अन्यथा विज्ञातस्य सम्यग्विज्ञानं बाधः
अन्यथाविज्ञातस्य सम्यग्विज्ञानं बाधः इति बाधलक्षणसमर्थनम् बन्धमिथ्यात्वाभावसमर्थनं च
अन्यथा विज्ञातस्य सम्यग्विज्ञानं बाधः
यच्चोक्तम् असुधायाम् “अधिष्ठानतत्त्वसाक्षात्कारो बाधः" इति । तत्र प्रष्टव्यम् अधिष्ठानतत्त्वसाक्षात्कार इत्यत्र अधिष्ठानरूपं यत्तत्त्वं तत्साक्षात्कारः इत्यर्थः । अथवा अधिष्ठानस्य यत्तत्त्वम् असाधारणधर्मः तत्साक्षात्कार इति । आद्ये इदं रजतम् इति । साक्षात्कारस्यापि अधिष्ठानतत्त्वसाक्षात्कारत्वं स्यात् । अधिष्ठानरूपं यत्तत्त्वं तन्मात्र- विषयकः साक्षात्कारः स चाधिष्ठानेतराविषयकः इत्यपि न सम्यक्, इदमित्यस्य बाधत्वापातात् । इयं शुक्तिरेव न रजतमित्यादेः शुक्तित्वरजतभेदादिविषयकस्य बाधत्वानुपपत्तिः अतः तत्त्वं तद्वृत्यसाधारणधर्मः तत्त्वस्यैव साक्षात्कार इत्युक्त्या अधिष्ठानावृत्तिधर्माप्रकारकः अधिष्ठानवृत्तिधर्मप्रकारकः साक्षात्कारः बाधः इति वक्तव्यम् । एवं सति इदं द्रव्यम् इति ज्ञानस्यापि इदं रजतमिति ज्ञानं प्रति बाधत्वं स्यात् । एवं भ्रमानुत्तरस्य भ्रमपूर्वभाविनः इयं शुक्तिः नेदं रजतमिति ज्ञानस्य बाधत्वं स्यात् । तथा अनुमानागमजन्यस्य धर्मादिज्ञानस्य धर्मो नास्तीत्यादिभ्रमबाधकस्वं न स्यात् तस्य साक्षात्कारत्वाभावात् ।
अतः अधिष्ठानविशेष्यकस्वा वृत्तिधर्मप्रकारकज्ञानोत्तरकालीनस्वावृत्तिधर्माप्रकारकस्ववृत्तिधर्मप्रकारकज्ञानं बाध इत्येव वक्तव्यम् । इदमेव चान्यथाविज्ञातस्य सम्यग्विज्ञानं नाम । तथा च भ्रमरूपख्यातेः अधिष्ठानरूपसार्द्वषयकत्वेऽपि प्रकारतसंसंगरूपासद्विषयकत्वेन सन्मात्रविषयकत्वाभावान्न सत्ख्यातित्वम् । अध्यस्तरूपासद्विषयकत्वेऽपि अधिष्ठानरूपसद्विषयकत्वादसन्मात्राविषयकत्वाभावान्नासत्ख्यातित्वम् । अधिष्ठानस्य सत्त्वान्न सदसद्विलक्षणत्वम् । अध्यस्तस्यासत्त्वान्न सदसद्विलक्षणत्वम् । अतो नानिर्वचनीयख्यातिरपि । नापि तार्किकाभिमतान्यथाख्यातिः । किन्तु तद्विलक्षणान्थथाख्यातिरेव । सत्त्वेन विज्ञातस्य रजतस्यासत्त्वेन विज्ञातत्वं बाध्यत्वम् । तेन च शुक्तिरजतस्यासत्त्वमेव नानिर्वचनीयत्वंसदसद्विलक्षणत्वं जगतश्च सत्त्वेन विज्ञातस्य असत्त्वेन विज्ञानाभावान्न बन्धमिध्यात्वप्रसक्तिरिति सर्वमनवद्यम् ।
।। इति बाधविचारः ||