विशेषो नाम कथित: सोSस्ति वस्तुष्वशेषत:

विशेषसमर्थनं

विशेषस्य स्वनिर्वाहकत्वसमर्थम्

…………………………………………………………………………………………………………………………………………………………

विशेषो नाम कथित: सोSस्ति वस्तुष्वशेषत:

ननु अयं विशेष: विशेषिणा भिन्नो वा अभिन्नो वा । विशेषविशेषिणोर्भेदे अपसिद्धान्तः । अभेदे पुनर्व्यवहाराद्यनुपपत्तिः । विशेषान्तरस्वीकारे अनवस्था इति चेन्न विशेषविशेषिणोरभेदाङ्गीकारात् । एक एव विशेषः विशेषान्तरमन्तरेण "विशेषतद्वद्भावं गमयति इत्यङ्गीकाराच्च न व्यवहाराद्यनुपपत्तिः नानवस्था च । इदमत्र तत्वम् । विशेषो नाम निर्भेदत्वेन प्रमितेषु अपि ईश्वरजीवजडेषु तदीयरूपगुणक्रियादिधर्मेषु च अवान्तरबहुत्वादिभेदकार्यघटको भेदप्रतिनिधिः शक्तिविशेषः । तदुक्तं बृहद्भाष्ये " एकस्मिन्नेव शब्दानां यस्तु नानास्वरूपिणाम् । प्रयोजकत्वहेतुः स्यात्स विशेष प्रकीर्तितः " इति । ननु निर्भेदवस्तुनिथं विशेषस्याप्यवस्थानं संभवति इति चेत् ईश्वराचिन्त्यशक्त्यैवेति वदामः । तत्तपदार्थस्वभावा ईश्वराचिन्त्यशक्त्या नियमिताः इति अवश्यमङ्गीकार्यम् । तादृशशक्त्यनङ्गीकारे न क्वापि पदार्थव्यवस्था उपपादयितुं शक्या स्यात् । बहुविप्लवापत्तिश्चस्यात् । तथा हि धर्मधर्मिणोरभेदावगाहिप्रत्यक्षादिप्रमाणैः अत्यन्तामेदो ज्ञायते । घुट : शुकः इति प्रतीतिस्तावद्वर्तते । सा प्रतीति: सबन्धमात्रनिबन्धना इति वक्तुं न शक्यते । कुण्डबदरादिप्रतीतितः विलक्षणत्वात् । एवं घटरूपयोरभेदेऽपि घटस्य रूपमित्यादि व्यवहारो विशेषबलेन युज्यते । तथैव विशेषविशेषिणोरभेदेऽपि विशेषस्य स्वनिर्वाहकतया घटतद्रूपयोविंशेष इति भेदव्यवहारोऽपि युज्यते । ननु घटस्य नैल्यमिति प्रतीतिव्यवहार बलेन घटनैल्ययोर्भेदमङ्गीकृत्य घटो नीलः इति सामानाधिकरण्यव्यवहार सिद्ध्यर्थं समवायादिकमङ्गीकृत्य अनवस्थादिदोषपरिहारार्थं च अङ्गीकृतस्य समवायस्य यदि स्वनिर्वाहकत्वं स्वीकृत्यापि सर्वमुपपादयितुं शक्यते चेत्, किं विशेषाङ्गीकारेण । अथवा विशेषसमवायपक्षयोः कल्पनासाम्यात् न विशेषावलम्बेन समवायानिरासो युक्तः । तथा हि भवद्भिः अभेदमभ्युपगम्य भेदव्यवहार सिद्धये विशेषं परिकल्प्य अनवस्थादिदोषपरिहारार्थं तस्य स्वनिर्वाहकता स्वीकृता । नैयायिकैस्तु भेदमङ्गीकृत्य अभेदव्यवहार सिद्धये समवायरूपनित्यसंबंधं परिकल्प्य अनवस्थादिदोषपरिहारार्थं तस्य स्वनिर्वाहकता स्वीकृता । तथा च समवायपक्षापेक्षया नाधिको लाभ इति चेन्न परैर्धटं तद्भिन्नं रूपं तदन्यं सामानाधिकरण्यघटक समवायरूपं संबन्धं परिकल्प्य तस्य स्वनिर्वाहकत्वमभ्युपेयते इति महागौरवम् । अस्माभिस्तु न पदार्थत्रयकल्पनं कृतम् । किंतु एकमेव धर्मधर्मिस्वनिर्वाहकविशेषस्वरूपमेव । अतो न कल्पनासाम्यम् । ननु सत्यप्यभेदे घटस्तद्रूपं विशेष इति त्रयस्य अङ्गीकारात् गौरवसाम्यमेव इति चेन्न वस्तुस्वरूपमेव यावत्स्वगतभेदकार्यं निर्वाहकविशेषस्वभावमिति एकस्मिन्नेव गुणगुण्यादिव्यवहारः न तु धर्मधर्म्यन्यतया समवाय व विशेषोऽन्यः । तथा हि एकमेव वस्तु रूपवत्वादिविशेषवेषेण धर्म इति तदाश्रयलक्षण विशेषवेषेण धर्मीति व्यवह्रियते । रूपरूपविशेषाणां च वस्तुस्वभावत्वेन पदार्थान्तरत्वाभावात् न गौरवम् । सत्यप्यभेदे स्वनिर्वाहकविशेषरूपबलात् रूपस्य धर्मत्वं रूपिणः धर्मित्वं रूपस्य आधेयत्वं घटस्य आधारत्वं विशेस्य विशेषत्वं धर्मधर्मिणोर्विशेषित्वं स्वस्यैव निर्वाह्यत्वं निर्वाहकत्वमित्यादि सर्वं युज्यते । तथा चोक्तं तत्त्वप्रदीपिकायां " तस्माद्गुणगुणिनोर्भेदं कल्पयित्वा तदनवस्थापरिहारार्थं तस्य स्वनिर्वाहकत्वकल्पनाद् वरमेकस्य द्रव्यस्य गुणादिविशेषरूपेणैव स्वनिर्वाहकत्वमिति द्रव्यमेव स्वकार्यगुणक्रियादिरूपं स्वनिर्वाहकमिति च । " इति ।

इति विशेषसमर्थनं