वेदान्तवाक्यानामखण्डार्थत्वनिरासः

वेदान्तवाक्यानाम् अखण्डार्थं परत्वासंभवसमर्थनम्

वेदान्तवाक्यानामखण्डार्थत्वनिरासः

यदुक्तम् अ. सुधायाम् " अन्विताभिधानवादे अभिहितान्वयवादे वा नाद्वैतिनां निर्भरः उभयस्याप्यविरोधात् " इति तत्तुच्छम् अद्वैततत्त्वसुधाकारैबहुशः प्रशंसितायां न्यायचन्द्रिकायाम्" तदेवमन्विताभिधानमेवयुक्त" मित्याचार्याः । 

तथाचाहु:

पदैरेवान्वितस्वार्थप्रतिपादनशक्तिभिः ।

गुणप्रधानभावात्मासंसर्गः प्रतिपाद्यते ।। " इति । भगवता भाष्यकारेणाप्यभाषि-" न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वयेऽवगम्यमानेऽर्थान्तरकल्पना युक्ता" इति । पदार्थविवक्षायां तु ' तद्गताना ' मिति सदेवेत्यादिवाक्यगतत्वमभिधीयमानं विरुध्येत पदानामेव वाक्यगतत्वात्... तस्मादन्यान्वितस्वार्थमात्रप्रत्यायनक्षमाः । शब्दा इत्यवसातव्यं विना कार्यार्थसङ्गतिम् " इति ग्रन्थेन अन्विताभिधानवादे शंकराचार्याणामपि निर्भरसूचनात् । तथा शब्दानां अन्यान्वितस्वार्थमात्रप्रत्यायकत्वकथनेन अन्याऽनन्विताखण्डार्थप्रत्यायकत्वस्य स्पष्टं निषेधाच्च । शङ्कराचार्यैरपि-"तत्तुसमन्वयात्इतिसूत्रभाष्ये-तत् सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं ब्रह्म वेदान्तशास्त्रादेवावगम्यते समन्वयात् सर्वेषु वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानिइतिवाक्येन सर्वज्ञत्वादिविशिष्टस्यैव सविशेषब्रह्मणः सर्ववेदान्ततात्पर्यविषयत्वकथनात् सूत्रघटकेन अवधारणार्थकेन " तु " इतिशब्देन अखण्डस्य निर्विशेषस्य वेदान्ततात्पर्यविषत्वनिरासाच्च । तथा च न वेदान्तानामखण्डार्थत्वकथनं कथमपि युक्तम् इति ।

इति वेदान्तानामखण्डार्थत्वनिरासः ।