नात्मानं न पराश्चैव न सत्यं नाऽपि नानृतम् । प्राज्ञः किंचन संवेत्ति तुर्यं तत्सर्वदृक्सदा

अविद्याया ब्रह्माश्रितत्वाभावसमर्थनम्

अविद्याया ब्रह्माश्रितत्वनिरासः ।

यच्चाभिहितम्स्वभावतः ब्रह्माश्रितयाऽविद्यया ब्रह्मणो जीवस्य वा आवरणमीश्वरशक्तिमनपेक्ष्ये " ति ( ८-७) तदप्युपदर्शितवचनैरन्तर्यामिब्राह्मणगतैः साक्षादुपलक्षणया वा तमः शब्दवाच्याया अविद्याया अपि ईश्वराधीनत्वस्य भवदाचार्यैरङ्गीकृतत्वेन तद्विरुद्धकथनस्य तन्दोहापादकत्वात् ।

यच्चोक्तम्ब्रह्माश्रिता अविद्ये " ति तदपि हेयम् ।

" नात्मानं न पराश्चैव न सत्यं नाऽपि नानृतम् ।

प्राज्ञः किंचन संवेत्ति तुर्यं तत्सर्वदृक्सदा "

इति माण्डूक्ये ' प्राज्ञः किंचन संवेत्ती' ति पूर्ववाक्ये प्राज्ञस्य सर्वविषयकज्ञानाभावेऽभिहिते तुर्यस्य तद्वैजात्यकथनाय प्रवृत्तस्य 'तुर्यं तत्सर्वदृक्सदे' ति वाक्यस्य तुर्यविशेष्यकसर्वविषयकज्ञानाश्रयत्वप्रकारकबोधजनकत्वस्यैव वक्तव्यत्वात् । अन्यथा सर्वविषयकज्ञानाश्रयत्वाभावस्य प्राज्ञतुर्योभयसाधारण्यात्; तुर्ये प्राज्ञवृत्तिधर्मशून्यत्वरूपवैजात्यायोगात् । तथा च तुर्यस्य शुद्धस्य ब्रह्मणः सार्वज्ञविरोधात् ; ब्रह्माश्रिता अविद्येति कथनमयुक्ततरम् ।

अत्र अ. सुधया मौनाऽवलम्बनादद्वैतसिद्धि-लघुचन्द्रिके परीक्ष्येते । तत्राद्वैतसिद्धौसर्वदृक्त्वेन सर्वेषां दृग्भूतं चैतन्यमित्युच्यते । न तु सर्वज्ञं तुरीयमिति यदुक्तं तदसत् । --आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः । अपृथक्त्वेऽपि चैतन्या" दिति पञ्चपादिकोक्तेः सर्वविषयकज्ञानरूपत्वं सर्वविषयकज्ञानाश्रयत्वं ब्रह्मणोऽस्तीत्युपदर्शितम् । " कालः सदाऽस्तीत्यादिव्यवहाराणां स्वभावविशेषादेवोपपत्तेरिति प्रकरणान्तरे वदता अद्वैतसिद्धिकारेणैव स्वभाव- विशेषादेव सर्वविषयकज्ञानाश्रयत्वमप्यङ्गीकार्यम्, न त्वविद्यावशादिति । ततश्च ज्ञानस्य सर्वविषयकत्वमीश्वरस्य सर्वविषयकज्ञानाश्रयत्वं नाविद्यकं किं तु स्वाभाविकमिति सिध्यति इति। अवश्यं चैतदेव वक्तव्यम् । तयोराविद्यकत्वे अविद्याकार्यतया सादित्वेनाविद्यानाशनाश्यतया चानित्यत्वेन सदापदोक्तसार्वकालिकत्वासिद्धेः ।

ब्रह्मण्यविद्यासंबन्धवदेव स्वरूपज्ञप्तेः विषयसंबन्धस्याप्युपपत्तेः । न च ब्रह्मरूपज्ञप्तेः, अविद्यासंबन्धोऽपि न स्वतः किं तु आविद्यक एवेति युक्तम् । त्वदाचार्यैः अविद्यातच्चितोर्योग " इति तस्यानादित्वाभ्युपगमात् । देशकाल- संबन्धस्यापि सादित्वे ब्रह्मणोऽपि सादित्वापत्त्या देशकालसंबन्धस्याप्यनादित्वेन स्वाभाविकत्वस्यैव वक्तव्यत्वाच्च ।

असंगशब्दस्य संबन्धाभावप्रतियोगिकसंगतदभावाभ्यां व्याघातान्न संगसामान्याभावोऽर्थः । किं तु पापपुण्यसंगाभाव एव । सर्वविषयकज्ञानाश्रये तुरीये शुद्धे ब्रह्मणिं कदापि किंचिद्विषयेप्यज्ञानासंभावात्, ब्रह्माश्रिताऽविद्येति कथनमयुक्तम् । एतदभिप्रेत्यैव श्रीमदाचार्यैरुक्तम्- "अज्ञताऽखिलसंवेर्तुर्घटते न कुतश्चने " ति ।

यदुक्तं लघुना ब्रह्मानन्देन ' यत्तक्तं ताच्छीलिकतृन्नन्तेनेति तन्न । कैवल्ये विषयवेत्तृत्वस्याभावेनाविषयवेदनस्वभावत्वात् ' इति तचुच्छम् । तुर्यंतत्सर्ववृक् सदे " ति वाक्येनैव कैवल्ये विषयवेत्तृत्वाभावनिषेधात् । ज्ञानार्थकविदे: सेट्-कत्वेन वेदितृपदस्यैव साधुत्वाच्चेति । तदपि " वेत्ताऽसि वेद्यं च परं च धामे " ति भारते प्रयोगादुक्तनियमाभावसिद्धेः । अत एव भारतप्रणेतुर्वेदव्यासस्य शिष्यैरानन्दतीर्थभगवत्पादैरपि प्रयुक्तस्य संवेन्तृपदस्य साधुतमत्वम् ।

वस्तुतो अविद्याश्रयत्वेन न सर्वज्ञत्वस्य विरोधः । किंतु यं प्रत्यावरिका अविद्या तत्र न सार्वज्ञं न च जीवान्यं प्रत्यावरिकेति ध्येयम् " इति । तदप्यतिलघु । न हि चैत्राश्रितमज्ञानं मैत्रं प्रत्यावरकं, किंतु यदाश्रितमज्ञानं तं प्रत्येव तदावरकमिति नियमः सुप्रसिद्धः । तथा च ब्रह्माश्रितं चेदज्ञानं तदा तत् ब्रह्म प्रत्येवावरकं स्यान्न जीवं प्रति । तथा च ब्रह्मणि सर्वदा सर्वविषयकज्ञाने जाग्रति कस्मिन् विषये अज्ञानं ब्रह्म प्रति आवरकं स्यात् । ब्रह्म प्रति आत्रीयमाण-विषयाभावात्तत्सापेक्षमज्ञानं न संभवतीति, अविद्या ब्रह्माश्रितेत्ययुक्तम् ।

इति अविद्याया ब्रह्माश्रितत्त्वनिरासः ।