मिथ्याभूतस्य कथाङ्गत्वाभावसमर्थनम्

मिथ्याभूतस्य कथाङ्गत्वाभावसमर्थनम्

यच्चोक्तम् अ. सुधायाम् –“ मिथ्याभूतस्यापि सत्त्वासत्त्वौदासीन्येनार्थ-क्रियाकारित्वम्, कथाङ्गत्वं च " इति तत्र पृच्छामः सत्त्वासत्त्वौदासीन्येनेति कोऽर्थः ? यदि सत्त्वासत्त्वाभावेनेति तदा श्लाघनीयप्रज्ञोऽसि । मिथ्याभूतस्य सत्त्वा-भावेन असत्त्वप्राप्त्या असतः तस्य कथमर्थक्रियाकारित्वमिति प्रश्नं प्रत्यस्यानुत्तरत्वात् । असत्त्वाभावादर्थक्रियाकारित्वमुपपद्यते इत्यपि न युक्तम् मिथ्याभूतस्य द्वैतस्य शङ्कराचार्यैः शशविषाणवदसत्त्वोपवर्णनात्, “न हि भवति वन्ध्यापुत्रो गगनकुसुमच्छन्न " इत्यादिना असतः अर्थक्रियाकारित्वनिषेधाच्च ।

यच्चोक्तंसत्त्वासत्त्वौदासीन्येन कथाङ्गत्वम् " इति । तत्राप्येवमेव द्रष्टव्यम् । यदि तत्र सत्त्वासत्त्वौदासीन्येनेत्यस्य सत्त्वेन ज्ञातत्वं विना असत्त्वेन ज्ञातत्त्वं विना कथाङ्गत्वमित्याशयः, तत्रापि पृच्छामः स्थापनानुमाने व्याप्तिपक्ष- धर्मतादीनां सत्त्वेन ज्ञातत्त्वमस्ति चेत्तदौदासीन्यहानिः नास्ति चेत् असिद्धिव्यभिचारोद्भावनेन परैर्निगृहीतः स्याः । एवमेव प्रतिपक्षानुमाने असिद्धिव्यभिचारयोः सत्त्वेनानिश्चये तत्र तत्र असिद्धिव्यभिचारोद्भावनायोगश्च स्यात् । व्याप्तिपक्षधर्मत्वयोरसत्त्वानिश्चये प्रतिपक्षानुमाने व्याप्त्याद्यभावप्रतिपादनायोगश्च ।

। इति मिथ्याभूतस्य सत्त्वासत्त्वौदासीन्येनार्थक्रियाकारित्वकथाङ्गत्वनिरासः ।