जगद्व्यापारवर्जम् ' प्रकरणात् ,' असन्निहितत्वाच्च

ईश्वरस्य जीवव्यतरिक्तत्वसमर्थनम्

एतावता प्रबन्धेन जीवापेक्षया उत्तमत्वस्य जीवभेदं विना अनुपपत्या उपदर्शितपरविद्ययैव सर्वजीवजडोत्तमस्य विष्णोः यथा सिद्धिस्तथैव सकलजीवजडभिन्नस्यापि सर्वेश्वरस्यविष्णोः सिद्धिरपि निष्प्रत्यूहा । उपदर्शितमेतत् पूर्वतनप्रबन्धे प्रसङ्गात्तत्र तत्र विवेचनेन । अथेदानीं जीवत्वेश्वरत्वो पलक्षितैक्यवादनिरासायोपोद्घातप्रक्रियया जीवव्यतिरिक्तेश्वरसमर्थनं क्रियते । तथाहि-

' जगद्व्यापारवर्जम् ' प्रकरणात् ,' असन्निहितत्वाच्च

इत्यत्र जगदुत्पत्त्यादिव्यापारं वर्जयित्वा अन्यदणिमाद्यैश्वर्यं मुक्तानां भवितुमर्हति । जगद्व्यापारस्तु नित्य सिद्धस्यैवेश्वरस्य । कुतः; तस्य तत्र प्रकृतत्वात् । असन्निहितत्वाच्चेतरेषाम् । पर एव हीश्वरः जगद्व्यापारेऽधिकृतः तमेव प्रकृत्य उत्पत्त्युपदेशात् । नित्यशब्दनिबन्धनत्वाच्च परमेश्वराकूततन्त्रत्वमितरेषाम्' (ब्र.भा.) तथा ' किं च ईश्वरस्य नित्यसिद्धत्वाच्छन्दैः समधिगम्यत्वाच्च जगत्स्रष्टृत्वमुक्तं न तु तत्प्रसादलब्धविधिकानां जीवानामित्याह नित्येति ' ( इति रत्नप्रभा . )

एवं ' प्रकृति पुरुषं चैव विध्यनादी उभावपि / (इति गीताशांकरभाष्ये) " नित्येश्वरत्वादीश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवितुम् " इति वाक्येन ईश्वरत्वनियम्यत्वादिधर्माणां नित्यत्वाभिधानात् ।

सति चैवं 'जीवेश्वरैक्यं जीवेश्वरत्वाविवक्षया इत्युक्तिरयुक्ता । अविवक्षा हि द्वेधा भवति । धर्मिणि विद्यमानस्यापि धर्मस्य प्रयोजनाभावेनाविवक्षा; धर्मिण्यविद्यमानस्य धर्माभिमतस्यासत्त्वादेवाविवक्षा इति । तत्राद्ये धर्मस्य विद्यमानत्वेऽस्मदीयतदविवक्षामात्रेण धर्मिणोरैक्यादर्शनान्न जीवेश्वरैक्यासिद्धिः । ईश्वरत्वादनिां धर्मिंण्याविद्यमानत्वेनासत्त्वादविवक्षेति कथनं तु सर्वथाऽनुपपन्नम् । उपदर्शितसूत्रगीतातद्भाष्येषु ईश्वरत्वादीनां नित्यत्वाभिधानात् ।

' सत्यधर्मपराक्रम' इति नाम्ना ' सत्याः अवितथाः धर्माः ज्ञानादयो गुणाः पराक्रमश्च यस्य स सत्यधर्मपराक्रम' इति भगवद्धर्माणामवितथत्वरूप- मिथ्यात्वाभावस्य स्फुटम भिधानात् ।

' सत्यधर्माय एष नित्यो महिमा ब्राह्मणस्य ' 'सत्यः सो अस्थ महिमा' ' परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे ' त्यादिश्रुतिभिः भगवन्महिम्नो जीवव्यावृत्तस्य स्वाभाविकत्वनित्यत्व-सत्यवानामभिधानात् । इत्थं च व्यावर्तकधर्माणां स्वाभाविकत्वे नित्यत्वे च सिद्धे तत्साध्यव्यावृत्तेः=भेदस्यापि स्वाभाविकत्वं नित्यत्वं च सिद्धमेव । अङ्गीकृतश्च अ. सुधाकृता जीवेश्वरभेदः । " जीवत्वेन ईश्वरत्वेन च जीवेश्वरभेदेऽपि " " जीवत्वेश्वरत्वविशिष्टै- क्याभावेऽपि " यत्र तदङ्गीकारेऽपीत्यादिना एवंस्थितेऽपि यदुच्यते " जीवेश्वरैक्यं तदुपलक्षितरूपेण तदैक्यम् " तदुपलक्षितस्त्ररूपैक्यपर तासमर्थनम् " इत्यादि तदयुक्ततरम्, तत्र जीवत्वेश्वरत्वाविवक्षा न विकल्पसहेति प्रागुक्तमेव तदुपलक्षितरूपेण तदैक्यमिति तु व्याहततरम् । अद्वैतसिद्धौ " येनं च स्वोपरागमुदासीनं कुर्वता विशेष्यगतव्यावर्तकधर्मोपस्थापनेन व्यावृत्तिबुद्धिजन्यते तदुपलक्षणम् यथा काकादि " इति । लघुचन्द्रिकायां च उदासीनं कुर्वतेत्यस्य विवेचनं विशेष्येत्यादि ” “ व्यावर्तकेति व्यावृत्तिव्याप्येत्यर्थः " इति ।

उपलक्षणस्यापि व्यावर्तकधर्मोपस्थापकत्त्वोक्तेः "व्यावर्तकत्वं च व्यावृत्तिधीजनकधी विषयत्त्व " मित्यद्वैत सिद्धावेवोक्तम् । तथा उपलक्षितशब्दस्यापि येन धर्मेणोपलक्षितमुच्यते अविद्यमानेन तेन तच्छून्याद्वयावर्तितमुपलक्षितशब्दार्थः इति लघुचन्द्रिकायां संसूचितम् । तद्व्याख्यायां च तच्छ्रन्याद्व्यावर्तितः--प्रकारीभूततच्छून्याविषयकधीविषयीकृतः लिङ्गीभूततच्छून्यभिन्नत्वेन ज्ञापितो वा इति व्याख्यातम् । तथा चाद्वैतसिद्धिलघुचन्द्रिकातद्वयाख्याकाराणां मते " जीवत्वोपलक्षितस्वरूपम्इत्यस्य यदि लघुचन्द्रिकाव्याख्यागतप्रथमपक्षानुसारेण जीवत्वशन्याविषयकधीविषयीकृतं स्वरूपमित्यर्थः, तर्हि जीवस्वरूपस्य जीवत्व- शून्यत्वेजीवस्वरूपे जवित्वस्याविद्यमानत्वे मिथ्यात्वे वा तस्य जीवत्वशून्यविषयकधीविषयत्वमेव स्यात् । अतः जीवस्वरूपं जीवत्वशून्यं नैव भवति । एवमेव ईश्वरत्वोपलक्षितं स्वरूपमित्यत्रापि ज्ञेयम् ।

एतेन जीवस्य जीवत्वं स्वाभाविकं नित्यं पारमार्थिकं च सिध्यति तथा ईश्वरस्यापि ईश्वरत्वं स्वाभाविकं नित्यं पारमार्थिकामिति च सिद्ध्यति । तथा च स्वाभाविकविरुद्धधर्मवतोः जीवेश्वरस्वरूपयोरैक्यकथनं व्याहतमेव । अत्र धर्मस्याविद्यमानत्वकथने तच्छून्यं, तच्छ्रन्याविषयकप्रतीतिविषयः इति उपलक्षितशब्दार्थः सम्पद्यते । स च व्याहत एवेत्यन्यदेतत् ।

द्वितीयपक्षानुसरणे लिङ्गीभूततच्छ्रन्याभिन्नत्वेन ज्ञापितम् इत्युक्त्या जीवत्वोपलक्षितस्वरूपमित्यस्य जीवत्वशून्येश्वरस्वरूप भिन्नत्वेन ज्ञापितं स्वरूपमित्यर्थः सम्पद्यते तथैवेश्वरत्वेोपलक्षितस्वरूपमित्यस्यापि ईश्वरत्वशून्यजीवस्वरूपाभिन्नत्वेनज्ञापितमित्यर्थः । अद्वैतसिद्धिगतो परक्षणलक्षणवाक्यानुसारेण च जीवत्वोपलक्षित- मित्यस्य जीवत्वोपस्थाप्यव्यावृत्तिव्याप्यधर्मान्तरज्ञानजन्यव्यावृत्तिप्रकारकज्ञानविशेष्य इत्यर्थः । एवमेवेश्वरत्वोपलक्षित इत्यस्यापि ईश्वरत्वोपस्थाप्यव्यावृत्तिव्याप्य-धर्मान्तरज्ञानजन्यव्यावृत्तिप्रकारकज्ञानविशेष्य इत्यर्थः ।

व्यावृत्तिश्च भेद एव स च जीवस्वरूपविशेष्यकज्ञाने भासमानः ईश्वर- स्वरूपप्रतियोगिकः ईश्वरस्वरूपविशेष्यक्ज्ञाने भासमानश्च जीवस्वरूपप्रतियोगिकः ।

तथा च व्याप्यवत्वप्रमाप्रमितभेदविशिष्टे - ऐक्यकथनम् अद्वैतप्रक्रियानुसारेणैव व्याहतम् ।

इत्थं च यथा विशिष्टयोः विशेषणव्यावर्तितयोः नैक्यसंभवः किन्तु भेद एव तथा उपलक्षणव्यावर्तितयोरपि नैक्यसम्भावनाऽपि, किन्तु भेद एव । अतः अद्वैतप्रक्रियानुसारेणापि जीवव्यतरिक्तेश्वरसिद्धिरिति स्थिम् ।

इति जीवव्यतिरिक्तेश्वरसिद्धिः ।