सर्वस्य स्वरुपं सर्वव्यावृत्ततया अनुभूयते
भेदस्य वस्तुस्वरुपत्त्वं
भेदसामान्यस्य दुर्निरूपत्ववादभङ्गः ।
पूर्वपक्षानुवादः । भेदस्य धर्मिस्वरूपत्वे अन्योन्याश्रयत्वादिदोषकथनम् । भेदस्वरूपस्य विचार सहत्वनिरूपणम् । अन्योन्याश्रयत्वादिदोषपरिहारः ।भेदस्य वस्तुस्वरुपत्वेन वस्तुप्रतीतिरेव भेदप्रतीतिः इति कथनम् ।
भेदस्य वस्तुस्वरूपत्वे प्रमाणनिरुपणम् ननु कथं भेदः वस्तुप्रतीतावेव प्रतीयते इति शड्का !
तत्समाधानम् । निर्विकत्म्पकप्रत्ययखण्डनम् । सर्वस्य स्वरुपं सर्वव्यावृत्ततया अनुभूयते इति प्रतिपादनम् ।
............................................................................................................................................................
तत्र तावत् एवं खलु अद्वैती तत्र तत्र प्रत्यवतिष्ठते । भेदः न प्रमाणगोचरः । न च प्रत्यक्षप्रमाणेनैव स प्रमीयते इति वाच्यम् । अन्योन्याश्रयादिदोषगणग्रासात् । तथा हि भेदः सन् द्विष्ठो वा स्यात् एकनिष्ठ अपरनिरूप्यो वा स्यात् । आद्ये प्रत्यक्षप्रतीतौ भासमानः भेदः घटपटौ भिन्नौ इति घटपटविशेषणतया वा प्रतीयेत घटपटयोर्भेद इति घटपटविशेष्यतया वा प्रतीयेत । भेद इत्येव कुत्राप्यप्रतीते: । द्वितीये तु घटात् पटो भिन्न इति वा घटात् पटस्य भेद इति वा घटप्रतियोगिकतया पटधार्मिकतया भेदग्रहो वक्तव्य: । तत्रोभयत्राप्यन्योन्याश्रत्वम् । विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्य: । न हि चैत्रस्य अप्रत्यक्षत्वे दण्डः तद्विशेषणतया अध्यक्षीकर्तुं शक्यते । भेदज्ञानं च विना विशेष्यज्ञानं न संभवति । न हि अज्ञाते भेदे घटपटौ इति द्वित्वविशिष्टार्थज्ञानं संभवति । एवं भेदरूपविशेष्यज्ञाने तद्विशेषणतया द्वित्वावच्छिन्नघटपटज्ञानम् । द्वित्वप्रतीतेर्भेदज्ञानं कार्यत्वात् । द्वित्वावच्छिन्नघटपटज्ञाने च भेदज्ञानम्, ससंबन्धिकपदार्थप्रतीतेः संबन्धितावच्छेदकप्रकारकसंबन्धिज्ञानकार्यत्वात् इत्यन्योन्याश्रयत्वम् । तथा धर्मप्रतियोगिज्ञाने भेदज्ञानम्, तस्य तज्जन्यत्वात् । भेदज्ञाने सत्येवत् धर्मिंप्रतियोगिनो ज्ञानम् । न हि भेदग्रहमन्तरेण धर्मिप्रतियोगिभावः ज्ञातुं शक्यते । तथात्वे घटात् घटस्य भेद इत्यपि प्रतीतिः स्यात् । न च परस्पराश्रयोत्पत्तिकानि कार्याणि कदाप्युत्पत्तुमर्हन्ति । किं च प्रत्यक्षं भेदमेव विषयीकुर्यात् उत वस्त्वपि । नाद्य | भेद इत्येवाप्रतीते: । द्वितीयेऽपि किं भेदपूर्वं वस्तु गोचरयेत् उत वस्तुपूर्वं भेदं युगपदुभयं वा । नाद्यः । भेद इत्येव अप्रतीतेरिति दत्तोत्तरत्वात् । बुद्धेर्विरम्य व्यापारायेोगाच्च । अत एव न द्वितीयः । नापि तृतीय: । भेदप्रतीतिर्वस्तुप्रतीति-पूर्वकत्वेन यौगपद्यायोगात् किंच पटो भिन्न इति विशेषणविशेष्यभावप्रतीतिस्तावद्वर्तते । सा च भेदप्रतीत्यधीना इति दण्डी चैत्र इत्यादी दृष्टचरा इति भेदप्रतीतिपरम्परया अनवस्था स्यात् । ककिं च किमयं भेदो भिन्नमेव धर्मिणं परिरभते उताभिन्नम् । नाद्यः । अनन्तभेदाभ्युपगमप्रसङ्गात् । अन्यथा आत्माश्रयाद्यापातात् । सन्तु अनन्ताः भेदाः किं नच्छिनमिति चेत् न, ते अनन्ता अपि भेदा: किं क्रमेण धर्मिणं परिरभन्ते उत युगपत् नाद्य । क्रमेण परिरभमाणानन्तभेदसंबन्धाय धर्मिणोऽनादिनित्यतापातात् । न च भेदानन्त्यं प्रामाणिकं येन तदङ्गीकारः स्यात् । न द्वितीयः, भिन्ने भेदस्थितिरिति पक्षक्षते । भेदसंबन्धं विना भिन्नत्ववाचोयुक्तेरयुक्तत्वात् । न द्वितीयः । विरोधादेव । कि च भेदः कि स्वरूपं धर्मो वा । नाद्यः ।
सापेक्षत्वात्सावधेश्च तत्त्वेऽद्वैतप्रसङ्गत: ।
एकाभावादसंदेहान्न रूपं वस्तुनो भिदा ।
किं च भेदस्य घटस्वरूपत्वे घटभेदशब्दयोः पर्यायत्वं ततश्च अन्यतरशब्दपरिहारेण अन्यतरप्रयोग स्यात् ।
न द्वितीय: । अनवस्थापातात् । तरमाद्भेदस्वरूपस्य विचारासहत्वेन तत्प्रत्यक्षस्य असंभवात् अविद्याविलसित एवायं भेद इति । एवंवादी प्रष्टव्य: | कि भेदस्य दर्शनमेव निराक्रियते, उत तस्य कारणजन्यत्वम् । अथ निर्दोषकारणजन्यत्वम् । नाद्यः । यदि भेदो दृश्येत तदा अन्योन्याश्रयत्वादिकं स्यात् इत्यापादने भेददर्शनस्य उभयसंमतत्वेन विपर्ययापर्यवसानात् । भेदभ्रमनिरासाय वेदान्तश्रवणाद्ययोगाच्च । न द्वितीय: । तत् किमजन्यतया स्यात् उत अतत्कारणजन्यतया वा । नाद्य: भेदप्रतीतेर्नित्यत्वापत्त्या तवैव अनर्थापातात् । न द्वितीयः । तदुत्पादकस्यैव तत्कारणत्वेन व्याघातात् । तृतीयेऽपि किं तर्केण 'सदोषत्वाध्यवसाय: अथवा स्फुटतरबाधकवशात् । नाद्य: । वेदान्तवाक्यजन्यज्ञानविषयस्य ऐक्यस्यापि अविश्वसनीयता पातात् । त्वदुक्ततर्काणाम् ऐक्येऽपि प्रसरसंभवात् । कश्चात्र भेद प्रत्यक्षे दोषः । अविद्येति चेत् तर्हि ससैव वेदान्तानामपि मूलमिति तत्रापि प्रद्वेषः स्यात् । न द्वितीयः । निरवकाशस्य तस्य अभावात् । तत्त्वमसीत्यादेरर्थान्तरपरत्वात् । किं च त्वया कल्प्यमानबाधकज्ञानं किं भेदविषयकमुताभेदविषयकं यद्वा यत् किंचिदुदासीनविषयकम् । निरालम्बनबाधासंभवात् । नाद्य: । अस्मदभिमतासिद्धेः । द्वितीयेऽपि अभेद: किं भेदाभाव: उत भेदविरोधी यद्वा भेदान्यः । पक्षत्रयेऽपि भेदः अङ्गीकर्तव्यः एव । भेदाभावादिविषयकेण बाधकप्रत्ययेन स्वविषयस्य प्रतियोगिविलक्षणतयैव ग्राह्यत्वात् । नापि तृतीय: । उदासीनविषयकस्य प्रत्ययस्य बाधकत्वायोगात् । किं च बाधकज्ञानं भवतु नायं भेद इति वा, नास्त्यत्र भेद इति वा, अन्यदेव भेदरूपेण प्रत्यभात् इति वा भवेत् । तदेतत् त्रयमपि भेदावगाहीति कथं तद्बोधकं भवेत् । ननु तथापि अन्योन्याश्रयत्वादयः दोषाः कथं परिड्रियन्ते इति चेत् सावधानमनाः शृणु । भेदः धर्मिस्वरूपमेव तेन धर्मिप्रतीतिरेव भेदप्रतीतिरिति प्रतीतिद्वयाभावान्नान्योयाश्रयत्वम् । यदुक्तं प्रत्यक्षं किं भेदमेव विषयीकुर्यादित्यादि तत्र युगपदुभयं विषयकरोतीति वदामः । न च भेदप्रतीतेर्वस्तुप्रतीतिपूर्वकत्वात् यौगपद्यायोगः । भेदस्य वस्तुस्वरूपत्वेन वस्तुप्रतीतिरेव भेदप्रतीतिरित्यङ्गीकारात् । अन्यथा बिम्बप्रतिबिम्बयोरभेदग्राहि प्रत्यक्ष जीवब्रह्मणोरभेदग्राहि श्रुत्यादिकं च किमभेदेंमेव विषयकुर्यादुत वस्त्वपि इति प्रश्नकरणसंभवात् । यदप्युक्तं पटो भिन्न इत्यादि तदप्यसारम् भेदस्य धर्मिस्वरूपत्वादेव अनवस्थादोषभीत्यभावात् । न च तथात्वे विशेषणविशेष्यभावः कथमुपपद्यतामिति चेत् सविशेषाभेदाङ्गीकारेण दोषाभावात् । अन्यथा जीवाभिन्नं ब्रह्मेत्यादावपि विशेषणविशेष्यभावानुपपत्ति: । यदुक्तं भेदो भिन्नर्मेव धर्मिणं परिरभते इत्यादि तदपि तुच्छम् । भेदस्य धर्मिस्वरूपत्वेन धर्मिणं परिरभ्यैव भेदस्य जातत्वाङ्गीकारात् । ननु धर्मिणा सहैव धर्मोत्पत्त्यङ्गीकारे गुणिना सह गुणोत्पत्तिरङ्गीकार्या स्यात् तथा चोत्पन्न द्रव्य क्षणमगुणमक्रियाकं च तिष्ठति इति न्यायस्य का गति गुणेष्वपि धर्मन्यायस्य प्रसरात् इति चेन्न; नैयायिकं प्रत्येव एवमापादनसंभवात् । वयं तु ब्रूमः त्वदुक्तन्यायस्य अधोगतिरेवेति । गुणगुणिनोः विषाणद्वयवत् युगपदुत्पत्त्यङ्गीकारात् । गुणवदुपादानमेव गुणवदुपादेयात्मना परिणमते इत्यङ्गीकाराच्च । ननु भेदस्य वस्तुस्वरूपत्वे कि प्रमाणमिति चेत् प्रत्यक्षमेवेति ब्रूमः । यदा यदा घटादेः स्वरूपमनुभूयते तदा तदा घटादिकमघटादिव्यावृत्ततयैवानुभूयते न तु अघटादिसर्वात्मकतया इति तु सर्वानुभवसिद्धम् । व्यावृत्तिरेव भेदः । तेन अघटादिसर्वभेदो घटादिस्वरूपमितिज्ञायते । अयमत्र प्रयोगः संभवति । विमतो भेदो घटस्वरूपं घटप्रतीतौ नियमेन प्रतीयमानत्वात् । नियमग्रहणात् घटपटाविति समूहालम्बनज्ञानविषये पटे न व्यभिचारः । ननु अत्र व्याप्ति: न संभवति । न च यज्ज्ञाने यन्नियमेन उपलभ्यते ततत्स्वरूपमिति व्याप्ति संभवतीति वाच्यम् दण्डिज्ञानादौ अवश्यं भासमानदण्डादौ दण्डयादिस्वरूपत्वाभावेन व्यभिचारादिति चेन्न यत्र घटप्रतीतावेव नियमेन प्रतीयमानत्वं तत्र घटस्वरूपत्वम् यथा घटस्वरूपे इति विशेषव्याप्तेरेवाश्रयात् । यद्वा घटभेदावन्योन्याभिन्नौ नियमेन अन्यतरप्रतीतावन्यतरस्य प्रतीयमानत्वात् । ययोरन्यतरस्य प्रतीतौ अन्यतरस्य प्रतीतिनियमः तावभिनौ । यथा संप्रतिपन्ने घटघटत्वे इति प्रयोगसंभवात् । दण्डिप्रतीतो दण्डस्य स्फुरणनियमेSपे दण्डप्रतीतौ दण्डिनः स्फुरणनियमाभावात् न व्यभिचारः । ननु भेदः न धर्मिस्वरूप: तत्प्रतीतावपि कदाचिदप्रतीयमानत्वात् । यो यत्प्रतीतावपि न प्रतीयते नासौ तत्स्वरूपम् । यथा घटप्रतीतावप्रतीयमानः पटः न घटस्वरूपमिति सत्प्रतिपक्षात् इति चेन्न; असति प्रतिबन्धके संशयादर्शनेन सर्वव्यावृत्तमेव वस्तु ज्ञायते इत्यवश्यमकार्यत्वात् । यदि सर्वस्य स्वरूपं सर्वव्यावृत्ततया नानुभूयते तदा सर्वपदार्थान्तर्गतात्मस्वरूपं प्रतीयमानं घटादिसर्वव्यावृत्तत्वेन न प्रतीयेत तथा च अहमिति अनुभूयमानः अहं वा अन्यो वा इति संशय विषयः स्यात् । समानधर्मदर्शनादेः संशयकारणस्य सत्त्वात् । प्रतिबन्धकीभूतव्यावृत्तिज्ञानस्य अभावात् । तस्मादुक्तसंशयकारणस्य सत्त्वेऽपि व्यावृत्तिज्ञानरूपप्रतिबन्धकस्य सत्त्वान्न तथा संशयादिकमिति वक्तव्यम् । तथा च सिद्धं वस्तुप्रतीतिरेवभेदमवगाहते इति ।
ननु कथं भेद वस्तु प्रतीतावेव प्रतीयते । प्रतीत्यभावे पूर्वोक्तसंशयाद्यापत्तिरिति चेन्न, पूर्व वस्तुप्रतीतिः पश्चाद्भेदप्रतीतिरित्यङ्गीकारात् । न चैतद् युक्तम् । निर्विकल्पकः प्रत्ययः वस्तुमात्रं गोचरयति । भेदस्तु वस्तुदर्शनोत्तरं प्रतियोगिस्मरणे सत्यवभासते । यथा गवि गवयसादृश्यं भूतले घटाभावश्च । तथा च पाश्चात्यभेददर्शनेन संशयादिकं प्रतिबध्यते इति चेन्न, पूर्व वस्तुप्रतीतिः पश्चादुर्भेदप्रतीतिरित्यत्र प्रमाणाभावात् । निर्विकल्पकस्य अप्रामाणिकत्वात् । न तावत्तत्र प्रत्यक्षप्रमाणम्, तस्य अतीन्द्रियत्वाभ्युगमात् । नापि हानादिव्यवहाररूपकार्येण तदनुमानम्, हानादिव्यवहारस्य सविकल्पकसाध्यत्वात् । नापि प्राथमिकं गौरिति प्रत्यक्षजन्यविशेषणज्ञानजन्यम्, जन्यविशिष्टज्ञानत्वात् अनुमितिवत् इत्यनुमानं मानम् दृष्टान्तस्य साध्यविकलत्वात् । न चानुमितौ साध्यप्रसिद्धेर्हेतुत्वेन तत्र विशेषणज्ञानजन्यत्वं सिद्धमेवेति वाच्यम्, व्याप्त्यादि ज्ञानसत्त्वे साध्यप्रसिद्धिविलम्बेन अनुमितिविलम्बाभावेन तत्र तस्या अहेतुत्वात् । न च साध्यप्रसिध्दभावे व्याप्तिग्रह एव न संभवतीति वाच्यम्, तर्हि तस्या: साध्यप्रसिद्धेरनुमितिजनकीभूतव्याप्तिग्रहजनकत्वेन अन्यथासिद्धतया अनुमितावजनकत्वापातात् । नापि ज्ञानत्वं निष्प्रकारकत्वसमानाधिकरणम् सकलज्ञानवृत्तित्वात् व्यतिरेकेण इच्छात्ववत् । इत्यनुमानं मानम् ( अत्र अप्रमात्वे व्यभिचारवारणाय सकलपदम् ) अप्रयोजकत्वात् । इच्छात्वव्यवहारत्वअनुमितित्वादिकं पक्षीकृत्यापि प्रयोगसंभवेन निष्प्रकारकेच्छादिसिद्धिप्रसङ्गाच्च । नापि चक्षुः चाक्षुषसविकल्पकातिरिक्तज्ञानकारणम् ज्ञानकारणत्वात्, घ्राणवदित्यनुमानं मानम् । अप्रयोजकत्वात् । अनेन निर्विकल्पकसिद्धौ तदातिरक्तेतिविशेषणदानेन सविकल्पकनिर्विकल्पकातिरिक्तज्ञानसिद्धिः स्यात् । एवं तदतिरिक्तज्ञानसिद्धिरपि स्यादित्यतिप्रसङ्गाच्च नापि जागराद्यसविकल्पकं प्रत्यक्षं जन्यविशेषणज्ञानजन्यम्, जन्यविशिष्टज्ञानत्वात् दण्डीति प्रत्यक्षवदित्यनुमानं मानम् । दृष्टान्तस्य साध्यवैकल्यात् । दण्डपुरुपयोर्युगपदिन्द्रियसन्निकर्षे असंसर्गाग्रहे च सति विनैव पूर्वदण्डज्ञानं दण्डीति ज्ञानोत्पत्तिसंभवेन विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वानङ्गीकारात् तस्मान्नानुमानं प्रकृते मानम् । आगमस्तु अस्मिन्विषये नोपलभ्यते । इदमत्र सारम् | यदि भेदो वस्तु प्रतीतौ न प्रतीयेत तदा अस्य अमुना भेद इति सविकल्पक ज्ञानमपि न जायेत । तादृशव्यवहारश्च नोत्पद्येत । अस्य अमुना इति धर्मिप्रतियोगितया वस्तुद्वयमुद्दिश्य भेदो ज्ञायते । न च अगृहीतभेदं तथा उद्देष्टुं शक्यते । एकस्मिन्नपि वस्तुनि तत्प्रसङ्गात् । भेदसत्तामात्रेण तदुपपत्तित्तरिति चेन्न दूरस्थवृक्षयोरभेदाप्रत्ययापातात् । दोषादभेदप्रत्यय इति चेन्न भेदसत्तामात्रस्य तदुपपादकत्वे दोषस्य अकिंचित्करत्वात् । धर्मिप्रतीतौ यदि मेदो न प्रतीयते तर्हि कदापि तस्य प्रतीति: न स्यात् इति संशयप्रसङ्गो दुर्वार एव । एतेन निर्विकल्पके ज्ञाने भेदस्य भेदिनोश्च युगपदद्गुलित्रयवदवभासान्न संशयाद्यवकाशः इत्यपि निरस्तम् । निर्विकल्पकस्यैव शशविषाणायितत्वात् । भेदस्य भेदि संभन्धितानवगतौ तद्विषयकसंशयादिप्रतिबन्धानुपपत्तेश्च । अन्यथा संशयोच्छेदप्रसङ्गात् ।
यदुक्तं-सर्वस्य स्वरूपं सर्वव्यावृत्ततया न अनुभूयतेति चेत् किमह-मन्यो वा इति संशय स्यादिति तन्न रुचिरम् । इष्टापत्या समाधानसंभवात् इति चेन्न, अप्रामाणिकाङ्गीकारस्य प्रेक्षावतामनुचितत्वात् । घटादिरूपवस्तुदर्शनेन तत्साक्षात्कारित्वेन सत्य प्रत्यक्षत एव सिद्धत्वेन तस्मात् दृष्टात् घटादेः दृष्टुः स्वस्य च भेदनिश्चय एव भवतीति तादृश संशयः अप्रसिद्ध । न च सर्वव्यावृत्त सर्वस्य स्वरूपं सर्वैरनुभूयते चेत् सर्वस्य सर्वज्ञता स्यात् प्रतियो गिज्ञानस्य व्यावृत्तिज्ञाने कारणत्वेन सर्वव्यावृत्तिज्ञाने सर्वज्ञतायाः दुर्वारत्वात् इति वाच्यम् सामान्यतः सर्वव्यावृत्त्यनुभवे हि प्रतियोगिभूतस्य सर्वस्यापि सामान्यत एव ज्ञानं कारणं न तु विशेषत: । सामान्यतः सर्वज्ञानं च प्राणिमात्रसुलभम् । अन्यथा सर्वोपसंहारवती व्याप्ति अगतिका स्यात् । सर्वशब्दप्रयोगश्च अनुपपन्नः स्यात् । सर्वज्ञानं नास्तीति निषेधोऽपि कर्तुं न शक्येत । 'सर्वं खल्विदं ब्रह्म ' इति वाक्यात् शाब्दबोधोऽपि न स्यात् । इदमत्र तत्त्वम् । यदा विशिष्य यत्प्रतियोगिविषयक ज्ञानं जननीयं तदा विशिष्य तज्ज्ञानमपेक्ष्यते ।
यदुक्तं भदो वस्तुस्वरूपं वस्तुप्रतीतावेव प्रतीयमानत्वात् इति तदयुक्तम् । तथात्वे सन्देहाभावप्रसङ्गात् । धर्मिज्ञानस्य संशयादिहेतुत्वात् तज्ज्ञानेनैव तदभिन्नस्य भेदस्यापि ग्रहणात् । भेदज्ञानस्य संशयादि विरोधित्वात् इति चेन्न संशयादेरन्यथोपपादनात् । तथा हि एक एव खलु एकस्य भेदः । अनेकले प्रमाणाभावात् । न च निरूपकभेदेन निरूप्यभेदस्याप्यनेकत्वमेवेति वाच्यम् । असंख्यविषयनिरूप्यस्यापि ईश्वरज्ञानस्य एकत्वदर्शनात् । स च भेदो वस्तुप्रतीतौ प्रतीयते एव । तत्र च भेदे घटप्रतियोगित्वं पटप्रतियोगित्वमित्यादयोऽनन्ता धर्माः सन्त्येव । तत्र भेदनिष्ठो यत्प्रतियोगिकत्वादिधर्मः सादृश्यादिवशान्न प्रतीयते तत्र संशयादिकमुत्पद्यते इति न तत्रापि भेदस्य अप्रतीति: । अतः संशयादेरन्यथोपपत्तेर्न तदर्थं धर्मिप्रतीतौ भेदाप्रतीतिरङ्गीकार्या यया भेदस्य अस्वरूपत्वमनुमीयेत । ननु संशयादिस्तलेऽपि पदार्थस्वरूपं कुतश्चित् व्यावृत्तमेव प्रतीयते इति कुतोऽङ्गीकार्यमिति चेन्न तदनङ्गीकारे इदं सर्वं भवति न वा इत्येव संशयः स्यात् न तु स्थाणुर्वा पुरुषो वेति । समानधर्मदर्शनादिरूपसामग्रीसद्भावात् व्यावृत्तिज्ञानरूपप्रतिबन्धकाभावाच्च ।
। इति भेदसामान्यस्य दुर्निरूपत्ववादभङ्गः ।