जीवेश्वरभेदे प्रत्यक्ष अनुमानमपि प्रमाणम्

जीवेश्वरभेद सर्थनम्

तत्र प्रत्यक्षप्रमाणम् । अनुमानप्रमाणम् ।

…………………………………………………………………………………………………………………………………………………………….

जीवेश्वरभेदे प्रत्यक्षं प्रमाणम् ।

नाहमीश्वरः

ननु जीवेश्वरभेदः कथमङ्गीकारार्ह तद् ग्राहकप्रमाणाभावादिति चेन्न, नाहमीश्वरः इति प्रत्यक्षस्यैव प्रमाणत्वात् । इदं प्रत्यक्षं भ्रमरूपमिति नाङ्गीकर्तुं शक्यते बाधकाभात् । ईश्वरातिरिक्तस्य कस्यापि कदापि कथंन्चिदपि 'अहमीश्वरः सर्वज्ञः ' इति प्रतीत्यनुत्पत्तेः । ननु आत्मनः चक्षुराद्यवियत्वात् नेदं प्रत्यक्षं चक्षुरादिकरणकम् । मनोजन्यमपि न तस्य केवलं प्रमाणान्तरसहकारित्वात् । अतः प्रमाणाजन्यत्वात् ' नाहमीश्वरः ' इति प्रत्यक्षं भ्रान्त्यात्मकमेवेति चेत्, न मनोजन्यमिति वा साक्षिजन्यमिति वा ब्रूम: । ननु मनः प्रमाणान्तरसहकार्येव, न स्वातन्त्र्येण प्रमाणमित्युक्तमिति चेत्, सत्यमुक्तं दुरुक्तं तत् । सार्वजनीनायाः सुखाद्युपलब्धे त्वयापि चक्षुरादिबहिरिन्द्रियाजन्यत्वाभ्युपगमात् मनोजन्यत्वं साक्षिजन्यत्वंवाऽकामेनापि अङ्गीकार्यम् । ननु नाहमीश्वर इत्यत्र प्रतियोगित्वेन भासमानस्य ईश्वरस्य अप्रत्यक्षत्वात् कथं तत्प्रतियोगिकभेदः प्रत्यक्षः प्रत्यक्षविषयाभावप्रतियोगिनः प्रत्यक्षत्वनियमात् इति न वाच्यम्, अभावप्रत्यक्षे तु प्रतियोगिप्रत्यक्षस्याप्रयोजकत्वात् पार्थिवपरमाणौ जलत्वाभावस्य अप्रत्यक्षत्वात् । जले पार्थिवपरमाणुत्वाभावस्य प्रत्यक्षत्वाच्च । स्तम्भः पिशाचो न भवति इति भेदप्रत्यक्षस्य प्रतियोगिप्रत्यक्षनिरपेक्षतायाः सकलतान्त्रिकसम्मतत्वाच्च । अपि च यत्सत्ता यदनुपलब्धिविरोधिनी तत्र तदभावः प्रत्यक्ष इति वक्तव्यम् । जीवेश्वराभेदः अस्ति चेत्, प्रत्यक्षः स्यादिति उपलब्धि प्रतियोगिसत्त्वप्रसञ्जनेन प्रसंन्जयितुं शक्यते । अतः तदभावः प्रत्यक्षः। न च अस्यां प्रतीतो भासमान भेदः औपाधिक एवेति वाच्यम् । " नाहमीश्वर " इत्यत्र अहमिति प्रतीतिः न शरीरादिविशिष्टविषयिका अपितु शुद्धात्मविषयिकैवेति न तद्बोध्यो भेदः औपाधिक: । भेद विद्याविलासे उक्तम् ज्ञानसुखाद्याश्रयत्वेनोपलभ्यमानस्य अहमर्थस्य अनात्मत्वे प्रमाणाभावात् । न च अहंकारोऽनात्मा दृश्यत्वात् इत्यनुमानमानमिति वाच्यम् । अहंकारशब्देन अहंकारतत्त्वान्तःकरणगर्वोक्तौ सिद्धसाधनात् । चेतन्यमात्रोक्तौ च बाधात् । अन्तःकरणविशिष्टचैतन्योक्तावपि सिद्धसाधन विशिष्टस्य पदार्थान्तरत्वात् अपदार्थान्तरत्वेत्वशतो बाधसिद्धसाधनापत्तिः । एतेन अन्तःकरणधर्मातिरिक्तामनुभवविशेष्यस्य पक्षत्वमित्यपास्तम् । चैतन्यातिरिक्तस्य अहमनुभवविशेष्यत्वे प्रमाणाभावात् प्रत्युत " चिन्मात्रोऽहं सदाशिव: " " अहमात्मा गुडाकेशः" "त्वा ज्ञप्तिमात्रं पुरुषं भजाम्यहम्" इत्यादि श्रुतिस्मृतिभिः चैतन्यमात्रस्येव अहमर्थत्वावेदनेन च बाधतादवस्थ्यात् । दृश्यत्व च न तावदुवृत्तिविषयत्वम्, ब्रह्माणि व्यभिचारात् । नापि चिद्विषयत्व ज्ञाततया साक्षिविषये ब्रह्माणि व्यभिचारतादवस्थ्यात् । नापि साक्षिचिद्विषयत्वं तत्, अहं सुखीत्यादिसाक्षिरूपज्ञानस्य सुखतदाश्रयाहमर्थचिद्विषयत्वेन उक्तदोषानिस्तारात् । ब्रह्मणश्चरमवृत्तिप्रतिबिम्बितचैतन्यविषयत्वाच्च । अन्यथा तदज्ञानानिवृत्तिप्रसङ्गः । समानविषयकयोरेव तयोर्निवर्त्यनिवर्तकभावात् । अन्यथाऽतिप्रसङ्गात् । अनुकूलतर्काभावेनाप्रयोजकत्वाच ।' क्वचिद्वृत्तेरज्ञान निवर्तकत्वं क्वचित् वृत्तिप्रतिबिम्बित चैतन्यस्येति कल्पनमप्रामाणिकं गौरवपराहतंचेति विभावनीयम् । ननु अहमर्थो न आत्मा तस्य आत्मनः पृथगुपदेशात्' अथातोऽहंकारादेश: ' ' अथात आत्मादेशः ' इति पृथगुपदेशान्यथानुपपत्या अमर्थस्य अनात्मत्वं निश्चीयते । तत्र आत्मशब्देन परमात्मग्रहणं कर्तुं न शक्यते ' यो वै भूमा तत्सुख ' मिति भूमानमुपक्रम्य " स एव अधस्तादिति तस्यापि पार्थक्येनोपदेशात् इति चेत् न; भूमाहंकारात्मनां त्रयाणामपि सर्वगतत्वोपदेशेन जीवाहंकारयोरतदयोगेन जीवाहंकारपरत्वाभावात् । न च स एवेदं सर्वमिति वाक्यशेषात् अत्र सार्वात्म्यस्यैव प्रतिपादनं न सर्वगतत्वस्येति वाच्यम्, सप्तमीपञ्चमीप्रथमान्तेभ्यो दिग्देशकालेष्वस्तातिरिति विहितस्य अस्तातिप्रत्ययस्य नानार्थकत्वात् ।

न च वाक्यशेषात्सार्वात्म्यनिर्णयः सर्वाभेदस्य अद्वैतिनाप्यनङ्गीकारात् । सर्वस्य ब्रह्माभेदो नाम सर्वस्य ब्रह्मव्यतिरेकेण असत्त्वमिति स्वीकारे मुख्यार्थहानि । " ब्राह्मणोऽस्य मुखमासीत् " " राजा राष्ट्र " मित्यादिवत् तज्जन्यत्वतदधीनत्वाद्यर्थोपादानेन इतरप्रमाणाविरोधेन स्वारस्येन व्याख्यानकरणस्य शक्यत्वात् । तस्माज्जीवेश्वरभेदः न औपाधिकः किन्तु स्वाभाविक एव । इति तद्विषये प्रत्यक्षं प्रमाणमिति सिद्धम् । एवमेव जीवप्रतियोगिकेश्वरधर्मिको भेदः प्रत्यक्ष एव तस्य अस्मदादिप्रत्यक्षावियत्वेऽपि ईश्वरप्रत्यक्षविषयत्वात् । न च ईश्वरस्य तादृशप्रत्यक्षे प्रमाणाभावः उत्तम पुरुषस्त्वन्य परमात्मेत्युदाहृतः तान्यह वेद सर्वाणि न त्व वेत्थ परतप " " विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् " " अव्यक्तं व्यक्तिमापन्न मन्यन्ते मामबुद्धयपर भावमजानन्तो ममाव्ययमनुत्तमम् " इत्यादिवचनानां तत्साधकत्वात् । एवं जीवानां परस्परभेदोऽपि साधयितुं शक्यते नाहं देवदत्त इति यज्ञदत्तप्रत्यस्य जागरूकत्वात् ।

जीवब्रह्मभेदे अनुमानमपि प्रमाणम् ।

तथाहि जडातिरिक्तोऽहमितिप्रतीयमानोर्थः ब्रह्मधर्मिकभेदप्रतियोगी तत्प्रतियोगिकभेदवान् वा परिच्छिनत्वादसर्वज्ञत्वाद्वा घटवत् । न चारोपितभेदमादाय सिद्धसाधनम् । हृदादावप्यारोपितवन्हिसत्त्वेन बाधोच्छेदापत्तेः सिद्धसाधनतापत्तेश्च यद्वा ब्रह्म स्वज्ञानाबाध्यजीवप्रतियोगिकभेदवत्, पदार्थत्वात्, घटवत् ।

यद्वा जीवेश्वराभेद: पारमार्थिकः अनिषेध्यत्वेन प्रमाविषयत्वात् ब्रह्मवत् । न चासिद्धिः, " नान्योऽतोऽस्ति द्रष्टा " इत्यादि श्रुतिभिः भेदो निषिध्यते इति वाच्यम् एवमादिश्रुतीनां ईश्वरसमानद्रष्ट्रन्तरनिषेधपरत्वात् ।

यद्वा जीवः न ब्रह्माभिन्नः परिच्छिन्नत्वात् घटवत् । एतेन अन्तःकरणातिरिक्तोऽहमिति प्रतीयमानो जीवो न परस्माद्भिद्यते चेतनत्वात् पदार्थत्वाद्वा ब्रह्मवदिति परास्तम् । प्रत्यक्षविरोधाद्युक्तदूषणगणग्रासात् ।

ननु नामीश्वर इति प्रत्यक्षं स्वीक्रियते एव । अहमर्थस्य जीवत्वाङ्गीकारे अपि न बाधकम् । जीवानुयोगिकेश्वरप्रतियोगिकभेदोऽपि अङ्गीक्रियते विशिष्टयोः अभेदानङ्गीकारात् उपलक्षितयोरेव अस्माभिः अमेदाङ्गीकारात् इति चेन्न, गोवा-श्वत्वविवक्षामात्रेण गोत्वाश्वत्वोपलक्षितयोः गवाश्वयोरपि अभेदः स्यात् । इष्टा पत्तिरिति चेत् सर्वत्र व्यवहारविप्लवः स्यात् गोत्वाश्वत्वयो यावदाश्रयभावित्वात् तदुपलक्षितत्वं तदभावकाले तदूव्यावर्त्यमानत्वरूपं गवाश्वयोः न संभवति अतः उपलक्षितयोस्तयोः अभेदापादनं न संभवति इति चेत् जीवत्वेश्वरत्वयोरपि नित्यत्वे यावदाश्रयभावित्वात् तदुपलक्षितत्वं जीवेश्वरचैतन्यस्वरूपयोरपि न संभवति । उपलक्षितत्वाङ्गीकारेऽपि भेद एव सिद्धयति । तदुपलक्षितत्वं नाम तब्दोध्यव्यावृत्तिशालित्वं व्यावृत्ति भेद इत्यनर्थान्तरम् । विशेषणतापना यः यादृशीं व्यावृत्ति-बुद्धिं जनयति उपलक्षणतापत्र सः तादृशीं व्यावृत्तिबुद्धिं जनयत्येव । तथा हि-काकपिकवन्तौ यज्ञदत्तदेवदत्तगृहौ इत्यत्र काकपिकविशेषणवत्तादशायां यज्ञ-दत्तदेवदत्तगृहयोः यादृश पारस्परिकव्यावृत्तिज्ञानं काकपिकविशेणाभ्यां जन्यते तदेव तदुपलक्षणवत्तादशायामपि ताभ्यामेव जन्यते ।

किंच अर्थापत्तिरूपानुमानविशेषेणापि जीवेश्वरभेदः साधयितुं शक्यते । भेदं विना संसारित्वासंसारित्वादिस्थारथानुपपत्तेः । न च कल्पितभेदस्तदुपपादकः भेदकल्पनाया अद्याप्यसिद्धेः ।

एवं जीवानां परस्परमेदेऽपि अनुमानं प्रमाणम् । तथा हि देवदत्तात्मा यज्ञ-दत्तात्मप्रतियोगिकानौपाधिकभेदवान्, तद्दुःखाननुसन्धानवत्त्वात् घटवत् । नचा-प्रयोजको हेतु । विपक्षे हेतूच्छित्तिरेव बाधिका । चैत्रो मैत्रप्रतियोगितात्विकभेदवान् तदनुभूतसर्वाननुभवितृत्वात् घटवत् विमतं सुरभिधूमरहितम्, चन्दनप्रभववन्हिरहितत्वात् इत्यादाविव विशेषणसार्थक्योपपत्ते: । विमतो बन्धध्वंसः स्वप्रतियोगितावच्छेदकावच्छिन्नाधार प्रतियोगिकप्रतियोगिज्ञानाबाध्य: भेदवनिष्ठ बन्ध-ध्वंसत्वात् । संमतवत् ।

जीवः स्वज्ञानाबाध्य जीवप्रतियोगिकभेदवान् पदार्थत्वात् घटवत् । सर्वत्रा-प्यनोपाधिकभेदाभावे सुखदुःखानुसन्धानानुसन्धानादिव्यवस्थानुपपत्तेर्नाप्रयोजकत्वम् । न चौपाधिकभेदेन व्यवस्थोपपत्तिः करचरणाद्युपाधिभेदेऽपि बालयुवादिशरीरभेदेऽपि च तद्गतसुखदुःखानुसन्धानदर्शनात् ।

ननु देवदत्तसुखदुःखानुसन्धानं यज्ञदत्तस्य आत्मन आपाद्यते उत यज्ञ-दत्तदेहस्य, नाद्य इष्टापत्ते सिद्धान्ते आत्मभेदाभावेन तदनुसन्धानस्यैव तदीयत्वात् । नापि देहस्य तदापाद्यम् जडत्वात् इति चेत् न । देवदत्तशरीरेणापि तज्ज्ञानात् प्रवृत्तिप्रसङ्गात् ।

एवमेव औपाधिकभेदेन व्यवस्था उपपद्यते इति न युक्तम् । उपाधिभेदव्यतिरिक्तोपाधिकभेदस्य अप्रतीतेरसम्भवाच । स्वाभाविकप्रदेशविशेषाभावे 'परिच्छिन्नोपाधिसम्बन्धस्य अयोगात् । एतेन अवच्छेदकभेदप्रयुक्तावच्छिन्नभेद एव व्यवस्था नियामक इत्यपि निरस्तम् ।

उपर्युक्तानि सर्वाणि अनुमानानि " नान्योऽतोऽस्ति द्रष्टा ” “ एको-देवः सर्वभूतेषु गूढः " इत्यादि श्रुत्याआकाशमेक हि यथा घटादिषु पृथग्भवेत् तथाप्येकोप्यनैकः स्यात् जलाधारेष्विवांशुमान्इति याज्ञवल्क्यवचनेन " ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः । सर्वेषां साक्षिभूतोसौ न ग्राह्यः केनचित् क्वचित् । "

इत्यादि भारतवचनेन च बाध्यन्ते इति प्रत्युक्तम् । श्रुतेरर्थान्तरस्य वक्ष्यमाणत्वात् । ' एकोदेव ' इतिश्रुतौ भारतवचने च जीवभेदं सिद्धवत्कृत्वा अन्तर्याम्यैक्यमेव प्रतिपाद्यते इत्यतः त्वदभिमतं न सेत्स्यति । याज्ञवल्क्यवचनस्यापि ' एक एव तु भूतात्मा ' इत्यादिवत्परमात्मविषयकत्वात् । एतेन न चाभेद-श्रुत्यप्रामाण्यप्रसङ्गे विपक्षे बाधकः इत्यपि निरस्तम् । अर्थान्तरत्वेऽपि तत्प्रामाण्यस्य अहाने: ।

इति जीवेश्वरभेद सर्थनम्