आगमनां प्रत्यक्षविरुद्धबन्धमिथ्यात्वबोधकत्वायोगः

आगमानां परीक्षित प्रत्यक्षविरुद्धार्थेअप्रामाण्यसमर्थनम्

आगमनां प्रत्यक्षविरुद्धबन्धमिथ्यात्वबोधकत्वायोगः

यञ्चोक्तम्अनन्यपरागमविरोधे प्रत्यक्षाप्रामाण्यम्, अन्यपरत्वे तु प्रत्यक्षाप्रामाण्यम्इति । तेन हि " विश्वंसत्यम् " इत्याद्यनन्यपरानेकागमसहकृतत्वेन अनेकयुक्तिसहकृतत्वेन च प्रबलत्वात् प्रत्यक्षस्य तद्विरुद्धत्वेन च नेहनानेत्यादि- वाक्यानां न प्रत्यक्षविरुद्धे विश्वमिथ्यात्वे प्रामाण्यम् । किन्तु प्रत्यक्षाविरुद्धार्थान्तर`परत्वमेवेति सिद्धम् ।

किंचानन्यपरस्यापि " सोमेन यजेत " इत्यादिविधिवाक्यस्यापि " न विधौ परः शब्दार्थइति नियममुल्लङ्घ्यापि सोमयागभेदग्राहिप्रत्यक्षबिरोधेन सोमपदस्य सोमवति लक्षणामङ्गीकृत्य सोमवता यागेनेष्टं भावयेदिति आपातत: प्रतीयमानार्थभिन्नार्थपरत्वरूपमप्रामाण्यम् सम्प्रतिपन्नम् ।प्रत्यक्षादेर्विरोधेन वाच्ययोर्नैव युज्यते । तत्वंपदार्थयोरैक्यं लक्ष्ययोरेव सिध्यति " इति शङ्कराचार्यैः अनन्यपरस्य तत्त्वमस्यादिमहावाक्यस्यापि प्रत्यक्षविरोधेन अर्थान्तरपरत्वमङ्गीकृतम् । अतः आगमानां प्रत्यक्षविरुद्धमिथ्यात्त्वबोधकत्वायोगः ।

इति प्रत्यक्षविरुद्धेऽर्थे आगमस्याप्रामाण्यय् ।