स्मृतिरपि प्रमाणमेव

स्मृतिप्रामाण्यसमर्थनम्

स्मृत्युपयोगकथनम् । स्मृतिप्रामाण्ये श्रुतिकथनम्।

………………………………………………………………………………………………………………………………………………………….

स्मृतिरपि प्रमाणमेव

स्मृतिरपि प्रमाणमेव । तथा हि तस्य मानससाक्षात्काररूपत्वात् । बोह्येन्द्रियनिरपेक्षं मन एव स्मरणरूपसाक्षात्कारं जनयति । ' स्वातन्त्र्येण स्मरणसाधनं मन ' इत्युक्तं पद्धतौ । तथा च स्मृतेः फलरूपप्रत्यक्षेऽन्तर्भावः मनसश्च करणप्रत्यक्षेऽन्तर्भावः । ननु स्मृतेर्थ्याथार्थ्यमेव नास्ति कुतस्तत्साधनत्वेन मनसः अनुप्रमाणता कुतस्तरा च प्रत्यक्षप्रमाणता । स्मृतिकाले तद्देशकालवैशिष्ट्यरूपपूर्वावस्थाया अभावेन अविद्यमानवियकत्वात्स्मृतेरयथार्थत्वमेव युक्तमितिचेन्न ज्ञानोल्लिखितदेशकालयोर्विपयासत्त्वमेव ज्ञानायाथार्थत्वे तन्त्र न तु उल्लिखितस्य विषयस्य ज्ञानकालेऽसत्त्वम् । स्मृत्युलिखितदेशकालयोश्च स्मृतिवियः सन्निति न स्मृतेरयाथार्थ्यम् । उक्तं च पद्धतौ यतो ज्ञानकाले वस्तुनस्तथात्वं याथार्थ्यांपयुक्तं न भवति । किन्तु यद्देशकालसम्वन्धितया यद्वस्तु ज्ञानेन यादृशं गृह्यते तद्देशकालयोस्तस्य तथात्वम् । स्मृतिश्च तत्र तदा असौ तादृश इति गृण्हाति । न च तत्र तदाऽसौ न तादृशः इति । ननु स्मृतेः प्रमात्वे तस्याश्च संस्कारमात्रजन्यत्वात् संस्कारस्य प्रमाणान्तरतापत्तिरिति चेन्न मनस एव तत्कारणत्वेन संस्कारस्य व्यापारमात्रत्वात् । ततश्च संस्कार सहकृतं मनोऽननुभूतामपि निवृत्तपूर्वावस्थां वियीकुर्वत्स्मरण जनयेदिति न कोपि क्षुद्रोपद्रव वर्तमानमात्रविषयाण्यपीन्द्रियाणि सहकारि सामर्थ्यात् कालान्तरसम्बन्धितामापि गोचरयन्ति । यथा संस्कारं सहकृतानि सोऽयमित्यतीतवर्तमानत्वविशिष्टप्रत्यभिज्ञासाधनानि । अनुभवबलेनैव इत्थं सहकारिसामर्थ्यकल्पनान्नातिप्रसङ्गः । ननु ज्ञानसामान्यं प्रति मनसः कारणत्वेन तत्र च विवादाभावेन मनोजन्यत्वोक्तिरयुक्तेति विशेषकारणमेव वक्तव्यमिति चेत्, चाक्षुषत्वाच्छिन्नं प्रति चक्षुष इव प्रत्यक्षत्वव्याप्यमानसत्वावच्छिन्नं प्रति मनस एव विशेषतः कारणत्वाङ्गीकारात् । किं च स्मृत्यैवहि सर्वेषा जनानां कृताकृतप्रत्यवेक्षणादिसिद्धिः । स्मृत्यैव कवय काव्यानि कवयन्ति स्मृत्यैव शब्दानुमानयोः प्रवृत्तिः । शाब्दबोधकारणीभूता उपस्थितिः परामर्शकारणीभूतं व्याप्त्यनुसन्धानं च स्मृतिरूपे एव । स्मृतेः अप्रमाणत्वे तयोरपि अप्रामाण्यं स्यात् । प्रत्यक्षस्य प्रयोजनशून्यत्वं स्यात् । प्रमाणत्वेन व्यवहाराभावात्स्मृतिः न प्रमाणमिति चेत्, पामरव्यवहाराभावस्य अकिश्चित्करत्वात् । परक्षिकैः स्मृतिः प्रमाणत्वेन न व्यवह्रिनयते इति चेन्न तेषां परीक्षकत्वे विगानात् सर्वपरीक्षकव्यवहाराभावस्यचासिद्धेः । मानमनोहरादौ वागीश्वरादिस्तत्प्रामाण्यस्य समर्थितत्वाच्च । कतिपयपरीकव्यवहाराभावस्य च अतिप्रसञ्जकत्वात् अप्रयोजकत्वाच्च । अक्षपादादिव्यवहास्य च अस्माकमसम्मतत्वात् ।

स्मृति: प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् ।

प्रमाणमिति विज्ञेयं धर्माद्यर्थे बुभूषुभि:

इति श्रुतिरपि स्मृते प्रामाण्यं व्यवस्थापयति । ननु अत्र स्मृतिशब्दः न प्रकृतस्मृतिपर किंतु मानवादिग्रन्थपरः इति चेन्न, मानवादिस्मृतिग्रन्थानां प्रामाण्यस्यापि वेदार्थज्ञानजन्यसंस्कारजन्यप्रकृतस्मृतिप्रामाण्यायत्तत्वात् । स्मृतेः अप्रामाण्ये स्मृतिमूलकग्रन्थानां प्रामाण्यासंभवाच्च । तथा च "स्मृतैश्च" " स्मरन्ति च" इतिब्रह्मसूत्रेषु स्मृतीनां प्रमाणत्वेन उपन्यासस्य असङ्गतत्वापत्तेश्च इत्यलं पल्लवितेन एतेन | अद्वैततत्त्वसुधाकारस्य स्मृतेरप्रामाण्यवचनं निरस्तं वेदितव्यम् ।

इति स्मृतिप्रामाण्यसमर्थनम्