वेदेषु बाधायां सामानाधिकरण्यनिरासः विशेषसमर्थनं च

बाधायां सामानाधिकरण्यनिरासपूर्वकं विशेषसमर्थनम्

वेदेषु बाधायां सामानाधिकरण्यनिरासः विशेषसमर्थनं च  

यच्चोक्तम्ब्रह्मतदितरयोः सामानाधिकरण्यं बाधायाम्, अभेदे वा सर्वत्राविद्याप्रयुक्ताध्यारोपनिबन्धनम् " इति तदयुक्तम् । स्वतः प्रमाणभूते अत एवाबाधितार्थबोधके वेदे बाधकत्वेन अभिमतानां वाक्यानामखण्डार्थत्वेन चिन्मात्र- बोधकत्वांगीकारात् वस्तुतोऽबोधकत्वांगीकाराच्च न बाधकत्वं वक्तुं युक्तम् । अतो बाधायां सामानाधिकरण्यमितिकथनमयुक्तमेव । वस्तुतस्तु वेदेषु बाधायां सामानाधिकरण्यं बौद्धः प्रच्छन्नबौद्धैर्वा अवैदिकैरेव वक्तव्यम् न वैदिकंमन्यैः । अतएव शंकराचार्यैः " धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ " इत्यत्र कामेश्वरयोः ब्रह्मतदितरयोः सामानाधिकरण्यं न बाधायां किन्तु कामशब्दस्य कामस्वामिबोधकत्वेन विशेष्यविशेषणभाव एवेति समर्थितम् । एवमेव "सर्वकाम" इत्यादिश्रुतिवाक्येष्वपि बोध्यम् । एतेनैव अविद्याप्रयुक्तारोपनिबन्धनत्वकथनमपि परास्तम् ।

यदप्युक्तम् " भेदाभावे भेदकार्यकारित्वस्य बाधात् विशेषे अविद्यातिरिक्ते न किमपि प्रमाणम् इति तदपि न युक्तम् । वस्तुमात्रे स्वभावविशेषोस्तीत्यापामरमविवादम् । स एव हि विशेषो नाम नच किंचिदपूर्वं कल्प्यते येन तत्र प्रमाणा पेक्षा स्यात् । स्वभावविशेषस्य अविद्यातिरिक्तत्वमपि निर्विवादमेव । यच्चाभिहितं भेदाभावे भेदकार्यकारित्वस्य बाधादिति तत्तु अद्वैतसिद्धिविरुद्धत्वादयुक्तम् । यतः अद्वैतसिद्धौ " अस्तित्वेऽप्यस्तित्वान्तरमित्यनवस्थापत्तेस्तत्रापि सोऽङ्गीकार्यइतिचेन्न । स्वभावविशेषादेव सर्वस्योपपत्तेः" इत्यादिना अविद्यातिरिक्तः भेदकार्यभूताधाराधेयभावव्यवहारनिर्वाहकः स्वभावविशेषः स्वीकृत एव ।

इति बाधायां सामानाधिकरण्यनिरासः विशेषसमर्थनं च ।