वाक्यान्वयाधिकरणस्य जीवत्वोपलक्षितब्रह्मपरत्वनिरासपूर्वकं जीवपरमात्मभेदपरत्वसमर्थनम्

वाक्यान्वयाधिकरणस्य जीवत्वोपलक्षितब्रह्मपरत्वनिरासपूर्वकं जीवपरमात्मभेदपरत्वसमर्थनम्

ॐ वाक्यान्वयात् ॐ

इदं सूत्रं 'न वा अरे पत्युः कामाये ' त्युपक्रम्य ' न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ' (बृ. ४-५-६) इति वाक्ये द्रष्टव्यश्रोतव्यत्वादिरूपेण उपदिश्यमानः किं विज्ञानात्मा (जीव:) आहोस्वित् परमात्मेति संशये उपक्रम सामर्थ्यात् विज्ञानात्मा (जीव ) इति पूर्वपक्षे च प्राप्ते सिद्धान्तः, श्रोतव्यत्वादिना व्यपदिष्टः परमात्मैव, कुतः वाक्यान्वयात् । वाक्यं हि पौर्वापर्येणावेक्ष्यमाणं परमात्मानं प्रति अन्वितावयवं लक्ष्यते तस्मात् परमात्मन एवायं दर्शनाद्युपदेश इति व्याख्यातत्वेन जीवब्रह्मणोर्भेदबोधकमेवेति ।

यत्पुनरुक्तं प्रियसंसूचितापक्रमा विज्ञानात्मन एवायं दर्शनाद्युपदेश इति तत्र ब्रूमः

ॐ प्रतिज्ञासिद्धेलिंगमाश्मरथ्यः ॐ

अस्त्यत्र प्रतिज्ञा 'आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति ' ' इदं सर्वं यदयमात्मा' इति च तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिंगं यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यत्वादिसङ्कीर्तनं यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात्ततः परमात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञात इत्येकविज्ञानेन सर्वं विज्ञानं यत्प्रतिज्ञातं तद्धीयेत तस्मात् प्रतिज्ञा सिध्द्यर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचार्यो मन्यते ।

ॐ उत्क्रमिष्यत एवं भावादित्यौडुलोभिः ॐ

विज्ञानात्मन एव देहेन्द्रियमनोबुद्धिसंघातोपाधिसंपर्कात्कलुषी भूतस्य ज्ञानध्यानादिसाधनानुष्ठानात्संप्रसन्नस्य देहादिसंघातादुत्क्रमिष्यतः परमात्मैक्योपपत्तेः इदमभेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यते । श्रुतिश्चैवं भवति, एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ' (छां. ८-१२-३ ) इति ।

ॐ अवस्थितेरिति काशकृत्स्नः ॐ

अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्नाचार्यो मन्यते । तथा च ब्राह्मणम् ' अनेन जीवेनात्मनाऽनु प्रविश्य नामरूपे व्याकरवाणि' इत्येवंजातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयति । मन्त्रवर्णश्च ' ' सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते ' ( तै. आ. ३-१२-७) इत्येवंजातीयकः, काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवो नान्य इति मतम् । आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतं तथापि प्रतिज्ञासिद्धेरिति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते । औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्यते । तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते । प्रतिपिपादयिषितार्थानुसारात् 'तत्त्वमसि' इत्यादिश्रुतिभ्यः ... अपि च 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' (बृ. २-४-१३ ) इत्यारभ्य अविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषविज्ञानं प्रपंच्य ' यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् ' इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधाति । पुनश्च विषयाभावेऽपि ' आत्मानं विजानीयात् ' इत्याशंक्य ' विज्ञातारमरे केन विजानीयात्' इत्याह । ततश्च विशेषविज्ञानाभावोपपादनपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः सन् भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते । दर्शितं तु पुरस्तात्काशकृस्नीयस्य पक्षस्य श्रुतिमत्वम् । अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपर चितदेहाद्युपाधिनिमित्तो भेदो न पारमार्थिक इत्येषोऽर्थः सर्ववेदा न्तवादिभिरभ्युपगन्तव्यः । 'सदेव सोम्येदमग्र आसीत् ' ' एकमेवाद्वितीयम् ' ( छां. ६-२-१) ' आत्मैवेदं सर्वम् ' (छां. ७-२५-२) 'ब्रह्मवेदं सर्वम् ' (मुं. २-२-११) ' इदं सर्वं यदयमात्मा' (बृ. २.४-६) ' नान्योऽतोऽस्ति द्रष्टा' (बृ. ३७-२३) नान्यदतोऽस्ति द्रष्टृ (बृ. ३-८-११) इत्येवंरूपाभ्यः श्रुतिभ्यः वासुदेवः सर्वमिति ' ( गी. ७-१९ ) ' क्षेत्रज्ञञ्चापि मां विद्धि सर्वक्षेत्रेषु भारत ' ( गी. १३-२ ) ' समं सर्वेषु भतेषु तिष्ठन्तं परमेश्वरम् ' (गी. १३-२७ ) इत्येवंरूपाभ्यः, स्मृतिभ्यश्च भेददर्शनापवादाच्च ' अन्योऽसावन्योऽहमस्मि न स वेद यथा पशुः वृ. १-४-१०) 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' (बृ. ४-४-१९) इत्येवंजातीयकात्, 'स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभ्यो ब्रह्म' (बृ. ४-४-२५) इति चात्मनि सर्वविक्रियाप्रतिषेधात् । अन्यथा च मुमुक्षणां निरपवादविज्ञानानुपपत्तेः सुनिश्चितार्थत्वानुपपत्तेश्च निरपवादं हि विज्ञानं सर्वाकांक्षानिवर्तकं आत्मविषयमिष्यते ' वेदान्तविज्ञानसुनिश्चितार्थाः ' (मुं. ३-२-६) इति च श्रुतेः 'तत्र को मोहः कश्शोक एकत्वमनुपश्यतः ( ई. ७) स्थितप्रज्ञलक्षणस्मृतेश्चेति । .... न हि सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां ( तै. २- १) इति कांचिदेवैकां गुहां अधिकृत्यैतदुक्तम् । न च ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति तत्सृष्ट्वा तदेवानुप्राविशत् इति स्रष्टुरेव प्रवेशश्रवणात्' इत्यादि शङ्कराचार्याणां यत् त्रिसूत्री-व्याख्यानं तदयुक्तम् । श्रुतिसूत्रपदैः अस्यार्थस्याकथनात् इति ज्ञातुं शक्यते सुप्रज्ञैः सात्त्विकैः, तथापि मन्दमतीनां सात्त्विकानामयमेव श्रुतिसूत्रार्थ इति भ्रान्तिर्मा भूत् इत्येतदर्थं तद्व्याख्यानस्य श्रुतिसूत्रानारूढतां लेशतो दर्शयिष्यामः ।

ॐ प्रतिज्ञासिद्धेलिंङ्गमाश्मथ्यः ॐ

इति सूत्रं प्रतिज्ञासिद्धेर्लिंङ्गं ज्ञापकं इत्याश्मरथ्यो मन्यते इत्यर्थकम् ।

ॐ उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॐ

इदं सूत्रं उत्क्रमिष्यतः देहादुत्क्रमिष्यतः मुमुक्षोः एवं भावात् एवंप्रकारेण विद्यमानत्वात् इत्यौडुलोमिराचार्यो मन्यत इत्यर्थकम् ।

ॐ अवस्थितेरिति काशकृत्स्नः ॐ

इदं सूत्रं अवस्थितिसद्भावादिति काशकृत्स्नाचार्यो मन्यत इत्यर्थकम् । तथा च एवं सम्मुग्धार्थकानि इमानि सूत्राणि गुणसूत्राणीति प्रधानसूत्रानुसारेण नेयानि ।

वाक्यान्वयात् इति प्रधानसूत्रं तु भेदबोधकतया व्याख्यातमिति तदनुसारेण जीवब्रह्मणोर्भेदबोधकान्येव नत्वभेदबोधकानीति नात्रास्माकं वक्तव्यमस्ति ।  प्रतिज्ञासिद्धे' रिति सूत्रव्याख्यावसरे जीवब्रह्मणोरभेदविषये अस्त्यत्र प्रतिज्ञा इत्युक्त्वा 'आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति ' ' इदं सर्वं यदयमात्मा इति श्रुत्योर्ग्रहणं कृतम् ।

' उत्क्रमिष्यत' इति सूत्रव्याख्यावसरे जीवस्य परमात्मैक्यविषये एष संप्रसाद ' इति श्रुत्युदाहरणम्,

' अवस्थिते ' रिति सूत्रव्याख्यावसरे ' अनेन जीवेनेत्याद्यनेकश्रुतिस्मृत्युदाहरणं न युक्तम् । ताः श्रुतयः स्मृतयश्च नाभेदबोधिकाः न वा भेदनिषेधिकाः । किंतु भेदबोधिका इत्युक्तं वेदाद्यर्थनिरूपणावसरे इति नेह पुनः विशेषतो विचार्यते । किंतु उक्तस्मारणार्थं यथा इमाः श्रुतिस्मृतयः जीवब्रह्मणोरभेदाबोधिकाः प्रत्युत भेदबोधिकाः तथा किंचित् क्रमेण प्रदर्श्यते ।

प्रतिज्ञासिद्धेरिति सूत्रव्याख्यावसरे यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात् ततः परमात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञात इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातं तद्भीयेत इति एकविज्ञानेन सर्वविज्ञानान्यथानुपपत्या जीवपरमात्मनोरभेदसिद्धिरिति यदुक्तम् तदयुक्तम् । शङ्कराचायैरेव येनाश्रुतं श्रुतं भवति इत्यादिवाक्यव्याख्यावसरे ' सर्वान् वेदान् अधीत्य सर्वं अन्यत् तद्वेद्यमधिगम्यापि अकृतार्थ एव यावदात्मतत्त्वं न विजानाति' इत्यादिवाक्येन सर्वस्मिन् जगति ज्ञातेऽपि ब्रह्म ( परमात्म ) ज्ञानं यावन्न भवति तावत् पर्यंतं जगज्ज्ञानं व्यर्थमेव । परमात्मनि ज्ञात एव जगज्ज्ञानं सफलं भवति इति ब्रह्मज्ञानं जगज्ज्ञानस्य फलं भवति इत्युक्तत्वेन तथा कृतकृत्यश्च भारते'ति गीताश्लोकव्याख्यावसरे च एवमेवोक्तत्वेन जगत् ब्रह्मणि कल्पितमिति वदतां अद्वैतिनां मतरीत्या अधिष्ठानज्ञानेन अध्यस्तस्य ज्ञानासंभवाच्च ब्रह्मज्ञानेन जगतः ज्ञानं भवतीति प्रतिज्ञैव अयुक्तेति श्रुतौ तथा प्रतिज्ञायाः भावात् तदन्यथानुपपत्या जीवब्रह्मणोरैक्यकथनमयुक्तम् । ' इदं सर्वं यदयमात्मा' इति श्रुतिरपि न जीवब्रह्मणोरैक्यं वक्ति । उभयश्रुतिविशेषविचारस्तु अवस्थितेरिति सूत्रोदाहृतश्रुत्यर्थविचारावसरे द्रष्टव्यः ।

" उत्क्रमिष्यत " इति सूत्रव्याख्यावसरे विज्ञानात्मन एव....देहादिसंघातादुत्क्रमिष्यतः परमात्मैक्योपपत्तेः इदमभेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यते, श्रुतिश्चैवं भवति, एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ' ( छां. ८-१२-३ ) इति विज्ञानात्मन: ( जीवस्य ) परमात्मैक्यविषये एष सम्प्रसाद ' इति श्रुत्युदाहरणं यत् तदत्यन्तमयुक्तम् स्ववाक्यविरुद्धत्वात् परमात्मैक्यस्य तादृशश्रुतौ अप्रतिपादनाच्च ।

तथा हि-परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, यः स किं परस्मादात्मनः पृथगेव भवत्युत अविभागेनैवावतिष्ठते इति वीक्षायां ' स तत्र पर्येति' इति अधिकरणाधिकर्तव्यनिर्देशात् ' ज्योतिरुपसंपद्य ' इति च कर्तृकर्मनिर्देशात् भेदेनैवावस्थानमिति (बृ. शां. भा. ४-४-४) भाष्ये परंज्योति रुपसंपद्य....स तत्र पर्येति इति श्रुतेः मुक्तावपि भेदबोधकत्वस्य उक्तत्वेन विज्ञानात्मनः ( जीवस्य ) परमात्मैक्यविषये उदाहरणस्य स्ववाक्यविरुद्धत्वात् । न च शंकराचार्यैः पूर्वपक्ष एव पूर्वपक्ष एव ' एष संप्रसाद ' इत्यस्य भेदपरत्वमुक्तं न तु सिद्धान्ते इति नैतस्य वाक्थस्य अभेदविषये उदाहरणस्य स्वव्याहतिरिति वाच्यम् । सिद्धान्तेऽपि ' भेदनिर्देशस्तु अभेदेऽप्युपचर्यते ' इति वाक्येन भेदबोध- कत्वमंगीकृत्य तस्य गौणत्वमुक्तमिति अस्य वाक्यस्य अभेदबोधकत्वाभावस्य स्वीकारात् । अभेदविषये उदाहरणे स्वव्याहतेर्दुर्वारत्वात् ।

एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा- यानैर्वा ज्ञातिभिर्वा ( छां. ८-१२-३ ) इति श्रुत्यर्थस्तु एषः सम्प्रसादः = जीवः, अस्माच्छरीरात् समुत्थाय परं ज्योतिः = परमात्मानं, उपसंपद्य = प्राप्य स्वेन रूपेण स्वस्वरूपेण अभिनिष्पद्यते व्यक्तो भवति, सः = प्राप्यः परमात्मा उत्तमपुरुषः सः = प्राप्तो जीवः, तत्र पर्येति = संचारं करोति, जक्षन् भक्षणं कुर्वन्, क्रीडन् स्त्रीभिः यानैः ज्ञाति- भिर्वा रममाण आस्ते इति मुक्तो भूत्वा परमात्मना भिन्नः सन् क्रीडादिकं करोतीति स्पष्टं परमात्मना भेदः स्त्रीजनैर्ज्ञातिभिः मेदः जक्षणक्रीडाकर्मभूतैः तत्तत्पदार्थैश्च भेदः कथ्यते इति अस्य वाक्यस्य ऐक्यविषये उदाहरणमत्यंतमयुक्तम् । विशेषविचारस्त्वन्यत्र कृतो द्रष्टव्यः ।

अवस्थितेरिति सूत्रव्याख्यावसरे परमात्मनो विज्ञानात्मभावेन ( जीवभावेन ) अवस्थानमित्यस्मिन् विषये अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छां. ६-३-२ ) इत्येवंजातीयकं परस्यैवात्मनो जीवभावेनावस्थान दर्शयति इत्युक्तिस्तावदसङ्गता ।

' अनेन जीवेन ' इतिवाक्यं पूर्वभागेन सहितं तु इत्थम् । ' सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवताः अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि ' इति (छां. ६-३-२ ) तस्यार्थः सा = पूर्वोक्ता, इयं प्रमाणसिद्धा, देवता = सन्नान्नी परमात्मरूपा, ऐक्षत = ईक्षितवती, अहं इमाः तिस्रः तेजोऽपृथिव्यभिमानिन्यः देवताः चेतनभूता, अनेन जीवेन आत्मना = चेष्ट रूपेण (व्यापारप्रवर्तक. रूपेण ) प्रविश्य, नामरूपे = नामरूपात्मकं जगत् व्याकरवाणि = व्याकुर्याम् ' इति । न च इमारितस्रो देवताः इत्यत्र देवताशब्देन चेतनग्रहणं अयुक्तमिति वाच्यम् देवताशब्दस्य चेतनवाचकत्वात् । उक्तं हि शंकराचार्यैः ब्रह्मसूत्र ( २-१-५) भाष्ये अपि च कौषीतकिनः प्राणसंवादे करणमात्राशंका निवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति '

एता हवै देवता अहं श्रेयसे विवदमाना इति' 'ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा ' (२-१४ ) इति च । इति वाक्येन देवताशब्दस्य अधिष्टातृपरत्वमिति तथा च ' योऽग्नौ तिष्ठन् ' योऽप्सु तिष्ठन् ' ' यः पृथिव्यां तिष्ठन् ' य आत्मनि तिष्ठन् ' इति तेजोऽप्पृथिव्याद्यभिमानिदेवतासु (चेतनेषु) जीवेन = भागवतोक्तरीत्या अहं हि जीवसंज्ञो वै मयि जीवः समाहित इति भारतोक्तरीत्या च जीवसंज्ञकेन प्राणधारकरूपेण ( अन्तर्यामिरूपेण ) प्रविश्य नामरूपात्मकप्रपंचनिर्माणोक्त्या प्रवेश्यदेवताचेतनेभ्यः प्रविष्टजीवनामकपरमात्मनः भेद एव कथ्यते । शङ्कराचार्यैरपिअन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्' इति सूत्रव्याख्यानावसरे * पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन् देवतात्मनोऽन्यमन्तर्यामिणं दर्शयति ' ( शां. भा. १-२-१८) इति स्पष्टं प्रवेश्यपृथिवीदेवतायाः तदन्तः प्रविष्टेन अन्तर्यामिपरमात्मना भेद उक्तः ।

एवं ' भेदव्यपदेशाच्चान्यः ' ( ब्र. १-१-२१ ) इति सूत्रीयशाङ्करभाष्ये " अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी य आदित्ये तिष्ठन् आदित्यादन्तरो यमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः " (बृ. १-१-२१ ) इति सूत्रीयशाङ्करभाष्ये " अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी य आदित्ये तिष्ठन् आदित्यादन्तरो यमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः " (बृ. ३-७-९) इति श्रुत्यन्तरे भेदव्यपदेशात् तत्र हि 'आदित्यादन्तरो यमादित्यो न वेद इति ' वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते " इति आदित्यदेवतायाः तदन्तः प्रविष्टेन परमात्मना भेद उक्तः ।

अपि चशारीरश्चोभयेऽपि हि भेदेनैनमधीयते ' ( ब्र. १-३-२० ) इति सूत्रीयशाङ्करभाष्ये ' अपिचोभयेऽपि हि शाखिनः काण्वा माध्यन्दिनाश्च अन्तर्यामिणो भेदेनैनं शारीरं ( जीवं ) पृथिव्यादिवत् अधिष्ठानत्वेन नियम्यत्वेन चाधीयते ... तस्माच्छारीरादन्य ईश्वरोऽन्तर्यामीति सिद्धम् ' इति स्पष्टं अधिष्ठानाधिष्ठेययोः नियम्यनियामकयोजविब्रह्मणोः भेद उक्त इति । न च स च भेदः अविद्यामूलकः ( भ्रममूलकः ) इत्यपि तत्रैवोक्तमिति वाच्यम् अविद्या (भ्रम)मूलकत्वात्तेरेव अद्वैतमते भ्रमकारणानां असन्भवात् भ्रममूलकत्वं प्रदर्शितं,प्रदर्शयिष्यते च तथा च तद्वदेव ' इमास्तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य ' इति प्रवेश्यतेजोऽबादिदेवतायाः प्रवेष्टृब्रह्मणाभेद एवोक्तः न तु पृथिव्यादिषु ब्रह्मणो जीवरूपेण प्रवेशोवत्या पृथिव्याद्यभिमानिचेतनस्य ब्रह्मणा अभेदः ।

न च ' जीवेनात्मना ' इति ब्रह्मणो जीवभावस्योक्तत्वात् अनेन वाक्येन जीवब्रह्मणोरभेदो बोध्यते इति वाच्यम् । जीवशब्दस्य 'जीवो जीवमजीजनत् ' अहं हि जीवसंज्ञो वै' इत्यादिप्रमाणैः चेष्टकत्वादिप्रवृत्तिनिमित्तवत्त्वेन च ब्रह्मणो जीवशब्दवाच्यत्वसिद्धेः नेदं वाक्यं ब्रह्मणो जीवभावेन अल्पज्ञेन संसारिरूपेण अवस्थानबोधकमिति ।

सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते (तै. आ. ३-१२-७) इति वाक्यस्यापि जीवब्रह्मणोरभेदे प्रमाणतया उदाहरणं अयुक्तं । तत्र जीवब्रह्मणोरैक्यबोधकपदाभावात् । मन्त्रवर्णार्थस्तु यत् = यः, धीरः = सर्वज्ञः, सर्वाणि रूपाणि = सर्वान् पदार्थान्, (रूपात्मकं समस्तं जगत्) विचित्य = निर्माय, नामानि शब्दात्मकप्रपंचं च, कृत्वा = निर्माय, अभिवदन् = अभिवदनादि कुर्वन्, आस्ते इति । अस्य च तद्विद्वान् अमृतो भवति इत्युत्तरवाक्यार्थेनान्वयः- तथा चैतस्मिन् वाक्ये जीवपरमात्मनोरभेद बोधकपदाभावात् प्रत्युत कार्यकारणभावोक्त्या ज्ञातृज्ञेयभावोक्त्या च भेद एव बोध्यते । न च स्वयं तत्र प्रविश्य इति पदानां मंत्रे संयोजने कृते सृष्टपदार्थेषु प्रवेशसिद्ध्या जीवब्रह्मणोरैक्यसिद्धिरिति वाच्यम् | अविद्यमानपदसंयोजनेन क्रियमाणस्यार्थस्य वेदार्थत्वाभावात् । तथांगीकारे अयमेवार्थोऽस्य नान्य इति नियमाभावापत्तेः ।

अविद्यमान पदसंयोजनेन सर्वस्याप्यर्थस्य सर्वैरपि वाक्यैः प्राप्तेरिति दोषस्य पूर्वमेवोक्तत्वात् प्रविश्येत्यादिपदसंयोजनेऽपि पूर्वोक्तरीत्या अभेदासिद्धेश्च ।

यच्चाप्युक्तं तत्र काशकृत्स्नीयं मतं ( अविकृतः परमेश्वरो जीवो नान्य इति ) श्रुत्यनुसारीति गम्यते प्रतिपिपादयिषितार्थानुसारात् । तत्त्वमसीत्यादि श्रुतिभ्यः' इति तदपि हेयम् ।

शङ्कराचार्यादिभिः ' ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव .... अन्यात्मभावनिवृत्तौ आत्मभावः स्वात्मनि स्वाभाविकः यः स केवलो भवति इति आत्मा ज्ञायते ' ' इत्युच्यते इति' (बृ. शां. मां. ४-४-२० ) भाष्ये तथा न च महावाक्याज्जायमानं ज्ञानमेव ब्रह्मेत्युक्तम् । तथा सति ज्ञानरूपस्य ब्रह्मण उत्पत्तिः स्वीकार्या स्यादिति वाच्यम् । तज्ज्ञानं नैव जायते किंतु तदानीं केवलं तदावरकाज्ञाननिरास एव जायते, तन्मूलक एव तदानी ज्ञानं जायत इति व्यवहारः । तच्च ब्रह्मरूपं ज्ञानं निर्विषयकमित्यादि सिद्धान्तविन्दुव्याख्यायां तत्त्वमस्यादिवाक्यस्य बोधजनकत्वमेव नास्ति इति कथितत्वेन, बोधजनकत्वांगीकारेऽपि अखण्डार्थबोधकत्वस्वीकारेण ' चित्' इत्येतन्मात्रबोधजनकत्वोक्तेः न तत्त्वमस्यादिवाक्यैर्जीवब्रह्मणोरैक्यं बोध्यते इति न काशकृत्स्नीयस्याभेदमतस्य तत्त्वमस्यादिश्रुतिप्रतिपिपादयिषितार्थानुसारित्वमिति ।

तथा-' यत्र हि' इत्युपक्रम्य सर्ववेदान्तवादिभिरभ्युपगन्तव्य इत्यंतं यदुक्तं तदपि अनुपपन्नम् । यत्र हि ' इति वाक्यस्य द्वैतपारमार्थिकत्वबोधकत्वेन द्वैतमिथ्यात्वे प्रमाणतया उदाहर्तुमशक्यत्वात् । तथा हि 'ननु द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वमिति' (बृ.शां. २:४-१४ इति ) शाङ्करभाष्येण तथा द्वैतेन द्वैतस्योपमीयमानत्वात् दृष्टांतस्य दाष्टतिकस्य च तस्य वस्तुत्वं स्यात् उपमानोपमेययोः चंद्रमुखयोर्वस्तुत्वोपलंभादित्यर्थः इत्यानन्दगिरिटीकया ' ननु द्वैतमिवेत्येतदुपमानं कथं भवेत्, द्वैतं वस्तु न चेदस्ति ' इति सुरेश्वराचार्यवार्तिकेन च 'यत्र हि द्वैतमिव भवति' इति वाक्यं उपमावाचकेन इव शब्देन द्वैतस्य पारमार्थिकत्वं बोधयतीत्युक्तत्वात् । तथा ' न हि विष्णुमित्रो वंध्यापुत्रवत् अवभासते इति कश्चिदाचक्षीत तस्माद्ययानुभवं तत्त्वमभ्युपगच्छद्भिर्बहिरेवावभासते इति युक्तमभ्युपगंतुं न तु बहिर्वत् अवभासत' इति (ब्र. सू. शां. भा. २।१।२८) भाष्येण इव शब्दसमानार्थकवत्प्रत्ययांतबहिर्वत् इति शब्देन बाह्यपदार्थस्य सत्यत्वं सिद्धयतीत्युक्त्या वत्प्रत्ययसमानार्थकेन इवशब्देन युक्तेन द्वैतशब्देनापि द्वैतस्य पारमार्थिकसत्यत्वासिद्धेश्च । अविद्याकल्पित ( मिथ्या ) भेदविषये एतद्वाक्योदाहरणस्यायुक्तत्वात् ।

ननु ' कश्चित्कान्ता' इति वाक्यं श्रुत्वा तदुत्तरवाक्यमश्रुत्वैव कश्चित् इत्यस्य पुल्लिंगत्वेन, कान्ता इत्यस्य स्त्रीलिंगत्वेन कथमन्वयः इत्याक्षेप्तेव द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वमिति पूर्वपक्षवाक्यमात्रं संगृह्य तदुत्तरं विद्यमानं द्वैतस्य पारमार्थिकत्वनिषेधकं 'न वाचारंभणं विकारो नामधेयम्' इति श्रुत्यन्तरात् 'एकमेवाद्वितीयम्' 'आत्मैवेदं सर्वम्' इति च इति शंकरभाष्यीय सिद्धान्तवाक्यं तथा द्वैतप्रपंचस्य मिथ्यात्ववादिश्रुतिविरोधान्न तस्य सत्यतेति परिहरति न वाचारंमणमिति आनंदगिरिवाक्यं च अज्ञात्वैव वा ज्ञात्वापि परप्रतारणार्थं संगोप्य वा 'यत्र हि द्वैतमिव ' इति वाक्यं द्वैतस्य पारमार्थिकत्वं कथयति इति शंकराचार्याः वदन्तीति कथमस्य वाक्यस्य द्वैतमिध्यात्वबोधकत्वमित्याक्षेप्ता भवानपि हास्यास्पदं एवेति चेत् न । अस्मदभिप्रायानबोधात् ।

तथाहि-' यत्र हि द्वैतमिव भवति' इति वाक्यं द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वं कथयतीत्युक्त्वा उत्तरत्र ' वाचारंभणं विकारो नामधेयं ' इत्यादि द्वैतमिथ्यात्वबोधकश्रुतिविरोधात् द्वैतस्य पारमार्थिकत्वं न संभवतीति निराकृतम् शंकराचार्यैरित्येतत्सत्यम् तथापि ' यत्र हि द्वैतमिव इति वाक्यस्य द्वैतमिथ्यात्वे ( अविद्याकल्पितत्वे ) प्रमाणतया उदाहरणमयुक्तमित्याभिप्रायोऽस्माकमिति ।

तथा च-' यत्र हि ' इति वाक्येन बोधितं द्वैतस्य पारमार्थिकत्वं बाध्यते इत्यद्वैतिनः, न बाध्यते बन्धकप्रमाणाभावात् इति द्वैतिनः आस्तां स विचारः । यत्र हि ' इति वाक्यं द्वैतस्य पारमार्थिकत्वं बोधयतीत्यस्मिन् विषये न विवादः अद्वैतिनामिति ।

शङ्कराचार्यैर्यच्च निराकृतं " वाचारंभणं विकारो नामधेयं इति श्रुत्यन्तरात् ' एकमेवाद्वितीयम् ' आत्मैवेदं सर्वम् ' इति च इति भाष्य  वाक्येन श्रुतिभिः द्वैतस्य मिथ्यात्वसिद्धेः, ताभिः श्रुतिभिर्बाधात् ' यत्र हि द्वैतमिव भवति' इति वाक्येन बोधितमपि द्वैतस्य पारमार्थिकत्वं न ग्राह्यमिति " तदप्यतिहेयम् । तथा हि-

'वाचारंभणं विकारो नामधेयं ' इति श्रुतौ जगतः (द्वैतस्य) मिथ्यात्वबोधकपदाभावात् । न च वाचारंभणं नामधेयं इति पदे एव मिथ्यात्वबोधके इति वाच्यम् । वाचारंभणशब्दस्य वाग्जन्यव्यवहारविषय इत्यर्थकत्वेन नामधेयपदस्य च नामार्थकत्वेन मिथ्यात्वबोधकत्वाभावात् । तदर्थकत्वमात्रेण मिथ्यात्वसिद्धौ ब्रह्मणोऽपि वाग्जन्यव्यवहारविषयत्वेन नामवत्त्वेन च मिथ्यात्वापत्तेः ॥

न च वाचारंभणमात्रं नामधेयमात्रं इति मात्रपदसंयोजनेन केवलवाग्जन्यव्यवहार विषयः केवलनामैव, वस्तुसत्ता नास्ति इत्यर्थकत्वप्राप्त्या मिथ्यात्वं सिध्यतीति वाच्यम् । अविद्यमानपदसंयोजनेन भवतोऽर्थस्य श्रुत्यर्थत्वाभावात् । तथा भूतस्यापि श्रुत्यर्थत्वे ' सत्यं ज्ञानमनन्तं ब्रह्म ' इति वाक्ये अविद्यमानानि नेति नेति नेति पदानि संयोज्य भवतः ब्रह्म सत्यं न, ज्ञानं न, अनन्तं न इत्यादेरपि श्रुत्यर्थत्वप्राप्त्या ब्रह्मणोऽपि मिथ्यात्वापत्तेः ।

तुष्यत्विति न्यायेन वाचारंभणशब्दस्य मिथ्यार्थकत्वांगीकारेऽपि विकारभूतघटशरावादीनां मिथ्यात्वं मृत्तिकेत्येव सत्यमित्युक्तमृत्तिकायाः सत्यत्वमद्वैतमतरीत्याऽपि न संभवति । अद्वैतमते ब्रह्मातिरिक्तयोर्घटमृत्तिकयोरुभयोरपि मिथ्यात्वेन एकस्य सत्यत्वकथनस्य अपरस्य मिथ्यात्वकथनस्य चासंभवात् ।

भवतु वा कार्यस्य घटादेर्मिथ्यात्वं कारणीभूताया मृदः सत्यत्वं, प्रकृते ब्रह्मणः एव सत्यत्वं जगतः मिथ्यात्वं च न सिध्यत्येव । न च, ब्रह्म सत्यं कारणत्वात् मृद्वत् ' जगन्मिथ्या कार्यत्वात् घटवत् इत्यनुमानसूचनद्वारा वाचारंभणमिति वाक्यं ब्रह्मजगतोर्मिथ्यात्वसत्यत्वे बोधयतीति वाच्यम् । अनेकदोषदुष्टत्वात् । तथाहि-ब्रह्म सत्यं कारणत्वात् मृद्वत् इति प्रथमानुमाने पक्षीकृतं ब्रह्म, निर्गुणं वा सगुणं वा । न तावन्निर्गुणं तस्य अद्वैतमतरीत्या निर्धर्मकत्वेन कारणत्वरूप हेत्वभावेन हेतोरसिद्धेः । सत्यत्वरूपसाध्यधर्माभावेन बाधाच्च । नापि सगुणम् । सगुणब्रह्मणः पक्षीकरणपक्षे साध्यभूतं सत्यत्वं पारमार्थिकं वा व्यावहारिकं वा । पारमार्थिकसत्यत्वसाधनपक्षे तस्मिन् अद्वैतमतरीत्या पारमार्थिकसत्यत्वाभावेन बाधात् । अद्वैतमतरीत्या मृदि पारमार्थिकसत्यत्वाभावेन दृष्टान्ते साध्यवैकल्याच्च । सगुणब्रह्मणो व्यावहारिकसत्यत्वसाधनं तु प्रकृतानुपयुक्तमित्यादि ।

एवं जगन्मिथ्या कार्यत्वात् घटवदिति द्वितीयानुमानेऽपि साध्यभूतं भिथ्यात्वं हि नास्ति नासीन्न भविष्यति इति प्रतीयमानत्रैकालिकनिषेधप्रतियोगित्वरूपं, कार्यत्त्वं च प्रागभावप्रतियोगित्वरूपम् प्रागभाव ( पूर्वकालमात्र-वृत्त्यभाव )) प्रतियोगित्व रूपकार्यत्ववतः पदार्थस्य त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वाभाव एव संभवेन विरुद्धो हेतु: ( साध्याभावव्याप्तो हेतुः ) अद्वैतमतरीत्या कल्पितस्य जगतः कार्यत्वमसिद्धं चेति हेतु: स्वरूपासिद्धः इत्याद्यनेके दोषाः ।

किंच एकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ' इति वाक्यस्य त्वदुक्तार्थकत्वे अद्वैतमतरत्या पूर्ववाक्येन सम्बन्ध एव न संभवति ।

न च येनाश्रुतं श्रुतं भवति असतं मतमविज्ञातं विज्ञातमिति वाक्येन ब्रह्मज्ञानेन सर्वज्ञानं भवतीत्युक्तौ कथं नु एतत् अप्रसिद्धम्-अन्यविज्ञानेन अन्यज्ञानं भवतीति पृष्ट प्रवृत्तेन यथा सोम्यैकेन इत्यादिवाक्येन यथा एकमृत्पिण्डज्ञानेन सर्वमृण्मयघटादिज्ञानं भवति तथा एकब्रह्मज्ञानेन सर्वजगज्ज्ञानं भवति इत्युत्तरे दत्ते घटमृत्तिकयोर्भेदो वा अभेदो वा । भेदे कथं मृज्ज्ञानेन घटज्ञानं स्यात् । अभेदे च मृत्कारणं घटादिः कार्यमिति व्यवहारः कथमित्याशङ्कायां ' वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ' इति वाक्यं प्रवृत्तम् । तस्य चायमर्थः घटशरावादिकं वाचारंभणमात्रं नामधेयमात्रं वस्तुतो नास्त्येव । मृत्तिकैव सत्यमिति उत्तरदानाय एकेन मृत्पिण्डेनेत्यादिवाक्यस्य प्रवृत्तिरिति वाच्यम् । एवं सङ्गतिकथनस्य अनेकदोषयुक्तत्वात् । के दोषा इति चेत् शृणु सावधानमेकैकम् । तथाहि-येनाश्रुतं श्रुतं भवतीति वाक्यं ब्रह्मज्ञानेन जगज्ज्ञानं भवति इत्यर्थप्रतिपादकं यदा स्यात् तदा कथंचित् अद्वैत्युक्तेयं संगतिर्युक्ता स्यात् । नचैवं । न तथा प्रतिपादयत्यर्थमिति शङ्कराचार्यैरेवोक्तत्वात् अद्वैतमतरीत्या असंभवाच्च ।

शङ्कराचार्या हि ' तमादेशं विशिनष्टि येनादेशेन श्रुतेन अश्रुतमप्यन्यत् श्रुतं भवति ।...अनिश्चितं निश्चितं भवति सर्वानपि वेदानधीत्य सर्वं च अन्यत् वेद्यमधिगम्यापि अकृतार्थ एव भवति । यावदात्मतत्त्वं न विजानाति इत्याख्यायिकातोऽवगम्यते ' इत्युपनिषद्भाष्येण सर्ववेदे अधीते वेदार्थभूतब्रह्मान्यजगति ज्ञातेऽपि न पुरुषः कृतार्थो भवति आत्मतत्त्वज्ञानं विनेति वेदाध्ययनस्य ब्रह्मान्यवेदार्थभूतजगज्ज्ञानमेव फलं इति जगज्ज्ञानं कारणं ब्रह्मज्ञानं फल ( कार्य ) मिति, कार्यकारणभूत भिन्नज्ञानविषयत्वेन भिन्नत्वमेवाहुः * न तु ब्रह्मव्यतिरेकेणासत्त्वरूपं मिथ्यात्वं ( अभिन्नत्वं) इति ।

तथा कृतकृत्यश्च भारत " कृतं कृत्यं कर्तव्यं येन स कृतकृत्यः सत्कुलप्रसूतेन ब्राह्मणेन यत्कर्तव्यं तत्सर्वं भगवत्तत्वे विदिते कृतं 'न चान्यथा कर्तव्यम् परिसमाप्यते कस्यचिदित्यभिप्राय सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते " इति चोक्तम् ।

(* किमित्यधीत्य सर्वं वेदं अधिगततदर्थं च पुत्रं आत्मविद्यामधिकृत्य पिता पृच्छति । तस्य सर्ववेदाध्ययनादिनैव कृतार्थत्वादित्याशंक्याह सर्वानपीति इत्यानंदगिर्यवतरणमपि इममेवार्थं गमयति ।)

" एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः । प्राप्ते तत् कृतकृत्यो हि द्विजो भवति नान्यथा " इति च मानववचनम् । य एतत्परमार्थतत्त्वं मत्तः श्रुतवानसि ततः कृतार्थस्त्वं भारतेति (गी. १५-२० ) एतबुद्धवाबुद्धिमान् स्यात् कृतकृत्यश्च भारत इति श्लोकव्याख्यानरूपेण शंकरगीताभाष्येण सर्ववेदाध्ययन वेदार्थज्ञानादिरूपकर्मणः ब्रह्मज्ञानमेव फलं । ब्रह्मज्ञानसंपादनेनैव पुरुषस्य कृतार्थत्वमाहुः । तेन च ' येनाश्रुतं श्रुतं भवति इति ' वाक्यमपि जगज्ज्ञानस्य ब्रह्मज्ञानं फलं ( कार्य ) न तु ब्रह्मज्ञानेन जगतः ज्ञानं भवतीत्येतत्परमिति सिध्यति ।

अद्वैतमतरीत्या असंभवश्च । अद्वैतमते जगतः ब्रह्मणि कल्पितत्वेन यथा शुक्तिकायामारोपितं रजतं अधिष्ठानीभूतशुक्तिज्ञाने सति न प्रतीयते तथा अधिष्ठानभूते ब्रह्माणि ज्ञाते तत्राध्यस्तं जगत् न प्रतीयते इति ब्रह्मज्ञाने सति जगज्ज्ञानमसंभवि च । एवमेवोक्तं केनोपनिषद्भाष्यतट्टीकयोः । अथवा हेत्वर्थ इति ( के. भा. २ -२-११) लोके तु शुक्त्यादितत्त्वं विजानतां यतोऽध्यस्तं रूप्यादि अविज्ञातं भवति अजानतामेव त्वध्यस्तं विज्ञातं भवतीति प्रसिद्धम् । तथा ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्त्वादेव तत्त्वविदो न ज्ञातं ब्रह्म पश्यन्तीत्यर्थः " इति ग्रन्थेन अधिष्ठानज्ञाने अध्यस्तवस्तुनः ज्ञानं न संभवति इत्यादयोऽनेके दोषाः प्रादुर्भवंति ग्रंथगौरवभयादुपरम्यते, प्रसंगे तानपि वक्ष्यामः ।

तथा च-' येनाश्रुतं श्रुतं भवति' इति वाक्यं ब्रह्मज्ञानेन सर्वविज्ञानं भवतीति न प्रतिपादयति ।

तत्तत्क्तं शङ्कराचार्यैः अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदो न पारमार्थिक' इत्येषोऽर्थः सर्वैवैदान्तवादिभिरभ्युपगन्तव्यः 'सदेव सोम्येदमग्र आसीत् ' 'एकमेवाद्वितीयम्' ( छां. ६-२-१ ) 'इत्येवंरूपाभ्यः श्रुतिभ्यः, स्मृतिभ्यश्च ' वासुदेवः सर्वमिति ' ( गी. ७-१९) इत्येवंरूपाभ्यः, भेददर्शनापवादाच्च ' अन्योऽ- सावन्योऽहमस्मि इत्येवंजातीयकात् इति तदप्ययुक्तम् । कस्यामपि श्रुतौ स्मृतौ वा जीवब्रह्मणोर्भेदः देहाद्युपाधिनिमित्तः न पारमार्थिक इत्यनुक्तेः । प्रत्युत अबाधितैः ( वाधकप्रमाणशून्यैः ) स्वतः प्रमाणभूतैः अपौरुषेयैः श्रुतिवाक्यैः तदनुसारिस्मृतिवाक्यैश्च बोधितस्य अबाध्यस्य भेदस्य पारमार्थिकत्वस्यैव सिद्धेश्च ।

शाङ्करभाष्यभामतीकारादिभिः " लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते । यद्युच्यते तात्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यवहारिकम् । तथा च भिन्नविषयत्वान्न सर्वप्रमाणप्रतिषेध इत्यत आह-न ह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारोऽन्यत्तत्वमनधिगम्य शक्यतेऽपह्नोतुम् । प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते अतात्त्विकत्वन्तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यम् । न पुनः सांव्यवहारिकं नः प्रामाण्यं, न तु तात्त्विकमित्येव प्रवर्तन्ते बाधकं चातात्त्विकमेतेषां तद्गोचरविपरीततत्त्वोपदर्शनेन दर्शयेत् । यथा शुक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि, तद्वदिहापि समस्तप्रमाणगोचरविपररीततत्त्वान्तरव्यवस्थापनेनातात्त्विकत्वमेतेषां प्रमाणानां बाधकेन दर्शनीयं, न त्वव्यवस्थापिततत्वांतरेण प्रमाणानि शक्यानि बाधितुमित्यादिवाक्येन प्रमाणानि तासिकत्वमेव ( पारमार्थिकत्वमेव ) पदार्थानां बोधयन्ति न तु व्यावहारिकत्वम् (मिथ्यात्वम् ) बाधकप्रमाणसत्त्वे तु तस्याप्रामाणिकत्वमिति कथितत्वेन प्रकृते च भेदग्राहकाणि भेदग्राहकतया शङ्कराद्यङ्गीकृतानि प्रमाणानि अभेदग्राहकस्य बाधकप्रमाणस्याभावात् भेदस्य पारमार्थिकत्वमेव गृह्णन्ति ।

अनेकासु श्रुतिषु स्मृतिषु च अभेदस्य भेदपारमार्थिकत्वाभावस्य च कथनात् उक्त्यभावः कथमिति चेत् तर्हि का श्रुतिः अभेदबाधिका भेदपारमार्थिकत्वनिषेधिका तां कथय ।

' सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् ' इति (छां. ६-२-१) श्रुतिरिति चेन्न । अस्यां श्रुतौ जीवब्रह्मणोरभेदबोधकस्य वा भेदपारमार्थिकत्वाभावबोधकस्य वा पदस्याभावात् तथाहि अद्वितीयं-सहायरहितं अथवा सजातीय स्तुरहितं एकं प्रधानं किं वा अन्यत् ( जीवजडात्मकात्प्रपंचाद्भिन्नं ) सदेव = सन्नामकपरमात्मैव, हे सोम्य, इदमप्रे=अस्य जगतोऽग्रे ( पूर्वकाले ) आसीत् इति प्रधानस्य ( श्रेष्ठस्य ) सहायरहितस्य जीवादेर्भिन्नस्य सन्नामकपरमात्मनः स्थितिः कथ्यते नत्वभेदः न वा भेदपारमार्थिकत्वाभाव इति ।

न च एकमित्यनेन विजातीय (जड़) राहित्यस्य अद्वितीयमित्यनेन सजातीय (चेतन ) राहित्योक्त्या भेदो नास्तीति भेदस्य मिथ्यात्वं ( पारमार्थिकत्वाभावो ) गम्यत इति वाच्यम् । द्वितीयशब्दस्य सहायार्थकत्वेन अद्वितीय शब्देन सहायराहित्यार्थकत्वोक्तेः । अद्वितीयशब्दस्य सजातीयवस्तुराहित्यार्थकत्वोक्तावपि ' न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः ' इति गीतानुसारेण परमात्मसजातीय (समान) वस्त्वभावसिद्धावपि द्वितीयवस्तुसामान्याभावासिध्या अभेदस्य भेदपारमार्थिकत्वाभावस्य चासिद्धेश्व |

एकः सुपर्ण ' इत्यत्र एकशब्दस्य असहाय इति विद्यारण्योक्तेः । एकं असहाय इति वा-' एके मुख्यान्यकेवलाः ' इति कोशानुसारेण एक = मुख्य इति वा, अन्यः ( जीवादिभ्योऽन्यः ) इति वेत्त्याद्यनेकार्थत्वसंभवेन एकपदेन विजातीयवस्त्वभावासिद्धेः । शङ्कराचार्यै: ' एकं स्वकार्यपतितं अन्यत् नास्तीति एकमेवेत्युच्यत इति एकपदेन सृष्टेः पूर्वं परमात्मजन्य ( कार्य ) वस्त्वभावस्य, अद्वितीयपदेन सहायभूतद्वितीयवस्त्वभावस्य कथनेन एकाद्वितीयपदाभ्यां ब्रह्मातिरिक्तवस्त्वभावकथनेन अभेदस्य, भेदपारमार्थिकत्वाभावस्य चासिद्धेः । प्रत्युत तम आसीत् तमसागूळ्हमग्रे " इति श्रुत्वा प्रकृति पुरुषं चैव विद्धयनादी उभावपि इति स्मृत्या च ब्रह्मातिरिक्तस्य तमसः ( प्रकृतेः ) स्थितिसिद्धेश्च ।

" जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोःअविद्यातच्चितोयोगः षडस्माकमनादयः ।। " इत्यद्वैतिभिः अनादीनां जीवेशादीनां विद्यमानत्वकथनेन एकाद्वितीयपदाभ्यां द्वितीयवस्त्वभावकथनस्य स्वव्याहतत्वाच्च । ' नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीत् ' (बृ. १-२-१ ) इति श्रुतिव्याख्यावसरे शङ्कराचार्यैरेव अनुपलब्धिश्चेदभावहेतुः सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यं वोपलभ्यते तस्मात्सर्वस्यैवाभावोऽस्तु”-न " मृत्युनैवेदमावृतमासीत् " इति श्रुतेः । यदि हि किंचिदपि नासीद्येनाव्रियते यच्चाव्रियते तदा नावक्ष्यन्मृत्युनैवेदमावृतमिति न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति ब्रवीति च मृत्युनैवेदमावृतमासीदिति । तस्माद्येनावृतं कारणेन यच्चावृतं कार्यं प्रागुत्पत्तेस्तदुभयमासीच्छ्रुतेः प्रामाण्यादनुमेयत्वाच्च । " इति वाक्येन द्वितीयवस्तुसत्त्वकथनात् शंकरभाष्यविरुद्धं द्वितीयवस्त्वभावकथनद्वारा भेदपारमार्थिकत्वाभावबोधनम् । इत्याद्यनेकदोषयुक्तत्वेन नेदं वाक्यं भेदपारमार्थिकत्वाभावादौ प्रमाणं भवितुमर्हति ।

आत्मैवेदं सर्वम् ' (छां. ७-२५-२ ) इति वाक्यमपि न जीवब्रह्मणोरभेदं वा जीवब्रह्मणोर्भेदस्य पारमार्थिकत्वाभावं वा बोधयति तत्र तद्बोधकपदानामभावात् ।

न च इदं सर्वं वस्तुजातं आत्मैव आत्मनि कल्पितं आत्मव्यतिरेकेण नास्ति इत्यर्थकतया सर्वस्य वस्तुजातस्यआत्मव्यतिरेकेण नास्तित्वरूपं मिथ्यात्वं बोधयतीति वाच्यम् । एवमर्थकथनस्य गीतातच्छङ्करभाष्यविरुद्धत्वात् पूर्वोत्तरवाक्यविरुद्धत्वात् असंभवाच्च ।

तथाहि " नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्व: " ( गी. ११-४० )

अस्य शंकरभाष्यम्-नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यं अथ पृष्ठतस्ते पृष्ठतोऽपि च ते नमोऽस्तु । ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय, हे सर्व अनन्तवीर्यामितविक्रमः अनन्तं वीर्थं अस्य अमितो विक्रमोऽस्य वीर्यं सामर्थ्यं विक्रमः पराक्रमः । वीर्यवानपि कश्चिच्छस्त्रादिविषये न पराक्रमते मन्दं पराक्रमते वा त्वं त्वनन्तवीर्योऽमितविक्रमश्चेत्यनन्तवीर्यामितविक्रमः । सर्वः समस्तं जगत् समाप्नोषि सम्यगेकेनात्मनाव्याप्नोषि यतः तस्मादसि भवसि सर्वः त्वया विनाभूतं न किंचिदस्ति इत्यर्थ इति ।

तथा च एतगतातच्छाङ्करभाष्याभ्यां परमात्मनः पूर्वपश्चिमादिसर्वदिग्वृत्तित्वं, सर्वजगद्व्याप्तत्वं सर्वजगद्व्याप्तत्वनिमित्तेनैव सर्वशब्दवाच्यत्वं अन्तर्यामितया परमात्मना विरहितं जगत् नास्तीत्यपि सिध्यति । न तु जगतः परमात्मस्वरूपत्वं परमात्मव्यतिरेकेणाभावो वा सिध्यति । तद्विरुद्धत्वादिति ।

'आत्मैवेदं सर्वमित्यस्य इदं सर्वं जगत् आत्मव्यतिरेकेण नास्ति इत्यर्थो न स्वीकार्यः । किं तु गीतातच्छङ्करभाष्यानुसारेण आत्मा इदं सर्वं एतत्समस्तं जगद्वयाप्तमित्यर्थ करणमेवोचितम् । इदं सर्वं आत्मनि कल्पितं आत्मव्यतिरेकेण नास्तीत्यर्थकरणं पूर्वोत्तरवाक्यविरुद्धं च । आत्मैवेदं सर्वमित्येतदुद्घटितं वाक्यं इत्थम् " आत्मैवाधस्तात् आत्मा उपरिष्टात् आत्मा पश्चात् आत्मा पुरस्तात् आत्मा दक्षिणतः आत्मा उत्तरतः आत्मैवेदं सर्वं स वा एष एवं पश्यन् एवं मन्वानः एवं विजानन् आत्मरतिरात्मक्रीडः आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु अकामचारो भवति ” ( छां. ७-२५-२) इति अत्र पूर्ववाक्येन आत्मा=परमात्मा, अधस्तात्-अधोदेशे वर्तते उपरिष्टात् = उपरिदेशे, पश्चात् = पश्चाद्भागे, पुरस्तात् = पुरोभागे दक्षिणतः दक्षिणभागे, उत्तरतः = उत्तरभागे, इति कथनात् दक्षिणोत्तरादिदेशाः सिध्यन्ति ।

उत्तरवाक्येनापि ' स वा एष एवं पश्यन् एवं मन्वानः एवं विजानन् इति जीवपरमात्मनो र्द्रष्टृ द्रष्टव्यभावमंतृमन्तव्यभावज्ञातृज्ञेयभावाद्युक्त्या भेदः सिध्यति । स्वतः प्रमाणीभूतेन अबाधितेन वेदेनोत्तभेदस्य पारमार्थिकत्वं च सिध्यति !

तथा तस्य सर्वेषु लोकेषु कामचारो भवति इति ज्ञानिनः सर्वलोकेषु यथेष्टसंचरणोक्त्या लोकज्ञानेच्छा संचारादिपदार्थाः सिध्यन्तीति आत्मैवेदं सर्वमित्यस्य आत्मव्यतिरेकेण द्वितीयवस्त्वभावभेदमिथ्यात्वबोधकत्वोक्तौ पूर्वोत्तरवाक्यविरोधः । तथार्थो न संभवति च ।

आत्मैवेदं सर्वमिति आत्मेदंपदयोः सामानाधिकरण्यं (सजातीयविभक्तिमत्त्वं) प्रतीयते, तेन च आत्मपदार्थचेतनस्य इदंपदबोध्यजङरूपजगता अभेदो भासते । परन्तु जडचेतनयोरभेदस्य बाधितत्वेन इदं सर्वं आत्मैव आत्माधीनमेवेत्यर्थस्यैवं वक्तव्यत्वात्-उक्तं च शंकराचार्याद्यद्वैतिभिः-बाधायां सामानाधिकरण्यस्थले तदधीनत्वं-तथा हि छान्दोग्योपनिषच्छाङ्करभाष्ये-न कामस्य ( जडस्य ) कर्तव्यत्वात् शब्दादिवत् पारार्थ्यप्रसंगाच्च देवस्य तस्माद्यथेह सर्वकाम इति बहुव्रीहिस्तथा कामोऽस्मीति स्मृत्यर्थो वाच्यः (छां. शां. भा. ३-१४-२) इति वाक्येन, तद्भाष्य-" कामसामानाधिकरण्ये बाघकोपलंभाद्बहुव्याख्यानभूतानन्दगिरिटीकायां च श्रीहिरेवेति परिहरति न कामस्येति । तस्य कार्यत्वात्तदैवये ब्रह्मणोऽनादित्वं बाध्येत, चेतनशेषत्त्वाच्च कामस्य तदैक्ये ब्रह्मणः स्वातन्त्र्यं हीयेत । तथा च सर्वकाम इत्यत्र कर्मधारयासंभवात् बहुव्रीहिरेवेत्यर्थ:। कथं तर्हि कामोऽस्मीति तादात्म्यस्मृतिरित्याशंक्याह तस्मादिति । कामेश्वरयोः सामानाधिकरण्यासंभवात् प्रकृतश्रुतौ बहुव्रीहिर्यथेष्टस्तथा स्मृतावपि ब्रह्मपारतन्त्र्यमात्रं कामस्य विवक्षितं, श्रुत्यनुसारेण स्मृतेर्नेतव्यत्वादित्यर्थः इति वाक्येन जडचेतनयोरैक्यासंभवमुक्त्वा कामादीनां परमात्माधीनत्वमुक्तम् ।

तथा शाङ्करब्रह्मसूत्रभाष्ये ।

एवं हन्तास्यैव सर्वे रूपं असामेति त एतस्यैव सर्वे रूपमभवन् । बृ. १-५-२१ ) इति श्रुतौ वागादीनां प्राणाभेदोक्तेः वागादेः प्राणेनाभेद इति पूर्वपक्षं कृत्वा प्राणस्य इन्द्रियैः भेदश्रुतेः वैलक्षण्याच्च तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वं तद्रूपभवनं वागादीनामिति मंतव्यं न तादात्म्यम् ( वृ.शां. भा. २-४-१७-१८-१९ ) इति तादात्म्यं निषिध्य तदधीनव्यापारवत्त्वेन सामानाधिकरण्यस्य गतिरुक्ता ।

तथा भामत्यामपि यापि च प्राणरूपतामिन्द्रियाणामभिदधाति श्रुतिः-तत्रापि पौर्वापर्यालोचनायां भेद एवं प्रतीयत इत्युक्तं भाष्यकृता । तस्माद्बहुश्रुतिविरोधात् पूर्वापरविरोधाच्च प्राणरूपताभिधानं इन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम् " इति सामानाधिकरण्यस्थले अभेदे बाधिते तदधीनता उक्ता इति ।

किञ्च अद्वैतमतरीत्या निर्विशेषे अद्वितीये स्वप्रकाशे ( इतरावेद्ये ) ब्रह्मणि भ्रमासंभवस्य ब्र. सू. शां. भाष्यभामतीग्रन्थे उक्तत्वेन आत्मनि ( ब्रह्मणि ) कल्पितमित्यर्थः असम्भावितः । विशेषस्तु अध्यासवादनिराकरणप्रकरणे तत्र तत्र उक्तो द्रष्टव्यः ।

अपि च आत्मव्यतिरेकेणाभाव इत्यनेन शशविषाणवत् जगतः असत्त्वमेवाभिप्रेतं वा, विशिष्टनिषेधः विशेषणे पर्यवस्यतीति न्यायेन विशेषणीभूते व्यतिरेके (भेदे) पर्यवसानेन जगतः आत्मरूपत्वमेव ( आत्माभेद एव ) न तु भेद इति नाद्यः - अपसिद्धान्तात्, अर्थक्रियाकारित्वानुपपत्तेश्च न द्वितीयः, जडस्य जगतः पूर्वोक्तरीत्या चेतनब्रह्मरूपत्वानुपपत्तेः-इत्याद्यनेकदूषणग्रस्तत्वेन आत्मैवेदं सर्वमिति वाक्यं भेदस्य पारमार्थिकत्वं निषेधति अभेदं बोधयतीति शाङ्करोक्तिरयुक्तैव ।

ब्रह्मेवेदं सर्वं (विश्वं ) इति वाक्यमपि ' नमः पुरस्तात् ' ( गी. इति गीतातच्छाङ्करभाष्यानुसारेण ' आत्मैवेदं सर्वं ' इति वाक्यवत् । विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपर चित्तदेहाद्युपाधिनिमित्तो भेदो न पारमार्थिक 'इत्यस्मिन्नर्थे ' ब्रह्मैवेदं सर्वं ' (मुंडक) २-२-११ ) इति श्रुत्युदाहरणमयुक्तम् तथा हि-

ब्रह्मैवेदममृतं पुरस्तात् ,ब्रह्म पश्चात् ,ब्रह्म दक्षिणतश्चोत्तरेण अधश्चोर्ध्वं च प्रसृतं ,ब्रह्मैवेदं विश्व - (सर्व) मिदं वरिष्ठम् ( मुं. २-२-११ ) इति श्रुतिः

इदं -उत लक्षणं, अमृतं-नाशरहितं, ब्रह्म, पुरस्तात्-पूर्वभागे वर्तते--ब्रह्म पश्चात्-पश्चाद्भागे वर्तते- ब्रह्म, दक्षिणतः - दक्षिणदिग्भागे, उत्त-रदिशि, अधः, ऊर्ध्वं च प्रसृतं-प्रगतम् ब्रह्मैव इदं विश्वं-सर्वव्याप्तं

इदं -ब्रह्म, वरिष्ठं-अतिशयेन श्रेष्ठं ( सर्वोत्तमं )

इति ब्रह्मणः सर्वजगव्याप्तत्वं सर्वोत्तमत्वं च कथयन्ती श्रुतिः जीव-ब्रह्मणोर्भेदमेव कथयति न भेदस्य पारमार्थिकत्वाभावं वा अभेदं वा कथयति इति ।

बल्लारिस्थेन वेङ्कटरामशास्त्रिणा " मुण्डके ' ब्रह्मैवेदं विश्व ' मिति पाठस्य सत्त्वेन ब्रह्मैवेदं सर्वमिति पाठः कस्माद् ग्रन्थात्सगृहीतः इत्येतन्न ज्ञायते " इति यदुक्तं तू स्वाचार्य भाष्यग्रन्थानवलोकनिबन्धनम् ।

तथा हि- "आरम्भणशब्दादिभ्यः इत्यादिशब्दात् तत्त्वमसि' 'इदं सर्वं यदयमात्मा ' ब्रह्मैवेदं सर्वंम् (मुं. २-२-११) 'आत्मैवेदं सर्वम्' इति ( ब्र. सू. भा. २-१-१४ ) सूत्रभाष्ये तथा ( १-४-२२ ) ब्र. सू. शाङ्करभाष्ये तथा गौडपादकारिकाव्याख्याने च ब्रह्मैवेदं सर्वमिति पाठस्य ग्रहणात् तच्छाङ्करभाष्यादेव सङ्ग्रहीत इति ज्ञातव्यमासीत् । तद्भाष्यानवलोकननिमित्तोऽयमाक्षेप इति निर्णायक ( जज्जमेंट ) वाक्ये तथा ग्रहणेऽपि विचारपरवाक्ये 'ब्रह्मैवेद विश्वमिदं वरिष्ठं ' इति वाक्यस्यापि ग्रहणात् तथा ग्रहणं नाज्ञानकल्पकं किंतु पाठद्वययुक्तं मुंडकवाक्यमित्यस्य कल्पकम् ।

यच्चाप्युक्तं तेनैव- ब्रह्मैवेदममृतं पुरस्तात् ,ब्रह्म पश्चात ब्रह्म दक्षिणतश्चोत्तरेण अधश्चोर्ध्वं च प्रसूत ब्रह्मवेदं विश्वं इदं वरिष्ठं इति श्रुतेः ,पुरस्तात् - पूर्वदिशि विद्यमानं इदं वस्तुजातं, अमृतं नित्यं ब्रह्मैव पश्चिमदिशि दक्षिणदिशि उत्तरदिशि अधोभागे ऊर्ध्वभागे प्रसृतं सर्वं ब्रह्मैव इदं विश्वं प्रमाणसिद्धं समस्तं जगत्, वरिष्ठं-अत्युत्तमं इदं ब्रह्मैव इति अभेदबोधकत्वेन जगद्ब्रह्मणोर्भेदांगीकारे श्रुतेः स्वारस्यं न संभवति द्वैतिभिः इदं सर्वं ब्रह्मैव-' इत्यस्य ब्रह्माधीनमेवेत्यर्थकरणं निश्चयेनासंगतम् तदा ब्रह्मैवेदमिति अवधारणं ( एवकारः ) व्यर्थं भवति । तस्मात् अस्मिन् वाक्ये जगद्ब्रह्मणोर्नियम्य-नियामकत्वादिरूपभेदसंबन्धकथनपक्षे श्रुत्यर्थो ध्वंसं प्राप्नुयात्-तथाच यश्चोरः स स्थाणुरिति वाक्ये यथा यश्चोरत्वेन प्रतीतः स स्थाणुरितिवत् ब्रह्मैवेदं सर्वमित्यस्यापि यत् सर्वत्वेन प्रतीतं तद्ब्रह्म ( ब्रह्मणि कल्पितं न तु जगदस्ति ) इत्यर्थकरणं युक्तमिति तदतीव मन्दम् ।

तथा हि-पूर्वोदाहृताभ्यां ' नमः पुरस्तादथ पृष्ठतस्ते ' (गी.) इति गीता-तच्छङ्करभाष्याभ्यां सर्वदिग्व्याप्तिसर्वजगव्याप्तिकथनेन जगद्ब्रह्मणोर्भेदस्यैव कथितत्वेन तद्विरोधात्, ' अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ' इति श्रुतौ स्पष्टं जगद्ब्रह्मणोर्व्याप्यव्यापकभावोक्त्या भेदस्यैव कथनात् । जगद्ब्रह्मणोरभेदां गीकारे ब्रह्म जगत् व्याप्नोतीत्यस्य मल्लो मल्लं ( स्वं ) गच्छति इतिवत् अयोगेन व्याप्यव्यापकभावस्य अस्वरसतमत्वात्-इदं सर्वं ब्रह्मैवेत्यस्य ब्रह्माधीनमेवेत्यर्थ करणं ' कामोऽस्मि ' ( गी. ) ' एतस्यैव सर्वे रूपमभवन् ' (बृ. १-५-२१ ) इत्याद्यभेदबोधकतया भासमानवाक्यानां शङ्कराचार्यादिभिः स्वभाष्ये तदधीनत्वाद्यर्थस्य कथितत्वेन अत्यन्तं सङ्गतत्वात्, अभेदबोधकतया भासमाने एतस्यैवेति एवकारघटितवाक्येऽपि तदधीनत्वाद्यर्थस्य कथनात् 'ब्रह्मैवेदं सर्वम्' इत्यस्य तदधीनत्वाद्यर्थकरणे एव एवकारस्य इदं सर्वं तदधीनमेव न तु तदनधीनं इति अनधीनत्वव्यावर्तकतया सार्थकत्वात् । तथा च जगद्ब्रह्मणोः भेदव्याप्ततदधीनत्वाद्यर्थंगीकारे श्रुत्यर्थः समीचीनो भवति न ध्वस्तो भवति । प्रत्युत यः स्थाणुः स चोर इतिवत् यत् प्रतीतं सर्वं ब्राह्मणादिवर्णब्रह्मचर्द्याद्याश्रमस्नान- संध्यादानतपेविदेदेवयज्ञगङ्गादितीर्थ परलोके तल्लोकेश्वरादिकं तत् ब्रह्मैव ब्रह्मणि कल्पितम् इत्यद्वैतिरीत्याऽर्थाङ्गीकारे तु न केवलं श्रुत्यर्थो ध्वंसं प्राप्नुयात् किन्तु श्रुतिः [वेद: ] ईश्वरः, देवाः, यज्ञः, ब्राह्मणादिसर्वं जगत्, वक्ता त्वं, श्रोतारः सर्वेऽपि ध्वंसमाप्नुयुः इति महत् कष्टमापद्येत ।

ननु अस्माकं सर्वस्याभाव इष्ट एव । अद्वैतिभिः विवर्तवादादिकथनं मध्यमाधिकारिणं प्रत्येष न तूत्तमाधिकारिणं प्रति । उक्तं हि संक्षेपशारीरके तव्याख्यानभूतेऽद्वैत सिद्धिकृन्मधुसूदनसरस्वतीभिः रचिते व्याख्याने च-तत्त्वावेदकमानदृष्टिरधमा तत्त्वक्षतिर्मध्यमा ।

तत्व प्रच्युतिविभ्रमक्षतिकारी तत्रान्त्यदृष्टिर्मता । सं. शा. २।४३ प्रत्यक्षादेस्तत्त्वावेदवमानत्वदृष्टिरधमा भवति, अविवेकादिमत्पुरुषसाधारणत्वात् पुरुषार्थानुपयोगित्वात् अनर्थहेतुत्वात् अनात्मसत्यत्वविषयत्वाच्च साऽधमेत्यर्थः ।

तत्त्वक्षतिः-प्रपंच सत्यत्वक्षतिकरी या विवर्तदृष्टिः सा मध्यमा, ब्रह्मविचाराद्यधीन विवर्तदृष्टेर्विवेकादिमत्पुरुषाश्रयत्वात् परम्परया मोक्षोपयोगित्वादात्मतत्त्वविषयत्वाच्च सा पूर्वदृष्टयपेक्षयोत्तमा, तावत्या द्वैतोपशान्त्यसंभवात् द्वैतोपशान्त्यपेक्षया जघन्येति मध्यमेत्यर्थः । या पुनरन्त्या दृष्टिः सा तत्त्वप्रच्युतिविभ्रमक्षतिकरी, प्रपंचतत्त्वविरोधिनी प्रपंचभ्रमत्वगोचरा या विवर्तदृष्टिस्तस्याः क्षतिकरी, अतः सोत्तमपुरुषाश्रयत्वात् सकलद्वैतभ्रमनिवर्तकतया साक्षान्मोक्षसाधनत्वान्निरतिशयानन्दात्ममात्रविषयत्वाच्च सर्वोत्तमा मतेत्यर्थः इति । तर्हि देवानां प्रियोऽसि सर्वस्याप्यभावे वक्ता नास्ति, वदनसाधनं नास्ति, वक्तव्यं नास्ति, श्रोता नास्ति, श्रवणसाधनं नास्ति इति वदन् पुनः वदनादिव्यापारं कुर्वन् भ्रांतौषधालये निवेशयितुं योग्य: न संभाषणीय इत्यलमेतादृशैः सह विवादेन ।

अपि च यश्चोरः स स्थाणुरिति वाक्यं चोरत्वेन प्रतीतस्य स्थाणुत्त्वं मुख्यया वृत्त्या बोधयति अमुख्यवृत्त्या वा । नाद्यः चोरपदस्य चोरत्वेन प्रतीत इत्यर्थस्य मुख्यार्थकत्वाभावात् अमुख्यवृत्त्या बोध्यते इति द्वितीयपक्षे ' ब्रह्मैवेदं सर्वमित्यत्र सर्वपदस्य सर्वत्वेन प्रतीतं इत्यर्थकरणमप्यमुख्यमेव (लक्षणावृत्त्यैव ) स्वीकरणीयमिति ब्रह्मशब्दस्य ब्रह्माधीनमित्यर्थकर्तुः सकाशात् को विशेष आचरितो लोकोत्तरप्रज्ञेन । हा. विशेषः आचरितः । ब्रह्माधीनत्वादिरूपोऽर्थः शङ्कराचार्यादिभिरुक्तः श्रुत्याद्यनुसारी च । तमेतं प्रमितमर्थं परित्यज्य सर्वं सर्वत्वेन प्रततिं ब्रह्म ब्रह्माणि कल्पितमिति प्रमाणविरुद्धस्य सर्वजगद्व्यवहारनाशकस्य चार्थस्य कथनेन ।

अपि च " किं बहुना ब्रह्मैवेदं विश्वं समस्तं, इदं जगत् वरिष्ठं वरतमं' इति शाङ्करभाष्यम् । अत्र हि ब्रह्मैव इदं विश्व-समस्तं इत्येकं वाक्यम् । इदं जगत् वरिष्ठं वरतमं इति द्वितीयं वाक्यम् ' इति वाक्यभेदः स्पष्टं प्रतीयते । इदंपदद्वयघटितत्वात् । प्रथमवाक्ये तावत् शाङ्करमतरीत्या इदं विश्वं समस्तं ब्रह्मैव इति विश्वमुद्दिश्य ब्रह्मत्वं विधीयते, द्वितीवाक्ये इदं जगत् इति जगदुद्दिश्य वरिष्ठं वरतममिति वरतमत्वं विधीयते इति जगतः उत्तमत्वं रपष्टं बोध्यते । एवंरीत्या स्पष्टं प्रतीयमानमर्थं स्वीकृत्य शङ्कराचार्येण जगत उत्तमत्वमुत्तम् । मिथ्यात्वे उत्तमत्वं कथं घटेत । तदन्यथानुपपत्त्याऽपि जगतः सत्यत्वं सिध्यति इति न मिथ्यात्वं जगत इत्युक्तं सिविलसूट नामक पुस्तके |

जगतो वरिष्टत्वं शंकरेण नोक्तम् । शांकरवाक्यान्वयाज्ञानमूलकैव जगतो वरिष्ठत्वं शंकरेणाक्तमित्युक्तिः वरिष्ठशब्दस्तु विधेयवाचकब्रह्मशब्देनैवान्वेति न तु उद्देश्यवाचक विश्वशब्देन इति यदुक्तं स्वमताग्रहपिशाचाविष्टेन शास्त्रिणा, तदयुक्तम् ।

शंकरभाष्ये इदं पदद्वयोपेतं महावाक्यं ब्रह्मैवेदं विश्वं समस्तं इति प्रथमवाक्यमिदं विश्वमुद्दिश्य ब्रह्मत्वविधायकं, इदं जगत् वरिष्ठं वरतमं इति द्वितीयं वाक्यं जगदुद्दिश्य वरिष्ठत्व ( वरतमत्व ) विधायकमित्यवान्तर- वाक्यद्वयघटितमिति स्पष्टं बालानामपि प्रतीयते ।

श्रुतावपि ब्रह्मैवेदं विश्वमिदं वरिष्ठं ' इति वाक्यम् इदं पदद्वयघटितत्वेन इदं विश्वं ब्रह्मैव ' इत्येकं वाक्यम्, इदं वरिष्ठं ' इत्यपरं वाक्यमिति स्पष्टं प्रतीयते । श्रुतौ शंकरभाष्ये च विद्यमानं वाक्यं यद्येकवाक्यं स्यात् तर्हि इदमिति पदद्वयमनन्वितं स्यात् । यदि इदं विश्वं समस्तं इदं जगत् वरिष्ठं वरतमं ब्रह्मैव इति जगदुद्दिश्य वरिष्टतमब्रह्मत्वं विहितमिति शंकरेणोक्तमित्युक्तं भवेत् तदा शंकरभाष्ये इदंपदद्वयं व्यर्थं स्यात् । इदं विश्वं समस्तं .... जगत् वरिष्ठं ब्रह्मैवेत्यनेनैव निर्वाहात् समस्त ..... जगच्छब्दयोर्मध्ये पुनः इदंशब्दप्रयोगो न स्यात् ।

श्रुतावपि ब्रह्मैवेदं विश्वं वरिष्ठं इत्येवोच्येत न तु ब्रह्मैवेदं विश्वमिदं वरिष्ठमिति विश्व ... वरिष्टशब्दयोर्मध्ये इदंशब्दो न स्यात् । अस्ति च श्रुतौ शाङ्करभाष्ये च मध्ये इदंशब्द इत्यतः श्रुतौ शाङ्करभाष्ये च वाक्यद्वयं अभिप्रेतमिति प्रतीयते । एवं स्पष्टं प्रतीयमानवाक्यद्वयत्वापलापः वरिष्टशब्दस्य पूर्ववाक्ये अद्वैतमतरीत्या विधेयब्रह्मणा अन्वयः इत्याद्युक्तिः द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च इति गीतोक्तासुरस्वभावनिबन्धना । ' असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ' ' ईश्वरोऽहं ' इत्यादिमिथ्याज्ञानेन 'मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ' इत्युक्ताधमगतिप्राप्तिसाधनं चेति । याऽपि शास्त्रिणा वरिष्ठमिति अतिशयार्थकेष्ठन्प्रत्ययान्तशब्दस्य अत्युत्तमार्थकत्वेन जगतः अत्युत्तमत्त्वं कैरपि शास्त्रकारैर्नोच्यते । सन्त्वितरे शास्त्रकाराः, माध्वा अपि सर्वोत्तमत्वादिकं विष्णोरेव वदंति न जगत इति स्थिते जगतः अत्युत्तमत्त्वं शङ्करेणोक्तमिति व्याजेन अविद्यमानं जगतः अत्युत्तमत्वं कथयतां एतद्ग्रन्थकर्तृतीर्थानां स्वसिद्धान्तविरोध आयास्यतीत्युक्तिः स्वमतसाधनपरमतनिराकरणासामर्थ्यनिमित्तजातकोपावेशजनितबुद्धिभ्रांतिप्रयोज्यैव । न हीदं सिविल्सूट्ग्रन्थकर्त्रा जगतः अत्युत्तमत्वं स्वसिद्धान्तत्वेनोक्तम् । शङ्कराचार्याः जगतः उत्तमत्वं कथयति । कथं जगतो मिथ्यात्वे उत्तमत्वं स्यादित्यापादितमेव । द्वैतसिद्धान्ते तु श्रुत्यर्थः उपक्रम एव निरूपितः । ब्रह्म उद्दिश्य पुरोदेशवृत्तिपश्चिमदेशवृत्तित्वं विश्वव्याप्तत्वादिकं कथयित्वा इदं वरिष्ठमिति वाक्येन ब्रह्मणः सर्वोत्तमत्वं विधीयत इति, न तु जगतः अत्युत्तमत्वं बोध्यते इति ।

उत्तमत्वमेव द्वितीयाधमवस्तुसत्तापेक्षं, अत्युत्तमत्वन्तु नितरां द्वितीयानेकाधमवस्तुसापेक्षमिति अद्वैतमतरीत्यापि अंगीकृतस्य अद्वितीयब्रह्मणोऽपि वरिष्ठशब्दबोध्यात्युत्तमत्वं कथं घटते इत्येतच्छास्त्रिभिरपि पर्यालोचितव्यमासीत् । हा न तेषामपराधः । न ते पर्यनुयोज्याः । आग्रहेण बुद्धौ पर्यालोचनशक्तेः कुण्ठितत्वात् इति ।

इदं सर्वं यदयमात्मा ' (बृ. २-४-६) इति श्रुतिरपि जीवब्रह्मणोर्भेदस्य पारमार्थिकत्वाभावं वा अभेदं वा यथा न वक्ति तथा प्रदर्शितं आत्मेति [ब्र. सू. ४-१-३ ] सूत्रविचारावसरे, तत्रैव द्रष्टव्यम्

नान्यदतोऽस्ति द्रष्टृ इति वाक्यमपि ब्रह्मान्यजीवनिषेधद्वारा नैक्यबोधकम् । एतत्पूर्ववाक्येषु सूर्यचन्द्रादिदेवानां अक्षरनामकब्रह्मणा, भेदस्यैव कथितत्वात् अस्मिन् वाक्ये भेदनिषेधकपदाभावाच्च । तथा एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इति वाक्येन ।

जगद्व्यवस्था प्रशास्तृपूर्विका व्यवस्थात्वात् राज्यव्यवस्थावत् ( यथा राज्यव्यवस्थाया एकः प्रशास्ता वर्तते तथा जगद्व्यवस्थाया अपि एकः प्रशासक आवश्यक इति प्रशास्त्रक्षरसिद्धि: ) इति अक्षरसद्भावे एकमनुमानं, विमतौ सूर्या-चन्द्रमसौ विशिष्टज्ञानवता निर्मितौ प्रकाशकत्वात् प्रदीपवत् इति [ यथा प्रकाशको दीपः ज्ञानविशेषवता निर्मितः तथा प्रकाशकौ सूर्याचन्द्रमसावपि ज्ञानविशेषवता निर्मितौ ) सूर्याचन्द्रमसो निर्मातृज्ञान विशेषवदक्षरसद्भावे अपरमनुमानं, विमतौ नियंतृपूर्वको विशिष्ट चेष्टावत्त्वात् भृत्यादिवत् इति ( यथा चेष्टा-विशेषवतो भृत्यादेः कश्चिन्नियंता वर्तते तथा गमनामनप्रकाशनादिव्यापारविशेषवतोः सूर्याचन्द्रमसोरपि एकः नियन्ता आवश्यक इति ) सूर्याचन्द्रनियंत्रक्षरसद्भावे अन्यदनुमानं च सूचयित्वा । *

एतस्याक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ तिष्ठत ' इत्यनेन विमते द्यावापृथिव्यौ प्रयत्नवता विधृते सावयवत्वेऽपि अस्फुटितत्वात् गुरुत्वेऽपि अपातित्वात् संयुक्तत्वे सति विद्युत्वात् इत्यादि ( यथा हस्तन्यस्तपाषाणादि गुरुत्त्वेऽपि अपातित्वादिना केनचित् प्रयत्नवता पुरुषेण धृतं तथा द्यावापृथिव्योरपि एकः प्रयत्नपूर्वकं धर्ता आवश्यक इति द्यावापृथिव्यभिमानिदेवाधारक एव अक्षरमिति ) अक्षरसद्भावे अनुमानं सूचयित्वा ।

एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति ' इति वाक्येन च निमेषादयः नियंतृपूर्वकाः कलयितृत्वात् संप्रतिपन्नवत् इति ( निमेषादिनियंतृतया अक्षरं सिध्यति इति ) अक्षरसद्भावे अनुमानं सूचयित्त्वा ।

एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्याः नद्यः स्यंदंते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु ' इति वाक्येन विमता गंगाद्याः नियंतृपूर्विकाः नियतप्रवृत्तित्वात् भृत्यादिप्रवृत्तिवत् [ यथा अन्यथा प्रवर्तितुं उत्साहवन्तोऽपि भृत्याः तथा अकृत्वा नियतप्रवृत्तिमत्त्वेन केनचिन्नियताः, तथा गंगाद्याः नद्यभिमानिदेवता अपि अन्यथा प्रवर्तितुमुत्साहवत्वेऽपि नियमेनैव प्रवर्तन्ते इति तासां देवतानामपि एको नियंता आवश्यकः ] इत्याद्यनेकान्यनुमानानि सूचयित्वा शास्यशासकभाव धार्यधारकभाव-जन्य-जनकभावादिना ' चन्द्रसूर्यनद्याद्यभिमानिजीवानां अक्षरनामकपरब्रह्मणा भेदस्य बोधितत्वेन इमानि वाक्यानि सूर्यादिजीवानां ब्रह्मणा भेदबोधकान्येवेति (* शंकराचार्यैरपि एतानि वाक्यानि उक्तानुमान सूचनद्वारा शास्यशासकभावा- दिना सूर्यादिजीवानां ब्रह्मरूपाक्षरेण भेदवोधकानि भवन्ति इति एकमेव व्याख्यातम् ।)

पूर्ववाक्यविरुद्धत्वात्तदुत्तरं नान्यदतोऽस्ति द्रष्टृ इति वाक्यं न भेदनिषेधकम् । ननु तर्हि एतद्वाक्यस्य कोऽसावर्थ इति चेत् शृणु सूर्यादिप्रशास्तृत्वादिना अक्षरं (ब्रह्म) अंगीकरणीयमिति यदुक्तं तन्न युक्तं । अग्नेर्दहनप्रकाशकत्ववत् प्रकृत्यादेरचेतनस्यैव प्रशास्तृत्वसंभवेन न प्रशास्तृत्वेन प्रधानाद्यतिरिक्तं ब्रह्म अङ्गीकर्तुशक्यमिति सांख्येन आक्षेपे कृते तत्परिहारार्थम्--

तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृश्रुतं श्रोत्रमतं मंत्रविज्ञातं विज्ञातृ नान्यदतोऽास्त द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मंतृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति वाक्यं प्रवृत्तम् ।

हे गार्गि शासकत्वादिना सिध्यत् अक्षरं अदृष्टं * दर्शनविषयत्वयोग्यत्वाभाववत् स्वयं च द्रष्ट, एवं श्रवणाविषयः स्वयं श्रोतृ, एवं मननाविषयः स्वयं मंतृ, एवं ज्ञानाविषयः स्वयं विज्ञातृ ' अतः ' दर्शनायोग्यत्वात् ' अतः ' श्रवणायोग्यत्वात् अतः ' ज्ञानाविषयत्वात् अतः मननाविषयत्वात् ' अतः ' एतस्मात् शासकात् अन्यत् प्रधानं वा अव्याकृताकाशादि पृथिव्यंतं वा न द्रष्टृ न श्रोतृ न मंतृ न विज्ञातृ इति शासकतया सिध्यद्वस्तुनि विद्यमानद्रष्टृत्वश्रोतृत्वमंतृत्वादीनां जडेषु प्रधानादिष्वसंभवेन न शासकं प्रधानादिजडं भवितुमर्हति । किंतु अक्षरं ब्रह्मैवेति एतस्मिन् खल्वक्षरे गार्गि आकाश ओतप्रोतः आश्रयतया सम्बद्ध इति प्रधानवादिमतनिराकरणार्थं प्रवृत्तं न तु अक्षरात् ब्रह्मणोऽन्यत् द्रष्टृ श्रोतृ मंतृ विज्ञातृ वस्त्वेव नास्तीति कथनद्वारा ब्रह्मान्यजीवनिषेधार्थमिति ।

एवमेव व्याख्यातं शङ्कराचार्येणापि एतदुपनिषद्भाष्ये ।

किंच नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मंतृ नान्यदतोऽस्ति विज्ञातृ इति वाक्यस्य अक्षरात् अन्यत् द्रष्टृ श्रोतृ मंतृ विज्ञातृ नास्ति इति द्रष्टृ श्रोतृ-मंत्र-विज्ञातृ-चेतनस्य निषेवद्वारा ब्रह्मणः अन्यः जीवो नास्तीति (* एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः । इमं देशमनुप्राप्ताः मम दर्शनलालसाः ॥ न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन । ऋते ह्येकांतिकश्रेष्ठात्त्रं चैकांतिकोत्तम । एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते । इच्छन् मुहूर्तान्नश्येयं ईशोऽहं जगतां गुरुः ।। इत्यादिना स्वस्मिन् भक्तितत्प्रयोज्यानुग्रह( दर्शन दानेच्छा) मंतरा दर्शनाविषय इति, अथवा साकल्येन दर्शनाविषय इति अर्थः ततो न दर्शनश्रुतिविरोधः ।)

व्याख्यानकरणं ब्रह्मान्यस्य श्रोतृत्वमंतृत्वविज्ञातृत्वादिबोधकैः तत एव भेदबोधकैः आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्यः " येनाश्रुतं श्रुतं भवति ' तमेवं विद्वानमृत इह भवति । ' 'यया तदक्षरमधिगम्यते ' इत्यादिवाक्यैर्विरुद्धं, ' यो वा एतदक्षरं गार्ग्य विदित्वाऽस्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यंतवदेवास्य तद्भवति.....अथ य एतदक्षरं गार्गि विदित्वा अस्माल्लोकात्यैति स ब्राह्मणः ' इति अव्यवहितपूर्ववाक्येन विरुद्धं च ।

यथा पूर्ववाक्ये शासकत्वादिना अक्षरं ब्रह्म अस्तीति साधितं तथा अस्मिन् वाक्येऽपि ।

यदज्ञानात् संसारः तद्ज्ञानान्निवर्तते इति न्यायात् अक्षरा ( ब्रह्मा ) ज्ञानमूलकत्वात्संसारस्य तन्निवर्तकज्ञानविषयेण अक्षरेणैव भाव्यं नान्येनेति संसारनिवर्तकज्ञानविषयतया अक्षरमंगीकरणीयमिति । एवमेव व्याख्यातं शङ्करभाष्ये ।

य एतदक्षरं गार्गि विदित्वेत्यनेनापि अक्षरब्रह्मज्ञातृत्वं स्पष्टं जीवस्योक्तमिति तद्विरोधात् ज्ञातृत्वद्रष्टृत्वादीनां निषेधासंभव एव ।

न च आत्मा वाऽरे द्रष्टव्य इत्यादिश्रुतिभिः जीवब्रह्मणोर्व्यावहारिकभेदेन व्यावहारिकं [ कल्पितं ] द्रष्टृत्वमुच्यते । अस्मिन् वाक्ये जीवस्य वस्तुतः परब्रह्मरूपत्वेन पारमार्थिकभेदाभावेन तद्विवक्षया । अतः अन्यत् परब्रह्मणः (अक्षरात् ) अन्यत् पारमार्थिकद्रष्टृ नास्ति इति निषिध्यत इति वाच्यं । यथा नीलघटसद्भावकाले सामान्यतः घटो नास्ति इति निषेधः कर्तुं नैव शक्यते तथा त्वन्मतरीत्या व्यावहारिकद्रष्टुः सद्भावेन नान्यदतोऽस्ति द्रष्टृ इति सामान्यतः द्रष्टुः निषेधायोगात् ।

न च अत एव अतः अन्यत् परमार्थतः द्रष्ट्र नास्ति इति परमार्थत इति विशेषणं दत्तमिति वाच्यं । श्रुतौ परमार्थत इति पदाभावात् । अश्रुतपदस्याध्याहारे च स्वातंत्र्येणेति पदाध्याहारेण स्वातंत्र्येण द्रष्टृ नास्ति इति जीवस्य परमात्मदर्शने स्वातंत्र्यनिषेधांगीकारेण वा साकल्येनेतिपदाध्याहारेण ब्रह्मगतसकलधर्मज्ञाननिषेवांगीकारेण वा उपपत्तौ ब्रह्मान्यजीवस्य निषेधासिद्धेः ब्रह्मान्यजीवनिषेधस्य पूर्वोत्तरवाक्यबहुप्राणविरुद्धत्वेन असंभवाच्च ।

" किंच शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियत " इति ब्रह्मसूत्रभाष्यव्याख्यानसमये वाचस्पतिना भामतीकारेण "लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि । तैः खलु सत्सदिति गृह्यमाणं यथाभूतम- विपरीतं व्यवस्थाप्यते असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं व्यवस्थाप्यते । सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते । यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यावहारिकम् । तथा च भिन्नविषयत्वान्न सर्वप्रमाणविप्रतिषेध इत्यत आह, 'नह्ययं सर्वप्रमाणप्रसिद्धो लोकव्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपद्द्नोतुं ' (भाष्ये) ' प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते । अतात्त्विकत्वं तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यं न पुनः सांव्यावहारिकं नः प्रामाण्यं न तु तात्त्विकमित्येव प्रवर्तते' इति वाक्येन, बौद्धेन, जगतः सत्त्वं नास्ति इति कथिते प्रमाणैः जगतः सत्यत्वावधारणात् सत्यत्वं नास्तीति कथनं प्रमाणविरुद्धमिति मायावादिना प्रत्युत्तरे दत्ते पुनः सत्त्वं द्विविधं व्यावहारिकं पारमार्थिकं च इति प्रमाणानि व्यावहारिकसत्त्वं विषयीकुर्वन्ति । मया तु प्रमाणसिद्धं व्यावहारिकसत्त्वमङ्गीकृत्य पारमार्थिकसत्त्वं निषिध्यते इति जगतः सत्त्वानंगीकर्तुर्मम न प्रमाणविरोध इति उत्तरे दत्ते तस्य समाधानार्थं प्रवृत्तस्य 'हययं सर्वप्रमाणसिद्धो लोकव्यवहारः अन्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतु' मिति भाष्यस्य व्याख्यानं कुर्वता भामतीकृता वाचस्पतिमिश्रेण ( प्रमाणानि स्वस्वविषयाणि तात्त्विकानि ( पारमार्थिकानि ) एवेति गृह्णति न तु व्यावहारिकाणि इति) प्रमाणैः स्वस्वविषयाणां पारमार्थिकत्वस्यैव ग्रहणात्, व्यवहारिकत्वस्याग्रहणात् पारमार्थिकत्वनिषेधे प्रमाणविरोधः त्वन्मतस्य वज्रलेपायित इति बौद्धं प्रति उक्तत्वेन ।

अहंप्रत्ययस्य कर्तृत्वभोक्तृत्वादिविषयस्यात्मनि अद्वैतवाक्यजातेन बाधे तु तन्मूलस्य प्रमाणस्य न क्वचिदपि चारितार्थ्यम् । न च व्यावहारिकविषयालम्बनतया तत्रैव चारितार्थ्यं स्यादिति वाच्यम् । व्यावहारिकविषयस्य शुक्तिरूप्यादिवत् कदाचिद्वाच्यत्वाभ्युपगमात् बाध्यत्त्वाभ्युपगमात् बाध्यविषये च व्यावहारिकप्रामाण्यमिति व्यवहारस्य अद्वैतपरिभाषामात्रसिद्धत्वादित्याशङ्क्य निर्दोषत्वेन क्लृप्तशास्त्रस्यैव विषयान्तर प्रदर्शनेन चारितार्थ्यमुपपादनीयं न तु दोषमूलस्य अहंप्रत्ययस्य, तस्य भ्रांतित्वोपपत्तेरिति विवेचनाय तस्य दोषमूलत्वं दर्शयितुं प्रवृत्तमुत्तरग्रन्थमवतारयति । एवं तावदिति इति कल्पतरुपरिमलवाक्यैरपि व्यावहारिकविषयस्य कदाचिद्वाध्यत्वेन बाध्यस्य त्रिकालावृत्तित्वात् बाध्यविषये च व्यवहारस्याद्वैतिपरिभाषामात्रसिद्धत्वादित्यादिना विषयस्य व्यावहारिकत्वं त्रिकालावृत्य सत्त्वपर्यायं व्यावहारिकप्रामाण्यं च अप्रामाण्यपर्यवसायि इति उक्तत्वेन च, ' न च व्यावहारिकप्रामाण्ये सावकाशं एतत्परिभाषाया अद्वैतिपरिकल्पिताया वस्तुव्यवस्थापकत्वासंभवादिति, ब्रह्मविद्याभरणे चोक्तत्वेन एतस्य वा अक्षरस्येत्यादिप्रमाणानां व्यावहारिकशास्तृत्वभेदादि विषयत्वांगीकारस्य स्वव्याहत्यापत्त्याऽयोगात् इति ।

सत्यं चेत्संवृतिः केयं मृषा चेत्सत्यता कथम् ।

सत्यत्वं न च सामान्यं मृषार्थपरमार्थयोः ॥

तुल्यार्थत्वेऽपि तेनैषां मिथ्यासंवृतिशब्दयोः ।

वञ्चनार्थमुपन्यासः लालावक्त्रासवादिवत् ॥

नास्तिक्यपरिहारार्थं संवृति: कल्पनेति च ।

तस्माद्यन्नास्ति नास्त्येव यद्यस्ति परमार्थतः ॥

तत्सत्यमन्यन्मिथ्येति न सत्यद्वयकल्पना ।

न हि स्वप्नसुखाद्यर्थं धर्म कश्चित्प्रवर्तते ॥

इति भट्टेन बौद्धमतनिराकरणावसरे व्यावहारिकसत्यतायाः असत्त्वस्यैवोक्तेः, व्यवहारे भट्टनय इति भट्टमतानुयायित्वं स्वीकुर्वता त्वया बौद्धवत् व्यावहारिकसत्यतांगीकारायोगात् । अंगीकारे च भटटोक्तरीत्या नास्तिक्यपरिहारार्थं वञ्चकताप्राप्तेः ।

यः पृथिव्यां तिष्ठन् पृथिवीमंतरो यमयति यं पृथिवी न वेद इति पृथिव्याद्यभिमानिनो देवा महानुभावाः कथं स्वान्तर्गतं स्वनियामकं भगवन्तं न पश्यन्ति इति शंकायां " एष त आत्मान्तर्याम्यमृतोऽदृष्टो द्रष्टाऽश्रुतः श्रोता मतो मंता-विज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रौता नान्योऽतोऽस्ति मंता नान्योऽतोऽस्ति विज्ञाताइति वाक्येन अन्तर्यामी दर्शनायोग्यः श्रवणायोग्यः मननायोग्यः विज्ञानायोग्यः इति कथयित्वा अतः दर्शनायोग्यत्वात् अन्यः ( पृथिव्यादिदेवतान्तर्यामिणः ) द्रष्टा नास्ति, अतः श्रवणायोग्यत्वात् अतः मननायोग्यत्वात् अतः विज्ञानायेोग्यत्वात् 'अन्यः ' [ अन्तर्यामिणः ] श्रोता मन्ता विज्ञाता नास्ति इति पृथिव्याद्यभिमानिदेवताः स्वांतर्यामिणं न शृण्वन्ति न मन्वते न विजानन्ति इति उक्तं, तथा अक्षरस्य अतः दर्शनायोग्यत्वात् अतः मननायोग्यत्वात् अतः श्रवणायोग्यत्वात् अतः विज्ञानायोग्यत्वात् अन्यत् ब्रह्मणः ( अक्षरात्) द्रष्टृश्रोतृमन्तृविज्ञातृ नास्तीति अक्षरद्रष्टृत्वमेव निषिध्यते न तु सामान्यतः द्रष्टृनिषेधः क्रियते इत्यर्थस्यापि सुसाधुत्वेन नेदं वाक्यं द्रष्ट्रंतरनिषेधद्वारा जीवब्रह्मैक्यबोधकम् ।

(बृ.) नान्योऽतोऽस्ति द्रष्टेतिवाक्यमपि जीवब्रह्मणोर्भेदनिषेधद्वारा ऐक्य-बोधकमिति यत् तत्तुछम् । एतत्पूर्ववाक्येषु पृथिव्याद्यभिमानिदेवानां जीवानां च परब्रह्मणा भेदस्य भेदकधर्माणां च कथितत्वात् अस्मिन् वाक्ये भेदनिषेधकपदाभावाच्च। तथा हि याज्ञवल्क्यांतर्यामिणं ब्रूहीति यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमंतरो यमयत्येष त आत्मान्तयाम्यमृतः (बृ. ३-७-३) योप्सु तिष्ठन् अमृतः (बृ. ३-७-४ ) योऽग्र तिष्ठन्... अमृत: ५ योऽन्तरिक्षे तिष्ठन् ....... अमृतः ६ यो वायौ तिष्ठन्.......अमृतः ७ यो दिधि अमृत; ८ य आदित्ये ...... अमृतः ९ यो दिक्षु...अभृतः १० यश्चन्द्रतारके तिष्ठन् ...... अमृतः ११ य आकाशे. अमृत १२ यस्तमसि .... अमृतः १३ यस्तेजसि .. ..अमृतः १४ यः सर्वेषु भूतेषु अमृतः १५ यः प्राणे अमृतः १६ .... १७/१८/१९/२०|२१| जीवे यो विज्ञाने तिष्ठन् विज्ञानादंतरो यं...अमृत २२ । यो रेतसि तिष्ठन्....रेतोन्तरो यमयत्येष त आत्मांतर्याम्यमृतोऽदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मंताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मंता नान्योऽतोऽस्ति विज्ञाता एष त आत्माऽन्तर्याम्यमृतः अतोऽन्यदार्तं (बृ. ३-७-२३) (अस्य तात्पर्यार्थ : ) ।

यः नारायणः पृथिव्यादिषु पृथिव्याद्यभिमानिदेवेषु अन्तः विद्यमानः पृथिव्याद्यभिमानिदेवेन अविज्ञेयः * पृथिवीशरीरकः पृथिव्याद्यभिमानिदेवात् भिन्नः पृथिव्याद्यभिमानिदेवं नियमयति ( स्वस्वव्यापारेषु प्रवर्तयति ) एष आत्मा (*★ यथा शरीरं शरीरिनियम्यं तथा पृथिव्यादिदेवता अपि नियम्या इति पृथिव्याद्यभिमानिदेवताः शरीरस्थानीया इति अभिप्रायः ।)

नारायणः तव मम च अन्तर्यामी अन्तः स्थित्वा नियामकः अमृतः पूथिवीनाशेन नाशरहित एवं यो नारायणः जले जलाभिमानिदेवतायां, अग्नौ अग्न्यभिमानिदेवतायां, अन्तरिक्षे अन्तरिक्षाभिमानिदेवतायां, वायौ वाय्वभिमानिदेवतायां दिवि द्युलोकाभिमानिदेवतायां, आदित्ये, दिक्षु दिगभिमानिदेवतासु, चन्द्रतारकयोः आकाशे आकाशाभिमानिदेवतायां, तमसि तमोभिमानिदेवतायां तेजसि तेजोभिमानिदिवतायां सर्वेषु भूतेषु, प्राणे वाचि वागभिमानिदेवतायां, चक्षुषि चक्षुरभिमानिदेवतायां श्रोत्रे श्रोत्राभिमानिदेवतायां मनसि मनोभिमानिदेवतायां त्वचि त्वगभिमानिदेवतायां विज्ञाने ( जीवे) रेतसि रेतोभिमानिदेवतायां अन्तर्विद्यमानः तैस्तैरविज्ञेयः तत्तच्छरीरकः जलादिजडतदभिमानिदेवेभ्यः भिन्नः जलादिजडान् जलाद्यभिमानिदेवांश्च चेतनान् नियमयन् तत्तव्यापारेषु प्रवर्तयन्, यो नारायणः आस्ते स एव नारायणः तव मम चान्तः स्थित्वा नियामकः पृथिवीजलादिनाशेऽपि नाशरहित इति ।

अन्तर्यामिणो नारायणस्य (परब्रह्मणः ) पृथिव्यादिजडैः तदभिमानिदेवैः सर्वजीवैश्च नियम्यनियामकभावः आधाराधेयभाव: (१) भेदश्चोक्तइति एतद्वाक्यविरुद्धत्वात् अनेकभेदभेदकधर्मबोधकप्रमाणैश्च विरुद्धत्वात् 'अमृतोऽदृष्टो द्रष्टाऽश्रुतः श्रोता अमतो मंताऽविज्ञातो विज्ञाता न्यान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता' इति वाक्यं न जीवब्रह्मणोर्भेदनिषेधकं इति नानेनापि अद्वैतस्य वैदिकत्वासिद्धिः । न च तर्हि अमृतोऽदृष्टो द्रष्टा इत्यादिवाक्यं किमर्थं प्रवृत्तमिति वाच्यं (२) पृथिव्यादिदेवताः महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तं आत्मनो नियन्तारं अंतर्यामिणम् कस्मान्न विदुरित्याशंकायां यतः नारायणः (परब्रह्म) अदृष्टः अन्यकर्तृकदर्शना-

(यथा गृहांतर्वर्तिन पुरुषस्य दाहादिना नाशे नाशः तथा पुथिव्याद्यंतर्गतस्य पृथिव्यादिनाशे नाश इति शंकानिवारणार्थं अमृत इत्युक्तम् ।

((१) शारीरश्चोभयेपि हि भेदेनैनमधीयते (ब्र. सू. ११२/२०) भगवता बादरायणेन तभ्दाष्यकृता शंकराचार्येणापि एतानि वाक्यानि जीवेश्वरयोर्भेदभेदकधर्मबोधकानीत्युक्तम् ।

(२) एवमेव भाष्ये शंकराचार्यैरपि आशंक्य समाहितम् ।

अदृष्टोऽश्रुत इत्याह कारणं तदवेदने... मागोचरातिवर्तित्वात्...न ते पश्यंति देवताः इति विद्यारण्येन वार्तिकसारेऽपि उक्तम् ।)

योग्यः, श्रवणायोग्यः मननायोम्यः, विज्ञानायोग्यः, स्वयं द्रष्टा श्रोता मंता विज्ञाता अतः अन्यकर्तृकदर्शनायोग्यत्वात् अन्यः परमात्मद्रष्टा नारित, अतः अन्यकर्तृकश्रवणायोग्यत्वात् अन्यः परमात्मश्रोता नास्ति, अतः अन्यकर्तृकमननायोग्यत्वात् अन्यः परमात्ममननकर्ता नास्ति, अतः अन्यकर्तृकविज्ञानायोग्यत्वात् अन्यः विज्ञाता नास्ति इति कथनार्थं प्रवृत्तत्वात् । तेन च यथा धर्मादिद्रष्टा नास्ति इत्युक्ते सामान्यतः द्रष्टुर्निषेधो न ज्ञायते, किन्तु धर्मादीनामतींद्रियत्वेन ( दर्शनायोग्यत्वेन ) तेषां द्रष्टा नास्तीत्येव, तथा ब्रह्मणः दर्शनायोग्यत्वादिना ब्रह्मणो द्रष्टा श्रोता मंता विज्ञाता नास्तीत्येव सिध्यति । न तु सामान्यतः द्रष्टैक नास्ति श्रोतैव नास्ति मंतैव नास्ति विज्ञातैव नास्तीति, अतो नेदं वाक्यं सामान्यतः द्रष्टृश्रोतृमंत विज्ञातृनिषेधवोधनद्वारा ब्रह्मान्यद्रष्टृजीवस्य निषेधकं, किंतु नियम्यनियामकभावाधाराधेयभावादिना साक्षाच्च जीवब्रह्मणोर्भेदस्यैव बोधकम् । किं च अहं द्रष्टा श्रोता मंता विज्ञाता इति सर्वेषां अनुभवेन आत्मा वाSरे द्रष्टव्यः श्रोतव्यः मंतव्यः निदिध्यासितव्य इत्याद्यनेकश्रुतिवाक्यैः जीवस्य द्रष्टृत्वश्रोतृत्वमंतृत्वध्यातृत्वादसिद्ध्या सामान्यतः द्रष्टैव नास्ति श्रोतैव नास्ति इति वक्तुमशक्यत्वान्नानेनापि वाक्येन जीवब्रह्मणोरैक्यसिद्धिः ।

' स्मृतिभ्यश्च ' 'वासुदेवः सर्वमिति ' ( गी. ७-१९ ) ' क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ' (गी. १३-२) 'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्' ( गी. १३-२७ ) इत्येवंरूपाभ्यः विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदो न पारमार्थिक' इति यदुक्तं तदप्ययुक्तम् ।

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ।।

इति गीताश्लोकार्थस्तु -बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणां, अन्ते वासुदेवः सर्वमिति = सर्वव्याप्तमिति ज्ञानवान् सन्, मां=कृष्णं, प्रपद्यते=प्राप्नोति, सः=एतादृशः महात्मा दुर्लभः ।

" मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः "

॥ इत्युक्तेः अस्मिन् श्लोके ' ज्ञानवान् ' इति ज्ञातृज्ञेयभावेन, 'प्रपद्यते ' इति प्राप्यप्रापकभावेन भेद एवोक्तः । गीतायाः स्वतः प्रमाणत्वात् तया च सिध्यन् भेदः पारमार्थिक इत्येव सिध्यति ।

न च ' वासुदेवः सर्व ' मिति सामानाधिकरण्यस्य बाधितत्वात् यश्चोरः स स्थाणु' रितिवत् ' यत् सर्वत्वेन प्रतीतं स वासुदेवः वासुदेवे कल्पितं वासुदेवव्यतिरेकेण नास्ति ' इत्यर्थः सिध्यतीति वाच्यम् ।

" नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः " (गी. ११-४० ) इति गीतायामेव सर्वव्याप्तत्वेन सर्वशब्दवाच्यत्वोक्त्या शङ्कराचार्यैरपि तथा व्याख्यातत्वेन तदनुसारेण वासुदेवः सर्वं सर्वव्याप्तइत्यर्थस्यैव युक्तत्वात् नेयं स्मृतिः जीवपरमात्मनोरभेदबोधिका भेदनिषेधिका चेति ।

' क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत इति वाक्यमपि यथा विज्ञानात्म (जीव )परमात्मनोरभेदाबोधकं भेदबोधकं च तथा पूर्वोक्तमेव द्रष्टव्यम् ।

" समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।

विनश्यत्स्वविनश्यतं यः पश्यति स पश्यति ॥ ( गीः १३-२७ )

इति श्लोकोऽपि, " सर्वेषु भूतेषु (१) ब्रह्मादिस्थावरान्तेषु प्राणिषु 'निर्दोषं हि समं ब्रह्म' इत्युक्तप्रकारेण समं=निर्दोषं यथा स्यात्तथा तिष्ठन्तं, भूतेषु नष्टेष्वपि अविनश्यन्तं =नाशरहितं, परमेश्वरं = परमात्मानं यः यश्यति, स पश्यति स एव ज्ञानी " इत्यर्थकतया ब्रह्मादिस्थावरान्तप्राणिनामाधारत्वेन परमात्मनः आधेयत्वेन जगतः, ज्ञातृज्ञेयभावेन विनाशवत्त्वाविनाशवत्त्वरूप विरुद्धधर्माधिकरणत्वेन च ब्रह्मादिजीवानां परमात्मना भेदबोधक एव न त्वभेदबोधकः, अभेदबोधकपदाभावात् ।

एतच्छ्लोकस्य कथं भेदमिथ्यात्वविषये उदाहरणं कृतमित्येतत् शङ्कराचार्या एव प्रष्टव्याः ।

'भेददर्शनापवादाच्च" अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः " (बृ. १-४-१० ) " मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति " (बृ. ४-४-१९ ) इत्येवंजातीयकात्' इति वाक्येन भेददर्शननिषेधः क्रियते इति यदुक्तं शङ्कराचार्येण तदप्ययुक्तम् । ((१) शंकराचार्यैरप्येवमेवार्थः कृतः)

तत्र जीवब्रह्मणोर्भेदनिन्दनस्याभावात् । प्रत्युत ताभ्यां जीवब्रह्मणोर्भेदस्यैव कथितत्वाच्च-

" आत्मेति तूपगच्छन्ति " इति सूत्रव्याख्यानावसरे यथा तयोर्जीवब्रह्मणोर्भेदनिन्दनस्याभावः भेदबोधकत्वं च तथोक्तमनुसन्धेयम् । "

यदपि जीवब्रह्मणोरैक्यविषये 'तत्र को मोह ' ' इति श्रुत्युदाहरणं तदप्यसंगतम् । तथा हियस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ " ( ई. ६) इतीशावास्यवाक्यस्य यः = अधिकारी सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि आत्मनि=परमात्मनि एव ( परमात्माधारतयैव स्थितानि ) अनुपश्यति, न त्वन्याधारतया, तथा सर्वभूतेषु = ब्रह्मादि ( चतुर्मुखादि ) स्थावरान्तेषु आत्मानं = परमात्मानं, पश्यति, ततः= तादृशज्ञानात्, ( यो लोकत्रयमाविश्य बिभर्ति" (गी. १५-१७ ) इति गीतोक्तरीत्या परमात्मा सर्वभूतेषु रक्षकतया स्थितः इति ज्ञानात् ) न विजु गुप्सते = स्वं अन्यस्माद्रक्षितुं नेच्छति इत्यर्थः ।

यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः

तत्र को मोहः कःशोक एकत्वमनुपश्यतः ।। ( ई. ७ )

इति द्वितीयमंत्रोऽपि पूर्वमन्त्रार्थमनूद्य तस्य फलं वक्ति । यस्मिन् =परमात्मनि, सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि (तिष्ठति ) तत्र = ब्रह्मादिस्थावरान्तेषु आत्मा=परमात्मा, अभूत् = स्थितः ( इति ) विजानतः = ज्ञानिनः ( तथा ) एकत्वं=ब्रह्मादिस्थावरांन्तेषु स्थितम्य परमात्मनः एकत्वं यदेवेह तदमुत्र यदमुत्र तदन्विह (का.) इत्युक्तरीत्या सर्वत्र नियामकः परमात्मा एक एव न तु स्थानभेदेन भिन्नः इति एकत्वं अनुपश्यतः शोकः कः मोहः कः इति शौकमोहौ आक्षिप्य शोकमोहौ न स्तः, मुक्त एव भवतीति । तथा चेमौ मंत्रौ जीवब्रह्मणोराधाराधेयभावेन ज्ञातृज्ञेयभावेन भेदमेव कथयतः न त्वभेदमिति ब्रह्मणः द्वितीय-'वस्तुराहित्यरूपैकत्वविषये ( जीवब्रह्मणोरभेदविषये ) एतन्मन्त्रोदाहरणमद्वैतिनामयुक्तम् ।

ननु ' यः परिवाद मुमुक्षुः सर्वाणि भूतानि=अव्यक्तादीनि स्थावरान्तानि, आत्मन्येवानुपश्यति अत्मव्यतिरिक्तानि न पश्यतीत्यर्थः सर्वभूतेषु च तेष्वेव च आत्मानं तेषामपि भूतानां स्वम् आत्मानं आत्मत्वेन, यथाऽस्य देहस्य कार्यकारणसंघातस्याऽऽत्माऽहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता केवलो निर्गुणोऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवाऽत्मेति सर्वभूतेषु चात्मानं निर्विशेषं यस्तु अनुपश्यतीति वाक्येन, शङ्कराचार्यैः सर्वभूतानामात्मव्यतिरेकेणाभावः सर्वभूतानां अहमेवात्मेत्यर्थकतया प्रथममंत्रो व्याख्यात इति कथमस्य वाक्यस्य भेदपरत्वं अभेदपरत्वाभावश्चेति चेत् न । अस्यार्थस्य मंत्रपदैरबोधनात् । श्रुतिगीतासूत्रप्रमाणविरुद्धत्वाच्च ।

तथा हि-सर्वाणि भूतानि आत्मनि पश्यति इति स्पष्टं आत्मनः सप्तम्या आधारतया भूतानामाधेयतया दर्शनं कथयति मन्त्रे, आत्मन्येव पश्यतीत्यस्य आत्मव्यतिरिक्तानि न पश्यति इत्यर्थकथनमलौकिकव्युत्पत्तिमतां शङ्कराचार्याणामेव शोभते न तु परीक्षकाणां नैकशास्त्रेषु व्युत्पत्तिमताम् । तुष्यत्विति न्यायेन आत्मव्यतिरिक्तानि न पश्यतीति व्याख्यानांगीकारेऽपि आत्मव्यतिरिक्तानि न पश्यतीत्वस्य यद्यपि भूतानि आत्मव्यतिरिक्तानि सन्ति तथाऽपि व्यतिरिक्ततया न पश्यति इतिव्यरिक्ततया ज्ञाननिषेधः आहोस्वित् आत्मव्यतिरिक्ततया न सन्तीति आत्मव्यतिरिक्ततया भूतनिषेधः ।

(१) आत्मव्यतिरिक्तानि सन्ति परन्तु आत्मव्यतिरिक्ततया न जानातीत्युक्तौ पदार्थेष्वात्मभेदसिद्धिः [ द्वैतसिद्धिः ] भवत्येव । भूतानां भिन्नतया दर्शनाभावे तु परिवाद अज्ञानी स्यात् भ्रान्तो वा स्यात् । न तेन अद्वैतसिद्धिः ।

(२) परमात्मव्यतिरिक्ततया न सन्तीति द्वितीयपक्षेऽपि भूतानामभावादेव परमात्मव्यतिरिक्तानि न सन्ति इति, किंवा विशिष्टनिषेधः विशेषणमुपसंक्रामतीति न्यायेन परमात्मव्यतिरिक्तत्वं भूतेषु नास्ति [भूतानि परमात्मस्वरूपाण्येवेति) ।

नाद्यः । सर्वप्रमाणैः प्रपंचे उपलभ्यमाने तदभाव इति वक्तुमशक्यत्वात् । उक्तं हि 'शून्यवादिपक्षस्तु सर्वप्रमाणप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते ' इति शङ्कराचार्यभाष्यव्याख्यानकर्त्रा ब्रह्मविद्याभरणकारेण " शून्यपदेन सर्वप्रपंचातीतं भावरूपं किंचित् तत्त्वं विवक्षितम्, उताभावरूपं । नाद्यः तथा सति वाचोयुक्त्यंतरेण ब्रह्मवाद एवाश्रितः । यदि द्वितीयः पक्षस्तदा सर्वप्रमाणविरोधः । सर्वप्रमाणैः प्रपंचे उपलभ्यमाने तदभाव एव तत्त्वमिति निरूपयितुमशक्यमिति दूषणस्य स्फुटतया तन्निराकरणाय न सूत्रकृता सूत्राण्यारचितानि " इति शून्यस्यभावरूपत्वे शून्यवादब्रह्मवादयोः साम्यं, अभावरूपत्वे सर्वप्रमाणविरोधः । सर्वप्रमाणैः प्रपंच उपलभ्यमाने तदभाव (प्रपंचाभाव ) एव तत्त्वमिति निरूपयितुमशक्यत्वादिति शंकरभाष्यतद्व्याख्यानयोः प्रपंचाभाव एव तत्त्वमित्यस्य वक्तुमशक्यत्वम् ।

न द्वितीय:-जडस्य मिथ्याभूतस्य विकारिणः मूत्रपुरीषाद्यनेकात्मकस्य भूतस्य (जगतः ) चेतनसत्याविका रिशुद्धब्रह्मस्वरूपत्वायोगात् । तथा च भूतानि आत्मनि अनुपश्यतीति वाक्येन भूतानि आत्मव्यतिरिक्तानि न पश्यतीत्यर्थो नः सिध्यति । तथार्थोऽयुक्तश्चेति तथार्थकरणमयुक्तम् ।

सर्वभूतेष्वात्मानमित्यनेन स्पष्टं सप्तम्या सर्वभूतानामाधारत्वस्य आत्मनः आधेयत्वस्य प्रतीतावपि तेषामपि भूतानां स्वं आत्मानं आत्मत्वेन ( तस्यैवविवरणं ) ( यथा अस्य देहस्य कार्यकारणसंघातस्यात्मा अहं सर्वप्रत्ययसाक्षिभूतः चेतयिता केवलो निर्गुणः, अनेनैव स्वरूपेण अव्यक्तादीनां स्थावरान्तानामहमेवात्मेति ) सर्वभूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति इत्यर्थकरणं न पररीक्षकसंमतकारणमूलकं, किंतु वंचनामूलकमेव । न हि भूतले घटं पश्यतीति वाक्यस्य भूतलानां घटत्वेन पश्यतीत्यर्थः परीक्षकेण क्रियते । भूतेष्वात्मानं पश्यतीत्यस्य भूतानां आत्मत्वेन पश्यतीत्यर्थं कः सचेतनः ब्रूयात् स्वमताग्रहवंचनान्यतर पिशाचानाविष्टः । तथा यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मेति भण्यते इत्यादिस्वोदाहृतमहा- भारतोक्तार्थाप्तिमत्त्वादिगुणवत्त्वविरुद्धं निर्गुणः केवलः निर्विशेष इति च आत्मपदस्यार्थमपि कः ब्रूयात् । तस्मान्नायं मंत्रः सर्वभूतानामात्माभेदादिकं वक्ति । किन्तु आधाराधेयभावेन ज्ञातृज्ञेयभावेन भेदमेव वक्ति । श्रुतिबोधितस्य भेदस्य बाधकाभावात् स्वतः प्रमाणीभूतेन मन्त्रेणोक्तो भेदः सत्य इति च सिध्यति ।

तथा " यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कश्शोक एकत्वमनुपश्यतः ।। " इति मन्त्रस्य " यस्मिन् सर्वाणि भूतानि यस्मिन् काले यथोक्तात्मनि वा तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनादात्मैवाभूदात्मैव संवृत्तः । परमार्थवस्तु विजानतस्तत्र तस्मिन्काले तत्रात्मनि वा को मोहः कः शोकः । शोकश्च मोहश्च कामकर्मबीजमजानतो भवति न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः इति व्याख्यानमप्यसंगतम् ।

यस्मिन् काले परमार्थात्मदर्शनात् तान्येव भूतानि सर्वाणि आत्मैवाभूदित्युक्तिस्तावदसंगता ( १ ) अद्वैतमतरीत्या सर्वदापि भूतानामात्मातिरिक्तत्वाभावेन यस्मिन्काले इति कालविशेषोक्तिरयुक्ता । अद्वैतमतरीत्या विद्यावस्थायां कालस्याप्यभावेन काले इत्युक्तिरप्यसंगता ।

(२) यस्मिन् = आत्मनि वा भूतानि आत्मैवाभूत् इत्युक्तिरप्यसंगतैव ॥ अद्वैतमतरीत्यापि न हि भूतानामात्मभवनम् आत्माधिकरणकम् ।

भूतानीति बहुवचनान्तकर्तृवाचकपदस्य एकवचनान्ताभूदिति क्रिययाऽन्वयोऽप्ययुक्तः । स्वीकृतं च अन्वयायुक्तत्वं दशश्लोकीव्याख्यानतत्त्वबिन्दुटिकायां-

किंच शुक्तिकायामारोपितं रजतं शुक्तिज्ञाने सति नहि शुक्तिकारूपं भवद् दृष्टं, किन्तु रजतज्ञानस्य निवृत्तिरेव । तथा आत्मनि (ब्रह्मणि) कल्पितानि ( आरोपितानि ) भूतानि ब्रह्मज्ञाने निवर्तन्ते एव, नतु आत्मरूपाणि भवन्ति । विरुद्धधर्मवतोः जडभूतचेतनब्रह्मणोरैक्यासंभवादिति ज्ञानिनः भूतानामात्मरूपत्वकथनमप्ययुक्तम् ।

तत्र काले को मोहः कश्शोक इति कथनं चायुक्तम् । अद्वैतमतरीत्या कालाभावात्-तत्र आत्मानि को मोहः कः शोकः इति कथनमपि न युक्तम्, शोकमोहयोरन्तःकरणधर्मत्वेन आत्मनि कदाऽप्यभावात् ।

एकत्वमनुपश्यत इत्यस्य आत्मैकत्वं विशुद्धं गगनोपमं पश्यत इत्यर्थकरणमप्ययुक्तम् ।

एकत्वमित्यस्य आत्मैकत्वं ( आत्मनःभूतैरभेदः ) न शब्दार्थः तदूग्राहकप्रमाणाभावात् । एकशब्दस्य मुख्यान्य केवलाद्यनेकार्थत्वेन एकत्वं मुख्यत्वं किं वा एकत्वं अन्यत्वं ( भूतादिभिन्नत्वं ) अथवा एकत्वं सहायराहित्यं [ सृष्टौ इतरसहायानपेक्षत्वं ] इत्याद्यनेकार्थत्वसंभवेन चेतनस्य सत्यस्य परमात्मनः जडेन अद्वैतमतरीत्या असत्येन [ मिथ्याभूतेन कालत्रयेऽप्यसता ] भूतसमूहेन एकत्वस्य असंभवाच्च ।

अद्वैतमरीत्या सर्वाणि भूतान्यात्मैवाभूदिति जानत इत्यनेन आत्माभेदज्ञानस्य कथितत्वेन एकत्वमनुपश्यत इत्यस्य एकत्वं = भूतानामात्माभेदं जानत इति अर्थकरणे पुनरुक्तं भवति ।

गीताविरुद्धं च भूतानामात्मना अभेदकथनम् । तथाहिसर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ।। ( गी. ६-३१ ) इति गीतायां सर्वभूतस्थितमिति भूतानां परमात्मना आधारा- धेयभावेन भेदमुक्त्वा एकत्वमास्थित इति एकत्वपदेन अंतर्यामिरूपाणामेवाभेद उक्तः न तु भूतानां परमात्मना अभेद इति ।

" समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं । विनश्यत्स्व विनश्यन्तं यः पश्यति स पश्यति " ( गी. १३-२७ ) इति गीताश्लोकेनापि सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं समं यथा स्यात्तथा उच्चनीचादिस्थानानिमित्तकोच्चत्वनीचत्वादिरहितं पश्यति, तथा विनश्यत्सु भूतेषु अविनश्यन्तं यः पश्यति सः पश्यति ज्ञानी इति चेतनाचेतनात्मकप्रपंचस्येश्वरेण आधाराधेयभावेन नाश्यत्वानाश्यत्वरूपविरुद्धधर्मेण ज्ञातृज्ञेयभावेनच भेदस्यैवोक्तेः अभेदकथनमेतद्गीतावाक्यविरुद्धम् । एतेन सर्वभूतेषु चात्मानमिति मन्त्रे सर्वभूतेषु आत्मानं पश्यतीत्यस्य अव्यक्तादिस्थावरान्तानामहमेवात्मेति पश्यतीति शङ्कराचार्यव्याख्यानं निरस्तम् । स्पष्टं गीतायां सर्वभूतेषु तिष्ठन्तं परमेश्वरमिति सर्वभूतेषु तिष्ठतः परमेश्वरत्वोक्तेः । " सर्वभूतस्थितं यो मां " [गी. ६-३१] इति सर्वभूत स्थितस्य मामि- त्यस्मच्छब्दवाच्यश्रीकृष्णत्वोक्तेश्च ।

तथा यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति " इति कृष्णेन स्वस्य [ परमात्मनः ] भूतादिसर्वपदार्थस्थितत्वं सर्वपदार्थानां स्वस्मिन् (कृष्णपरमात्मनि) स्थितत्वोक्तेः जीवस्य सर्वपदार्थवृत्तित्वकथनं भूतानामात्मना अभेदकथनं च तद्विरुद्धम् ।

तथा " सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि " [गी. ६-१९ ] इति गीतावाक्यमपि सर्वभूतपरमात्मनोः आधारराधेयभावेन भेदमेव कथयति न तु सर्वभूतानां परमात्मना अभेदम् इति ।

भूतानां परमात्मना अभेदकथनं श्रुतिसूत्रविरुद्धं तथा तव्याख्यानभूत शङ्करभाष्यविरुद्धं च । तथा हि स सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष आत्मान्तर्याम्यमृतः इति, यः पृथिव्यां तिष्ठन्... योऽप्सु तिष्ठन्... योऽग्नौ तिष्ठन् ... योऽन्तरिक्षे तिष्ठन्...यो वायौ तिष्ठन्य आदित्ये तिष्ठन्...य आत्मनि [ जीवे ] तिष्ठन्...." इत्याद्यनेकमन्त्रेषु भूतादीनां सर्वेषां आधारत्वं नियम्यत्वं, परमात्मन आधेयत्वं नियामकत्वं च कथयित्वा तयोर्भेदः स्पष्टमुक्तः । एतद्वेदार्थनिर्णायकवेदान्तसूत्रकृता साक्षान्नारायणावतारभूतेन बादरायणेन ' भेदव्यपदेशाच्चान्यः ' 'अन्तर्याम्यधिदैवादिषु तद्धर्भव्यपदेशात्' 'शारीरश्चोभयेऽपि हि भेदेनैनमधीयतॆ' इत्यादिसूत्रैः तथा तत्सूत्रव्याख्यानकृद्भिः शङ्कराचार्यैरपि भूतादीनां परमात्मना भेदः आधाराधेयभावः नियम्यनियामकभावश्वोक्त इति ।

यस्तु सर्वाणि भूतानि' इति मन्त्र: ' यस्मिन् सर्वाणि भूतानि ' इति मन्त्रश्च ब्रह्मादिस्थावरान्तचेतनाचेतनानां परमात्मना भेदं कथयतः इति नानयोर्मन्त्रयोरभेदविषये ( जीवब्रह्मणोरैक्यविषये ) उदाहरणं युक्तमिति ।

जीवब्रह्मणोरभेदविषये श्रुतिसूत्रगीतासु एकस्याऽपि प्रमाणस्याभावात् वाक्यान्वयात् इति सूत्रस्य, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्य इत्यादौ विज्ञानात्मैव ( जीव एव ) द्रष्टव्यश्रोतव्यत्वादिरूपेणोपदिश्यत अहोस्वित् परमात्मेति संशय्य जीव इति पूर्वपक्षयित्वा परमात्मोपदेश एवायं ( न जीवोपदेशः) वाक्यान्वयादिति जीवपरमात्मनोर्भेदपरतया यः अर्थः कृतः शङ्कराचार्यैः प्रथमं, स एव युक्तः ।

इति वाक्यान्वयाधिकरणम् ।