अज्ञानस्य बन्धस्यचानिर्वचनीयत्वनिरासः
अज्ञानस्य तत्प्रयुक्तबन्धस्य च अनिर्वचनीयत्वाभावसमर्थनम्
अज्ञानस्य बन्धस्यचानिर्वचनीयत्वनिरासः
यदुक्तम् “ अज्ञानस्यतव्प्रयुक्तस्यबन्धस्योभयस्याऽपि सदसद्विलक्षणत्वेना-निर्वचनीयत्वमिति । यच्चोक्तम्,
“ अनिर्वचनीयत्वं न दुरुपपादम् । तद्धिसत्त्वासत्त्वाभ्यां दुर्निरूपत्वमेव। तच्च सत्वाभावासत्वाभावोभयवत्वमेव । तदेव सदसद्विलक्षणत्वं नाम, इति न सदसद्रूपत्वेनार्थान्तरम्, असद्विलक्षणत्वेन सिद्धसाधनं वा " इति । तदसत्, अद्वैत- मते ब्रह्मणः अवाच्यत्वेन सत्वासत्वाभ्यां दुर्निरूपत्वेन अज्ञानवद्बन्धवच्च तस्यापि मिथ्यात्वापत्तेः । मण्डन मिश्रमतानुसारेण ब्रह्मणि निर्धर्मकत्वेन भावरूपधर्मासंभवेऽपि सत्वाभावासत्वाभावोभयवत्वेन तदभिन्नसदसद्विलक्षणत्वेन च मिथ्यात्वस्य वज्रलेपायितत्वात्, उपदर्शितानां दुर्निरूपत्वोभयवत्वविलक्षणत्वानां मिथोऽत्यन्तभिन्नत्वेन तेषामैक्यकथनस्य तत्तत्पदानामर्थभेदाज्ञानंमूलकत्वेनायुक्तत्वात् ।
यदि च भावरूपा अभावरूपाश्च सर्वेऽपि धर्मा अतात्त्विकाः, अतः ब्रह्मणि न सत्वाभावासत्वाभावोभयवत्वमिति न ब्रह्मणो मिथ्यात्वापत्तिरित्युच्यते, तदा तस्य सदसद्वैलक्षण्याभावेन सदसद्रूपत्वापत्तिः । एवमेव जगत्यपि सदसद्वैलक्षण्यस्य मिथ्यात्वेन तदभावाऽवश्यंभावे सदसद्रूपतापत्त्या अर्थान्तरत्वाऽवश्यम्भावात् । द्वैतिभिः जगतः केवलसद्रूपत्वाङ्गीकारेण सदसद्रूपत्वानभ्युपगमात् सदसद्विलक्षणत्वं तन्मते जगतः सिद्धमेवेति सिद्धसाधनताया अपि दुर्निवारत्वात् । असद्विलक्षणत्वस्य सिद्धत्वात्तदंशे सिद्धसाधनं वज्रलेपायितमेव ।
व्याघातसमर्थनम् ।
यदप्युक्तं " सत्त्वासत्त्वयोः परस्परविरहरूपत्वं किं रूपं वा सत्त्वं, असत्त्वं चाभिप्रेत्य यद्यबाध्यत्वं सत्त्वं, तुच्छत्वमसत्त्वं तर्हि तयोर्व्याप्तिरात्मनीति वक्तव्यम् आत्मन्यबाध्यत्वरूपसत्त्वं वर्तते असत्त्वं नास्ति । एवं तुच्छे असत्त्वं वर्तते सत्त्वम-बाध्यत्वरूपं नास्तीति । न चैतद्युक्तम् तुच्छे असत्त्वं वर्तते सत्त्वमबाध्यत्वरूपं नास्तीति । न चैतद्युक्तम् तुच्छे असत्त्ववत् अबाध्यत्वरूपसत्त्वाभावाभावात्, तुच्छ. स्याप्यबाध्यत्वात् । अत एवात्मत्वस्याबाध्यत्वेऽसति व्यभिचारापादनं परेषामुपपद्यते " इति तदसंबद्धप्रलपितमेव । वादावल्यां यत्रासत्त्वाभावः तत्र सत्त्वमिति व्याप्तिमाश्रित्य विश्वं सत् असत्त्वाभावादित्यनुमानं सूचितम् । तेन च सत्त्वासत्त्वयोः परस्परविरहव्यापकत्वरूपविरुद्धत्वाभिप्रायेणैव व्याघातः प्रदर्शितः, न तु परस्परविरहरूपत्वाभिप्रायेण इति असदनुवादोऽयम् ।
यदि वा परस्परविरहरूपत्वस्य कण्ठरवेणानुक्तत्वेऽपि तद्वयाप्यस्य परस्परविरहव्यापकत्वस्य कथनेन तस्यापि लाभ इति मतं तथापि परस्परविरहव्यापकत्वप्रदर्शनाय यत्रासत्त्वाभावः तत्र सत्त्वं यथा आत्मनि असत्त्वाभावो वर्तते तत्र सत्त्वं, यत्र सत्त्वाभावः तत्रासत्त्वं यथा शशविषाणे सत्त्वाभावो वर्तते तत्रासत्त्वं चास्तीति व्याप्तिः प्रदर्शनीया । तथा व्याप्तिप्रदर्शनं विहाय आत्मनि अबाध्यत्वरूपसत्त्वं वर्तते तत्रासत्त्वं नास्तीत्यादिरूपेण व्याप्तिप्रदर्शनस्यानौचित्यमेव । अस्तु वा कथंचित् अभिन्नयोः परस्परव्यापकत्ववत् परस्परव्याप्यत्वमपि । इत्थं चात्र परस्परविरहरूपत्वभित्यस्य परस्परविरहव्याप्यत्वरूपपरस्परविरुद्धत्वमर्थ इत्यभि- प्रायः आत्मनि सत्त्वं वर्तते तत्रासत्त्वं नास्तीत्यादिरूपेण व्याप्तिप्रदर्शनौचित्यं चेति दुराग्रहः, तथापि वादावल्यां किं तदात्मत्वमित्यादिना किं वा सत्त्वम्, उताबाध्यत्वमिति सत्त्वाबाध्यत्वयोः भेदकथनात् । एवं सच्चेन्न बाध्येतेत्यत्र किमिदं सद्विवक्षितं सत्तायुक्तमथाबाध्यमित्यादिना सत्त्वाबाध्यत्वयोर्भेदाभिप्रायेण विकल्पकरणात् । “ यद्यबाध्यत्वं सत्त्वमिति प्रश्नस्यैव बधिरप्रश्नरूपत्वात् । यद्यबाध्यत्वं सत्त्वं तुच्छत्वमसत्त्वं तर्हि तयोर्व्याप्तिरात्मनीतिवक्तव्यम् ” -- इति वाक्यमत्यन्तासंबद्धप्रलापः । न हि सत्त्वासत्त्वयोरबाध्यत्वतुच्छत्वयोर्वा व्याप्तिः केनाप्युच्यते । वस्तुतः तयोः सामानाधिकरण्यमेव नास्ति व्याप्तिर्नास्तीति किं वक्तव्यम् । तयो- रात्मनि व्याप्तिरिति तु दूरनिरस्तम् । व्याप्तिप्रदर्शनमपि आत्मनि सत्त्वं वर्तते असत्त्वं च वर्तते इत्येवंरूपेण कार्यम् । तथा च आत्मनि सत्त्वं वर्तते तत्र असत्त्वं नास्तीति कथनमसंबद्धप्रलाप एव । वस्तुतः सत्त्वासत्त्वयोः देशकालसम्बन्धतदभावरूपयोः त्रैकालिकानिषेधप्रतियोगित्वतदभावरूपयोः बाध्यत्वतदभावरूपयोर्वा परस्परविरहरूपत्वस्य परस्परविरहव्यभिचारशङ्का कलङ्कशून्यतया परस्पर विरहव्यापकत्वस्य परस्परविरहव्याप्यत्वस्य च सूपपादत्वात् सत्त्वासत्त्वयोर्व्याघातो वज्रलेपायितः ।
एवं च बाध्यत्वस्य प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपत्वम् असतः प्रतीत्यभावम् अत एव तस्य ब्रह्मवदबाध्यत्वम्, एवंविधस्य अबाध्यत्वस्यैव सत्त्वरूपत्वं तथा असत्त्वस्य, नञ्स्वभावलब्धेनाबाध्यत्वरूप सत्त्वाभावरूपत्वेन प्राप्तं बाध्यत्वरूपत्वं विहाय सत्त्वासत्त्वयोः स्वाभिलषित परस्परविरहव्याप्यव्यापकभावविरोधि व्यभिचारप्रदर्शनार्थम् अवाध्यत्वरूप सत्त्वाभावातिरिक्तत्वं चेत्य- प्रामाणिकानेक कल्पनापूर्वकं " किंरूपं वा सत्त्वम्" इत्यादि चोद्यकरणेन असुधाकारैः आत्मनः अबद्धं पठित्वा कुचोद्यं करोतीति प्राचीनाभाणकमुख्य-विषयत्वमेव सम्पादितम् ।
यच्चोक्तम् “ अत एव आत्मत्वस्याबाध्यत्वेऽसति व्यभिचारापादनं परेषामुपपद्यते ” इति तदप्युन्मत्तप्रलपनमेव । यतः वादावल्याम् अद्वैतिभिः आत्मत्वरूपाबाध्यत्वस्य सत्त्वस्य च भिन्नत्त्वविवक्षापक्षे असति व्यभिचार उपदर्शितः । असुधाकृता तु तयोरभेदं स्वीकृत्य व्यभिचारस्योपपन्नत्वमुच्यते । न हि अभिन्नयोः परस्परव्यभिचारस्य कदापि कथमपि अनुन्मत्तः उपपन्नत्वं कथयेत् । आत्मत्वस्याबाध्यत्वे असति व्यभिचारापादनमिति वचनं तु अतीवोपहासास्पदम् । आत्मत्वस्याबाध्यत्वे तस्यात्मत्वान्तर्भावेणैव सत्त्वव्यभिचारः स्यात्, न असदन्तर्भावेण । अतः आत्मत्वस्याबाध्यत्वरूपत्वे इत्येव वक्तव्यम् । न च असुधाकृता आत्मत्वस्याबाध्यत्वरूपत्वे इत्येव लिखितं मुद्रकदोषात्तु आत्मत्वस्यावाध्यत्वे इति प्रमादादायातमिति वाच्यम् । “ अनिर्वचनीयत्वस्य भावाभावविलक्षणत्वादिनाऽनिर्वचनी- यत्वं यत्र भावाभावविलक्षणसदसद्विलक्षणत्वादिना प्रतिपन्नोपाधौ त्रैकालिक- निषेधप्रतियोगित्वादिना च तस्य निर्वाचनसम्भवः " (२७१) " जीवन्मुक्तिः स्थितप्रज्ञतया गुणातीततया च गीयते " ( ६१९) इत्याद्यनेकस्थलेषु धर्मधर्मिभावमर्यादाऽनभिज्ञेन शास्त्रमर्यादाऽनभिज्ञेनेव च अशुद्धम् असम्बद्धं समुङ्कितम्; अतः आत्मत्वस्याबाध्यत्वे इत्येतस्य मुद्रकदोपाधीनत्वासम्भवेन असुधाकृद्दोषायत्त- त्त्वावश्यम्भावात् ।
यदुक्तम् - अतः सत्त्वासत्त्वायोरेकतरस्य रूपान्तरं वक्तव्यम् चासत्त्वं क्वचिदुपाधौ सत्वेन प्रतीत्यनर्हत्वं तदभावश्च सत्त्वम् " इति तदपि हेयम्, विचारासहत्वात् । तथा हि रूपान्तरमिति कोऽर्थः ? भिन्नं रूपमिति चेत् किं. रूपं कस्माद्रूपाद्भिन्नम् इति विवेचनीयम् । यथाश्रुते सत्त्वासत्त्वयोः भिन्नरूपत्वं वक्तव्यमित्यर्थो लभ्यते । स चायुक्तः । सत्त्वासत्त्वयोः परस्परभिन्नरूपत्वस्य सर्वा- भ्युपगतत्वेन तत्कथनविधानस्यानुचितत्वात् ।
वस्तुतस्तु असत्त्वघटकसत्त्वतदघटकसत्त्वयोः सत्त्व घटकासत्त्वतदघटका सत्वयोर्वा एकतरस्य रूपान्तरं वक्तव्यमिति लेख्यम्, अन्यथा लेखनं तु लेखमर्यादाऽनभिज्ञानमूलं ग्रन्थकर्तृप्रमादमूलकमेव न तु मुद्रकदोषमूलकमिति स्फुटम् । तस्य कथंचिदुपपन्नत्वेऽपि " रूपान्तरं वक्तव्यम् " इति प्रतिज्ञाय कचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वम् असत्त्वं तदभावश्च सत्त्वमिति सत्त्वघटकाघटकयोरसत्त्वयो- “रेकरूपत्वमेवोपवर्णितम् । तदिदं पर्वतस्य वह्निमत्त्वं साधायामीति प्रतिज्ञाय “ पर्वतो न वह्निमान् ' इति कथनवद् व्याहतमेव । किं च सत्त्वेन प्रतीत्यर्हत्वं सत्त्वमिति कथने सत्त्वस्य सत्त्वघटितत्त्वेनात्माश्रयापातः ।
यच्च " तद्यथा इति प्रतिज्ञाय कचिदुपाधौ सत्त्वेन प्रतीत्यनत्वाभावस्य तस्य शशशृङ्गादावभावात् शुक्तिरूप्यादौ घटादौचासत्त्वाभावो वर्तते सत्त्वाभावस्त्वबाध्यत्वाभाव एव । स तु शुक्तिरूप्यादौ वर्तते इति सत्त्वाभावासत्त्वाभावोभय- वत्वं शुक्तिरूप्यादा घटादौ च वर्तते ब्रह्मणि तु नाबाध्यत्वरूपसत्त्वाभावः, न वा कचिदुपाधौ सत्त्वेन प्रतीत्यर्हत्वम् इति न तत्रातिव्याप्तिः न वाऽसति क्वचिदुपाधौ सत्त्वेन प्रतीत्यर्हत्वाभावादित्यद्वैतसिद्धिः" इति अद्वैतसिद्धेरनुवादकरणं तदप्यसङ्गतम् ।
अनन्वितार्थकेन " कचिदुपाधौ सत्त्वेन प्रतीत्यनर्हत्वाभावस्य सत्त्वरूपत्वे तस्य शशशृङ्गादावभावात् " इत्यव्यवहितपूर्ववाक्येन सत्त्वेन प्रतीत्यनर्हत्वाभावस्य सत्त्वरूपत्वोक्तेः शुक्तिरूप्यादौ घटादौ चासत्त्वाभावो वर्तते इत्यनन्तरं सत्त्वाभावस्तु सत्त्वेन प्रतीत्यनत्वाभावाभाव एवेति वक्तव्यं; स च सत्त्वेन प्रतीत्यनहत्वरूपः शुक्तिरूप्यादौ वर्तते इति वक्तुं न शक्यते; अतः शाखाचङ्क्रमसन्यायमवलव्य सत्त्वाभावस्त्वबाध्यत्वाभाव एव तु शुक्तिरूप्यादौ वर्तते इति कथनस्य प्रतिज्ञातार्थविरुद्धत्वात् । एवं पूर्वं कचिदुपाधौ सत्त्वेन प्रतीत्यनत्वाभावस्य सत्त्वेन प्रतीत्यत्वरूपस्य सत्त्वरूपत्वाब्रेडनात् ब्रह्मणि तु न सत्त्वेन प्रतीत्यर्हत्वरूप- सत्त्वाभावः इत्येव वक्तव्यम्, तद्विहाय ब्रह्मणि तु नाबाध्यत्वरूपसत्त्वाभावः इति कथनस्यासङ्गतत्वात् । ब्रह्माणि कचिदुपाधौ सत्त्वेन प्रतीत्यनर्हत्वाभावरूपस्य सत्त्वेन प्रतीत्यर्हत्वस्याभावो नास्तीत्येवोच्यते इति चेत् उत्तरवाक्ये “न वा कचिदुपाधौ सत्त्वेन प्रतीत्यर्हत्व " मिति ब्रह्मणि सत्त्वेन प्रतीत्यर्हत्वनिषेधानुपपत्तिः । इत्थं च ब्रह्माणि सत्त्वाभावाभावान्नातिव्याप्तिरिति न वक्तव्यम्, किन्तु सत्त्वेन प्रतीत्यनर्हत्वरूपासत्त्वाभावाभावान्नातिव्याप्तिरिति, सति चैवं प्रच्छन्नं बौद्धत्वं प्रकटीकृतं स्यात् ; ब्रह्मणः द्वौ नञौ इति न्यायेनासत्त्वसमर्थनात् ।
अत्र शशविषाणमस्तीति शब्दजन्यभ्रममादाय असत्यपि क्वचिदुपाधौ सत्त्वेन प्रतीत्यर्हत्वस्यापि सत्त्वेन तत्रातिव्याप्तिनिवारणासम्भवः, असति अबाध्यत्वरूप-सत्त्वस्यैव विद्यमानत्वात् सत्त्वाभावाभावादेवातिव्याप्तिवारणसंभवेन प्रकारान्तरानुसरणस्य वैयर्थ्यं च ।
एवं शून्यस्यावाध्यत्वरूपसत्त्वसमर्थनेनापि बौद्धत्वमाविष्कृतं स्यात् ।
यदप्युक्तम् न्यायचन्द्रिका तु यत्र सत्त्वाभावः सत्त्वे तत्रासत्त्वं नास्तीति यत्रासत्त्वाभावोऽसत्वो (त्वे ) ? तत्र सत्त्वं नास्तीति परस्परविरहव्याप्यत्वाभावात् सत्त्वाभावासत्त्वाभावयोरैकत्राविरोधात् न व्याघात इति विवेचयति । तथा च सत्त्वासत्त्वाभ्यां निर्वक्तुमशक्यत्वरूपं सत्त्वाभावासत्त्वाभावोभयवत्वरूपमनिर्वाच्यत्वं मिथ्यात्वं सुष्ठु लमति ” इति
अत्र हि सौष्ठवं न्यायचन्द्रिकाभूमिकायाम् असुधाकारैः " तत्र मिथ्यात्वं सदसद्विलक्षणत्वमबाधितं, तत्र सत्त्वासत्त्वयोः परस्परविरहरूपत्वेन एकत्र सामानाधिकरण्यं व्याहतमिति न्यायसुधादयः । तत्र यद्यपि न्यायामृतकारैर्बहु पराक्रान्तम् । अद्वैतसिद्धिश्च तत्परिहारप्रसङ्गेन सत्त्वमबाध्यत्त्वम्, असत्त्वं क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वमित्यादिरूपेणेत्यनेकरूपस्य सत्वस्यासत्त्वस्य च विवक्षणेन सत्त्वासत्त्वयोः परस्परविरहत्वाभावमुपपादयति । लघुचन्द्रिकाऽपि तदेवानुसृत्य विशदं व्याचष्टे । न्यायचन्द्रिका त्वेकरूपमेव सत्त्वं तद्विरोध्येव चासत्त्वं गृहीत्वैव सत्त्वासत्त्वयोः परस्परविरहरूपत्वं विघटयति । यत्र सत्त्वं नास्ति -सत्त्वे तत्र नासत्त्वं, यत्रासत्त्वं नास्ति असत्वे न तत्रासत्त्वमिति सत्त्वासत्त्वयोः परस्परविरहरूपत्वाभावोपपादनेन अतः सत्वासत्वोभयाभाव एकत्र न बाधितः, इति सदसद्विलक्षणं न दुर्घटम् । यथा भावाभावविलक्षणत्वमपि न व्याहन्यते तथा न्यायसुधाविचारधाराया अनुवादेन न्यायचन्द्रिका विशदयति ” इति वाक्येन विशदीकृतम् । तच्च, ब्रह्मानन्दकृतलघुचन्द्रिकायाम् उक्तं हि छान्दोग्यभाष्ये-" असतः पदान-भिधेयत्वेऽपि नञ्युक्तवाक्यस्य तदयुक्त वाक्यार्थविरोधिधीजनकत्वमानुभाविक " मिति शङ्कराचार्योपदर्शितमनुभवं प्रमाणीकृत्य नञघटितेन सदेवेत्यादिना यत्र यत्प्रकारकबोधो जन्यते नञघटितेन असदेवेत्यनेन तत्र तदभावप्रकारकधीरेव जन्यते इति प्रदर्शितम् । तेन नञः स्वसमभिव्याहृतपदार्थविरोधिधीजनकत्व- नियमस्य तत्रापि प्रसज्यप्रतिषेधार्थकस्य नञः स्वाव्यवहितोत्तरवृत्तिपदार्थप्रतियोगिकाभावज्ञानजनकत्वनियमस्य लाभेन न्यायचन्द्रिकया च उपदर्शित नियममनुल्लङ्ग्य शाङ्करमनुभवं चानुसृत्य न समभिव्याहृत केवलसत्त्वपदबोध्यसत्त्वस्यैव नञसमभिव्याहृतासत्वपदधटकसत्वपदेन बोधनरूपमेव; अन्यस्यायोगात् इत्यभिप्रेत्यैव, न्यायचन्द्रिका तु एकरूपमेव सत्त्वं तद्विरोध्येव चासत्त्वं गृहीत्वैवेत्यत्र न्यायचन्द्रिकापदोत्तरं वैशिष्टयार्थकतुशब्दः प्रयुक्तः । इत्थं च न्यायचन्द्रिकाप्रदर्शितप्रक्रियायाः सौष्ठवकथनेनाद्वैत सिद्धिप्रदर्शितप्रक्रियायाः उपदर्शितशाङ्करानुभवविरुद्धत्वेना- सौष्ठवं स्वरसत एव प्राप्तमिति तन्न पृथग् विवेचितम् । अत एव न्यायचन्द्रिका- भूमिकायाम् ( ६५ पत्रे ) " न्यायसुधोपक्षिप्तसत्त्वासत्त्वपरस्परविरहरूपत्वमादाय सदसद्वैलक्षण्य निरसनं न्यायचन्द्रिकया यथा समाधीयते न तथाऽन्यत्र । अद्वैतसिद्धिस्तु यथाश्रुतं सत्त्वासत्त्वपरस्परविरहरूपत्वमव्याहतं मत्वा सत्वासत्त्वयो रूपान्तरमभिप्रैति-क्वचिदप्युपाधौ प्रतीत्यनर्हत्वमसत्त्वम्, अबाध्यत्वं सत्त्वमित्यादिरूपेण, अतो ज्ञायते-- मधुसूदनसरस्वत्या न न्यायचन्द्रिकेयं दृष्टिपथमगा " दिति ग्रन्थेन स्वाशयः असुधाकृता प्रकटीकृतः । इत्थं चात्राद्वैतसिद्धिपक्षावलम्बनेन -न्यायमृतसौगन्ध विमर्शकारैः स्वयमेवाद्वैत सिध्द्युक्तप्रक्रियायाः असौष्ठवरूपासमीची-नत्वस्यायुक्तत्वापरपर्यायस्य स्वीकृतत्वात्, वनमालिमिश्रप्रभृतिभिस्तत्र सुनिपुणं पराक्रान्तत्वाच्च न वयं तदयुक्तत्वसमर्थनायात्मनो लेखनीं पुनर्व्यापारयामः । किन्तु न्यायचन्द्रिकापरीक्षामेव यथावत्करिष्यामः ।
न्याय चन्द्रिकायां हि एवमुल्लिखितम् न च भावत्वाभावत्वात्यन्ताभाव-वत्वासम्भवः, सत्त्वासत्त्वात्यन्ताभावयोः परस्परपरिहारनियमादिति वाच्यम् । सत्त्वेतावन्न सत्त्वमस्ति वृत्तिविरोधात् न चासत्त्वं तथा सति सर्वशून्यतापातात् । एवमसत्त्वे नासत्त्वं वृत्तिविरोधात्, न सत्त्वं विरोधादेवेति सदसतोरेकतरनिषेधस्येतरविधित्वनियमासिद्धेः " इति
तत्र न्यायप्रकाशिका -
कुतोऽनिर्वचनीयम् -- अत आह सत्त्व इति । सर्वशून्यतेति । असत्त्वाधिकरणस्य निरस्वरूपत्वात् सत्त्वस्यैव शून्यतापत्तौ तदधिकरणव्यक्तीनामसत्त्वापातादित्यर्थः । विरोधादिति । असत्त्वे न सत्त्वं वर्तितुमर्हति, सत्त्वासत्त्वयोर्विरोधात् । अन्यथा स्वाभावारुढो घटः स्यात् । सत्त्वाधिकरणत्वे वा सत्त्वस्यापि घटादिवत् सदूव्यक्तित्वादसदाश्रयत्वविरोधाच्चेत्यर्थः"इति ।
तत्र तावत् " सत्त्वे तावन्न सत्त्वमस्ति वृत्तिविरोधा "दित्ययुक्तम् । पञ्चपादिकायाम् " आनन्दो विषयानुभवः, सत्यत्वं चेति सन्ति धर्माः अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते " इति । सत्यत्वस्य ब्रह्मभिन्नत्वेऽपि ब्रह्मधर्मत्वरूपवृत्तेः तत्र स्वीकारात्, सत्त्वस्य सत्त्वाभिन्नत्त्वेऽपि वृत्तिविरोधाभावात् । इत्थं च सत्त्वाभावस्य सत्त्वान्तर्भावेणासत्त्वव्यभिचारोपपादनं न्यायचन्द्रिकाकृतां पद्मपादाचार्यमतविरुद्धत्वादपसिद्धान्तसम्पादकत्वादयुक्तम् । अतस्तदुपर्शितप्रक्रियाया अत्यन्तासौष्ठवमेव समर्थयति ।
यद्यभेदे नाधाराधेयभाव इत्याग्रहः तदापि निधर्मके ब्रह्मण्येव सत्त्वाभावासत्त्वाभावयोः सत्त्वेन सत्त्वासत्त्वोभयाभावः एकत्र नाबाधितः इति वक्तं शक्यत्वेन सत्त्वपर्यन्तानुधावनवैयर्थ्यात् ब्रह्मापि सत्त्ववद् व्यभिचारनिरूपकत्वेन विवक्षित- मेवेति चेद ब्रह्मणोऽपि सत्त्वाभावासत्त्वाभावोभयवत्वेन मिथ्यात्वापातेन "ब्रह्म सत्यं जगन्मिथ्ये " ति डिण्डिमभङ्गापत्तेः । एवमेव " न चासत्त्वं तथा सति सर्वशून्यतापातात् " इत्यप्यसङ्गतम् । अद्वैतिभिः ब्रह्मणो निर्धर्मकत्ववादे तत्र । सत्त्वस्यासत्त्वेऽपि सद्रूपत्वेन सर्वशून्यत्वाभावाङ्गीकारात् । एवम् " असत्त्वे नासत्त्वं वृत्तिविरोधात् न सत्त्वं विरोधादेवे " त्ययुक्तम् । ब्रह्म असदिति बौद्ध-वाक्यबोध्यं ब्रह्मासत्त्वम् असदिति व्यवहाराद् बाधितत्त्वाच्च, असत्त्वेऽप्युपदर्शितदिशाऽसत्त्वाङ्गीकारावश्यम्भावात् ।
शशविषाणमसदिति प्रतीतेर्वावाभावेन तद्विषयीभूतासत्त्वस्य सत्त्वाङ्गीकारावश्यम्भावेन सत्त्वाभावासत्त्वाभावोभयवत्वस्य कुत्राप्यसत्त्वे अभावेनासत्त्वे व्यभिचारप्रदर्शनानौचित्यात् । असुधाकृता "न्यायचन्द्रिका तु यत्र सत्त्वाभावः सत्त्वे, तत्रासत्त्वं नास्ति, यत्रासत्त्वाभावोऽसत्त्वो (त्त्वे ? ), तत्र सत्त्वं नास्तीति परस्परविरहव्याप्यत्वाभावात् " इति अन्यथाऽनुवादेन स्वस्येव न्यायचन्द्रिकाकृतोऽ पि व्याप्यव्यापक मर्यादाऽनभिज्ञतैव प्रकटीकृता, परस्परविरहव्याप्यत्वाभावादिति कथनं तु तदोपयुज्यते यदि यत्रासत्त्वं तत्र सत्त्वाभावः, यत्र सत्त्वं तत्रासत्त्वभाव इति व्याप्तेर्विघाताय व्यभिचारप्रदर्शनं स्यात् । न चास्या व्याप्तर्विरोधी व्यभिचारोऽस्तीति ज्ञेयम् ।
एतेन सिद्धिव्याख्यागतम् " यद्वा सत्त्व एव तत्प्रसिद्धिः आत्माश्रयदोषेण स्वस्मिन् स्वस्याभावात् असत्त्वस्याभावाच्चे " ति वचनं परास्तम् । उक्तपञ्चपादिकया अभेदेऽपि धर्मधर्मिभावस्य स्वीकारेण कचिदात्माश्रयत्यादूषणत्वसूचनात् ।
तथा - अद्वैतसिद्धौ “ कालः सदाऽस्ति देशः सर्वत्रास्ति सत्ता सतीत्यबाधितव्यवहारार्थं विशेषोऽङ्गीकार्य इति चेन्न स्वभावविशेषादेव सर्वस्योपपत्तेः " इति वाक्येन सत्तायामपि सत्त्वोपपादनेन कचित्स्वभावविशेषादेवाधाराधेयभावसम्भवेन तत्रात्माश्रयस्य दोषत्वासम्भवः सूचितः ।
एवं लघुचन्द्रिकायां सत्तादात्म्यस्य पक्षतावच्छेदकत्वमुक्त्वा “ ननु तादृशतादात्म्यस्यापक्षत्वापत्तिः तस्य स्वस्मिन्नभावात् तादात्म्यस्य तादात्म्यान्तरस्यानवस्थापत्त्याऽनङ्गीकारात् इति चेन्न घटाद्यभावस्येव तस्य स्वस्मिन् स्वरूपसम्बन्धेन वृत्तिस्वीकारात् घटाभावे घटो नास्तीतिवत् सत्तादात्म्यं सदिति प्रतीतेः इत्यादिना अभेदेऽप्याधाराधेयभावसमर्थनं कृतम् ।
अत एव एतमेवास्वरसमनुसन्धाय सिद्धिव्याख्याकारैः अथवा निर्धर्मकब्रह्मण्येव तत्प्रसिद्धिः । न चैवं तद्वदेव सद्रूपत्वेनामिथ्यात्वोपपत्त्याऽर्थान्तरं, सधर्मकत्वेन पक्षविशेषणात्; एवं च सधर्मके प्रपञ्चे सत्त्वात्यन्ताभावविशिष्टासत्त्वात्यन्ताभावः सिध्यन् पक्षधर्मताबलान्मिथ्यात्वमादायैव पर्यवस्यति न तु सद्रूपत्वमादाय ब्रह्मवत्सद्रूपत्वे, सधर्मकत्वव्याघातात् । न हि ब्रह्मण इव प्रपञ्चस्य सदेव रूपं संख्यापरिमाणादिरूपान्तराङ्गीकारादिति " इत्यभिहितं तदतितुच्छम् । ब्रह्मणोऽपि सत्त्वाभावासत्त्वाभावोभयवत्वरूपमिथ्यालक्षणाक्रान्तत्वेन " ब्रह्म सत्यं जगन्मिथ्ये " ति वेदान्त डिण्डिमस्य संपूर्णभङ्गापत्तेः ।
किं च सिद्धिव्याख्याकृतैव " इदमुपलक्षणम्, वस्तुतो ब्रह्मभिन्ने शून्यवादिभिरस्माकं साम्यमिष्टमित्यपि बोध्यम् " इत्यादिना ब्रह्मभिन्नेऽपरतत्वे शून्यवादिसाम्यमङ्गीकृतम् ।
असुधाकृताऽपि तत्रैव "शून्यवादिभिरपि शून्यत्वभावनानिवत्यानामपि वियदादीनां यावत्सत्यवासनं सत्यत्वाङ्गीकारेण व्यावहारिकव्यवस्थाया उपपादनातू विज्ञानरूपात्ममिथ्यात्वमतमेव शून्यमतमिति वर्णितम् ।
प्रकृते च ब्रह्मणः सत्वाभावासत्वाभावोभयवत्वरूपमिथ्यात्वसमर्थनेन परतत्वरूपब्रह्मविषयेऽपि साम्यमुपदर्शितम् । तेन " सौगतब्रह्मवादिनोरेष विशेष ' इत्यादिना : ज्ञानज्ञेयरूपं सर्वं जगत्सत्त्वाभावासत्वाभावादिरूपानिर्वाच्यत्ववत् सौगतो मन्यते । ब्रह्मवादिनस्तु विज्ञानरूपब्रह्मव्यतिरिक्तं सर्वमनिर्वाच्यमिति संगिरते इति खण्डनकारप्रदर्शितं सौगतब्रह्मवादिवैलक्षण्यं निराकृत्य अद्वैतिनां बौद्धत्वं स्फुटीकृतं स्यात् ।
यच्चात्रार्थान्तरतत्परिहारकथनं तदप्यतिहेयम् ब्रह्मणोऽपि “एकमेवाद्वितीयम् ” “ सत्यं ज्ञानमनन्तं ब्रह्म " " अणोरणीयान् महतो महीयान् ” एकोदेवः सर्वभूतेषु गूढः “ एकस्तथा सर्वभूतान्तरात्मा ” इत्यादिना संख्यापरिमाणादिरूपान्तरप्रतिपादनेन तस्यापि जगत इंव सद्रूपत्वाभावापत्तेः ।
इत्थं च न्यायचन्द्रिकाप्रदर्शितप्रक्रियाणामतिनिर्दलतया न ताः न्यायसुधा- न्यायामृतकारादिभिः पूर्वपक्षतया समुट्टङ्किता न वा अद्वैतसिद्धिकारादिभि : सिद्धान्ततया सनिर्भरमुल्लिखिताः सति चैवम् असुधाकाराणां तत्प्रशंसनम् "अहो रूपमहो ध्वनि " रित्याभाणकं स्मारयति । इत्यलं सिकताकूपखननायासेन । अनयैव दिशा चित्सुख्याद्युक्तमपि निरस्तम् ।
इदं पुनरकौशलम् असुधाकृतः यदूबालसंघेनापि सुबोधम् । सदसद्विलक्षणत्वमिथ्यात्वोपपादनम् इति शिरोलेखे उपक्रमरूपे सदसद्विलक्षणत्वरूपानिर्वचनीयत्वस्य मिथ्यात्वे न कोऽपि लक्षणदोषः इत्युपसंहारवाक्ये च सदसद्वि- लक्षणत्वस्य मिथ्यात्वाङ्गीकारे असम्भवरूपलक्षणदोषस्य स्फुटत्वान्न लक्षणदोष इति कथनम् पृथिव्याः गन्धवत्वस्य मिथ्यात्वे असम्भवरूपदोषस्य स्फुटत्वेपि न कोऽपि दोषः इति कथनं यथा अकौशल्यापादकं तथैवेति बोध्यम् ।
एतेन (अ. सु. २०३ पत्रे) " सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावोभयरूपस्यैव सदसद्वैलक्षण्यस्य मिथ्यात्वरूपत्वस्वीकारात्, सत्त्वस्याबाध्यत्वरूपस्य ब्रह्ममात्रनिष्ठस्यैकत्वेने ” त्यपि निरस्तम् । अबाध्यत्वस्यासत्साधारण्येन भवदङ्गीकृतस्य सत्त्वरूपत्वायोगात्, असत्साधारणस्य तस्य ब्रह्ममात्रनिष्ठत्वकथनायोगश्च । अ. सुधायामेव (४८ पत्रे) " तुच्छस्याप्यबाध्यत्वात् " (५० पत्रे) " यद्यप्यसतो ऽपि बाध्यत्वाभावा " दित्यादिना अनेकस्थलेषु असतोऽ प्यबाध्यत्वसमर्थनात् ।
यत्तु " अबाध्यत्वाऽनधिकरणत्वस्यैव असद्वैलक्षण्यपदार्थत्वात् असद्वैलक्षण्येsसत्पदेन कचिदुपाधौ सत्त्वेन प्रतीत्यर्हत्वस्य सत्तादात्म्यपर्यवसितस्य अबाध्यत्वाभावरूपस्य चैव सत्त्वासत्त्वोभयाभावपदार्थत्वात् " इति तदयुक्तम् । असत्पदेनेत्यनेन कचिदुपाधौ सत्त्वेन प्रतीत्यर्हत्वस्य सत्तादात्म्यपर्यवसितस्य असत्पदप्रतिपाद्यत्वमुपदर्शितम्, तेन च असत्त्वाभावो नाम कचिदुपाधौ सत्त्वेन प्रतीत्यनर्हत्वं सत्तादात्म्याभावो वा स्यात् । न चैतद्युक्तम्, त्वदाचार्यैः त्वया च पूर्वं क्वचिदुपाधौ सत्त्वेन प्रतीत्यर्हत्वस्य सत्तादात्म्यस्य चासत्त्वाभावरूपत्वोक्तेः । किञ्च एवं सति सत्तादात्म्यस्य असत्त्वरूपत्वे तस्याबाध्यत्वाभावरूपत्वकथनमयुक्तं स्यात असतः पूर्वमबाध्यत्वाङ्गीकारात् । एवं शुक्तिरजतादेः सत्तादात्म्यस्य सत्त्वेन प्रतीत्यर्हत्वस्य च त्वत्सिद्धान्तत्वेन सत्तादात्म्यस्यासत्पदार्थत्वेन शुक्तिरजतादेरसत्त्वापत्त्या तवात्सख्यातिवादित्वस्यैव प्राप्त्या असत्ख्यातिनिराकरणाऽ योगः । अपि च शतभूषण्याम् " सत्तादात्म्यमात्रं जगत्यध्यस्यते सत्तादाम्याभावे तुच्छत्वप्रसक्तिं वारयितुम् । असद्विलक्षणत्वं स्थाप्यते " इत्युक्तम् । असुधायां च सत्तादात्म्यस्यासत्पदार्थत्वमुक्तम् अतः स्फुटो विरोधः । अन्यच्च सत्त्वाभावः यदि भूषण्युक्तदिशा सत्तादात्म्याभावः तर्हि असत्त्वाभावः सत्तादात्म्यरूप एव वक्तव्यः । तथा सति तयोः परस्परव्याघातो दुष्परिहरः । तथा सत्तादात्म्यस्य असत्पदार्थत्वकथनं सत्त्वाभावासत्त्वाभावोभयरूपत्वकथनं च सर्वथा व्याहतम् ।
यच्चोत्तमसुधया " सदसद्भिन्नत्वख्यातिरूपानिर्वचनीयत्वनिरुक्तिः " इति शीर्षकस्याधस्तात् ( अ. २२० प ) " अनिर्वचनीत्वं (नीयत्वं ?) तु सदसद्भिन्नत्वम् । तच्च सत्त्वात्यन्ताभावसमानाधिकरणासत्त्वाभावमात्रम् । तत्र समानाधिकरणेति विशेषणमसत्त्वस्य । तेन च शुक्तिरूप्येऽसत्त्वादिनामपि (त्ववादिना- मपि ?) सत्त्वेनप्रतीतिमङ्गीकुर्वाणानामपि दृष्ट्या शुक्तिरूप्यदृष्टान्तसिद्धिरनुसन्धेया । तत्र सत्त्वाभावविशिष्टासत्त्वाकारण चोक्तविशिष्टसिद्धया निदर्शनत्वाविरोधः" इति । तच्च अनिर्वचनीयत्वस्य ख्यातिरूपत्वायोगात् अधस्तदसमर्थना- च्चासम्बद्धप्रलाप एव । द्वैतिभिः शुक्तिरूप्ये सत्त्वाभावावशिष्टासत्त्वस्य स्वीकृत्वेन तत्र सत्त्वाभावविशिष्टासत्त्वास्वीकारेणेति कथनमसङ्गतम् । किञ्चोक्तविशिष्टसिद्धौ निदर्शनत्वस्य विरुद्धत्वात्तदविरोधकथनमप्यत्यन्तासम्बद्धम् ।
किञ्च किमर्थमयं विचित्रो विशिष्टाभावः साध्यते । किमसत्त्वमात्राभावस्य-विशेष्याभावस्य द्वैतवादिभिः जगत्यङ्गीकृतत्वेन सिद्धसाधनतोद्भाव्येतेति भयात् तत्परिहारार्थम् उत प्रयोजनमनपेक्ष्य एवमेव, आद्ये विशेषणविवक्षणेऽपि द्वैतवादिभिः सत्त्वात्यन्ताभावरूपविशेषणस्य असत्त्वरूपविशेष्यस्य च जगत्यनङ्गीकारेण विशिष्टा- भावस्य सिद्धत्वेन सिद्धसाधनताया दुरुद्धरत्वमेव । द्वितीयेऽनर्थकासम्बन्धप्रलाप- कारित्वेन निग्रहस्थानापातः । नापि दृष्टान्ते साध्यवैकल्यपरिहारार्थम्, द्वैतमते विशेष्याभावमात्रसाधने यथा दृष्टान्ते साध्यवैकल्यं तथा विशिष्टाभावसाधनेऽपि दृष्टान्ते साध्यवैकल्यं स्थिरमेव । न वा अद्वैतमते बाधपरिहारार्थमिति युक्तम् विशेष्याभावमात्रस्यैवाबाधितत्वात् । नाप्यद्वैतमते दृष्टान्ते साध्यवैकल्यपरिहारार्थम् केवलासत्त्वाभावस्य साध्यत्वेऽपि दृष्टान्ते साध्यवैकल्याप्रसक्तेः विशेषणाभावप्रयुक्तविशिष्टाभावसाधनप्रयासो विफलः । किञ्चात्र “शुक्तिरूप्यादौ सत्त्वसमानाधिकरणासत्त्वस्यास्वीकारेण सत्त्वाभावविशिष्टासत्त्वस्यास्वीकारात् " इति वाक्यमसङ्गतम् । सत्त्वसमानाधिकरणासत्त्वास्वीकारस्य सत्त्वाभावावशिष्टासत्त्वास्वीकारं प्रत्यप्रयोजकत्वात् सत्त्वसमानाधिकरणासत्त्वस्वीकारस्य कथश्चित् स्यात् न च तथा वक्तुं शक्यम्, शुक्तिरूप्येऽद्वैतिभिः सर्वथा असत्त्वाऽनङ्गीकारात् । वस्तुतस्तु ईदृशानिर्वचनीयत्वस्य ब्रह्मसाधारण्यात् तस्याप्यनिर्वचनीयत्वस्य वज्रलेपायितत्वेन ब्रह्म सत्यं जगन्मिथ्या " इति सिद्धान्तः समूलमुन्मूलितः । खण्डनकार प्रदर्शितस्य सौगतब्रह्मवादिवैलक्षण्यस्यापि निरासेन प्रकटबौद्धत्वमेव समर्थितं स्यात् । सत्त्वाभावविशिष्टो यः असत्त्वाभावः तद्वत्त्वं मिथ्यात्वम् इति प्राचीनमते कथञ्चित् ब्रह्मणिं सत्त्वाभावरूपविशेषणाभावाद्विशिष्टरूपस्य मिथ्यात्वस्याभावेन " ब्रह्म सत्यं जगन्मिथ्या " इति कथनं सौगतब्रह्मवादिवैलक्षण्यकथनम् । तेन बौद्धत्वप्रच्छादनं च स्यात् । तत्पक्षे ब्रह्ममिथ्यात्ववादित्वस्य ब्रह्मणि भावरूपधर्मानङ्गीकारेण सत्त्वाभावासत्त्वाभावोभयवत्वस्यावश्यमङ्गीकार्यतया जगत इव तस्यापि मिथ्यात्ववादिन एवाद्वैतिनोऽपि इत्युपपादनसापेक्षत्वात् । किं बहुना एक व्याघातापह्नवाय प्रवृत्ता अ.सुधा परःशतान् व्याघातान् स्वीकरोति । मन्ये च एवंविधानवलोक्यैवोक्तं “ विवेकभ्रष्टानां भवति विनिपातः शतमुखः इति । एतेन भावाभाव- विलक्षणत्वं मिथ्यात्वमित्यपि निरस्तम् ।
यच्चोक्तम् ( अ. २०१ प. ) " अविद्यापरिणामस्य विश्वस्य न भावरूपत्वमभावरूपत्वं वा सम्भवति ” इत्यादि तदयुक्तम् । प्रत्यक्षेण सौषुप्तानुभवेन विवरणोपदर्शितानुमानैः अर्थापत्त्या च महता प्रयासेन अज्ञानस्य भावरूपत्व- समर्थनात् परिणाम्युपादानोपादेययोः सरूपत्वनियमेन भावरूपाविद्याकार्यस्य जगतोऽपि भावरूपताया एव वक्तव्यत्वात् । न च अविद्यायाः भावत्वोक्तेः अभावत्वानधिकरणत्वमेवार्थः प्रमाणान्यभाववैलक्षण्यमेव विषयीकुर्वन्तीति वाच्यम् । सर्वेषामप्यभावानां घटवति भूतले भासमानानां घटाभावादीनां चाज्ञानपरिणामत्वेन परिणामिकारणतत्कार्ययोरेकरूपत्वेनाज्ञानस्याभावविलक्षणत्वायोगात् । तथा चा ज्ञानस्य तत्कार्याणां च भावाभावविलक्षणतृतीयप्रकारताकथनमयुक्तम् । चतुर्थ- प्रकारस्य तृतीय प्रकारत्वकथनमप्यद्वैत सिद्धान्ताऽनभिज्ञानमूलकमेवासुधायाः ।
यच्चोक्तं तत्रैव " अभावस्यासत्पदार्थत्वमेव गतिः " इति । तेन हि द्वितीयाभावरूपाद्वैतस्य विशेषसामान्याभावरूप निर्वेशेषत्वस्य असद्रूपत्वसमर्थनेन साधु समर्थितः स्यादद्वैतवादः निर्विशेष चैतन्यवादश्च । किं चैवं त्वन्मतरीत्या अद्वैतस्यातत्वरूपत्वेन त्वत्प्रणीतप्रबन्धानां " अद्वैताऽतत्त्वशुद्धिः " " अद्वैताऽतत्त्वसुधा " इत्यन्वर्थकनामकरणमेव युक्तम् । मन्यामहे च अद्वैतश्रद्धालवः तिरस्कुर्युरिति भयादेव भवताऽन्वर्थकसंज्ञाकरणं विहाय पारिभाषिकसंज्ञा कृतेति ।
यच्चाभिहितम् (अ. २०१) " तथा च न भावाभावान्यतरविलक्षणत्वमत्र सदसद्विलक्षणत्वम् । किन्तु भावाभावोभयवैलक्षण्यमेवेति नात्र सिद्धसाधनम्, अर्थान्तरता वा ” इति । तत्रेदं वक्तव्यम् उभयवैलक्षण्यमित्यस्य किमुभयत्वाश्रयनिष्ठप्रतियोगिताकभेदवत्वमर्थः उतोभयत्वावच्छिन्नप्रतियोगिताकभेदवत्वम् आधे भावे अभावे च तत्सिद्धमेवेति सिद्धसाधनं दुर्वारम् ॥
द्वितीयेऽपि एकं नोभयमिति प्रतीतेः प्रत्येकं व्यासज्यवृत्तिधर्मावच्छिन्नप्रति-योगिताकभेदस्य सकलतान्त्रिकसम्मतत्वेन प्रत्येकं भावे अभावे च भावाभावोभयत्वावच्छिन्नप्रतियोगिताकभेदसत्वेन सिद्धसाधनताया वज्रलेपायितत्वसम्पादनमेव कृतं स्यात् । एकं नोभयमिति प्रतीतेः प्रामाण्यनिर्वाहाय उभयवैलक्षण्यमित्यस्य उभयत्वनिष्ठपर्याप्तिसम्बन्धाऽवच्छिन्नाऽवच्छेदकताकप्रतियोगिताकभेदबोधकताया एव वक्तव्यत्वेन भेदस्य प्रतियोगिताऽवच्छेदकतावच्छेदकसम्बन्धेन प्रतियोगितावच्छेदकवत्येव वृत्तिविरोधात् प्रत्येकं भावस्य अभावस्य वा पर्याप्तिसम्बन्धेन उभयत्वाऽनधिकरणत्वेन तत्रोपदर्शितोभयवैलक्षण्यस्य निष्प्रत्यूहत्वात् ।
वस्तुतस्तु " न भावाभावोभयवेलक्षण्यमत्र सदसद्विलक्षणत्त्वम्, किन्तु भावाभावान्यतरविलक्षणत्वमेवेति नात्र सिद्धसाधनमर्थान्तरं वा " इति अद्वैतिभि- वक्तव्यम् एतत्पक्षे भावाभावान्यतरविलक्षणत्वं नाम भावाभावान्यतरत्वनिष्ठस्वरूप सम्बन्धाऽवच्छिन्नाऽवच्छेदकताकप्रतियोगिताकभेदवत्वं तच्च प्रतियोगितावच्छेद- कतावच्छेदकेन स्वरूपसम्बन्धेन प्रतियोगितावच्छेद की भूताऽन्यतरत्ववति भा अभावे वान सम्भवतीति न सिद्धसाधनाऽवकाशः, इति कथंचिद्वक्तुं युक्तम् परं सकलतान्त्रि कमर्यादोडूनेनैव प्राप्तात्मलाभा वराकी कथं तान्त्रिकमर्यादानुसारि तदविरुद्धं वा तत्त्वं प्रतिपादयेदसुधा ।
यदपि “ एतेन विवादपदं सदसद्विलक्षणं दृश्यत्वादिति सदसद्विलक्षणत्वेऽनुमानप्रमाणमपि व्याख्यातमित्युक्तं तदपि निरस्तम् सत्त्वासत्त्वयोः परस्परविरह- रूपत्वसमर्थनेन शुक्तिरूप्यादौ क्वचिदुपाधौ सत्त्वेन प्रतीत्यर्हत्वस्य तदनर्हत्वस्य चा-सम्भवात् लघुचन्द्रिकाद्युक्तदिशा सत्त्वेऽपि सत्त्वाङ्गीकारेण असत्त्वेऽपि सत्त्वाङ्गीकारेण सत्त्वाभावासत्त्वाभावोभयवत्वस्य सदसद्विलक्षणत्वस्य वा सत्त्वे असत्त्वे वा असम्भवात्साध्याप्रसिद्धेर्वज्रलेपायितत्वात् ।
एतेन “ अयमेव न्यायः सत्त्वासत्त्वे एकवस्तुनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वादित्यनुमानेऽपि । तत्र वस्तुपदेन सत्पदार्थो वा विवक्ष्यताम्, धर्मिमात्रं वा, उभयथाऽपि सत्त्वासत्त्वायोरेकत्र सद्रूपे ब्रह्मण्युक्तरूपयोरभावात्, धर्मिमात्रविवक्षायां तु शुक्तिरूप्यादौ सामानाधिकरण्यमिति न व्याघातः" इत्यपि निराकृतम् । वस्तुशब्देन सत्पदार्थविवक्षया ब्रह्मणः सत्त्वाभावासत्वाभावोभयवत्वरूपमिथ्यात्ववर्णनेन “ विज्ञानरूपात्ममिथ्यात्वमतमेव शून्यमतम् ” इति स्वयं कण्ठरवेणोद्घोषितत्वेन सौगताद्वैतमतयोरैक्यापातात् सद्ये सत्त्वाभावः व्याहतः इत्युक्त दोषस्य सद्रूपे सत्त्वाभावोक्तिमात्रेण कथं परिहारः । किञ्चैवं वन्ध्यायाः पुत्रवत्त्वमित्युक्तिमात्रेण मम माता वन्ध्येति वाक्येऽपि व्याघातपरिहारप्रसङ्गः ।
धर्मिमात्रविवक्षया शुक्तिरूप्यादौ सामानाधिकरण्यकथनमपि व्याहतं सत्त्वासत्त्वयोः तत्र चासत्त्वम् ” इत्यादिना परस्परविरहरूपत्वस्य स्वयमेव समर्थनात् । तथा अद्वैतसिद्धिप्रदर्शितप्रक्रियाया असौष्ठवस्यापि स्वयमुपपादनात् न्यायचन्द्रिकाप्रदर्शितप्रक्रियायां अपि पञ्चपादिकाविरुद्धत्वेन अनादरणीयतया सत्त्वासत्त्वयोः परस्परविरुद्धत्वावश्यग्भावेन शुक्तिरूप्यादौ तयोः सामानाधिकरण्य-कथनस्य व्याहतत्वात् ।
यच्चोक्तम् " ब्रह्मणि सद्रूपे निर्धर्मके प्रमेयत्वाभिधेत्वयोरप्यभावेन तत्र साध्यस्यापि सत्त्वात् नानैकान्तोऽपी ” ति तदप्ययुक्तम् । निर्धर्मकत्वस्य ब्रह्मणि भावाभावाभ्यां ' मूको ऽ हमि ' तिवत् स्वव्याघातात् । यदि निर्धर्मकत्वरूप- धर्मोऽप्यनेनैव निषिध्यते इत्युच्यते तर्हि मूकोऽहमिति वाक्येन मूकोऽमितिवाक्यमपि निषिध्यते इति समम् ।
यदि च " निर्धर्मकत्वस्य धर्मरूपत्वे धर्मत्वेनैव रूपेण तन्निषेधस्याद्वितीय-वाक्ये द्वितीयाभावरूपद्वितीयनिषेधस्येवोपपत्तेः । अन्यथा विशेषत्वावच्छिन्ननिषेध-प्रतीतेरनुपपत्तेः ” इत्युच्यते तदा मूकोऽहमित्यस्य वचनत्वे वचनत्वेनैव रूपेण तन्निषेधस्यापपत्तेरित्यपि वक्तुं शक्यत्वेन स्वव्याघातवार्ताविलोपप्रसङ्गात् ।यदि वा अभावस्याधिकरणस्वरूपत्वपक्षे निर्धर्मकत्वस्य ब्रह्मस्वरूपानतिरे-कितया न तेन सधर्मकत्वापत्तिरित्युच्यते तदा वचनसामान्याभावस्यापि अधिकरणस्वरूपत्वेन न वचनाभाववत्वमित्यपि सुवचम् । धर्माभावधर्मयोर्धर्मत्वेन एक- रूपेण निषेधसम्भवेऽपि मूकोऽहमित्यत्र वक्तृत्वतदभावयोरेकरूपेण निषेधाभावात् व्याघातोपपत्तिरिति न वाच्यम् । मूकशब्देन वचनत्वेन वक्तृत्वत्वेन रूपेण एकेनैव मूकोऽहमिति वचनतदितरवचनयोर्निषेधेन व्याघातोपपत्तिरिति साम्यात् व्याघातवार्तोच्छेदभिया ब्रह्मणि निर्धर्मकत्वाङ्गीकारायोगात् ।
किञ्च निर्धर्मकत्वस्य निर्धर्मकत्वप्रकारप्रमाविषयत्वसापेक्षत्वेन निर्धर्मकशब्दाभिधेयत्वसापेक्षत्वेन च अभिधेयत्वप्रमेयत्वयोरावश्यकत्वेन तन्निषेधायोगात् मेयसिद्धेर्मानापेक्षत्वात् ब्रह्मणः निर्धर्मकत्वप्रकारकप्रमाविषयत्वाभावे निर्धर्मकत्वमेव न सिध्येत् । अन्यथा घटादेरपि निर्धर्मकत्वं स्यात् । इत्थं च प्रमेयत्वादावनैकान्त्यं दुष्परिहरम् । ब्रह्मत्वाब्रह्मत्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वात् रूपरसवदित्याभाससमानयोगक्षेमत्वं च ।
ब्रह्मण्युभयाभावस्यापीष्टत्वात्पक्षसमत्वकथनं तु नास्मिन् पक्षे युज्यते ब्रह्मवादिना ब्रह्मणि ब्रह्मत्वाभावाङ्गीकारायोगात् ।
एतेन " घटादिकम् अनिर्वचनीयम् अधिष्ठानज्ञानप्रयुक्ताभावप्रतियोग्यज्ञानपरिणामत्वात् संप्रतिपन्नवद् ” इत्यपि परास्तम् असिद्धेः दृष्टान्ते साधनवैकल्याच्च ।
यदुक्तम् " एतेन सच्चेन्न बाध्येत असच्चेन्न प्रतीयेतेत्यर्थापत्तिरपि शुक्तिरजतानिर्वचनीयतायां प्रमाणम् " इति । तन्न, अस्य तर्कत्वेनार्थापत्तिरूपत्वा-भावात् । नचास्य वाक्यस्य प्रतीतिवाधान्यथानुपपत्तिरूपार्थापत्तावेव तात्पर्यमिति वाच्यम् । तावताऽपि विमतं सदसद्विलक्षणं बाध्यत्वे सति प्रतीयमानत्वाद् इत्यनुमान एव पर्यवसानेन तस्य च दृष्टान्ते साध्यवैकल्यप्रदर्शनादिना दूषितत्वात्, अर्थापत्तेः पृथक्प्रामाण्याभावस्यानुपदमेव समर्थयिष्यमाणत्वाच्च । अस्तु वा अर्थापत्तेः पृथक्प्रामाण्यं, तथापि " न च भ्रान्तिविषयो रजतमसद्रूपं भवितुमर्हति तस्य तदुपादानाज्ञानाविषयत्वात् तन्निवर्तकज्ञानाविषयत्वाच्च " इति असुधा स्मृतिभ्रंशमूलैव । तदुपादानेत्यत्र तत्पदेन असद्विवक्षणे तस्योपादानाप्रसिद्धेः रजतविवक्षणे शुक्तिरजतम् असद्रूपं न भवति तदुपादानाज्ञानाविषयत्वात् तन्निवर्तकज्ञाना-विषयत्वाद् इत्यनुमानद्वयस्यापि असति व्यभिचारः । वस्तुतस्तु भ्रान्तिविषयो रजतम् असद् भवितुमर्हति तदुपादानाज्ञानाविषयत्वात् तन्निवर्तकज्ञानाविषयत्वाद्वा शशविषाणाद्यसद्वत् इत्यनुमानेन भ्रान्तिविषयरजतस्यासद्रूपत्वमेव सिध्येत् । तथा च स्वप्रातिकूल्यमेवाचरितं स्यात् भ्रष्टस्मृत्या असुधयेति विज्ञेयम् ।
यच्चोक्तम् “ तथा च शुक्तिरूप्यादिकं यद्युक्तरूपमसद्रूपं स्यात् तर्हि न बाध्येत बाध्यते तु अतः सद्विलक्षणम् " इति । तत्र ब्रूमः यदीदं वचनं सच्चेन्न बाध्येतेति तर्कस्यैव पुनः प्रदर्शनं तदा सद्रूपत्वस्य प्रागापादकत्वमुक्त्वा तत्क्षण एव पुनः तत्स्थाने असद्रूपत्वस्यापादकत्वकथनेन स्मृतिभ्रंशस्य पराकाष्ठा समासादिता स्यात् । यदीदं तर्कान्तरं तदा तर्काङ्गेषु आपादकविपर्ययपर्यवसानस्य मुख्यतया असद्रूपत्वस्यैवापादकत्वेन अतः असद्विलक्षणमित्येव विपर्ययपर्यवसानस्य कर्तव्यत्वे " अतः सद्विलक्षणम्" इति अनापादकविपर्ययपर्यवसानकरणेन तर्कस्य पंच- माङ्गविनाशात् बुद्धिप्रणाशस्यापि पराकाष्ठा समासादिता स्यात् " इति ।
किञ्च तत्र सच्चेदित्यत्र सत्पदार्थो न सत्ताजातिविशिष्टम्, अबाध्यम्, ब्रह्म वा, किन्तु सद्रूपम् । तच्च तत्तद्विवर्तोपादानमधिष्ठानस्वरूपं सदात्मना भासमानं ब्रह्मैव, यस्याखण्डात्मना साक्षात्कारोऽज्ञानादिनिवर्तकः " (अ. प. ४९ ) इत्यपि व्याहतमेव । पूर्ववाक्ये सत्पदार्थो न ब्रह्मेत्युक्त्वा किन्त्वित्यादिना सदात्मना भासमानं ब्रह्मैवेति ब्रह्मण एव सत्पदार्थत्वकथने व्याहतेः स्फुटत्वात् । तथा च सद्विलक्षणमित्यस्य ब्रह्मविलक्षणमित्यर्थः स्यात् । तथा च तत्त्वस्य जगति सिद्धत्वेन सिद्धसाधनतायाः स्थैर्यसंपादनेन द्वैतिनामेवानुकूल्यमाचरितम् । किंच सच्चेदित्यत्र सत्पदार्थः कः इति प्रश्नस्य ' किन्तु सद्रूपम् ' इत्येतदनुत्तरमेव । तत्रापि सद्रूपमित्यत्र सत्पदार्थः कः इति प्रश्नस्य तदवस्थत्वात् ।
““ यद्यप्यसतोऽपि बाध्यत्वाभावाद बाध्यत्वादेवास दूवैलक्षण्यमप्यर्थबाध्यत्वादेवासद्वैलक्षण्यमप्यर्थं सिद्धम् " ( अ. प. ५० ) इति कथनमपि व्याहतमेव । असत्त्वस्य त्रैकालिकनिषेधप्रतियोगित्वरूपत्वात् बाध्यत्वस्य च प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपत्वात् । तथा च बाध्यत्वं व्याप्यम् असत्त्वं व्यापकमित्यायातम् । सति चैवं व्याप्यविशेषेण व्यापकसामान्याभावसाधनस्य व्याहतत्वात् । न हि पृथिवीत्वरूपव्याप्यविशेषेण द्रव्यत्वसामान्याभावसाधनं न व्याहतम् । वस्तुतस्तु सत्त्वाभावस्त्वबाध्यत्वाभाव एव " इति पूर्वमुक्तत्वात् । असत्त्वमित्यत्रापि सत्त्वस्याऽभावोऽसत्त्वमिति व्युत्पत्त्या नञः स्वसमभिव्याहतपदार्थप्रतियोगिका- भावबाधकत्वनियमानुसारेणासत्त्वस्याबाध्यत्वाभावरूपत्वात् । अबाध्यत्वाभावश्च बाध्यत्वमेव । तथा च जगत् असद्विलक्षणं बाध्यत्वाभाववत् बाध्यत्वात् इति विरुद्धमेव ।
उक्तं हि असुधायामेव " क्वचिदुपाधौ त्रैकालिकनिषेधप्रतियोगित्वमसत्त्वम्, तदभावः सत्त्वम्, सत्त्वं तु मिथ्यात्वघटकमबाध्यत्वमेव " (अ. प. ७२) इति । यच्चोक्तम् असत एव भ्रमे भानं भवतु असत एव रजतादेः सत्त्वेन भानसंभवाच्चति शङ्कावारणार्थम् असच्चेन्न प्रतीयेतेति प्रसङ्गान्तरमन्त्रानुसन्धीयते " (अ. प. ५० ) इति तदपि व्याहतम् । अग्रे “ असद्वैलक्षण्येऽसत्पदेन क्वचिदुपाधौ सत्त्वेन प्रतीत्यर्हत्वस्य " ( अ. प. २०३ ) इति ग्रन्थेन असतोऽपि सत्त्वेन प्रतीतेः असुधयैव स्वीकारात् " असञ्चेन्न प्रतीयेत " इति तर्कस्य व्याप्तिरूपाङ्गविकलत्वेनाभासत्वात् ।
यदपि कथितम् “ “तत्र न प्रतीयेते' त्यत्रापाद्यमानाऽप्रतीतिः सदात्मनाऽ सत्त्वेन वा, अपरोक्षतयावाऽप्रतीतिरेव । तत्र शुक्तिरजतादि यद्यसत्, तर्हि तस्याविद्यावृत्तिरूपविकल्पाख्यप्रतीतिरेव स्यात्, न त्वपरोक्षविपर्ययविषयता; अन्यथाविपर्ययविकल्पभेदेन वृत्तिगणनायोगः ; विपर्ययस्याप्यसत्प्रतीतिविषयत्वा-विशेषात् " । (अ. प. ५० ) इत्यादि तदपि व्याहतम्, विकल्पविपर्ययोः अद्वैतमतेऽपि असद्विलक्षणत्वेनासत्प्रतीतिविषयत्वायोगात् । एवं न प्रतीयेतेत्यत्रा- पाद्यमाना अप्रतीतिः नापरोक्षप्रतीत्यभावरूपेति वक्तुं शक्यम्, नित्यातीन्द्रियाणामसद्वैलक्षण्यासिद्धिप्रसङ्गात् । किन्तु परोक्षापरोक्षसाधारणप्रतीत्यभावरूपैव । एवं च " नरशिरसि विषाणमस्तीति वाक्यं तु विशेषणसम्बन्धमात्रं बोधयति, स चासन्नवाऽनुयोगिमात्रस्य तत्र सवेऽपि । सर्वथा तु नेदं प्रत्यक्षम् इति शब्दात्, तद्बोधो न दोषाय " (अ. प. २३२) इति असुधयैव स्पष्टमभिधानात् । असतः सत्त्वेन परोक्षभ्रमरूपप्रतीतिविषयत्वम् असत्त्वेन परोक्षप्रमारूपप्रतीतिविषयत्वं चास्त्येवेति असच्चेन्न प्रतीयेतेति तर्कस्य व्याप्तिविकलत्वेनाभासत्वमेव । सति चैवं परोक्षे त्वन्यथाख्यातिरित्यादिग्रन्थेन भ्रमविषयसंसर्गस्य न प्रातिभासिकत्वं न वा असत्त्वं किन्तु सत्त्वमेवेति कथनं स्वव्याहतमेव ।
यच्चाभिहितम् सर्वथा तु प्रमाणजन्यप्रत्यक्ष - परोक्षज्ञानविषयत्वं भ्रमे भास- मानस्यासत्त्वे प्रतिबन्धि " (अ. प. २३२ ) इति तदतिहेयम्, शशविषाणमसत् इत्याकारकशब्दप्रमाणजन्या सत्त्वप्रकारकपरोक्षज्ञानविषत्वस्य असत्यपि सत्त्वेना- सत्त्वाप्रतिबन्धित्वात् ।
किञ्च प्रमाणजन्यप्रत्यक्षपरोक्षज्ञानविषयत्वमित्यनेनान्यतरपदाघटितेन हि एकस्यैव ज्ञानस्य प्रमाणजन्यत्वं प्रत्यक्षत्वं परोक्षत्वं च विशेषणमिति ज्ञायते । तच्च प्रत्यक्षत्वपरोक्षत्वयोर्विरुद्धत्वादयुक्तम् ।
अपि च, एवं सति असच्चेन्न प्रमीयेतेति तर्कस्वरूपं स्यात् तथा च शुक्तिरजतमसच्चेन्न प्रमीयेतेति व्याहततरमुक्तं स्यात् । किंचेयमसुधा विकल्पाख्यप्रतीति-रेव स्यादिति वाक्येन विकल्पस्यापि प्रतीतित्वमङ्गीकरोति । असच्चेन्न प्रतीयेतेत्यत्र प्राचीनैरद्वतिभिः असतः प्रतीतिरेव निवारिता । (अनुव्याख्यानकारैः न्यायसुधाकारैश्च )
" तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते " इत्यादिना प्रतीत्यन्यथाऽनुपपत्त्या असद्वैलक्षण्यसिद्धिर्निराकृता । दोषोद्धाराय प्रवृत्तया असुधया तदुक्त “ असच्चेन्न प्रमीयेत " न साक्षात्क्रियेत इत्यादितर्कान्तरप्रदर्शनं च कृतम्, न तावता पूर्वोपदर्शिततर्कदोषोद्धारः सम्भवति । एतेषां प्रतीतिविशेषाभावापादनरूपाणां तर्काणां दुष्टत्वमभिप्रेत्यैव प्राचीनाद्वैतिभिः ते परित्यक्ताः । प्राचीनाद्वैत्यभिमतदोषाज्ञानाच्च असुधा भ्रान्तचित्ता आसीत् । अतस्तान् दोषान् संक्षेपेण प्रदर्शयामः येन स्वस्थचित्ता स्यात् । तथा हि- " न प्रमीयेत " इत्युक्तौ शुक्तिरूप्ये असद्वैलक्षण्यासिद्धिः सत्त्वेन प्रमीयमाणत्वस्य तत्राभावात् यथा कथञ्चित् अत्यन्तासदेव रजतं प्रत्यभादित्यादिप्रमाविषयत्वस्य च असत्त्वसाधकत्वेन असद्वैलक्षण्यासाधकत्वात् । न साक्षात्क्रियेत इति तु नित्याती न्द्रियाणां साक्षात्कारविषयत्वाभावेन तत्रासद्वैलक्षण्यासिद्धिप्रसङ्गात् हेयमेव । किञ्च यद्यसत्स्यात् तर्हि सत्त्वप्रकारकविपर्ययविषयो न स्यात् इत्यापादनमप्यसङ्गतम् । द्वैतिभिः सत्त्वप्रकारकविपर्ययविषयत्वस्य असत्त्वव्याप्यत्वाङ्गीकारेण तर्कस्य व्याप्तिविकलतयाऽऽभासत्वापातात् ।
किंच अत एव भ्रमस्य विकल्पाख्यवृत्तितो भेदेन योगसूत्रे परिगणनम् प्रमाणनिद्रास्मृतिविपर्ययविकल्पाः " इति वाक्येन प्रमाणत्वादीनां वृत्तिविभाजकधर्मत्वे परस्परासामानाधिकरण्यस्यावश्यकत्वेन विकल्पेऽपि विपर्ययत्वाङ्गीकारे विकल्पत्वविपर्ययत्वयोः परस्पराविरुद्धत्वेनास्य वृत्तिविभागपरस्य योगसूत्रस्याप्रामाण्यापत्तिः। अतः विपर्ययस्य-भ्रमस्य -विकल्पस्य च भेद एवाङ्गीकार्य इति प्रतिपाद्य - " स्मृतेरपि भ्रमत्वेऽपि " इत्यादिना उपदर्शितसूत्रस्य विभागपरत्वे अप्रामाण्यमेव पर्यायेण समर्थयति । परां कोटिमुपारूढश्चास्याः सम्मोहः । अत इदानीं चक्रीवतो धर्मपत्नीं वराकीमिमामद्वैततत्त्वसुधां वारिधिमेव काष्ठामवलम्ब- मानामुपेक्ष्य ग्रामसिंहप्रियपत्नमिद्वैतसिद्धिं समुत्सारयामः ।
यदुक्तमद्वैत सिद्धौ " प्रतीत्यभावेऽपि असतः असन्नृशृङ्गमिति विकल्पमात्रेण सर्वोपपत्तेः । तदुक्तं शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति " इति । तन्न मनोरमम् गौडपादाचार्यैः " निश्चितायां यथा रज्वां विकल्पो विनिवर्तते " । इत्यादिना निश्चयभिन्नज्ञानस्यसंशयस्य विकल्परूपत्वोक्तेः प्रतीतिविशेषरूपविकल्पविषयत्वे प्रतीतिसामान्याभावकथनायोगात् किञ्च "स्वप्नमाये यथादृष्टे गन्धर्वनगरं यथा " इति गौडपादकारिका व्याख्यानाऽवसरे शंकराचार्यैः “ स्वप्नमाये असद्वस्त्वामिके असत्यौ सत्यौ सद्वस्त्वात्मिके इव लक्ष्येते अविवेकिभिः" इत्यादि वाक्ये असतः सत्त्वप्रकारकदर्शनविषयत्वस्य स्पष्टमभिधानात् । तथा असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मनः । असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति " इति गौडपादकारिकाव्याख्यायाम् असदविद्यमानं रज्जुसर्पवद्विकल्पितं वस्तु जागरिते दृष्ट्वा स्वमेऽपि विकल्पयन् पश्यति " इत्यादि वाक्यैः विकल्पस्य अप- रोक्षभ्रमस्य चैकरूपत्वं वर्णितं तैरेव । अतः शङ्कराचार्यानुयायिनः तव तदन-भिमतायाः तत्र तत्र भाष्ये निराकृतायाः योगशास्त्रप्रक्रियायाः अवलम्बनस्यानौचित्यात् ।
किञ्च अद्वैतसिद्धावेव सूत्रव्याख्यानोपदर्शितायाः एतावन्तं कालं न अविद्याविषये किञ्चिदवेदिषमिति परामर्शसिद्धसौषुप्तिकप्रत्यक्षरूपनिद्रायाः प्रामाण्यं समर्थयता अद्वैतसिद्धिकृता प्रमाणविपर्ययविकल्पनिद्रास्मृतय इति वृत्तिविभागपरयोगसूत्रप्रामाण्यस्य पर्यायेण निराकृतत्वात् पुनर्योगसूत्रप्रामाण्याङ्गीकारे स्वव्याघातः । योगसूत्र श्रद्धायां तु श्रीवनमालिदासप्रदर्शितरीत्या असद्विशेष्यको भ्रमः विकल्पः सद्विशेष्यको भ्रमः विपर्ययः इति विशेषाश्रयणेन पृथग्गणनसम्भवेन उक्तयोगसूत्रस्य विभागपरत्वमुपपादनीयम् ।
केचित्तु आहार्यभ्रमो विकल्पः अनाहार्यभ्रमो विपर्यय इति विशेषमङ्गीकृत्य विभागमुपपादयन्ति । योगसूत्रभाष्यकाराः टीकाकाराः वाचस्पतिभिश्राश्च अभेदेऽपि स्वभावविशेषबलाद्यत्र सम्बन्धप्रतीतिः तत्र विकल्पः स च प्रमाणोपारोही प्रमाणभूत एव न भ्रमः यथा पुरुषस्य चैतन्यमिति । अत एव " आनन्दं ब्रह्मणो विद्वान् बिभेति कुतश्चन " इति श्रुतौ आनन्दब्रह्मसम्बन्धज्ञानस्य मोक्षहेतुत्वमुक्तमुपपद्यते । तज्ज्ञानस्य प्रमाभिन्नत्वे मोक्षहेतुत्वानुपपत्तेरिति मन्यते । न केनाऽपि योगसूत्रकृता तद्भाष्यकृता टीकाकृता टिप्पणीकृता वा विकल्पस्य शशविषाणमित्याकारकता प्रदर्शिता । अतः योगसूत्रतद्भाष्यकाराद्यसम्मतस्य- अद्वैतसिद्धि--अद्वैततत्त्वसुधादिप्रदर्शित योगसूत्रव्याख्यानस्य हेयत्वमेवेति तत्त्वम् ।
अपि च अद्वैतसिद्धौ “ येन पुंसा शशे शृङ्गाभावोना वगतः तस्य गोशृङ्गमस्तीति वाक्यादिव शशशृङ्गमस्तीति वाक्यादपि भ्रान्तिदर्शनात् । न हि घट--धषादिशब्दवदत्र पदार्थानुपस्थापकत्वम् न वा कुण्डमजाजिनमित्यादिवदन्वयाबोधकत्वम् अयोग्यताज्ञानाभावस्य योग्यताभ्रमस्य वा आकाङ्क्षादिसामग्री सधीचीनस्य सत्त्वात् अन्यथाप्रतीत्यभावप्रसङ्गः इत्याशङ्क्य इदं रजतमिति प्रात्यक्षिकभ्रमवत् अस्याप्यनिर्वाच्याविषयकत्वात् ” इत्यादिना शशशृङ्गम् अनिर्वाच्यमेकम् असच्चापरमिति शशशृङ्गे द्वैविध्यं परिकल्प्य तत्र शशविषाणमस्तीति वाक्यबोध्यमनिर्वाच्यम् । असन्नृशृङ्गम् असच्छशविषाणमित्यादि वाक्याद्विकल्प्यमानमसदिति कथितम् । तदपि वञ्चनामात्रम् । तथा सति अनिर्वाच्यस्य शशविषाणस्य निवृत्तिरेव न स्यात् । असच्छशविषाणमित्यस्य शशविषाणं नास्तीत्यस्य च विकल्पत्वेन बाधज्ञानत्वाभावात् । ज्ञानत्वे वा भ्रमविषयीभूते शशविषाणे अस्तित्वनिषेधकत्वाभावेन अनिर्वाच्यशशविषाणाऽबाधकत्वात् । कथंचित् ब्रह्मज्ञानबाध्यत्वे तु तस्य शशविषाणस्य व्यावहारिकत्वापातः । तत एवार्थक्रियाकारित्वापातश्च । अनुभवविरुद्धत्वान्नात्रेष्टापत्तिरिति वक्तुं युक्तम् । एवं सत्यपि मुखमस्तीति न्यायमवलम्ब्य इष्टापत्तिरिति यदि कथयेत् तदा सत्कथागोष्ठीद्वारतो बहिरुत्सारणयेति दिक् ।
॥ इति अज्ञानस्य तत्प्रयुक्तस्य बन्धस्योभयस्यापि सदसद्विलक्षणत्वेनानिर्वचनीयत्वनिरासः ॥