अद्वैतमहाचार्याणां परस्परं विरोधोद्घाटनम्
अद्वैतमहाचार्याणां परस्परं विरोधोद्घाटनम् ।
एकजीववादखण्डनम् । भारतप्रमाणोपन्यासः। युक्तिमल्लिकोपन्यासः ।
………………………………………………………………………………………………………………………………………………………
तथा हि तेषां विरोधः पारस्परिकः अतीव प्रकटः
मायावादमतप्रक्रियाश्च तन्मतप्रवर्तकाचार्यैः भामतीविवरणवार्तिककारैः चित्सुखानन्दबोधभारतीतीर्थादिभिश्च स्वदर्शनाचार्य भाष्यकाराभ्युपगतसिद्धान्तदूषणैः दूष्यन्ते । ते सर्वे यथारुचि स्वस्वमनीषोत्प्रेक्षामूलककल्पनया परस्परं प्रतिक्षिपन्ति । तच्चायुक्तम् । वस्तुनो बहुरूपत्वापत्तेः । वस्तुविकल्पस्य सकलतान्त्रिकैरनभ्युपगतत्वात् ।
उपायाः शिक्षमाणानां बालानामुपलालनाः ।
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ||
इति कथनं तु अज्ञानां नेत्रेषु धूलीप्रक्षेपमात्रम् । अतः परस्परविराधेनैव सुन्दोपसुन्दन्यायेन खण्डितानां तेषां खण्डनं मृतमारणतुल्यमेव । तथा हि तेषां विरोधः पारस्परिकः अतीव प्रकटः । केषाञ्चन मते एकजीववादः, केषाञ्चनमते बहुजीववादः । केचन चिदाश्रितमज्ञानं वदन्ति । केचन जीवाश्रितमज्ञानं प्रतिपादयन्ति । केचन दृष्टिसृष्टिवादं पुरस्कुर्वन्ति । अपरे च अजातवादम् ।
जगदुपादानविषये एवं परस्परं बहुधा विप्रतिपद्यन्ते । तथा हि संक्षेपशारीरकानुसारिणः केचिदेवमाहुः- शुद्धमेवोपादानम्, जन्मादिसूत्र तद्भाष्ययोरुपादानत्वस्य ज्ञेयब्रह्मलक्षणत्वोक्तेः । तथा च ‘आत्मन आकाशः संभूतः ' इत्यादिकारणवाक्येषु शबलवाचिनामात्मादिशब्दानां शुद्धे लक्षणैवेति । विवरणानुसारिणस्तु ' यः सर्वज्ञः ' इत्यादिश्रुतिभ्यः सर्वज्ञः मायाशबल: ईश्वरः एव ब्रह्मोपादानतां प्रतिपद्यते । अत एव भाष्ये ' अन्तस्तद्धर्मोपदेशात् ' “ सर्वत्र प्रसिद्धोपदेशात् ' इत्याद्यधिकरणेषु " सैवर्क्तत्साम तदुक्त्थं तद्यजुस्तद्ब्रह्म सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः " इत्यादिश्रुत्युक्तं सर्वोपादानत्वप्रयुक्तं सर्वात्मकत्वं जीवव्यावृत्तमीश्वरलिङ्गमित्युपवर्णितम् । अयमर्थः यस्य सर्वोपादनत्वं तस्य सर्वात्मकत्वम् । उपादानोपादेययोस्तादात्म्यात् । यदि प्रतिबिम्बत्वविशिष्टचैतन्यरूपे जीवे बिम्बत्वविशिष्टचैतन्यरूप ईश्वरे च विशेष्यतया अनुस्यूतशुद्धचिद्रूपब्रह्मणः सर्वोपादानत्वं स्यात् तदा तस्यैव सर्वात्मकत्वं स्यात् नेश्वरस्य तन्माभूदिति सार्वात्म्यस्य भाष्ये । जीवव्यावृत्तेश्वरलिङ्गत्वोपन्यासः । एवं चेश्वरगतमपि कारणत्वं तदनुगतमखण्डचैतन्यं शाखाचन्द्रमसमिव तटस्थतया उपलक्षयति इति तस्य ज्ञेयब्रह्मलक्षणत्वोक्तिरिति मन्यन्ते । तदभेदवादिष्वपि केचित् यद्यपि वियदादि प्रपञ्चस्येश्वर उपादानं तथाप्यन्तःकरणादीनां जीवतादात्म्यप्रतीतेर्जीव एवोपादानम् । अत एव अध्यासभाष्ये अन्तःकरणादीनां जीव एवाध्यासो दर्शितः । जीव एव स्वप्नद्रष्टवत्स्वस्मिन्नीश्वरत्वादिसर्वकल्पकत्वेन सर्वकारणमित्यपि केचित् । " मायां तु प्रकृतिं विद्यात् " इति श्रुतेः मायाजाड्यस्य घटादिष्वनुगमाच्च माया जगदुपादानं प्रतीयते । कथं ब्रह्मण उपादानत्वम् । अत्राहुः पदार्थतत्त्वनिर्णयकाराः ब्रह्ममायाचेत्युभयमुपादानमित्युभयश्रुत्युपपत्तिः, सत्ताजाड्यरूपो भयधर्मानुगत्युपपत्तिश्च । तत्र ब्रह्मणः "विवर्तोपादानत्वम् । अविद्यायाः परिणाम्युपादानत्वम् केचित्तु विवर्तोपादानसाधारणं लक्षणमाहुः । अस्ति च प्रपञ्चस्य सद्रूपेण विवर्तमानेन ब्रह्मणा, जडेन परिणामिना अज्ञानेन च अभेदः । ‘सन् घट: '“ जडो घटः " इति सामानाधिकरण्यानुभवात् । ननु अनन्यत्वाधिकरणभाष्ये " अनन्यत्वं व्यतिरेकेण अभावः न खलु अनन्यत्वमिति अभेदं ब्रूमः, किंतु भेदं व्यासेधामः " - इति भाष्यभामतीनिबन्धानाभ्यां ब्रह्माभेदो निषिध्यते, इदानीं तस्याभ्युपगमे अपसिद्धान्त इति चेत् तयोर्ब्रह्मसमानसत्ताकाभेदनिषेधे तात्पर्यात् शुक्तिरजतयोरिव प्रातिभासिकाभेदस्य अनिषेधात् ।
संक्षेपशारीरककृतस्तु बह्मैवेोपादानम् । कूटस्थस्य स्वतः कारणत्वानुपपत्तेर्मायाद्वारकारणम् । अकारणस्यापि द्वारस्य मृद इव घटे अनुगमदर्शनात् । वाचस्पतिमिश्राणां मते जीवाश्रितमायाविषयीकृतं ब्रह्म स्वत एव जाड्याश्रयप्रपञ्चाकारण विवर्तते । अतस्तदेव उपादानम् माया सहकारिमात्रम् । न कार्यानुगतं द्वारकारणम् । सिद्वान्तमुक्तावलीकारास्तु मायाशक्तिरेव उपादानम् न ब्रह्म । 'तदेतद्ब्रह्मापूर्वमनपरम् ' ' न तस्य कार्य करणं च विद्यते ' इत्यादि श्रुतिभ्यः । तस्य जगदुपादानमायाधिष्ठानत्वेन उपादानत्वोपचार: । तादृशमेवोपादानत्वं लक्षणत्वेन विवक्षितामिति अभ्युपयन्ति । जीवश्वरविषयेऽपि मतभेदो बहुलमुपलभ्यते । तथा हि-
तत्त्वविवेककाराणां मते रजस्तमोनभिभूतशुद्धसत्त्वप्रधाना माया, तदभिभूतमलिनसत्त्वात्वविद्येति भेदः । तथा च मायाप्रातीविम्बः ईश्वरः, अविद्याप्रतिबिम्ब: जीवः । प्रकटार्थविवरणकाराणां मते अनाद्यनिर्वाच्यभूतप्रकृतिचिन्मात्रसंबन्धिन्यां मायायां चित्प्रतिबिम्ब ईश्वरः; तस्या एव परिच्छिन्नानन्तप्रदेशेष्वावरण विक्षेपशक्तिमत्सु अविद्याभिधानेषु चित्प्रतिबिम्ब: जीवः; संक्षेपशारीरककृतां मते "कार्योपाधिरयं जीवः, कारणोपाधिरीश्वरः इति श्रुतिमनुसृत्य अविद्यायां चित्प्रतिबिम्ब ईश्वरः, अन्तःकरणे चित्प्रतिबिम्ब: जीवः; चित्रदीपकाराणां मते 'जीव ईशो विशुद्धा चित् ' इति चित्त्रैविध्यकल्पनाभावात् यथा घटावच्छिन्नआकाशो घटाकाशः, तदाश्रिते जले प्रतिबिम्बितः साभ्रनक्षत्रः जलाकाशः, अनवच्छिन्नः महाकाशः, महाकाशमध्यवर्तिनि मेघमण्डले वृष्टिलक्षणकार्यानुमेयेषु जलरूपतदवयवेषु तुषाराकारेषु प्रतिबिम्बितः मेघाकारा इति एकस्यापि आकाशस्य चातुर्विध्यम् तथा स्थूलसूक्ष्मदेहद्वयस्य अधिष्ठानतयावर्तमानं तदवच्छिन्नं चैतन्यं कूटवन्निर्विकारत्वेन स्थितं कूटस्थम्, तत्र कल्पिते अन्तःकरणे प्रतिबिम्बितं चैतन्यं संसारयोगी जीवः, अनवच्छिन्नं चैतन्यं ब्रह्म, तदाश्रिते मायातमसि स्थितासु सर्वप्राणिनां धीवासनासु प्रतिबिम्बितं चैतभ्यमीश्वर इति चैतन्यस्य चातुर्विध्यम् ; विवरणानुसारिणां मते बिम्बप्रतिम्बिभावेन जीवेश्वरयोर्विभागः, नोभयोरपि प्रतिबिम्बभावेन, तापि प्रतिबिम्बो जीवः बिम्बस्थानीयः ईश्वरः; तथा सत्येव लौकिकबिम्बप्रतिबिम्ब-स्वातन्त्र्यवरस्य, तत्पारतन्त्र्यं च जीवस्य अपरेषां मते रूपानुपहितप्रतिबिम्ब: न युक्तः इति घटाकाशवदन्तः करणावच्छिन्न चैतन्यं जीवस्तदनवच्छिन्नमीश्वरः अन्येषां मते न प्रतिबिम्बो नाप्यवच्छिन्नो जीवः; किंतु कौन्तेयस्यैव राधेयत्ववत् अविकृतस्यैव ब्रह्मणोऽविद्यया जीवभावः व्याधकुलसंवर्धितराजकुमारदृष्टान्तेन ' ब्रह्मैव, स्वाविद्यया संसरति, स्वविद्यया मुच्यते ' इति बृहदारण्यकभाष्ये प्रतिपादनात् " राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते यथैचात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः " इतिवार्तिकोक्तेश्च ।
अन्ये तु अद्वैतवादे एकजीववाद: मुख्यो वेदान्तसिद्धान्तः । इममेव दृष्टिसृष्टिवादमाचक्षते । अस्मिंश्च पक्षे जीव एव स्वाज्ञानवशात् जगदुपादानं निमित्तं च । दृश्य सर्व प्रातीतिकम् । देहभेदाच्च जीवभेद भ्रान्तिः । एकस्यैव च स्वकल्पितगुरुशास्त्राद्युपबृंहितश्रवणमननादिदार्द्यादात्मसाक्षात्कारे सति मोक्षः । शुकादीनां च मोक्षश्रवणं त्वर्थवादः इत्याहुः ।
तेषामयमाशयः उपायानामनादरेण उक्तत्वात् तत्र तात्पर्यं न विद्यते । न तत्र अतीव क्षोदो विधेय: । किंतु उपेयमात्रे अद्वैते तात्पर्यमाकलनीयमिति । सिद्धान्तलेशसंग्रहे प्राचनैिर्व्यहारसिद्धविषयेष्वात्मैक्यासिद्धौ परं सन्नहयद्भिरनादरात्सरणयो नानाविधा दर्शिताः इति विवक्षितवस्तुप्रतिपत्त्युपायतया विरुद्धनानाप्रकारप्रदर्शनमाचार्याणां न दोषाय भवति, किंतु अलंकारायैव कल्पते प्रतिपतृणां प्रज्ञावैचित्र्येण कस्यचित् प्रतिपत्तुः केनचित् प्रकारेण मुक्तिसाधनब्रह्मात्मैक्यज्ञानलाभात् । तदुक्तं सुरेश्वराचार्यैः-
यया यया भवेत्पुंसां व्युत्पत्ति : प्रत्यगात्मनि ।
साव प्रक्रियेह स्यात् साध्वी सा चानवस्थिता इति, परिमलेऽपि "अकल्पितवस्तुप्रतिपत्त्युपायतया कल्प्यमानेषु पदार्थेषु विरोधो न दोषावह " इति ।
अस्मिन् विषये सिद्धान्तबिन्दौ एवं शङ्कासमाधाने कृते तथा हि-ननु वस्तुनि विकल्पासंभवात् कथं परस्परविरुद्धमतप्रामाण्यम् । तस्मात् किमत्र हेयं किमुपादेयमिति चेन्न; क एवमाह वस्तुनि विकल्पो न संभवतीति स्थाणुर्वा पुरुषो वा राक्षसो वेव्यादि विकल्पस्य वस्तुन्यपि दर्शनात् । अतात्त्विकी सा कल्पना पुरुषबुद्धिप्रभवा । इयं तु शास्त्रीया जीवेश्वरविभागादिव्यवस्था इति चेत् नूनमतिमेधावी भवान् । अद्वितीयात्मतत्त्वं हि प्रधानं फलवत्त्वादज्ञातत्वाच्च प्रमेयं शास्त्रस्य । जीवेश्वरविभागादिकल्पनास्तु पुरुषबुद्धिप्रभवा अपि शास्त्रेण 'अनूद्यन्ते । तत्त्वज्ञानोपयोगित्वात् ' फलवत्सन्निधावफलं तदङ्गम्' इति न्यायात् भ्रमसिद्धस्यापि श्रुत्या अनुवादसंभवात् । ....एवं वेदान्तेषु सर्वत्र एवंविध विरोधे अयमेव परिहारः इति ।
तदेतदतितुच्छम् । विनेयबुद्धिप्रावण्यानुसारण अद्वितीय ब्रह्मप्रतिपत्त्युपाया नानाविधाः संभवेयुरित्यङ्गीकुर्मः । तथापि न तव समीहितसिद्धिः । सूक्ष्मारुन्धतीप्रतिपत्त्यर्थं चक्षुरभिमुखतारकारूपस्थूलारुन्धतीप्रदर्शकवाक्यदृष्टान्तोपन्यासस्तत्र तत्र क्रियमाणः विषम एव । एवमेव सिद्धशब्दप्रतिप्रत्युपायकृत्रिमशब्दगतविविधप्रकृतिप्रत्ययादिविभागप्रदर्शकाने कव्याकरणदृष्टान्तोऽपि न साधीयान् तथा हि अरुन्धतीस्वरूपे यस्य विप्रतिपत्तिर्नास्ति तस्य स्थूलतारादिप्रदर्शन'मुखैरनेकैरुपायैः सूक्ष्मारुन्धतीप्रदर्शनं क्रियते । यस्य परिनिष्ठितशब्दस्वरूपसत्तायां न विप्रतिपत्तिः तस्य नानाविधप्रक्रियाप्रदर्शनेन सिद्धशब्दस्य व्युत्पादनं क्रियते । तयोः क्रमेण अरुन्धतीजिज्ञासा वैदिकलौकिकशब्दव्युपत्तिजिज्ञासा च वर्तते । यस्य च निर्धमकब्रह्मस्वरूपे एव विप्रतिपत्ति: तत् कथमेभिः परस्परविरुद्वैः परः सहस्रैरप्युपायैः शक्यं बोधयितुम् । अन्यथा स्थूलतारादि-'प्रदर्शनादिना गगनकुसुमस्य प्रतिपत्त्यर्थं प्रयतमानः न केनापि दोषेण दूष्येत ।
एकजीववादस्तु भृशं हासास्पदम् यतो हि सर्वत्र चरन्तः सर्वान् व्यवहारान् कुर्वन्तः सकलजीवराशयः शवसहोदरा अभिमताः अस्मिन् पक्षे । स्वयं निर्जीववाद स्वीकृत्य कथं जीवशून्यदेहवादिनं चार्वाकं निराकुर्वन् विद्वद्गोष्ठीषु नापत्रपेत । स्वैरिण्या स्वेरिण्यन्तरस्य निन्दनमपहसनं च जनसमुदायस्य हास्यास्पदमेव भागवताग्रेसराणां परमपूज्यानां शुकादिमहामुनीनां मोक्षाभावं वदन्तोऽपि कथं पूजार्हाः । सकलैः अधिकारिभिः स्वस्ववर्णाश्रमानुसारेण महाविश्वासपुरस्सरं क्रियमाणाः यजनाध्ययनमननश्रवणदानस्नानादिकाः सर्वे कर्मकलापाः स्वाप्नसमा इति निष्फला इति उद्घोषितमेकजीववादिभिः । अहो औद्धत्यमुत्पथानाम् । अयं स एकजीवः अनादिमायया सुप्तः सृष्ट्यादि- सर्वव्यापारान् करोति, इति पक्षे तत्सृष्टानां सर्वेषामपि वेदवेदान्तसंप्रदायप्रवर्तकानां महर्षीणां महाचार्याणां न केवलं सुप्तत्वं किंतु मृततुल्यत्वं प्रसज्येत । तथा च कथमेतैरुक्तानि वचनानि कृतानि च शास्त्राणि प्रमाणपदवीमश्नुवीरन् । स्रष्टा जीवः निद्रितः सृष्टास्तु इतरे विनिद्राः इत्यपि परिहास्यम् । यतो हि कल्पकजीवस्य मोक्षः कल्पितजीवानामचेतनानामुपदेशाज्जायते इत्युक्तं स्यात् । तथा च अन्धश्चारयति, चक्षुष्मांश्चरति; मूको वक्ति वाग्मी शृणोति इति कथितं भवेत् । श्रुतिषु यत् सर्वजीवानां स्वाप्नपदार्थद्रष्टृत्वमुक्तं तदप्येकजीववादे न संभवति । अचेतनस्य स्वप्नद्रष्टृत्वायोगात् । संसारे सर्वत्र स्वस्वात्मभोगार्थं प्रयतमाना दृश्यन्ते । अत एव पारस्परिक कलहव्याकुलं जगदिदम् । यदि एक एव जीवः भोक्ता भवेत्, कलहः निर्निबन्धनः स्यात् । किं च एकत्वादेव सर्वभोक्तृत्वमपरिहार्यम् । ततश्च अभक्ष्यभक्षणे यः प्रायश्चित्तविधिः शास्त्रोक्तः स कुञ्जरशौचवत् व्यर्थः स्यात् एकेन देहेन प्रायश्चित्तस्य कृतत्वेऽपि देहान्तरेण पापस्यैव आचीर्यमाणत्वात् । ननु " अनादिमायया सुप्तः यदा जीवः प्रबुध्यते " इत्यत्र जीवः इत्येकवचनश्रवणात् एक एव जीवः स्वीकर्तव्यः इति चेत् न; जात्येकवचनत्वसमाश्रणयसंभवात् । धर्मं चरेति श्रुतौ धर्मपदस्थापि एकवचनान्तत्वात् वेदविहितधर्मनानात्वमपहस्तितं स्यात् । “अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः” इत्यादिश्रुतिभिः जीवनानात्वस्य स्पष्ट प्रतिपादनात् । सृष्ट्यादिकर्तुः सुप्तत्वे सृष्टजगद्वयापाराः कथं संभवेयुः । पण्डितैः क्रियमाणाः ग्रन्थनिर्माणखण्डन मण्डनादिव्यापाराः न कदापि संपद्येरन् ।
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह || " इति
भारतादिवचनैः बहुजीवसत्त्वावगमात् ।
अन्यच्च शुद्धं ब्रह्मैव वा हिरण्यगर्भ एव संसरति इति पक्षद्वयेऽपि वादिराजश्रीपादोक्तरीत्या त्वं चण्डालः पशुम्लेच्छः चोरो जारः खरः कपिः । कुण्डो गोलक इत्याद्या या निन्दा लोकसम्मताः ॥ ताः सर्वाः सर्वजीवैक्यवादे स्युर्हि परात्मनि ।
ये ये लोकविद्विष्टा दोषास्ते सर्वेऽपि ब्रह्मैव कलङ्कयेयुरिति स्पष्टम् । तथा अत्र अपराण्यपि तेषां वचनानि मननीयानि माननीयानि च भवन्ति ।
ब्रह्मैव हीनयोनीस्ताः प्राप्य स्वेनैव पाप्मना ।
संसरेच्चेदियं सर्वा गाली कस्य गले वद ॥
अन्यश्चबधिरो मूकः पङ्गुः पण्डो विनासिकः ।
इत्याद्या व्यङ्गताहेतोर्या निन्दा लोकसम्मताः ॥
ताः सर्वाश्च निराकारवादे किं न स्युरीश्वरे ।
विद्याविनयहीनस्त्वं निर्दयो निर्व्रतोऽशुचिः ॥
औदार्यधैर्यशौर्याद्यैर्हीन इत्यादिकाश्चयाः ।
सद्गुणाभावतो निन्दास्तास्तु नैर्गुण्यवादिनाम् ।
मते स्युः ब्रह्मणि परे सर्वाः सर्वस्य सम्मताः ।
या च ग्रामतटाकादेरारामादेः कृतस्य हि ||
मिथ्यात्वकथनान्निदा मत्सरग्रस्तचेतसाम् ।
सा सर्वा सर्वमिथ्यात्ववादे स्यादेव माधवे ॥
अज्ञोऽसीति तु या निंन्दा सा मायाश्रयचोक्तितः ।
भगवत्यच्युते कर्मबद्धत्वोक्त्या च पापिता ।। इत्यादीनि ।
।इति अद्वैतमहाचार्याणां परस्परं विरोधोद्घाटनम् ।