ब्रह्मण: जगदुपादानकारणत्वनिरासः
ब्रह्मणो जगदुपादानत्वाभावसमर्थनम्
ब्रह्मण: जगदुपादानकारणत्वनिरासः
यदप्युक्तम् " ब्रह्मोपादानकारणमषि निमित्तकारणमपि " इति तदयुक्तम् । अद्वैतमते जगतः " न निरोधः " इत्यादिनोक्तदिशा असत्त्वेन उत्पत्तेरेवाभावेना-कार्यत्वान्न ब्रह्मणः जगदुपादानकारणत्वं जगन्निमित्तकारणत्वं वा सम्भवति । असत्ख्यातिमनङ्गीकुर्वता त्वया जगत्प्रकारकामविशेष्यत्वरूपपारिभाषिकोपादानत्वस्य निर्विकारस्य ब्रह्मणः परिणामिकारणत्वस्य चानङ्गीकारेणोपादानत्वकथनायोगात् । किञ्च अनुपदमेव " तुर्य तत्सर्वदृक्सदा ” इति श्रुत्या शुद्धस्य सर्वविषयकज्ञानाश्रयत्वकथनेन तत्र किञ्चिद्विषयकाज्ञानाश्रयत्वासन्भवस्य अद्वैत सिद्धि- ब्रह्मानन्द्या दिप्रदर्शितप्रक्रियानिरासपूर्वकं समर्थितत्वेन अज्ञानस्य ब्रह्माश्रितत्त्वासम्भवात् । जीवाश्रितत्वपक्षस्य च अ. सुधाकृतैव "" जीवेश्वरयोरविद्यातत्प्रयुक्तोपाधिकयोरविद्यानाश्रयत्व-तदविषयत्वे अविप्रतिपन्ने शुद्धाचिन्मात्रस्याविद्याश्रयविषयत्वाङ्गीकारात्, इति जीवस्य, विशिष्टस्येश्वरस्य, जडस्य, अन्यस्य वाऽज्ञानाश्रयत्व - विषयत्वविकल्पानामनङ्गीकारपराहतत्वात् तेषां कल्पानां विस्तरेणानूध दूषणं ग्रन्थविस्तरमात्रम् " ( अ. प. २४० ) इत्यादिना जीवेश्वरजडाश्रितत्वस्य तदन्याश्रितत्वस्य च निषेधेन आश्रय-विषययोरभावे अविद्याया अप्यभावे तदनिर्वाच्यत्वकथाया वृथात्वात् अनुपदमेवानिर्वाच्यस्य लक्षणप्रमाणनिराकरणेन निराकृतत्वात् अविद्याया एवाभावे तदुपाधिकजीवस्यैवाभावेन एकजीववादस्य बहुजीववादस्य चानुपपन्नत्वात् । भेदानङ्गीकारे ब्रह्मणि असद्व्यावृत्तेः जडव्यावृत्तेः अन्तवद्व्यावृत्तेः निर्विशेषत्वोपलक्षितत्त्वस्य द्वितीयाभावोपलक्षितत्वस्य व्यावृत्तत्वस्वरूपस्य अनुपपत्त्या भेदनिरूपणस्य त्वयाऽपि कर्तव्यत्वात् भेदाभेदयोर्भेदाभावे भेदस्येवाभेदस्यापि दुर्निरूपत्वेन तदङ्गीकारायोगात् भेदे च भेदनिरूपणस्य भेदाभेदभेदवादिनाऽपि कर्तव्यत्वात् । वस्तुतस्तु यथा त्वया अभेदस्य धार्मिस्वरूपत्वं स्वनिर्वाहकत्वं चाङ्गीकृतं तथैव भेदस्यापि धर्मिस्वरूपत्वेन स्वनिर्वाहकत्वेन चाङ्गीकारे बाधकाभावात्, अभेदपक्षे बाधकपरिहारयुक्तिभिरेव भेदबाधकानां परिहृतत्वात्, भेदस्य दुर्निरूपत्वे तद्विरोधिनोऽभेदस्यापि दुर्निरूपत्वापातेन भेदनिरूपणस्य त्वयाऽपि कर्तव्यत्वात्, अस्मदुपदर्शितानुपपत्तीनामपरिहार्यत्वस्य समर्थितत्वात्, विवर्तवादे साधकाभाव- स्योनकबाधकसद्भावस्य चोपदर्शितत्वाद्विवर्तवादोऽनुपपन्न एवेति ।
तथा चैतेन, " ब्रह्मविवर्तवाद एव श्रुतीनां तात्पर्यम् " इति शिरोलेखस्याधस्तात्-न च विवर्तवादनिराकरणमविद्याया ब्रह्मश्रयत्वानुपपत्त्या, जीवाश्रयत्वानुपपत्त्या, तदनिर्वचनीयत्वानुपपत्त्या, एकजीववादानुपपत्त्या, अनेक जीववादानुपपत्त्या, प्रपञ्चमिथ्यात्वानुपपत्त्या अनिर्वचनीयरव्यात्यनुपपत्त्या, भेदर्निरूपत्वानुपपत्त्या, ज्ञानमात्रस्य मोक्षसाधनत्वानुपपत्त्या, अनुपपत्यन्तरेण केनापि वा न सम्भवति; सर्वासामनुपपत्तीनां परिहारात्, किन्तु विवर्तवादसाधुतैव वास्तवी " ( ४९० ) इति यद् अ-सुधया उदीरितं तन्निरस्तम् ।
भामतीकारैरपि परमार्थत्तु न भ्रमो नाम कश्चित् । सर्वमेतत् सर्वानुषपत्तिभाजनत्वेन अनिर्वचनीयमिति युक्तमुत्पश्यामः " इति वचनेन भ्रमस्यैवानुपपन्नन्वेन विवर्तवादादिप्रक्रियाया अप्यनुपपन्नतरत्वमुपदर्शितम् । एवमत्यन्तानुपपन्नेऽर्थे श्रुतीनां तात्पर्यंकथनं वैदिकानां न युक्तम् । नवा ब्रह्मसूत्रसमन्वयाध्वायस्योपदर्शितानुपपन्नतरार्थे स्वरसता वक्तुं युक्तेति सुधियो विभावयन्तु । अधिकं गुरुपादकृताद्वैतखण्डने द्रष्टव्यम् ।
। इति ब्रह्मण: उपादानकारणत्वनिरासः ।