्निष्प्रत्यूहतया ज्ञान-विषयत्वसामान्याभावसिद्धेः ॥
अपि च वेदप्रतिपाद्यत्वं हि तात्पर्यज्ञानसहकारेणाभिधाद्यन्यतमवृत्ति- द्वारा वेदजन्यशाब्दज्ञानविषयत्वम् । निर्विशेषब्रह्मणि च न तात्पर्यं न वाऽभिधादि- वृत्तित्रयमिति वार्तिककृता स्पष्टमभिहितम् । यथा—
“ अगृहीत्वैव संबन्ध-मभिधानाभिधेययोः ॥
हित्वा निद्रां प्रबुध्यन्तं सुषुप्ते बोधिताः परैः ॥
जाग्रद्वन्न हि संबन्धं सुषुप्ते वेत्ति कश्चन ” इत्यादिना ' अद्वैत- सिद्धिकृता ' विनाऽपि संबन्धं शब्दादात्मसाक्षात्कार इति निरवद्य' मिति ग्रन्थेन वार्तिकं विवृतम् ।
लघुचन्द्रिकायां च ' संबंधशब्दस्य वृत्तिज्ञानं तात्पर्यज्ञानं चार्थ '- इत्युक्तम् । अ.सुधाकारैश्च "जीवेश्वरभेदस्य प्रत्यक्षगोचरत्वेन तस्यापूर्वत्वाभावः" इति निर्विशेषस्य प्रत्यक्षागोचरत्वेनापूर्वत्वमिति"च समर्थितम् । भामतीकारैरपि शब्दस्यापरोक्षधीहेतुत्वं निराकृतम् । तथा च अ० शास्त्रिप्रदर्शितरीत्या निर्विशेषस्थापूर्वात्वार्थं वेदेतरप्रत्यक्षादिप्रमाणजन्यज्ञानविषयत्वाभावः, वार्तिक-काराद्युक्तरीत्या तात्पर्यस्य वृत्तीनां चाभावाद्वेदजन्यशाब्दज्ञानविषयत्वाभावश्च सिद्ध इति । विशेषाभावे च सामान्याभावनियमाज्ज्ञानविषयत्वसामान्याभावो ब्रह्मणि सिद्धः ।
इदमत्रावधेयम्-निर्विशेषस्य ज्ञानविषयत्वाङ्गीकारे मिथ्यात्वानुमानस्य व्यभिचारापत्तिः । व्यभिचारपरिहाराय ब्रह्मणोऽपि मिथ्यात्वाङ्गीकारे 'ब्रह्म-सत्यं जगन्मिथ्ये ' ति डिण्डिमभङ्गः । ज्ञानविषयत्वानङ्गीकारे ' असच्चेन्न प्रतीयेत । प्रतीयते च तस्मादसन्ने' ति निर्विशेषे असद्वैलक्षण्यसाधनासंभवेन निर्विशेषस्यासद्रूपत्वापत्तिः । मन्ये चात एव किंकर्तव्यमूढैः शंकरानन्दैः माण्डूक्योपनिषद्दीपिकायां ‘नरविषाणादिकमपि ओंकारार्थब्रह्मरूप ' मित्युक्त-मिति। एवमेव संभ्रान्तचित्तैरसुधाकारैः निर्विशेषस्य शुद्धस्य वृत्तिरूपज्ञानविषयत्व-सामान्याभावकथनेन ‘असच्चेन्न प्रतीयेते' त्युक्तदिशा निर्विशेषस्यासत्वमङ्गीकृत- प्रायम्। सत्त्वाभावासत्त्वाभावो भयवत्वकथनेन च मिथ्यात्वमुररीकृतम् । उभयथा ब्रह्म सत्यं जगन्मिथ्ये ' ति डिण्डिमस्य विध्वंसनमेव कृतम् ।
इत्थं च नरविषाणाद्यसद्रूपस्य निर्विशेषब्रह्मणः वन्ध्यासुतकण्ठनिर्गतों-कारार्थत्वमङ्गीक्रियतां कामं, न पुनर्ब्रह्मकण्ठनिर्गतोंकारप्रतिपाद्यत्वं कथमपि । ब्रह्मोच्चरितोंकारार्थत्वं तूपदर्शितानेकप्रमाणानुसारेण भगवतो नारायणस्यैव ।
तच्च ओंकारप्रतिपाद्यत्वं व्यासपक्षे, अकारोकारमकारप्रतिपाद्यत्वेन, तत्र अकारस्य अ इति ब्रह्म तत्रागतमहमिति ” इत्यैतरेयोपनिषदि अहमिति व्याख्यानं कृतम् । बृहदारण्यके च अहमित्यस्य " तस्योपनिषदहमिति हन्ति च पाप्मानं जहाति च य एवं वेदे " ति विवरणं कृतम् । शंकराचार्यैश्च " अहमिति चैतद्रूपं हन्तेर्जहातेश्चेति यो वेद स हन्ति जहाति च पाप्मानं य एवं वेदे ” त्यनेनाहंशद्वार्थः सूचितः । तेन च अहमित्यत्र हकारो इनधातुनिष्पन्नः ओहाक् धातुनिष्पन्नश्चेति ज्ञायते । तत्र प्रथमाभिप्रायेण—
'हं नाम हन्यमानत्वाज्जीवस्य समुदाहृतम् ।
जीवादन्यो यतो विष्णुरहंनामा ततः स्मृतः ॥ " यस्मात्क्षरमतीतोऽहम् "
इत्यादिस्मृतिवचनानि प्रवृत्तानि । चतुर्मुखब्रह्मरुद्रादिसर्वजीवानां
अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ ॥ " इत्यम्भृणीसूक्तोक्तदिशा हन्यमानत्वात् हशब्दबोध्य-ब्रह्मरुद्रादिसकलजीवभि- न्नत्वेन प्रकारेण विष्णोः अकारप्रतिपाद्यत्वमुपदर्शितश्रुतिस्मृतिभिः समर्थितम् ।
त्यागार्थकधातु निष्पन्नत्वाभिप्राये तु " अहेयत्वादहंनामा " " अक्षरा-दपि चोत्तमः" इत्यादिस्मृत्यनुसारेण पारतन्त्र्यादिदोषशून्यत्वेन अंकारप्रतिपाद्यत्वं विष्णोरिति प्रतिपादितं भवति ।
प्रथमपक्षे अकारः भेदवदर्थकः, अहंशब्दः नञतत्पुरुषरूपः भेदवदर्थक-नञ्घटितश्च । द्वितीयपक्षे अकारः अत्यन्ताभाववदर्थक', अहंशब्दश्च अत्यन्ता-भावार्थकनञ्घटितो बहुव्रीहिरूपश्चेति विज्ञेयम् ।
क्वचित्तु अन्तर्यामिणः विष्णोः इतरेषां नियामकानामिव नियम्यैजीवस्त्यक्तुमशक्यत्वात् अहेयत्वमित्यर्थवर्णनेन अहमित्यस्य त्यागार्थकधातुनिष्पन्नत्वेऽपि नञ्तत्पुरुषरूपत्वमुपदर्शितम् । माण्डूक्ये तापनीये च अकारस्य आप्ततमत्वं- व्याप्ततमत्वम्-इत्यर्थ उक्तः । तेन " अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः " इति श्रुत्युपदर्शितरीत्या व्याप्तत्वेन अकारप्रतिपाद्यत्वमुक्तम् । उत्कृष्टतमत्वेन उकारप्रतिपाद्यत्वम्, महाविभूतिमत्वेनमकारप्रतिपाद्यत्वम् । तथा ओतत्वेन—गुणपूर्णत्वेनरूपेण समस्तौस्तोंरप्रतिपाद्यत्वं च तापनीयश्रुत्या उपवर्णितम् ।
तथा च ओंकारघटक- उकारेण विष्णोः जडाभिमानिसकलजीवोत्तमत्वे जडोत्तमत्वं स्वत एव सिद्धम् इत्यभिप्रायेण उत्कृष्टतमत्वमुक्तम् । तेन च अपकृष्टं जडजातम्, तदपेक्षया उत्कृष्टं जीवजातम्, उत्कृष्टतमश्च भगवान् नृसिंहाख्यो विष्णुरिति सिध्यति । तस्य उत्कृष्टतमत्वं च अपकर्षासमानाधिकरणोत्कर्षवत्वम् । एतदेवाभिप्रेत्य शंकराचार्यैरपि गीताभाष्ये जडानामपरत्वं जीवानां परत्वं श्रीकृष्णस्य च परतरत्वं समर्थितम् । तेन च जडजीवेश्वरभेदेन अपर--पर--परतरभेदेन अधम--मध्यमोत्तम-भेदेन वा प्रमेयत्रैविध्यं श्रुति - गीता--सूत्र--प्रस्थान-- त्रयप्रतिपाद्यमित्यविप्रतिपन्नम् ।
एवमेव प्रमाणान्यपि त्रीणि, कानिचिदपर( अधम ) वस्तुमात्रतात्पर्यकाणि, का निचित् मध्यम =परवस्तुतात्पर्यकाणि । कानिचिद् परतर-(उत्तम) चस्तुमात्रतात्पर्यकाणि । तानि च परस्परविरुद्धानि चार्वाकदर्शनम्, निरीश्वर-सांख्यदर्शनम्, वेदान्तदर्शनम् इत्यादिरूपाणीति केचित् । अपरे तु चार्वाकदर्शनादीनां प्रामाण्याभावेन प्रमाणत्रैविध्यकथनप्रसङ्गे तेषां गणनमयुक्तं मत्वा तानि विहाय वेद एव कर्मकाण्डमुपासनाकाण्डं ज्ञानकाण्डमिति प्रतिपाद्यत्रैविध्यप्रयुक्तं प्रमाणत्रैविध्यं प्रकल्पयन्ति ।
वेदान्तसंप्रदायाभिज्ञास्तु पौरुषेयम् अपौरुषेयम् ब्रह्ममीमांसाशास्त्रमिति त्रैविध्यं मन्यन्ते, तथा केषुचित्प्रमाणेषु परापरयोः मध्यमाधमयोः अपरप्रमेयत्वेनैव रूपेण संग्रहं विधाय निरुपपदपरशब्देनोत्कृष्टतमस्यैव ग्रहणदर्शनात् परापरभेदेन स्वतन्त्रास्वतन्त्रभेदेन प्रमेयद्वैविध्यमपि प्रतिपादयन्ति । तत्पक्षे-अपरम्-अस्वतन्त्रम्-च जडजीवभेदेन द्विविधमिति चावान्तरविभाग उपवर्णनीयः । तत्र प्रमेयद्वैविध्यात् प्रमाणानामपि द्वैविध्यमिति केचन मन्यन्ते । तत्तु भगवद्गीताविरुद्धत्वादयुक्तम् । यतः गीतायां सकलवेदानां " वेदेश्च सर्वैरहमेव वेद्यः " सर्वे वेदा यत्पदमामनन्ति ” इत्यादिना परप्रमेयविषयकत्वस्य, " त्रैगुण्यविषया " वेदा: " इत्यादिना अपरप्रमेयविषयत्वस्य च कथनात् परप्रमेयविषयकत्वस्य अपरप्रमेयविषयकत्वस्य च विरुद्धधर्मत्वाभावान्न प्रमाणविभाजकतावच्छेदकत्वम्, अतः प्रमेयद्वैविध्यात् प्रमाणद्वैविध्यकयनमयुक्तम् । किन्तु निर्णयनिर्णायक-प्रमाणभेदेनैव शब्दप्रमाणद्वैविध्यं वाच्यम् । तथा च प्रमाणेषु परत्वं च द्विविधम् । विषयनिष्ठपरत्वप्रयुक्तमेकम् विषयस्य; परत्वेऽपि शब्दस्वरूपनिष्ठनिर्णायकत्वप्रयुक्तं चापरम् । एवमेवापरत्वमपि विषयनिष्ठापरत्वप्रयुक्तं, शब्दस्वरूपनिष्ठनिर्णेयत्वप्रयुक्तं चेति द्विविधंबोध्यम् । तत्र प्रथमं न प्रमाण विभाजकतावच्छेदकं किंतु द्वितीयमेवेति तत्त्वम् इदं चानुपदमेव विशदीकरिष्यामः । तेन स एव सर्ववेदार्थ । इत्यनु-व्याख्यानोक्तं न्यायसुधासमर्थितं नारायणस्योंकारादिसमस्तवेदार्थत्वमुपपन्नतरम् । अत्र अ. सुधाकाराणामाक्षेपास्तदर्थाज्ञानमूलका इति ज्ञातव्यम् ।
इतिविष्ण्वाख्येश्वरयैवोंकारार्थत्वसमर्थनम्