वेदार्थनिर्णायकानि ब्रह्मसूत्राण्यपि जीवब्रह्मणोर्भेदप्रतिपादकान्येव न त्वैक्यप्रतिपादकानि

अथ द्वितीयो भागः ॥

श्रीः भेदपराण्येव खलु ब्रह्मसूत्राणि

त्रिसूचीभिन्न ब्रह्मसूत्राणाम् अद्वैतमतरीत्यापि सामान्यतः भेदपरत्वसमर्थनम्

वेदार्थनिर्णायकानि ब्रह्मसूत्राण्यपि जीवब्रह्मणोर्भेदप्रतिपादकान्येव न त्वैक्यप्रतिपादकानि ।

शङ्कराचार्यप्रभृतिभिरद्वैतिभिरेव तन्मतरीत्या पञ्चपञ्चाशदधिकपञ्चशतसूत्रेषु ' शास्त्रदृष्ट्या तूपदेशो वामदेववत् ' ( ब्र. सू. १||३० )आत्मेति तूपगच्छन्ति ग्राहयन्ति च ' ( ब्र. ४।१।३ ) ' अविभागेन दृष्टत्वात् ? (. 81818) इति, सूत्रत्रयमिदमभेदप्रतिपादकमित्युक्तत्वेन त्रिसूत्री विहाय द्विपञ्चाशदधिकपञ्चशत (५५२) सूत्राणि भेदप्रतिपादकानीत्यङ्गीकृतत्वेन विगतबहुलभारा वयमिदानीं त्रिसूत्र्या अपि अभेदप्रतिपादकत्वं न सम्भवति प्रत्युत भेदपरत्वमेव साधु सञ्जाघटीतीति प्रथममुपपाद्य तदनु ५५२ सूत्राणां भेदपरत्वमद्वैतिभिः कथमङ्गीकृतमित्येतमपि प्रकारं निरूपयिष्यामः । तावदिदानीं तद्वाक्यान्युदान्हियन्ते । आनन्दगिरिटीकायां ' जीवब्रह्मणोरैक्यं न क्वापि सूत्रकारो मुखतो वदति, किंतु सर्वत्र भेदमेवातो नैक्यमिष्टं तत्राह । " प्रतिपाद्यं' त्विति ।

शां. भाष्येप्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयति शास्त्रदृष्ट्या तूपदेशो वामदेववत् इत्यादिना ' इति ( शां. भा. १।३।१९ ) रत्नप्रभायां ' सूत्रेषु अभेदो नोक्त इति भ्रान्ति निवारयति प्रतिपाद्यं त्विति '

( आ. गि) 'आदिपदं आत्मेति तूपगच्छन्तीत्यादिसङ्ग्रहार्थम् ' (र. प्र. ) 'आत्मेति तूपगच्छन्तीत्यादिसूत्राण्यादिपदार्थः ' इत्यानन्दगिरिरत्नप्रभाख्यव्याख्यासहितशाङ्करभाष्येण पञ्चपञ्चाशदधिकपञ्चशतसूत्रेषु द्वित्रसूत्राणामेवाभेदपरत्वमितरेषां च भेदपरत्वमुपवर्णितम् ।