प्रपंचमिथ्यात्वानुमानस्य साक्षिप्रत्यक्षबाधसमर्थनम्

प्रपञ्चमिथ्यात्वानुमानस्य साक्षिप्रत्यक्ष बाधितत्व समर्थनम्

प्रपंचमिथ्यात्वानुमानस्य साक्षिप्रत्यक्षबाधसमर्थनम् ।

यच्चोक्तम् " साक्षिचैतन्यं वर्तमानमात्रग्राहित्वात् तात्कालिकमेव सत्त्वं गृह्णाति न तु त्रिकालावाध्यत्वम् । अतः साक्षिणो भाविबाधाभावाग्राहकत्वात् न साक्षिणा मिथ्यात्वानुमानस्य बाधः अप्रामाण्यं वा" इति तत्तुच्छम् ।

यतः त्रिकालाबाध्यत्वं नाम त्रैकालिकनिषेधप्रतियोगित्वाभावः । स च कालत्रयसत्त्वेनेव कालद्वयसत्त्वेन एककालसत्त्वेनाप्युपपद्यत एव। नीलरूपवति घटे रूपसामान्याभावाभाववत् यत्किचिदेककालसम्बन्धवति कालसम्बन्धरूपसत्तासामान्याभावासम्भवात् । तावतैव प्रपञ्चे सत्तासामान्याभावग्राहकस्यतत्समनियत- त्रैकालिकनिषेधप्रतियोगित्वग्राहकस्य विश्वमिथ्यात्वानुमानस्य बाधः अप्रामाण्यं च दुर्निवारमेव । यश्च " प्रामाण्यवदप्रामाण्यस्याऽपि साक्षिभास्यत्वं तेन च । भिथ्यात्वाभावोऽपि साक्षिभास्य " इत्यन्यथापरमतानुवादः स परमताऽनभिज्ञानमूलक इति ज्ञेयम् ।

इति विश्वमिथ्यात्वानुमानस्य प्रत्यक्षबाधः अप्रामाण्यं च ।