सत्त्वासत्त्वयोः परस्परविरहरूपत्वेन कुत्रापि सदसद्विलक्षणत्वासंम्भव प्रदर्शनम्

सत्त्वासत्त्वयोः परस्परविरहरूपत्वसमर्थनेन सदसद्विलक्षणत्वरूप मिथ्यात्वासंभव समर्थनम्

सत्त्वासत्त्वयोः परस्परविरहरूपत्वेन कुत्रापि सदसद्विलक्षणत्वासंम्भव प्रदर्शनम्

यदुक्तम् " सत्त्वासत्त्वयोः परस्परविरहरूपत्वासम्भवेन सदसद्विलक्षणत्वरूपमिथ्यात्त्वाविरोधः" इति तदयुक्तम् । असत्त्वस्य क्वचिदुपाधौ सत्त्वेन प्रतीत्यनर्हत्वरूपतायाः सत्त्वस्य तदभावरूपतायाः असुधायां स्पष्टं निरूपितत्वेन परस्परविरहरूपत्वाभावकथनस्य व्याहत्वात् । भवदीयन्यायचन्द्रिकया सत्त्वासत्त्वयोः परस्पर विरहरूपत्वस्याङ्गीकृतत्वेन तद्विरोधाच्च केवलसत्त्वस्य असत्त्वघटकसत्त्वस्य च भिन्नरूपत्वकथनस्य अद्वैतसिद्धिलघुचन्द्रिकागतस्य असुधाकारैः लघुचन्द्रिकोपदर्शित-शङ्कराचार्योक्तानुभवविरुद्धत्वेन अस्वारसिकत्वस्य असौष्ठवापरपर्यायायुक्तत्वस्य च वर्णितत्वात्स्वविरोधश्चेति । अधिकं पूर्वमेव विवेचितम् ।

। इति सदसद्विलक्षणत्वासम्भवप्रदर्शनम् ।