पञ्चरात्रप्रामाण्यसमर्थनम्

पञ्चरात्रप्रामाण्यसमर्थनम्

पञ्चरात्रप्रामाण्यसमर्थनम्

भगवद्गीतायाः मनुस्मृतेश्च पंचरात्रानुसारितायाः श्रीमहाभारते अनेकशः उक्तत्वेन गीतामनुस्मृत्योः प्रामाण्यसंरक्षणाय पंचरात्रस्यापि प्रामाण्यस्यावश्यंवाच्यत्वात् चतुर्भिस्सम्मितं वेदैरित्यादिना वेदपंचरात्रयोर्विरोधाभावस्य स्पष्टमभिधानात् । " वेदविरोधे पंचरात्रस्याप्रामाण्यम् " इति स्वमतसंकीर्तनम् " पंचरात्राविरोधेन वेदप्रामाण्यं न तु तद्विरोधेपि " इति वाक्येन परमतस्याऽन्यथाऽनुवादकरणं च सर्वथाऽयुक्तम् । यच्चउत्पत्त्यसम्भवात्" इतिसूत्रभाष्येउत्पत्तिमत्वे हि जीवस्य अनित्यत्वादयो दोषाः प्रसज्येरन् । तथाच नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात्" इत्यादि शंकराचार्यवचनं तत्तुनित्यो नित्यानां चेतनश्चेतनानाम् " इति श्रुतौ नित्योऽनित्यानामिति अकारप्रश्लेषं विधाय अनित्यानामित्यस्य विनाशिनामित्यर्थमभिधाय विनाशिनां चेतनानामिति योजनया जीवानित्यत्वप्रतिपादककाठकीय शाङ्करभाष्यस्यैवाप्रामाण्यं सम्पादयेत् न तु "जीवः संकर्षणः प्रभुःइति भारतोक्तस्य भगवदूव्यूहान्तर्गतस्य जीवपदाभिधेयस्य संकर्षणस्य "जनीप्रादुर्भावे " इति धातुपाठानुसारेण प्रादुर्भावबोधकपंचरात्रस्याप्राण्यम् । उक्तं हि शंकराचार्यैः " योऽसौ अव्यक्तात्परो नारायणः स अनेकधा व्यूह्यावस्थितः इति तन्न निराक्रियते " स एकधा भवति विद्या भवति " इत्यादिश्रुतिभ्यः " इत्यादिवचनैः भगवतः अनेकधाप्रादुर्भाववत्वम् । तथाचोपदर्शितरीत्या वेदपंचरात्रयोः विरोधप्रसक्तेरेवाभावेनवेदविरोधे पंचरात्रस्याप्रामाण्यमिति प्रक्रिया दुष्प्रक्रियैव ।

नन्वेवंसति महाभारते " सांख्यं योगः पांचरात्रं वेदा: पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै " ॥ इति वाक्येन पाञ्चरात्रस्य वेदविलक्षणमतताप्रतिपादनासङ्गत्यापत्तिरितिचेन्न साख्यं योगः पाशुपतं वेदारण्यकमेवच । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ।। इत्येवं प्राचीन कोशेषु पाठदर्शनात् । साख्यं योगः  पाञ्चरात्रमितिपाटस्यापपाठत्वेनासाधुत्वात् ।

साधुत्वाग्रहे तु

"नानामतत्वं हि साइख्यादिदर्शनानाम्” "नानामतत्वनिरासो हि नानापदार्थानां मिथ्यात्वव्यवस्थापनाधीनः " "अद्वेतमतं तु नानानिषेधेनैवात्मानं लभते, इति नानामतत्वं तत्र नापतति” “तत्र साङख्ययोगौ नानासत्यत्वं ख्यातिवादावलम्बनेन मन्येते पाशुपतं तु मन्यतेऽन्यथाख्यातिवादावलम्बेन पाञ्चरात्रमतमपि .... नानासत्यत्वं मन्यते इति तु वस्तुस्थितिः... नानामिथ्यात्वेन प्राप्तात्मलाभं केवलाद्वैतदर्शनमेवेत्यवचनसिद्धमिदम्इत्याद्यद्वैत तत्त्वसुवाकारप्रणीत निबन्धान्तरगतावचनैः नानामतत्वं नाम नानासत्यत्वप्रतिपादकत्वरूपमेवेति वक्तव्यम् । तथा "सांख्यं योगः पांचरात्रं वेदाः पाशुपतं तथा " इति वाक्येन सांख्ययोगयोरिव पाशुपतपांचरात्रयोरिव वेदानामपि नानासत्यत्वबोधकत्वरूपं नानामतत्वं विधीयते इत्यप्यवश्यं वक्तव्यमेव । तथा च वेदपंचरात्रयोरुभयोः द्वैतसत्यत्वप्रतिपादकत्वरूपनाना मतत्वमेवानेन वाक्येन प्रतिपाद्यते । नतु विलक्षणमतत्वमिति सिध्दम् । तेन च द्वैतदर्शनानां वेदानुसारित्वेन वैदिकदर्शनत्वं अद्वैतदर्शनस्य नानामतत्वाभावेन नानासत्यत्वप्रतिपादकत्वेन भारतोपवर्णितवेदविरुध्दत्वेनावैदिकदर्शनत्वेन वैदिकै अत्यन्तहेयत्वमेव साधितमद्वैतसुधाकारैरिति विभावनीयम् ।

इति वेदवत्तदनुसारिपंचरात्रस्यापि प्रामाण्यसिद्धिः ।